TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - कालचक्रदशाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


कालचक्रदशाध्यायः
प्रणम्य परमात्मानं शिवं परमकारणम् ।
खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥१॥

पप्रच्छ देवदेवेशमीश्चरं सर्वमङ्गला ।
कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥२॥

इश्वर उवाच ।

अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे ।
संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥३॥

पङ्च प्राचीरालिखेद्वाणसङ्गयास्तिर्यग्नेखा वर्जतान्तश्चतुष्काः ।
प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥४॥

धराजशुक्रङ्य़शशीनसौम्यसितारजीवार्कजमन्दजीवाः ।
क्रमेण मेषादिकराशिनाथास्तदंशपाश्चेति वदन्ति सन्तः ॥५॥

भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥६॥

अश्वीपुनर्वसूहस्तमूलप्रोष्ठपदादिषु ।
अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥७॥

रोहिणीमघवैशाखवैष्णवादिषु भेषु च ।
अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥८॥

दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु ।
चक्रं प्रदक्षिणिकृत्य मीनान्ते विन्यसेत्पुनः ॥९॥

उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् ।
कृत्वा चापान्तकेऽन्यस्मिज्ङ्य़ातव्ये दक्षिणोत्तरे ॥१०॥

सव्यापसव्यमार्गेण चाश्च्विन्यादि त्रिकं त्रिकम् ।
देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥११॥

मेषगोयमकुलीरमन्दीरेष्वंशकेषु परमायुच्यते ।
ङ्य़ानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥१२॥

एवमायुः परिङ्य़ानं देहजीवौ प्रकल्प्य च ।
सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥१३॥

जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके ।
देहजीवे यदा राहुः केतुभौमो रविः स्थितः ॥१४॥

तदा तस्मिन्भवेन्मृत्यु रोगः प्रवर्तते ।
देहजीवगृहं यातः सौम्यो जीवश्च भार्गवः ॥१५॥

सुखसम्पत्करं सर्वं शोकरोगविनाशनम् ।
मिश्रखेचरसंयुक्ते मिश्रं फलमवाप्नुयात् ॥१६॥

सिंहावलोकसमये मण्डुकगतिसम्भवे ।
अपमृत्युभयं तस्मिन् प्रायश्चित्ताद्विमुच्यते ॥१७॥

मीनात्त वृश्चिके यते ज्वरं भवति देहिनाम् ।
पाथोनात्कर्कटे याते मातृबन्धुवधूमृतिः ॥१८॥

कर्कटात्तु हरौ याते व्रणरोगं वदेद् बुधः ।
सिंहात्तु मिथुनं याते स्वस्त्रीव्याधिर्मृतिर्भवेत् ॥१९॥

पुत्रबन्धुमृं विद्याच्चापान्मेषं गते पुनः ।
शुभग्रहेऽस्त्मिन्नभयं पापग्रहयुते भयम् ॥२०॥

कन्यायाः कर्कटे याते पूर्वभागे महान्भवेत् ।
उत्तरां दिशमाश्रित्य शुभयात्रां गमिष्यति ॥२१॥

सिंहात्तु मिथुनं याते पूर्वभागं विवर्जयेत् ।
कार्यारम्भे तु नैर्कृत्यां सुखयात्रां गमिष्यति ॥२२॥

कर्कटादक्षिणे सिंहे कार्यहानिश्च रोगकृत् ।
दक्षिणां दिशमाश्रित्य पञ्चदागमनं भवेत् ॥२३॥

मीनास्तुवृश्चिके क्रान्ते उदग्गच्छति सङ्कटम् ।
चापान्मेषे भयं यात्रा व्याधिर्बन्धुमृतिर्भवेत् ॥२४॥

तत्र सम्पद्विवाहादि शुभं भवति पश्चिमे ।
शुभारूढे नृपप्रीतिं सर्वसम्पत्करं नृणाम् ॥२५॥

