TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - दशापहलाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


दशापहलाध्यायः
दशानुसारेण फलं वदन्ति मुनीश्वरा जातशुभाशुभं यत् ।
सारं समुद्रधृत्य तथैव वक्ष्ये भेदं यथाविस्तरतो दशायाम् ॥१॥

बलानुसारेण यथा हि योगो योगानुसरेण दशाभुपैति ।
दशाफलः सर्वफलं नराणां वर्णानुसरेण यथा विभागः ॥२॥

अथ विंशोत्तरी महादशा ।

आदित्यचन्द्रकुजराहुसुरेशमन्त्रिमन्दङ्य़केतुभृगुजा नव कृतिकाद्याः ।
तेनो नयः सिनदयातटघन्यसेव्यसेनानरा दिनकरादिदशाब्दसंख्याः ॥३॥

अथ दशापतेः शुभाशुभस्वम् ।

आरोहवीर्याधिकभावतुल्यबिन्वाधिकाः कर्मभवोदययाः ।
तुन्गादीवर्गोपगता लभोगाः षड्वीर्यवन्तश्च शुभप्रदाः स्युः ॥४॥

मान्दिराशिपतिमान्दिभावगाः स्वल्पबिदुरिपुनीचमूढगाः ।
पापखेटयुतभावसन्धिगा राशिसन्धिलवगास्त्वनिष्टकाः ॥५॥

दशापतिर्लग्नगतो यदि स्यात् त्रिंषड्दशैकादशगश्च लग्नात् ।
तसप्तवर्गोऽपिअथ तत् सुहृदा लग्ने शुभो वा शुभदा दशा स्यात् ॥६॥

दशादिनाथस्य सुहृद्गृहस्थतदुच्चगो वाऽथ् दशाधिनायात् ।
स्मरत्रिकोणोपचयोपगश्च ददति चन्द्रः खलु सत्फलानि ॥७॥

उक्तेषु राशीसू गतस्य विघोः स भावः स्याज्जन्मकालभवमूर्तिघनादिभावः ।
तत्तत्प्रवृद्धिकृदसौ केथितो नराणां तद्रावहानिकृदयेतरराशिसंस्थः ॥८॥

दशाप्रवेशे स्वगृहदिसंस्थे हिमद्युतौ यत्फलमुक्तमाइः ।
तद्वाच्यमिन्दुहि शुभाशुभाश्च्य फलम् मनोरूपतया ददाति ॥९॥

उत्पादितं हि द्युचरस्य पूर्व शुभादिकं कष्टफलं हि यत्तत् ।
तेनानुसरेण दऽसु कल्प्यं शरीरभाजामशुभं शुभं वा ॥१०॥

इष्टोत्कटत्वे हि शुभानि पुंसां फलान्यनिष्टान्यशुभोत्कटत्वे ।
साम्ये तु मिश्राणि फलानि नृनं सर्वत्र चैवं परिकल्पनीयम् ॥११॥

संङ्य़ाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यस्य यश्चोपदिष्टः ।
भावस्थानलोकयोगोद्भवं च तत्तत्सर्व तस्य योज्यं दशायाम् ॥१२॥

शुभफलदशायं ताद्दगेवान्तरात्मा बहु जनयति पुंसां सौख्यमर्थागमं च ।
कर्यतफलविपाइकस्तर्कयेर्द्वतमानां परिणमति फलोक्तिः स्वप्रचिन्तास्ववीर्यैः ॥१३॥

पाकस्वामिनी लग्नगे सुहृदि वा वर्गेऽस्य वा सौम्येऽपि वा
प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे ।
मीत्रिचोपचयत्रिकोणमदने पाकेश्वरस्य स्थित-
चन्द्रः सत्फलषोधनाणी कुरुते पापानि चातोऽन्यथा ॥१४॥

लग्नादिष्टगृहोपगः स्वभवने तुङ्गे सुहृद्भेऽथवा
पाकेशः शुभमित्रवीक्षणयुतस्तत्पाकभुक्तौ शुभम् ।
केन्द्रे वा यदि कोणगोऽतीशुभदा पापास्त्रीषष्ठायगा-
स्तुङ्गायोपचयेषु ये बलयुवऽस्तेषां दशायां शुभं ॥१५॥

अन्योन्यमिष्टप्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोरतु ।
शत्रुप्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥१६॥

करोति यभावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा ।
शुभं शुभव्योमचरस्य दाये पापस्य दाये स्वशुभं वदन्ति ॥१७॥

सम्यान्वितप्रहदशाऽतिशुभप्रदा स्यात् पापान्वितस्य विफलं परिपाककाले ।
मिश्रप्रहेण सहितस्य दशापहरे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥१८॥

