TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - दशमैकादशद्वादशभावफलाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


दशमैकादशद्वादशभावफलाध्यायः
तत्र दशमभावफलम् ।

आङ्य़ामानविभूषणानि वसनव्यापारनिद्राकृषि-
प्रव्रज्यागमकर्मजीवनयशो।विङ्य़ानविद्याः क्रमात् ।
लर्मस्वामिदिनेशबोधनगुरुच्छायासुतैश्विन्तये-
दुक्तानि प्रविहाय पूर्वशुभे मानी विमानो भवेत् ॥१॥

अथ कर्मविचारः ।

कर्मेशे बलवर्जिते चपलधीर्जतो दुराचारवान्
जीवङ्य़ासितभानवो विबलिनो दुःस्था विकर्मप्रदाः ।
गङ्गात्नानफलं समेति दशमे राहौ दिनेशेऽथवा
मीने कर्मणि चन्द्रजारसहिते जातः स भुक्तो भवेत् ॥२॥

भानेश्वरे शुक्रयुते च केन्द्रे तुङ्गस्थिते ताद्दशतोयपूतः ।
व्यये बुधे तद्भवनाधिपे वा स्वोच्चान्विते ताद्दशपुण्यभाक् स्याट् ॥३॥

चन्द्रे कर्मणि जाह्नवीसलिलतः पूतो हि पूतद्युतौ
पापो यच्छति कर्मगो विबलवान् द्युतक्रियासाहसम् ।
सौम्या दुर्बलशालिनो दशम्गाः सत्कर्मविघ्वंसकाः
कर्मेशङ्य़सुराचितैः क्रतुफलं सङ्चिन्त्य सम्यग्वदेत् ॥४॥

एकस्थौ तनुकर्मपौ यदि तयोरेकाधिपत्यं तु वा
जातः स्वार्जितसद्भनेन कुरुते यङ्य़ादिकर्मोत्सषम् ।
सार्कौ शूद्रधनेन साहिशिखिनि क्षुद्रैः सजीवे नृप-
स्तत्तत्कारकवित्ततो यदि युते रव्यादिभिः कर्मपे ॥५॥

बहुशुभयुजि नाने वाजपेयादिसिद्धिः सितवुधयुतराशिस्त्रामिनौ दुर्बलाध्यौ ।
यदि कृतसवनोऽपि प्राप्रकर्मप्रनष्टो भवति परमकर्मा दानवाचारशीलः ॥६॥

चन्द्रात् कर्मणि सोभने बलयुते तुङ्गादिवर्गस्थिते
वागीशेन युतेक्षिते नरवरो यज्वा यशस्वी भवेत् ।
जीवङ्य़ासुरपूजितस्थितगृहाधीशा विनाशं गता
जातः सत्फलकर्मवानपि कृतां कर्मश्रियं नाप्नुयात् ॥७॥

कर्मेशङ्य़सुराचिंता बलयुत यङ्य़ादिसत्कर्मदाः
सौम्यव्योमचरेण वीक्षितयुतास्ते वाजपेयादिभाक् ।
जीर्णोद्भारणसुख्यगोपुरतटाकारामपुण्यप्रदा
यज्वा कर्मपतौ शुभे शशियुते माने विराहुव्यजे ॥८॥

उच्चस्थे ययिजेऽहिकेतुविशुते भाग्शोपशातेऽथवा
कर्मस्वामिनि भाग्शगे च मनुजो शागादिसत्कर्मवान् ।
कर्मेये निजतुङ्गे बुधयुते तारासुते चास्तगे
तुङ्गस्थानगते सति क्रतुफलं जातः समेति ध्रुवम् ॥९॥

कर्मस्थे शशिनिन्दने सवनकृत्साहिध्वजे कर्महा
कर्मेशे रिपुरन्ध्ररिष्फगृहगे कर्मावरोधी भवेत् ।
कर्मेशस्य बुधस्य कर्मभवने राहौ मस्वध्वसक-
स्तुङ्गस्थानगतोऽपि कर्मगृहपो दुःस्थानगः कर्महा ॥१०॥