देहो मेषश्चापसिंहाजभानां जीवश्चापी गोवधूनक्रमानाम् ।
आकोकेरो देहसंङ्य़ो नृयुग्मम् जीवः सव्ये चापसव्ये विलोमात् ॥२६॥

उक्षा देहो युग्मकोणं गतानां जीवं युग्मागारमाहुर्मुनीन्द्राः ।
मीनो जीवः कर्कटो देहराशिः सव्ये चक्रे कर्किकीतान्त्यभानाम् ॥२७॥

देहजीवसमायुक्तैर्भौमार्किरविभोगिभिः ।
एकैकयोगे मरणं बहुयोगे न संशयः ॥२८॥

देहयुक्ते महारोगं जीवयुक्ते महद्भयम् ।
द्वाम्यां संयोगमात्रेण इन्यते नात्र संशयः ॥२९॥

अदिरोगो भवेद् द्वाम्यामपमृत्युस्त्रिभिर्भवेत् ।
चतुर्भिमृतिरापन्ना देहजीवे भवेद्यदि ॥३०॥

युगपदेहजीवौ तु पापग्रहयुतौ तथा ।
राजचोरादिभीतिश्च द्वाभ्यां मृत्युर्न संशयः ॥३१॥

अग्निबाघां रवौ विद्याच्चन्द्रे ज्वलनबाघनम्
भौमे शस्त्रकृता पीडा वायुबाधाकरं बुधे ॥३२॥

गुरौ चोदरबाघा स्यात् शुक्रेऽग्निभयमाप्नुयात् ।
शनौ गुल्मेन बाधा स्याद् राहौ विषकृतां रुजम् ॥३३॥

भ्रातृस्थानगतो जीवो दारस्थानगतः कुजः ।
तथा जन्मगतो मन्दो राहुर्नवमराशिगः ॥३४॥

चन्द्रोऽष्टमगृहं यातः सूर्यो रिष्फगृहं गतः ।
बुधः सप्तमभावस्थो भार्गवः शत्रुराशिगः ॥३५॥

इत्येवं मरणस्थानं तस्मिन्पापयुतेऽथवा ।
पापदृष्टेऽरिनीचस्थे दुर्बले दुःखमाप्नुयात् ॥३६॥

अथ देहजीवफलम् ।

भानुः करोति विविधापदमर्थनाशमातिज्वरारिजनभीतिपदच्युतिं च ।
पित्तारिगुल्मग्रहणीक्षयकर्णरोगं पश्चादिबन्धुमरणं सह्जादिनाशम् ॥३७॥

इति सूर्यफलम् ।

चन्द्रः स्वबन्धुनजसङ्गमकन्यकाप्तिमारोग्यभूषणसुखाम्बरराजपूज्यम् ।
दानक्रियादिसुरभूसुरपुण्यतीर्थस्नानार्चनं मृदुसुखान्नसुखं करोति ॥३८॥

इति चन्द्रफलम् ।

भौमः करोति तनुतापरुगग्निचोरभीतिं स्वबन्धुकलं सहजादिनाशम् ।
क्षेत्रार्थनाशपदविच्युतियुद्धनीतिं गुल्मार्शकुष्ठविषशत्रुभयं कुवृत्तिम् ॥३९॥

स्वरमासुरिकापैत्त्यं ग्रन्थिस्फोटं कुजस्य च ।
विषाग्निनशस्त्रचोरारिनृपभीतिं वदेद् बुधः ॥४०॥

इति भौमफलम् ।

सौम्यः करोति सुहृदाप्तमहत्प्रसादविङ्य़ानशीलनिगमागमशास्त्रबोघम् ।
स्त्रीपुत्रदारनृपभूषणगोगजाश्चलाभं विवेकधनबुद्धियशोऽभिवृद्धिम् ॥४१॥

इति बुधफलम् ।

जीवः विविधार्थसुखं महत्त्वं राज्याभिषेकमवनिप्रभुपूजनाद्यम् ।
स्त्रीपुत्रलाभसुखभूषणभोजनार्थमारोग्यकीर्तिविजयं च परोपकारम् ॥४२॥