यद्भातुखेटस्य दशापहारे तद्भातुवित्तायतिभाहुरार्यः ।
धातुक्षयं पापवियचरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥१९॥

सपन्नखेटोपगतस्य पाके सपन्नवृद्धिं सकलार्थनाशम् ।
यत्कर्मकर्तृप्रहपाककाले तत्क्र्मसिद्धि प्रवदन्ति सन्तः ॥२०॥

यत्कार्यकारिद्युचरस्य दये तत्कर्यसिद्धिं प्रवदेन्नराणाम् ।
शुभग्रहोऽसौ यदि कर्यसिद्धिं पापस्तु तत्कार्यविनाशनेव ॥२१॥

राज्यस्थानपराज्यकारकदशा राजप्रसादप्रदा
देवव्योमचरस्य पाकसमये तद्देवताराधनम् ।
धर्माधीशदशागते लति तपोधर्मादिसिधिं वदेत्
कर्मेशस्य दशापाकसमये यङ्य़दिकर्मोत्सवम् ॥२२॥

सत्त्वादिग्रहपाकभुक्तिसमये तत्तद्गुणो जायते
जन्मर्क्षादिनवर्क्षग्ग्र्हदशा कुर्वीत भूतं फलम् ।
कर्मर्क्षादिनवर्क्षगस्य बलिनः पाके भविष्यत्फलं
चाधानादिगतस्य सर्वमफलं पाके फलं वा वदेत् ॥२३॥

शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते चोभयोदयगः सदा ॥२४॥

षष्ठेशस्य दशा विलापकरणी मृत्युविनाशप्रभो-
रस्तव्योमचरस्य बन्धुमरणं पाकेऽपहारेऽथवा ।
सम्पत्साधकमैत्रपाः परममैत्रक्षेमताराधिपा-
वेतेषामपहारभुक्तिसमये सम्पत्समृधिं वदेत् ॥२५॥

त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
तद्रशायां मृतिं विड्यात् ससौम्यो यदि शोभनम् ॥२६॥

राशिसन्धिगदाये तु शोकरोगादिपीडनम् ।
त्रिंशद्भागमनुक्रान्तदशा मृत्युफलप्रदा ॥२७॥

नीचस्थितो जन्मनि यो ग्रहः स्यात् स चापि तद्युक्तखगो न शक्तः ।
दातुं शुभं राहुयुतस्त्वनिष्टं तत्क्षेत्रगस्तद्युतराशिपश्च ॥२८॥

तत्तद्भावाधीश्चरस्याधिशत्रुर्यो वा खेटो बिन्दुशून्यर्क्षयुक्तः ।
तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयादेवमाद्दुर्मुनीन्द्राः ॥२९॥

बाधास्थानपतद्युतग्रहदशा शोकादिरोगप्रदा
तत्केन्द्रस्थदशापहारसमये उःखं विदेशाटनम् ।
अन्योन्याष्टमषष्ठगद्युचरयोः पाकापहारे भयं
देशत्यागमनर्थमिष्टशुभयोः सर्वं विमिश्रं वदेत् ॥३०॥

पाके दीप्तस्य राजा भवति धनयशोदानविद्याविनोदी
स्वस्थस्याचारधर्मश्रवणबहुसुखारोग्यवित्तान्वितः स्यात् ।
राजप्रीतिं विभूतिं सुखमिह मुदितव्योमवासस्य दाये
शान्तस्यारोग्यसौख्यश्रियमवार्नपतिप्रीतिमुत्साहमेति ॥३१॥

पाके शक्तस्य विद्यानिवयधनतपःसिद्धिधर्मप्रवृत्ति-
श्चोरारातिक्षितीशैर्भयमनुजमृतिः पीडितस्य ग्रहस्य ।
दाये दीनस्य दैन्यं विकलखगदशा शोकरोगप्रदा स्यात्
चित्तक्लेशः खलस्य प्रतिदिनमरिभिर्भीतखेटस्य भीतिः ॥३२॥

विलग्नतारेन्दुभनामताराप्रश्नेन्दुनक्षत्रगणेषु मध्ये ।
बलाधिलर्क्षेशदशाक्रमेण फलं शुभं वाऽशुभमाहुरार्याः ॥३३॥

उतपन्ननक्षत्रविलग्नतो वा भूयात् क्रमेणैव दशाफलानि ।
दशावसानेष्वशुभं च सर्वे कुर्वन्ति सामान्यफलं नराणाम् ॥३४॥

जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंङ्य़ा दशा
स्यादाधानदशाऽप्यथाष्टमभवात् क्षेमान्महाख्या दशा ।
आसां चैव दशावसानसमये मृत्युं वदेत्प्राणितां
दीर्घस्वल्पसमायुषां वधाविपत्प्रत्यग्-दशासु क्रमात् ॥३५॥

अथ निर्याणदशा ।

जातोऽह्नि चेदर्कसनिस्फुटैक्यतारादिनेर्याणदशा प्रकल्प्या ।
तारेशराहुस्फुटयोगतारापूर्वा दशारिष्टकरा रजन्याम् ॥३६॥

अथ गुलिकदशा

गुलिकस्थितनक्षत्रादशा तस्य प्रकल्पिता ।
तद्युक्तभवनांशेशौ सहकारी च मृत्युदाः ॥३७॥

अथ शूलदशा ।

दिनेशाविनशुक्रौ च राजारौ कारकाः स्मृताः ।
कारकस्य त्रिशूलर्क्षे यदा चरति या दशा ॥३८॥

तत्कारलस्थित्तगृहादिषु सर्वभेषु चक्रप्रमाणदलवत्सरसंयुतेषु ।
वीर्यान्वितेषु शुभदृष्टियुतेषु सौख्यं नीचारिपापयुतभेषु वदन्त्यनिष्टम् ॥३९॥

अथ महादशविशेषः ।

यत्तारांशगतः शशी तदधिपेनालोकितो वा युत-
स्तेषां चक्रदशा विशेषफलदा वक्षयामि तचक्रजम्
देहे पापयुते तु रोगमाधिकं जीवे तु जीवभ्रमं
दद्याद्यनयोः सहाबलयुतिर्मृत्युं दशायां नृणाम् ॥४०॥

अथान्तर्दशाविशेषफलम् ।
पापो विलग्नगृहगो यदि तद्दशायं पापापहतसमये बहुशोकरोगम् ।
वित्तक्षयं नृसपत्नभयं नराणं सौम्यस्य मिश्रमखिलं प्रवदन्ति सन्तः ॥४१॥

लग्नाधिपद्शाकाले मन्दभुक्तौ धनक्षयम् ।
इष्टबन्धुविरोधश्च भविश्यति न संशयः ॥४२॥

धनाधिपः पापखगो(पापस्वगो)यदि स्याच्छन्यारभोगीशदिनेष्वराणाम् ।
अन्तर्दशायां  धननाशमाहुः पापान्विते तद्भवने तथैव ॥४३॥

धनान्वितः पापखगस्तदीशः स्यात्तदशायां क्षितिपालकोपात् ।
मानार्थनाशं निगलं नराणां स्थानच्युतिं मित्रविरोधमेति ॥४४॥

पापग्रहे विक्रमभावनाथे पापवियच्चराणाम् ।
अन्तर्दशायामरिशत्रुचोरैर्दुःखं समायाति शुभान्विते वा ॥४५॥

दुश्चिक्यह्भावाधिपदायकाले मन्दारभोगिध्वजभानुभुक्तौ ।
नाशं वदेत्तत्र सहोदराणां भवेद्विशेषात्सहजैर्विरोधः ॥४६॥

क्षेत्राधिनाथस्य शुभेतरस्य पाके तु पापग्रहभुक्तिकाले ।
स्थानच्युतिं बन्हुजनैर्विरोधं कृष्यादिगोवित्तविनाशमाहुः ॥४७॥

पापापहारसमये सुतराशिपस्य पाके नृपालभयमिष्तसुतार्तिमाहुः ।
सौम्यापहारसमये सुतवित्तलाभमुर्विशबन्धुजनलालनमिष्टसिद्धिम् ॥४८॥

षष्ठेशपाकसमये तु शुभेतराणां भुक्तौ नृपानलभयं व्यसनं च रोगम् ।
पाके कलत्रगृहपस्य खलापहरे पलीविनाशमटनं च विदो वदन्ति ॥४९॥

रन्ध्रस्वामिदशागमे रिपुभयं पापापहरे नृणा-
भायुर्वित्तयशोविनाशमटनं स्थानच्युतिं वा वदेत् ।
पाके धर्मगृहाधिपस्य भरणं पित्रोरधर्मायतिं
भुक्तौ पापवियचरस्य निगलप्राप्तिं च वित्तक्षयम् ॥५०॥

कर्मेशस्य खलस्य पाकसमये भुक्तौ यदा पापीना-
मिष्टातिं पदविच्युतिं सुखयशोहानिं च वित्तक्षयम् ॥
मन्दारार्कफणिशभुक्तिसमये लाभेशदाये सुखं
कृष्यादिप्रविनायनं नृपभयं वित्तस्य नाशं विदुः ॥५१॥