व्यापारधर्मभवते शुभखेटयुक्ते तन्नाथजीवतनुपा बलशालिनश्रेत् ।
आचारधर्मगुणकर्मविधिप्रयुक्तश्रद्धपरो भवति विप्रकुलाग्नगण्यः ॥११॥

ङ्य़ानव्योमाधिवासास्तनुगुरुदशमस्थानपाः षड्बलाढ्या
जातः षट्शास्त्रवेत्ता निखिलनिगमविज्ङ्य़ानदीक्षामुपैति ।
धर्मव्यापारलग्नाधिपबुधाचार्यपाकापहारे
सत्कर्माचारसर्वक्रतुफलनिगमङ्य़ानविद्याकरः स्यात् ॥१३॥

चन्द्रे तृतीये जलराशियुक्ते करोति जीर्णोद्भरणादि पुण्यम् ।
तटाककूपादिकमत्र लग्नात् कर्मेश्वरे गोपुरभागयुक्ते ॥१४॥

अथ प्रव्रज्यायोगः ।

जातः पङ्चचतुर्वियच्चरवरैः केन्द्रत्रिकोणस्थितै-
रेकस्थैर्बलिभिः प्रधानबलवत्खेटास्रमस्थो भवेत् ।
आदित्यासितजीवशुक्रधरणीपुत्रेन्दुताराहुतै-
र्वानप्रस्थविवासभिक्षुचरकाः शाक्त्यो गुरुर्जीवकः ॥१५॥

वानप्रस्थस्तपस्वी वनगिरिनिलयो नग्नशिलो विवासा
भिक्षुः स्यादेकदण्डी सततमुपनिषत्तत्त्वनिष्टो महात्मा ।
नानादेशप्रवासी च्रकपतिवरः शाक्ययोगी कुशीलो
राजश्रीमान् यशस्वी गुरुरशनपरो जल्पको जीवकः स्यात् ॥१६॥

कर्मस्था बलिनस्त्रयो गगनगाः खोच्चादिवर्गस्थिताः
कर्मेशश्व बलाधिको यदि यतिस्तत्तल्यशीलोऽथवा ।
कर्मेशे बलवर्जिते गृहगृहप्राप्ते दुराचारवान्
तद्योगप्रदमध्यगौ धनदस्थानाधिपौ कामधीः ॥१७॥

तद्योगप्रदखेचरैरिनशनिक्षिओनीकुमारान्वितैः
सन्यास समुपैति वित्ततनयस्त्रीवर्जितो मानवः ।
सौम्यांशोपगतः सहस्त्रकिरणस्तुङ्गातभागस्थितं
खेटं पश्यति यौवने वयसि वा बाल्ये यतीशो भवेत् ॥१८॥

शुक्रेन्दुप्रविलोकिते गतबले लग्नाधिपे निर्द्धनो
भिक्षुः स्याद्यदि तुङ्गभांशकयुतस्तारापति पश्यति ।
एकर्स्थैरविलोकिते तु बहुभिर्लग्नेश्वरे दीक्षित-
स्तद्योगप्रदभावकारकदशाभुक्तौ तदीयं फलम् ॥१९॥

शीतांशुराशीशमिनात्मजो वा लग्नेश्वरः पश्यति दीक्षितः स्यात् ।
भौमर्क्षगे मन्ददृगाणभागे मन्देक्षिते शीतकरे यदिः स्यात् ॥२०॥

जीवारमन्दलग्नेषु मन्ददृष्तियुतेषु च।
लग्नाद्धर्मगते जीवे नृपयोगेऽपि तीर्थकृत् ॥२१॥

नवमस्थानगे चन्द्रे नभोगैर्नावलोकिते ।
नृपयोगेऽपि सङ्जातो दीक्षितो नृपतिर्भवेत् ॥२२॥

सुरगुरुशशिहोरास्वाकिदृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थकृत् ।
नवमभव्नसंख्ये मन्दगेऽन्यैरदृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥२३॥

सितार्कभौमार्कसुता महाबलाः सुरेज्यभूनन्दनभानुभानुजाः ।
कुजेन्दुवागीशशनैश्वरा इमे समं गताश्चेज्जनयन्ति तापसम् ॥२४॥