इति गुरुफलम् ।

शुक्रः करोति रतिलाभसुखाङ्गनादिचित्राम्बरार्थपशुवाहनरत्नजालम् ।
गानक्रियानटनगोष्ठिमहत्प्रतापं सत्कीर्तिदानविभवं सुजनैः समाजम् ॥४३॥

इति शुक्रफलम् ।

मन्दः करोति कलहं तनुकृच्छ्नमृत्युबन्ध्वातिमग्निरिपुभूतभयं विघातिम् ।
मानार्थहानिमभिमानकलत्रपुत्रनाशं गृहार्थकृषिवाणिजगोविनाशम् ॥४४॥

इति शशिफलम् ।

राहौ देहेऽरिपीडाऽत्मबन्धुकष्टपरिभ्रमम् ।
पक्षाघातादिपीडां च राजभीतिं वदेन्नृणाम् ॥४५॥

इति राहुफलम् ।

केतौ चोराग्निपीडादिरक्तस्त्रावादिपीडनम् ।
दारिद्रयं बन्धुनाशं च स्थाननाशं धनक्षयम् ॥४६॥

इति केतुफलम् ।

अथ चक्रदशाफलम् ।

लग्नचक्रदशाकाले देहारोग्यं महत्सुखम् ।
कीतिभूषणराज्यार्थसुतदाराम्बरायतिम् ॥४७॥

शुभक्षेत्रे शुभं सर्वं पापर्क्षे फलमन्यथा ।
तद्वत्पापसमायुक्ते शुभयुक्ते शुभादिकम् ॥४८॥

स्वक्षेत्रतुङ्गमित्रस्थखेचरेण सम्न्विते ।
विलग्नचक्रपाके तु राज्यार्थनृपपूजनम् ॥४९॥

नीचमूढारिराशिस्थखेचरेण समन्विते ।
पुत्रदारादिनाशं च मिश्रे मिश्रफलं वदेत् ॥५०॥

इति लग्नफलम् ।

द्वितीयराशिचक्रे तु धनधान्यविवर्धनम् ।
भोजनं सुतदाराप्तिं क्षेत्रगोनृपपूजनम् ॥५१॥

विद्याप्तिं वक्पटुत्वं च सद्गोष्ठया कालयापनम् ।
शुभर्क्षे फलमेवं स्यात्पापर्क्षे फलमन्यथा ॥५२॥

इति द्वितीयफलम् ।

तृतीयराशिचक्रस्य परिपाके महत्सुखम् ।
भक्ष्यभोज्यफलाप्तिं च शौर्यं धैर्य मनोजयम् ॥५३॥

कर्णाभणरवस्त्राप्तिं कण्ठभूषणमायतिम् ।
अन्नपानादिसम्पत्तिं शुभराशौ शुभं वदेत् ॥५४॥

इति तृतीयफलम् ।

वतुर्थराशिचक्रस्य पाके वाहनभूषणम् ।
सीमाप्ति तीर्थयात्रादिमहज्जननिषेवणम् ॥५५॥

चित्तशुद्धिं महोत्साहं स्त्रीसुनाप्तिं कृषिक्रियाम् ।
बन्धुक्षेत्राभिवृद्धिं च गृहलाभं महत्सुखम् ॥५६॥

आरोग्यमर्थलाभं च सुगन्धाम्बरभूषणम् ।
शुभर्क्षे शोभनं विद्यात्पापर्क्षे सर्वनाशनम् ॥५७॥

इति चतुर्थफलम् ।

सौतिराश्यत्मके चक्रे राज्याप्तिं राजपूजनम् ।
स्त्रीसुताप्तिं महाधैर्यमारोग्यं बन्धुपोषणम् ॥५८॥