व्ययेशदाये रविमन्दभौमभुक्तौ कलत्रात्मजबन्धुवैरम् ।
बलक्षयं मानधनक्षयं च फणीशभुक्तौ विषभीतिमाहुः ॥५२॥

अन्योन्यषष्ठाष्तमपाकभुक्तौ पदच्युतिं वा मरनं नराणाम् ।
एकस्थयोरन्तरदायकाले मृत्युं वदेद् दुर्बलशालिनोस्तु ॥५३॥

क्रूरग्रहदशाकले क्रूरस्यान्तर्दशागमे ।
मरणं तस्य जातस्य भविश्यति न संशयः ॥५४॥

क्रूरराशिगताः पापाः शत्रुखेटनिरीक्षिताः ।
शत्रुखेचरसंयुक्तास्तदशायां मृतिर्भवेत् ॥५५॥

दशाधिपस्य यः शत्रुस्तस्य भुक्त्यन्तरान्तरे ।
मृत्युकालो भवेन्नूनं पापखेटस्य नीश्चयः ॥५६॥

स्वोचादिजन्यमशुभस्य दशाप्रवेशे भावादिजं फलमशोभनपाकमध्ये ।
इष्टयुद्भवं सकलपापवियचराणां पाकावसानसभये फलमाहुरार्याः ॥५७॥

पाकस्यादौ भावजन्यं शुभानां तत्तद्राशिस्थानजं पाकमध्ये ।
दायस्यान्ते दृष्टसजातमेवं सर्वे तारापाकभेदं वदन्ति ॥५८॥

अथान्तर्दशाफलाणि ।

अथ तरणिदशायां चौर्यमुचाटनाद्यैर्धनमनलचतुष्पात्पीडनं नेत्रतापम् ।
उदरदशनरोगः पुत्रदारैर्वियोगो गुरुजनपितृनाशो भृत्यगोवित्तहानिः ॥५९॥

दशा दशाहता मासाश्वैकस्थानं विना परे ।
एकस्थानं त्रिगुणितं दिनान्यन्तर्दशाक्रमः ॥६०॥

अथ रविदाशायांअन्तर्दशाफलानि ।

द्विजभूपतिशास्त्राद्यैर्धनप्राप्तिं मनोरुजम् ।
विदेशवनसङ्चारं भानोरन्तर्गते स्वौ ॥६१॥

बन्धुमित्रजनैरर्थं प्रमादं मित्रसज्जनैः ।
पाण्डुरोगादिसन्तापं चन्द्रे भानुदशान्तरे ॥६२॥

रत्नकाङ्चनवित्ताप्तिं राजस्नेहं शुभावहम् ।
पैत्यरोगादिसङ्चारं कुजे भानुदशान्तरे ॥६३॥

अकाले मृत्युसन्तापं बन्धुगर्गारिपीडनम् ।
पदच्युतिं मनोदुःखं रवेरन्तर्गतेऽप्यहौ ॥६४॥

सर्वपूज्यं सुताद्वित्तं देवब्राह्मणपूजनम् ।
सत्कर्माचारसद्रोष्टी रवेरन्तर्गते गुरौ ॥६५॥

सर्वशत्रुत्वमालस्यं हीनवृत्तिं भनोरुजम् ।
राजचोरभयप्राप्तिं रवेरन्तर्गते शनौ ॥६६॥

बन्धुपीडां मनोदुःखं सन्नोस्साहं धनक्षयम् ।
किङ्चित्सुखमवानोति रवेरन्तर्गते बुधे ॥६७॥

कण्ठरोगं मनस्तापं नेत्ररोगमथापि वा ।
अकालमृत्युमाप्नोति रवेरन्तर्गते ध्वजे ॥६८॥

जले द्रव्याप्तिमायासं कुस्त्रीजननिषेवणम् ।
शुष्कसंवादमाप्नोति रवेरन्तर्गते भृगौ ॥६९॥

दशादौ दिननाथस्य पितृरोगं धनक्षयम् ।
सर्ववाधाधरं मध्ये दशान्ते सुखमाप्नुयात् ॥७०॥

स्वोच्चे नीचनवांशगस्य तरणेर्दयेऽपवादं भयं
पुत्रस्त्रीपितृवर्गबन्धुमरणं कृष्यादिवित्तक्षयम् ।
नीचे तुङ्गनवांशगस्य च रवेः पाके नृपालश्रुयं
सौख्यं याति दशावसानसमये वित्तक्षयं वा मृतिम् ॥७१॥