ग्रहैश्चतुर्भिः सहिते तदीशे केन्द्रत्रिकोणोपगतैस्तु मुक्तः ।
चतुर्ग्रहः कर्मगतैः प्रव्रज्यां प्राप्रोति जातः कथितो मुनीन्द्रैः ॥२५॥

कुजार्कसोमार्कजदेवव्न्दितैः कुजार्कचन्द्रार्मजमन्दभार्गवैः ।
रवीन्दुभौमासितदानवप्रियैर्भवन्ति जाता व्रतसंयुता नराः ॥२६॥

सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेज्यबुधार्कनन्दनैः ।
सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥२७॥

चन्द्रेन्दुपुत्रारसुरेज्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभुमिजैः ।
एकर्क्षगैरेभिरिह प्रजाता भवन्ति विद्यामुनयोऽस्त्रदूषकाः ॥२८॥

रवीन्दुभौमेन्दुजजीवभार्गवैः सुधाकराराकिंगुरुङ्य़भास्करैः ।
कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्व्रती नरः ॥२९॥

सितेन्दिजीवार्कजभानुलोहितैः सितार्किजीवार्कभृगाक्कसोमजैः ।
एकत्र शातैर्गगनाटनैः सदा भवन्ति जाता मुनशस्तपस्वनिः ॥३०॥

कुहङ्य़वागीशसितासितारुणैः सितार्किजीन्दुजचन्द्रभूमिजैः ।
बलप्रधानैर्गनाटनैय्दा यदि प्रजातः पुरुषस्त्पस्विनाम् ॥३१॥

स्वीन्दुवाशदिनेशपुत्रैः शनैश्चरेन्द्वर्कसितैरवश्यम् ।
रवीन्दुपुत्रक्षितिजामरेज्यैस्तपस्विनो मूलफलाशनाः स्युः ॥३२॥

वक्रार्कसोमात्मजदानवेज्या भौमेन्दुवागीशशशाङ्कपुत्रा ।
एकर्क्षगा ज्न्मनि यस्य जन्तोर्भवेद्यती वल्कलभूतिधारी ॥३३॥

शशीन्दुसुनुक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेज्यसौराः ।
एकत्रगा यस्य नरस्य जातं कुर्वन्ति ते तापसमेव शान्तम् ॥३४॥

चन्द्रार्कभार्गवशशाङ्कसुत बलिष्ठा भौमेन्दुपुत्रसितभास्करनन्दनाश्च ।
मन्देन्दुधाक्पतिसिता नियतं यतीनां कुर्वन्ति जन्म कृतवल्कफलाशनानाम् ॥३५॥

रविशशिकुजशुक्रैश्चन्द्रभौमड्यसुर्यैर्गुरुसितरविमन्दैः शुक्रमन्देन्दुजीवैः ।
कुजबुधसितचन्द्रैरेभिरेकर्क्षयातैर्भवति गिरिवनैकास्तापसः सर्वयन्द्यः ॥३६॥

सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमगुरुशुक्रैः ।
रविकुजशनिबुधजीवैर्भवति यती दुःखितो दीनः ॥३७॥

कुजार्किदे ज्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः ।
नभश्चरैरेकगृहोपयातैर्जटाधरा वल्कलधारिणः स्युः ॥३८॥

भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः सूरेन्दुभौमगुरुशुक्रदिनेशपुत्रैः ।
प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्क्षगैर्गगनचारिभिरायताक्षः ॥३९॥

न वीक्षितश्चेदितरग्रहेन्दैर्लग्नाधिपः पश्यति भानुपुत्रम् ।
लग्नाधिपं वा यदि भानुपुत्रः संन्यासयोगो हि बलेन हीनम् ॥४०॥

चन्द्रे भानुसुतेक्षिते रविसुतद्रेक्कणयाते तथा
भिक्षुर्मन्दनिरीक्षिते रविसुतक्षोणिसुतांशे विधौ ।
सन्यासप्रदखेचरः सगुलिकः साहिघ्वजो वा यदि
क्रूराम्शोपगतः करोति विगताचारं यतीनां ध्रुवम् ॥४१॥