अग्नदानं यशोलाभमानन्दाब्धिमहोदयम् ।
उपकर्तृत्वमर्थाप्तिं वाहनाम्बरभूषणम् ॥५९॥

शुभपापर्क्षजं सर्वं ग्रहयोगादिसम्भवम् ।
पूर्ववद्योजयोत्तत्र चरराशौ वदेद् द्युतिम् ॥६०॥

इति सुतफलम् ।

चक्रस्य षष्ठ्राशेस्तु पारिपाकेऽग्निजं भयम् ।
चोरारिविषभूपार्तिस्थाननाशं महद्भयम् ॥६१॥

प्रमेहगुल्मपाण्ड्वादिग्रहणिक्षयसम्भवम् ।
अपकीर्तिः कलत्रार्थे सुतब्न्धुविनाशनम् ॥६२॥

बन्धनानि गरप्राप्तिमृणदारिद्रयपीडनम् ।
पापर्क्षे फलमेवं स्यान्मिश्रं शुभगृहे सति ॥६३॥

इति षष्ठफलम् ।

कलत्रराशिचक्रस्य परिपाके करग्रहः ।
स्त्रीसुखं पुत्रलाभं च घतसूपगुडादिकम् ॥६४॥

कृषिगोगजभूषाप्तिं राजपूजां महद्यशः ।
शुभराशौ फलं सत्यं शुभखेचरसंयुते ॥६५॥

इति सप्तमफलम् ।

मृत्युर्चक्रदशाकाले महद् दुःखं धनक्षयम् ।
स्थाननाशं बन्धुनाशं गुह्योदरनिपीडनम् ॥६६॥

दारिद्रयमग्नविद्वेषमन्नाभावमरेर्भयम् ।
पापर्क्षे पापसंयोगे फलमेवं विनिर्दिशेत् ॥६७॥

इत्यष्टमफलम् ।

शुभचक्रदशाकाले शोभनं भवति ध्रुवम् ।
पुत्रमित्रकलत्रार्थकृषिगोगृहभूषणम् ॥६८॥

सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।
शुभराशौ शुभं सर्वं पापराशौ विपर्ययः ॥६९॥

इति नवमफलम् ।

कर्मचक्रदशाकाले राज्याप्तिं नृपपूजनम् ।
सत्कीतिदारपुत्रात्मबन्धुसङ्गं महोत्सवम् ॥७०॥

आङ्य़ाधरत्वमारोग्यं सद्गोष्ठया कालयापनम् ।
सत्कर्मफलमैश्वयर्यं शुभराशौ वदेद् बुधः ॥७१॥

इति दशमफलम् ।

लाभचक्रदशाकाले धनाप्यारोग्यभूषणम् ।
विचित्रवस्त्वागमनं गृहोपकरणं लभेत् ॥७२॥

स्त्रीपुत्रबन्धुसौख्याप्तिमृणद्रव्यायति शुभम् ।
राजप्रिति महत्सङ्गं परवदन्ति शुभोदये ॥७३॥

इति लाभफलम् ।

व्ययच्क्रदशाकाले देहातिं स्वपदच्युतिम् ।
चोराग्निनृपकोपादिबन्धुत्रीनृपपीडनम् ॥७४॥

उद्योगभङ्गमालस्यं कृषिगोभूमिनाशनम् ।
दारिद्र्यं कर्मवैकल्यं पापर्क्षे तु न संशयः ॥७५॥

इति व्ययफलम् ।

अथ चक्रदशाफलेषु विशेषः ।

लग्नादिद्वादशान्तानां भावानां फलमीदृशम् ।
प्रोक्तमत्र विशेषोऽस्ति विशेषात्कथ्यतेऽधुना ॥७६॥

तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ।
राशीश्वरे बलयुते स्वोच्चमित्रस्ववर्गके ॥७७॥

मित्रान्विते शुभैर्दृष्टे यत्प्रोक्तं तच्छुभं वदेत् ।
बलहीनेऽरिनीचस्थे दिनेशकरपीडिते ॥७८॥