अथ चन्द्रदशाफलम् ।

हिमकिरणदशायां मन्त्रदिवद्विजाप्तिर्युवतिजनविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।
कुसुमवसनभूषागनानाधनाढ्यो भवति बलविरोधे चार्थहा वातरोगी ॥७२॥

अथ चन्द्रदशायामन्तर्दशाफलानि ।

विद्यास्त्रीगीतवाद्येष्वभिरतिशमनं पटुवस्त्रादिसिद्धिं
सत्सङ्गं देहसौख्यं नृपसचिवचमूनायकैः पूज्यमानम्
सत्कीर्तिं तीर्थयात्रां वितरति हिमगुः पुत्रामित्रैः प्रियं च ।
क्षोणीगोवाजिलाभं बहुजनविभवं स्वे दशान्तर्विपाके ॥७३॥

रोगं विरोधबुद्धि च स्थाननाशं धनक्षयम् ।
मित्रभ्रातृवशात् क्लेशं चन्द्रस्यान्तर्गते कुजे ॥७४।

रिपुरोगभयात् क्लेशं बन्धुनाशं धनक्षयवम् ।
न किंचित्सुखमाप्नोति राहौ चन्द्रदशान्तरे ॥७५॥

यानादिविविधार्थाप्तिं वस्त्राभरणसम्पदः ।
यत्नात् कार्यमवाप्नोति जीवे चन्द्रदशान्तरे ॥७६॥

मातृपीडा मनोदुःखं वातपैत्त्यादिपीडनम् ।
स्तब्धवागरिसंवादं शनौ चन्द्रदशान्तरे ॥७७॥

मातृवर्गाद्धनप्राप्तिं विद्वज्जनसमाश्रयम् ।
वस्त्रभूषणसप्राप्तिं बुधे चन्द्रदशान्तरे ॥७८॥

स्त्रीरोगं बन्धुनाशं च कुक्षिरोगादिपीडनम् ।
द्रव्यनाशमवाप्नोति केतौ चन्द्रदशान्तरे ॥७९॥

स्त्रीधन कृषिपश्वादिजलवस्त्रागमं सुखम् ।
मातृरोगभवाप्नोति भृगौ चन्द्रदशान्तरे ॥८०॥

नृपप्रायकमैश्च्वर्यं व्याधिनाशं रिपुक्षयम् ।
सौख्यं शुभमवाप्नोति रवौ चन्द्रदशान्तरे ॥८१॥

आदौ भावफलं मध्ये राशिस्थानफलं विदुः ।
पाकावसानसमये चाङ्गजं दृष्तिजं फलम् ॥८२॥

अथ कुजदशाफलम् ।

पाके भूमिसुतस्य शस्त्रहुतभूवाहनाद्यैर्घनं
भैषज्यान्नपङ्चनैश्च विविधैः क्रौर्यैर्धनस्थानगमम् ।
पित्तासृग्ज्वरपीडनं तु सततं नीचाङ्गनासेवनं
विद्वेषं सुतदारबन्धुगुरुभिर्दुष्टान्नभोगं विदुः ॥८३॥

अथ कुजदशायामन्तर्दशाफलानि ।

उष्णाधिक्यं सुहृद्द्वेषं मातृपीडां नृपाद्भयम् ।
सर्वकार्यर्थनाशं च कुजे कुजदशान्तरे ॥८४॥

नृपचोरादिभीतिञ्च धनधान्या दनाशनम् ।
दुष्टकर्मादिसंसिद्धि राहौ कुजदशान्तरे ॥८५॥

द्विजमूलाद्धनपाप्तिं भूलाभं च निरामयम् ।
सम्पूजनंजयं सौख्यं गुरौ कुजदशान्तरे ॥८६॥

बहुदुःखाकरव्याधिमरिचोरनृपैर्भयम् ।
धनक्षयमवाप्नोति शनौ भौमदशान्तरे ॥८७॥

वैश्यवर्गाद्धनप्राप्तिं गृहगोधान्यसम्पदः ।
शत्रुबाधां मनक्लेशं बुधे कुजदशान्तरे ॥८८॥

कुक्षिरोगेण सन्तापं बन्धुसोदरपीडनम् ।
दुष्टमानषशत्रुत्वं केतौ कुजदशान्तरे ॥८९॥

कलत्रभूषणं वस्त्रं बन्धुवर्गाद्धनागमम् ।
स्त्रीजन्द्वेष्यतद्रोष्ठी शुक्रे बौमदशान्तरे ॥९०॥

अपवादं गुरुद्वेषं कलहं व्याधिपीडनम् ।
आत्मवर्गान्मनोदुःखं रवौ भौमदशान्तरे ॥९१॥

नामावित्तसुखं वस्त्रमुक्तामणिविभूषणम् ।
निद्रालस्यमथोद्वेगं चन्द्रे भौमदशान्तरे ॥९२॥