रविलुप्तकरैरदीक्षिता बलिभिस्तद्गतभक्तयो नराः ।
अभियाचितमात्रदीक्षिता निहतैरन्यनिरीक्षितैरपि ॥४२॥

अथ जीविकायोगाः ।

अर्थाप्तिः पितृजननीसपत्नमित्रभ्रातृतकजनाहिवाकराद्यैः ।
होरेन्द्वोर्दशमगतैविकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्त्या ॥४३॥

अर्थाप्तिं कथयेद्विलग्नशशिनोर्मध्ये बली यस्ततः ।
कर्मेशस्थनवांशराशिपवशाद् वृत्तिं जगुस्तद्विदः ॥४३ १/२॥

अथ ग्रहाणां वृत्तयः ।

भैषज्योर्णतृणाम्बुधान्यकनकव्यापारमुक्तादिकै-
रन्योन्यागमदूतवृत्तिभिरिनस्यांशो तु जीवत्यसौ ॥४४॥

जलोद्भवानां क्रयविक्रेण कृषेश्व मृद्वाद्यार्वनोदमार्गात् ।
राजाङ्गनासंश्रयवित्तरूपान्निशाकरांशे वसनक्रयाद्वा ॥४५॥

धातोविवादेन रणप्रकारात् स्तब्धाग्निवादात् कलहप्रवृत्त्या ।
जीवस्यसौ साहसमार्गरूपाद् धरासुतांशे यदि चौरवृत्त्या ॥४६॥

शिल्पादिकाव्यागमशास्त्रमार्गाज्ज्योतिर्गणङ्य़ानवशाद् बुधांशे ।
परार्थवेदाध्ययनाज्जपाच्च पुरोहिताद्याज्यवशात् प्रवृत्तिः ॥४७॥

जीवांशके भृसुरद्वतानामुपासनाध्यापकरूपमार्गात् ।
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशैरकुसीदमाहुः ॥४८॥

सुवर्णमाणिक्यगजाश्वमूलाद् गवां क्रयाज्जीवनमाहुरार्याः ।
गुडौदनक्षारदधिक्रयेण स्त्रियाः प्रलोभेन भृगोः सुतांशे ॥४॥

शन्याम्शके कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ।
विन्यस्तभाराज्जनविप्रलम्भादन्योन्यवैरागममार्गमूलात् ॥५०॥

सौम्यैश्चतुष्केन्द्रगृहोपयातैः कुलोत्तमा वंशकरा नृपालाः ।
सर्वङ्य़धीवित्तयशोगुणाढ्या नरा नृपप्रीतिकराश्च वा स्युः ॥५१॥

कर्मकर्माशगाः सौम्या जातः पुण्यरतः सदा ।
पापिनः पापकर्मात्मा चन्द्राद्वा यदि जायते ॥५२॥

कर्मराश्यंशपो यत्र तदीशः पापखेचरः ।
भूमादिग्रहसम्बन्धी यदि पापरतो भवेत् ॥५३॥

सिद्धारम्भः कर्मगे चन्द्रलग्नाद्भानौ भौमे साहसी पापबुद्धिः ।
विद्वान् सौम्ये वाक्पतौ राजतुल्यः शुक्रे भोगी भानुजे शोकतप्नः ॥५४॥

चन्द्रात्कर्मगते रवौ सरुधिरे मत्तः परस्त्रीरतो-
ज्योतिर्विञ्च सचन्द्रजे जलधनस्त्रीपूषणादिप्रियः ।
सिद्धार्थो नृपसंमतश्च सगुरौ शुक्रेण युक्ते नृप-
प्रीतिस्त्रीधनवृद्धिभाक् शनियुते दीनो दरिद्रो भवेत् ॥५५॥

चन्द्रात्कर्मणि भूसुते बुधयुते शाश्त्रोपजीवी भवेत्
सेज्ये नीचजनाधिपः सभृगुजे वैदेशिकः स्याद्वणिक् ।
सार्कौ साहसिकोऽसुतश्च शशिनः कर्मस्थिते बोधने
सेज्ये षण्डतनुश्च दीनवष्टनः ख्यातो नृपाल्प्रियः ॥५६॥