षष्ठाष्टम्व्ययस्थाने पापशत्रुनिरीक्षिते ।
तद्राशिपे तु जनने कष्टं राश्युद्भवं फलम् ॥७९॥

फलं तद्विगुणं कष्टं शुभं राश्युद्भवं फलम् ।
अधिपस्य बलं हीनं यदि चानर्थमाप्नुयात् ॥८०॥

अधिपस्य बलाधिक्यं राश्युद्भवफलं शुभम् ।
यदि चेद् द्विगुणं सौम्यं फलत्येव न संशयः ॥८१॥

अधिपे चरराशिस्थे चरराश्यंशकेऽपि वा ।
चररायुद्भवं चक्रं विदेशगमनप्रदम् ॥८२॥

यावच्चक्रं तदा ङ्य़ेयं यद्येकस्मिन् चरे सति ।
विदेशगमनं वाऽपि स्वस्थानाप्तिं विनिर्दिशेत् ॥८३॥

संग्याव्याये च यत्प्रोक्तं कर्माजीवे च यत्फलम् ।
फलमाश्रयजं यद्यस्त्गनजन्यं च यत्फलम् ॥८४॥

यत्प्रोक्तं राजयोगादौ चान्द्रयोगे च यत्फलम् ।
नाभसादिषु यत्प्रोक्तं शुभपापेक्षणादपि ॥८५॥

द्विग्रहादिषु यत्प्रोक्तं ग्रहाणां पूर्वसूरिभिः ।
तद्राशिचक्रकाले तु स्वधिया योगयेद् बुधः ॥८६॥

मेषादिराशिचक्रं तु भूभागे न्यस्य दक्षिणम् ।
अल्यादि ह्यैत्तरं यश्च तच्चक्रं तत्र निर्दिशेत् ॥८७॥

फलं वा विफलं वाऽपि प्रागादिद्युचरादधः ।
राशिदिग्भागतो वाऽपि तदिग्भागे विनिर्दिशेत् ॥८८॥

यथोपदेशमार्गेण सर्वेषां फलमीदृशम् ॥१/२॥

अथ त्रिविधकालचक्रगतिः ।

कालचक्रगतिस्त्रेधा निश्चिता पूर्वसूरिभिः ॥८९॥

मण्डूकगमनं चैव पृष्टःअतो गमनं तथा ।
सिंहावलोकनं नाम पुनण्गमनं भवेत् ॥९०॥

पृष्ठतो गमनं चैव कर्किकेसरिणोरपि ।
मीनवृश्चिकयोश्चाप्मेषयोः केसरी गतिः ॥९१॥

कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः ॥१/२॥
सिंहावलोकसमये त्वरातिस्थाननाशनम् ॥९२॥

बन्धुस्नेहादिनाशं च समानजनपीडनम् ।
जले वा पतनं कूपे पिषशस्त्राग्निजं भयम् ॥९३॥

बाहनात्पतनं वाऽपि दशाच्छिद्रान्विते सति ।
क्रूरास्तनीचापचयखेचरस्य दशा यदि ॥९४॥

दशाच्छिद्रमिति ङ्य़ेयं प्रवदन्ति विपश्चितः ॥१/२॥
मण्डूकगतिसम्भुतसमये मरणं गुरोः ॥९५॥

पित्रोर्वा विषशस्त्राग्निज्वरचोराग्निभिभयम् ।
मण्डूकसमये सव्ये समानजनपीडनम् ॥९६॥

केसरीयुग्ममण्डूके मातुर्मरणमादिशेत्
मरणं राजभीतिं च सन्निपातमरेर्भयम् ॥९७॥

सव्ये सिंहावलोके तु चतुष्पाद्भयमग्निजम् ।
पृष्ठतो गमतो सव्ये धनधान्यपशुक्षयः ॥९८॥