भूनन्दनस्य पाकादौ मानहानिर्धनक्षयः ।
मध्ये नृपाग्निचोरद्यैर्भीतिश्चान्ते तथ भवेत् ॥९३॥

उच्चस्थितस्य धरणीतनयस्य पाके नीचांशगस्य मरणं सुतसोदराणाम् ।
नीचे तु तुङ्गभवनांशगतस्य दाये कृष्यादिभिधनधान्यसुखं वदन्ति ॥९४॥

राहुदशाफलम् ।

सौख्यादिवित्तस्थितिनाशनं च कलत्रपुत्रादिवियोगदुःखम् ।
अतीव रोगं परदेशवासं विवादबुद्धि कुरुते फणिशः ॥९५॥

अथ राहुदशायामन्तर्दशाफलानि ।

जायारोगं विवादं च बुद्धिनाशं धनक्षयम् ।
दूरदेशाटनं दुःखं राहौ राहुदशान्तरे ॥९६॥

व्याधिशत्रुविनाशं च राजप्रीतिं धनागमम् ।
पुत्रलाभं तथोत्साहं गुरौ राहुदशान्तरे ॥९७॥

वातपित्तकृतं रोगं बन्धुमित्रादिपीडनम् ।
दूरदेशनिवासं च शनौ राहुदशान्तरे ॥९८॥

मित्रबन्धुकलत्रादिसंयोगं च धनागमम् ।
राजप्रीतिभवाप्नोति बुधे राहुदशान्तरे ॥९९॥

चौर्यं च मानहानि च पुत्रनाशं पशुक्षयम् ।
सर्वोपद्रवभाप्नोति केतौ राहुदशान्तरे ॥१००॥

विदेशाद्वाहनप्राप्निश्छात्रचामरसम्पदः ।
रोगारिबन्धुभीतिः स्यात् शुक्रे राहुदशान्तरे ॥१०१॥

दानधर्मरतिः प्रीतिः सर्वोपद्रवनाशनम् ।
संसाररोगसङ्चारो रवौ राहुदशान्तरे ॥१०२॥

भोगसम्पद्भवेन्नित्यं सस्यवृद्धिधर्नागमः ।
स्वबन्धुजनसंवादश्चन्द्रे राहुदशान्तरे ॥१०३॥

सर्वोपद्रवसंयोगः सर्वकार्येषु मूढता ।
वित्तविस्मृतिदोषः स्यात् कुजे राहुदशान्तरे ॥१०४॥

कुलीरगोमेषयुतस्य राहोर्दशाविपाके धनधान्यलाभम् ।
विद्याविनोदं नृपमाननं च कलत्रनृत्यादिसुखं वदन्ति ॥१०५॥

पाथोनमीनाश्वयुतस्य राहिर्दशाविपके सुतदारलाभम् ।
देशाधिपत्यं नरवाहनं च दशावसाने सकलं विनाशम् ॥१०६॥

मृगपतिवृषकन्याकर्कटस्थस्य राहोर्र्भवति च परिपाके राजतुल्यो नृपो वा ।
गजतुरगचमूपः सर्वजीवोपकारी बहुधनसुखशीलः पुत्रदारानुरक्तः ॥१०७॥

दशादौ दुःखमाप्नोति दशाम्ध्ये महत्सुखम् ।
द्शान्ते फणिनाथस्य पितृनाशं पदच्युतिम् ॥१०८॥

अथ गुरुदशाफलम् ।

स्थानप्राप्तिं वित्तयानाम्बराप्तिं राजस्नेहं चित्तशुद्धि विभूक्तिम् ।
ङ्य़ानाचारं पुत्रदारादिलाभं देवाचार्यः स्वे विपाके करोति ॥१०९॥

अथ गुरुदशायामन्तर्दशाफलानि ।

नृपप्रीति तथोत्साहं सर्वकार्यार्थसाधनम् ।
विद्याविङ्य़ानमाप्नोति गुरौ गुरुदशान्तरे ॥११०॥

द्वेषबुद्धिं मनस्तापं पुत्रमूलाद्धनव्ययम् ।
कर्मनाशभवाप्नोति शनौ जीवदशान्तरे ॥१११॥

वैश्यवर्गेण वित्ताप्तिं राजस्नेहं सुखावहम् ।
सत्कर्माचरसिद्धिं च बुधे जीवदशान्तरे ॥११२॥

मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः ।
गुरुभूपवशादाप्तिः केतौ जीवदशान्तरे ॥११३॥