मान्दे चन्द्रमओ बुधे सभृगुजे विड्यावधूवित्तवान्
सार्कौ पुस्तफलैस्वकश्च विषमाचारप्रवृत्तोऽधवा ।
जीवे शुक्रयुते तु विप्रजनपो भूपप्रियः पण्डितः
सार्कौ सर्वजनोपतापचतुरो जातः स्थिरारम्भधीः ॥५७॥

सुगन्धनीलचूर्णादिचित्रकारो भिषग्वणिक् ।
कर्मस्थानगते मन्दे सासुरेज्ये निशाकरात् ॥५८॥

अथ आङ्य़विचारः ।

आङ्य़ास्थानाधिपे सौम्ये शुभयुक्तेक्षितेऽपि वा ।
शोभनांशगते वाऽपि जातस्त्वाङ्य़धरो भवेत् ॥५९॥

आङ्य़ाधिपे मन्दयुते रन्ध्रनाथेन वीक्षिते ।
क्रूरांशे केन्द्रराशौ वा क्रराङ्य़ां प्रकरोति सः ॥६०॥

अथ किर्तिं-मान-कृषि-व्यापार-निद्राविचारः ।

कर्कटस्थे निशानाथे गुरुशुक्रनिरीक्षिते ।
पारावतादिभागस्थे सत्कीर्तिधनवान् भवेत् ॥६१॥

मानेशे शुभसंयुक्ते शुभमध्यगतेऽपि वा ।
शुभग्रहांशके वाऽपि कीर्तिमानभिमानवान् ॥६२॥

पापेक्षिते कर्मणि पापयुक्ते मानाधिपे हीनबलोपयाते ।
जातोऽपवदी विगताभिमानः स्वकर्मतेजोबलकीर्तिहीनः ॥६३॥

कर्मेशतग्नवांशेसौ सनिसम्बन्धसंयुतौ ।
षष्ठाधिपयुतौ दृष्तौ बहुदारान्वितो भवेत् ॥६४॥

भूसूनुक्षिदिटिराशिपौ च बलिनौ केन्द्रत्रिकोणायगौ
कर्मेशे भृउचन्द्रविक्षितयुते कृष्यादिगोवित्तवान् ।
सम्बन्धी यदि कर्मणीः शशिसुतो वाणिज्यशीलः सदा
सौम्यासौम्ययुते तु सात्त्विकतमोनिद्री विमिश्रेऽन्यथा ॥६५॥

अथ लाभभावफलम् ।

लाभस्थनेन लग्नादस्वि(खि)लधनचयङप्तिमिच्छन्ति सर्वे
लाभस्थानोपयातः सकलबलयुतः खेचरो वित्तदः स्यात् ।
भानुश्चेज्ङ्य़ातिवर्गादतिघनमुडुपो मातृवर्गेण भौमः
स्वोत्थाच्चान्द्रिर्यर्दीष्टप्रभुविबुधसुहृन्मातुलैर्वित्तमेति ॥६६॥

जीवो यच्छति वेदशास्त्रयजनाचारादिपुत्रैर्द्धनं
शुक्रः स्त्रीजनकाच्यनाटककलासङ्गितविद्यादिभिः ।
दासीदासकृयाजितधनं धन्यं समृद्धि शनि-
र्विग्नादिद्युचरेण वीक्षितयुते विप्रादयो वित्तदाः ॥६७॥

आयस्थः शुभखेचरः शुभधनं पापस्तु पापार्जितं
मित्रैश्रमिश्रधनं समेति भनुजस्तज्जातकोक्तं वदेत् ।
लाभस्थानगतः समस्तगुणवानिष्टाधिकश्चेद्बली
जातो यानविभूषणाम्बरवधूभोगादिविद्याधिकः ॥६८॥

वित्तेशायगृहाधिपौ तनुपतेरिष्टग्रहौ चेद्धनं
सत्कर्मामराविप्रपुण्यविषये दानादियोग्यं वदेत् ।
आयस्थो विबलः परार्जतबलो नीचारिदुःस्थानपो
रेकायोगकरो यदि प्रतिदिनं कुर्वीत भिक्षाटनम् ॥६९॥