पितुर्मरणमास्यं तत्समानेषु वा मृतिः ।
मण्डूकगमने वामे श्रीसुतातिपरिश्रमम् ॥९९॥

पापज्वरं मृगाद् भीतिं पदच्युतिमरेर्भयम् ।
सिंहावलोकने वामे स्थानभ्रंशः पितुर्मृतिः ॥१००॥

पृष्ठतो गमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटमं वदेत् ॥१०१॥

अथ कालचक्रदशाप्रकारः ।

दस्त्रानलादितिभुजङ्गदिनेशभानां पूषासुंराजपदविश्वसमीरणानाम् ।
वाक्यानि सव्यगतिचक्रभवादिकानि चत्वारि सर्वमुनयः प्रवदन्ति तज्ङ्य़ाः ॥१०२॥

चित्राहिर्बुघ्न्यभरणीपूर्वाषादेन्द्रमन्त्रिणाम् ।
सव्यचक्रान्त्यवाक्यानि चत्वारि क्रमशो विदुः ॥१०३॥

द्विदैवकमलागारपितृदानववैरिणाम् ।
अप्सव्यस्य चक्रस्य वाक्यं चादिचतुष्टयम् ॥१०४॥

जलेशमित्रेन्द्रमृगश्रविष्ठाभगार्यमाशङ्करतारकाणाम् ।
अन्त्यानि वाक्यान्यपसव्यजानि चत्वारि चक्रो॥।तनि चाहुः ॥१०५॥

अथ सव्यचक्रवाक्यानि ।

पौरङ्गावोमातासहोधी ॥१॥ नक्षत्रदासीचर्वणगः ॥२॥
रूपोत्रक्षुनिघायरङ्गम् ॥३॥ वाणी चस्थन्दधिनक्षत्रम् ॥४॥
हंसश्चवशांबरपत्रम् ॥५॥ क्षन्नाधीकरगोभीमाच ॥६॥
सुदधिनक्षत्रजः सितः ॥७॥ वामाङ्गारकोत्रक्षु नधिः ॥८॥

अथापसव्यचक्रवाक्यानि ।

धनक्षेत्रपराङ्गमिव ॥१॥ तासादत्रक्षुर्निधिर्हासा ॥२॥
चर्मीभोगीरायधनर्क्षम् ॥३॥ त्रयोरागीमाभेतासह ॥४॥
त्रक्षुनिदिर्हासस्तमेव ॥५॥ गिरायुधनक्षत्रपरः ॥६॥
गोमावाचीसदात्रिक्षुन्ने ॥६॥ धीजः सितोभिवाङ्गारिका ॥*॥

अथ कालचक्रदशावर्षाणि ।

भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥१०६॥

अथान्तर्दशाप्रकारः ।

दशां दशान्दैः सङ्गण्य सर्वायुः संख्यया हरेत् ।
लब्धमन्तर्दशा ङ्य़ेया वर्षमासदिनार्दकाः ॥१०७॥

चक्रेशाब्दा भुक्तिराशीश्वराब्दैर्हत्वा तत्तद्राशिमानायुराप्ताः ।
अब्दा मासा वासरा नाडिकाद्या दुःस्थानेशा दुःखरोगाकरा स्युः ॥१०८॥

इत्थं महादायदिनं महाब्दैः सङ्गण्य तत्रान्तरदास्तु दाये ।
पुनस्तदा तत् परमायुरब्दह्वतं दशास्वन्तरगा दशा स्यात् ॥१०९॥

विनाडीकृत्य नक्षत्रं स्वैः संवत्सरैः पृथक् ।
दायैः सङ्गण्य सर्वायुराप्तं सूक्ष्मदशाफलम् ॥११०॥

ग्रहवत्सरवासरा हृताः परमायुष्यसमाभितध्रुवैः ।
निजवर्षगुणाः स्वपाकदा इति पाकेष्वखिलेषु चिन्तयेत् ॥१११॥

इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते सप्तदशोऽध्यायः ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:13.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

aulophyte

  • पु. Bot. (a plant living non-parasitically in a cavity in another plant) कोटरोद्भिद 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.