वाहनादिधनप्राप्तिः छत्रचामरवैभवम् ।
स्त्रीपीडा जनविद्वेषो भृगौ जीवदशान्तरे ॥११४॥

शत्रुनाशं जयं सौख्यं चित्तोत्साहं धनागमम् ।
राजप्रसादमारोग्यं रवौ जीवदशान्तरे ॥११५॥

स्त्रीकृतोत्साहमैश्चर्य राजप्रीतिः सुखावहम् ।
दिव्यवस्त्रविभूषाप्तिं चन्द्रे जीवदशान्तरे ॥११६॥

कर्मनाशं च सङ्चारं ज्वरतापं महद्भयम् ।
वननाशं निरुत्साहं कुजे जीवदशान्तरे ॥११७॥

सर्वक्लेशभयं रोगं सर्वोपद्रवकारणम् ।
धनच्छेदभवाप्नोति राहौ जीवदशान्तरे ॥११८॥

नीचांशोपगतः स्वतुङ्गभवने जीवस्य पाके भयं
चोरारातिनृपैः कलत्रतनयद्वेषं करोत्यश्रियम् ।
नीचे तुङ्गनवांशको यदि महाराजप्रसादं सुखं
विद्याबुद्धियशोधनादिविभवं देशाधिपत्यं तु वा ॥११९॥

अथ शनिदशाफलम् ।

शनेर्दशायामजगर्दभोष्द्रवृद्धाङ्गनापक्षिकुधान्यलाभम् ।
क्षेणीपुरग्रामजनाधिकाराद्धनं वदेन्निचकुलाधिपत्यम् ॥१२०॥

अथ शनेर्दशायामन्तर्दशाफलानि ।

क्लेशादिभिर्व्याधिनिपीडनं च मार्सर्यमानैर्बहुशोकतापम् ।
भूपालचोरैर्धनधान्यनाशं करोति मन्दः स्वदशापहारे ॥१२१॥

रवितनयदशायां स्वापहारे विरोधं नरपति जनकिपं प्रेष्यवृद्धाङ्गनाप्तिम् ।
पशुगणविषभीतिं पुत्रदारादिपीडां ज्वरपवनकफातिं शूलरोगं वदन्ति ॥१२२॥

सुखवित्तयशोवृद्धिं सत्कर्माचारसम्पदः ।
कृषिवाणिज्यमाप्नोति बुधे मन्ददशान्तरे ॥१२३॥

वातपित्तकृतं रोगं कलहं नीचदुर्जनैः ।
दुःस्वप्नभयमाप्नोति केतौ मन्दद्शान्तरे ॥१२४॥

बन्धुस्नेहं जनप्रीतिं जायावित्तधनायतिम् ।
कृष्यादिसुखमाप्नोति भृगौ मन्ददशान्तरे ॥१२५॥

पुत्रदारविनाशं च् नृपचोरादिपीडनम् ।
मनोभयमवाप्नोति भानौ मन्ददशान्तरे ॥१२६॥

गुरुस्त्रीमरणं दुःखं बन्धुद्वेषं धनागमम् ।
वातरोगमवाप्नोति चन्द्रे मन्ददशान्तरे ॥१२७॥

स्थानच्युतिं महारोगं नानाविघमनोभयम् ।
सहोदरसुहृत्पीडां भौमे मन्दद्शान्तरे ॥१२८॥

स्र्वाङ्गरोगसन्तापं चोरारिनृपपीडनम् ।
धनच्छेदमवाप्नोति राहौ मन्ददशान्तरे ॥१२९॥

देवभूदेवभक्तिं च राजप्रीतिं महत्सुखम् ।
स्थानलाभमवाप्नोति गुरौ मन्ददशान्तरे ॥१३०॥

स्वोच्चे नीचनवांशगो रविसुतः कुर्वीत सौख्यं फलं
पाकादौ तु दशावसानसमये कष्टं फलं प्राणिनाम् ।
तुङ्गांशोपगते स्वनीचभवने पाकावसाने सुखं
दायादौ रिपुचोरभीतिमधिकं दुःखं विदेशाटनम् ॥१३१॥

अथ बुधदशाफलम् ।

स्वकीयदाये गुरुबन्धुमित्रैरर्थार्जनं कीर्तिसुखं करोति ।
दैत्यं च सत्कर्महिरण्यपुण्यैर्धनायतिं वातरुजं कुमारः ॥१३२॥

अथ बुधदशायामन्तर्दशाफलानि ।

विचित्रगृहवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
सर्वकार्यार्थसंसिद्धिं बुद्धे सौम्यदशान्तरे ॥१३३॥