लाभेशे दिनपेऽथवा शशधरे भूपालतुल्याश्रयाद्
भौमे मन्त्रिजनग्रजानुककृषिद्वारैर्धनं लभ्यते ।
विद्याबन्धुसुतैः सुधाकरसुते जीवे निजाचारतः
शुक्रे रत्नवधूगजादिपशुभिर्मन्दे कुवृत्त्या श्रियम् ॥७०॥

लाभस्थानपतौ विलग्नभवनात् केन्द्रत्रिकोणस्थिते
लाभे पापसमन्विते तु धनवान् तुङ्गादिराश्यंशके ।
तत्तत्कारकवर्गतो बलवशाद् योगानुसारं वदेत्
तत्तत्खेटदशापहारामये वित्तं वदेत्तद्दिशि ॥७१॥

इति लाभभावविचारः ।

अथ व्ययभवाफलम् ।

क्रूरग्रहे बलवति व्ययगेऽरिनाशस्थानाधिपे कृषिधनस्थितिनाशकः स्यात् ।
रिष्फे चतुर्द्विपदभे सह तत्पदेन खेटेन सर्वपशुंभृत्यविनाशमेति ॥७५॥

विप्रादिखेचरयुते सति विप्रमुख्यैः स्त्रीवर्गतस्तु तरुणिस्वचरेण युक्ते ।
रिष्फे नरग्रहयुते रिपुणा सुहृद्भे जातः सुहृज्जनवशाद्भननाशमेति ॥७६॥

अथ दानविचारः ।
त्यागी शुभग्रहयुते कृषकश्च धर्मी पापेऽवसानगृहगे तु विवादशीलः ।
नेत्रामयः पवनकृच्चपलोऽटनः स्यादुच्चस्वमित्रभवने तु परोपकारी ॥७७॥

भानुर्वा कृशशीतगुर्व्ययगतो वित्तस्य नाशं नृपै-
र्भौमो नाशयतीन्दुजेक्षितयुतो नानाप्रकारिर्द्धनम् ।
वागीशेन्दुसिता यदि व्ययगता वित्तस्य संरक्षकाः
सौम्यः शुक्रयुतेक्षितो यदि नृणां शव्यासुखं जायते ॥७८॥

अथ शयनविचारः ।

व्ययेशे स्वोच्चराशिस्थे शुभवर्गसमन्विते ।
शुभखेचरसंदृष्टे पर्यङ्कशयनं वदेत् ॥७९॥

विचिन्नमJन्चे शयनं व्ययेशे परमोच्चगे ।
भाग्यनाथेन वा दृष्टे मणिरत्नविभूषितम् ॥८०॥

शुक्रे वा रविनन्दने हिमकरे रन्ध्रत्रिकोणस्थिते
तद्गेहे शिथिलीभवेन्नृपतनं जातस्य केत्वन्विते ॥८१॥

अथ गतिधिचारः ।

मन्दाहिघ्वजसंयुते तु निघनस्थानाधिपेनान्विते
रिष्फे दुर्गतिमेति षष्ठपतिना दृष्टेऽथवा मानवः ।
जातो याति परं पदं सुरगुरौ लग्ने भृगौ कामगे
कन्यस्थे रजनीकरे यदि धनुर्लग्ने च मेषांशके ॥८२॥

दुस्थे दुष्तगृहाधिपे बलयुते तद्भावपुष्टीं वदे-
दायुःस्यानपतौ तु यत्र विषले तद्भावनाशं तथा ।
लग्नेषः शुभखेटवीक्षितयुतो यद्भावयातो वल्ली
तद्भावस्य शुभं करोति विपुलं नीचारिगस्त्वन्यथां ॥८३॥

इति श्रिनवग्रहकृपवा वैद्यनाथविरचिते जातकपारिजातेपञ्चदशो।आध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:11.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

osteolytic

  • अस्थिविघटनी 
  • अस्थिलयनी 
  • अस्थिलयी, अस्थिविलयक 
  • अस्थिलयनी 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.