बन्धुपीडां मनस्तापं सौख्यहानिमरेर्भयम् ।
कार्यनाशभवाप्नोति केतौ सौम्यदशान्तरे ॥१३४॥

गुरुदेवाग्निविप्रेषु दानं धर्मप्रियं तपः ।
धनवस्त्रविभूषाप्तिं शुक्रे सौम्यदशान्तरे ॥१३५॥

वस्त्रभूषणवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
धर्मश्रवणमाप्नोति रवौ बुधदशान्तरे ॥१३६॥

रोगारातिजनद्वेषं सर्वकार्यार्थनाशनम् ।
चतुष्पाद्भयमाप्नोति चन्द्रे सौम्यदशान्तरे ॥१३७॥

रोगारेभयनाशं च पुण्यकर्मफलं यशः ।
राजप्रीतिमवाप्नोति कुजे सौम्यदशान्तरे ॥१३८॥

मित्रबन्धुधनप्राप्नोति सुखविद्याविभुषणम् ।
राजप्रीतिमवाप्नोति राहौ सौम्यदशान्तरे ॥१३९॥

इष्टबन्धुगुरुद्वेषं धनलाभं सुतायतिम् ।
रोगादिभयमाप्नोति गुरौ सुअम्यदशान्तरे ॥१४०॥

धर्मसत्कर्मवित्ताप्तिं सुखमल्पजनाधिपैः
कृष्यादिनाशमाप्नोति शनौ सौम्यदशान्तरे ॥१४१॥

उच्चराशिगतः सौम्यो नीचांशकसमन्वितः ।
करोति कर्मवैकल्यं निजदाये च वर्धनम् ॥१४२॥

नीचस्थानगतश्चान्द्रिस्तुङ्गांशकसमन्वितः ।
पाकादौ विफलं सर्वं शुभमन्ते प्रयच्छति ॥१४३॥

अथ केतुदशाफलम् ।

दीनो नरे भवति बुद्धिविवेकनष्टो
नानाऽमयाकुलविवर्ज्द्धितदेहतापः ।
पापादिवृद्धिरतिकष्टचरित्रयुक्तः
किङ्चित्सुखी च शिखिनः परिपाककाले ॥१४४॥

अथ केतुदशायामन्तर्दशाफलानि ।

कलत्रपुत्रमरणं सुखवित्तविनाशनम् ।
रिपुभीतिमबाप्नोति केतौ केतुदशान्तरे ॥१४५॥

स्त्रीपुत्ररोगकलहं बन्धुमित्रादिनाशनम् ।
स्वरातिसारमाप्नोति शुक्रे केतुदशान्तरे ॥१४६॥

मनोभङ्गं शरीरर्ति विदेशगमनं भयम् ।
सर्वकार्यविरोधं च रवौ केतुदशान्तरे ॥१४७॥

दारपुत्रजनालस्यं धानधान्यविनाशनम् ।
मन्स्तापमवाप्नोति चन्द्रे केतुदशान्तरे ॥१४८॥

पुत्रदारानुजद्वेषं रोगारिनृपपीडनम् ।
बन्धुनाशमवाप्नोति कुजे केतुदशान्तरे ॥१४९॥

राजचोरभयं दुःखं सर्वकार्यविनाशनम् ।
दुष्टमानवसंवादं राहौ केतुदशान्तरे ॥१५०॥

देवद्विजगुरुप्रीतिं राजस्नेहं निराम्यम् ।
भूपुत्रलाभमाप्नोति गुरौ केतुदशान्तरे ॥१५१॥

मनोभयं मनस्तापं स्वबन्धुजनविग्रहम् ।
देशत्यागमवाप्नोति शनौ केतुदशान्तरे ॥१५२॥

बन्धुमित्रादिसंयोगं पुत्रदारधनागमम् ।
विद्यासुखमवाप्नोति बुधे केतुदशान्तरे ॥१५३॥

शुभग्रहयुतः केतुः स्वदशायां सुखप्रदः ।
यदि शोभनसन्दृष्तः करोति विपुलं धनम् ॥१५४॥

सपापः कुरुते केतुः स्वपाके दुष्टमानवैः ।
भीतिं कृतिमरोगाध्यैर्व्यसनं धननाशनम् ॥१५५॥

दशादौ गुरुबन्ध्वार्ति दशामध्ये धनायतिम् ।
दशान्ते सुखमाप्नोति केतोर्दयफलं त्रिधा ॥१५६॥

अथ शुक्रदशाफलम् ।

स्त्रीपुत्रवित्ताप्तिमतीव सौख्यं युगन्धमाल्याम्बरभूषणाप्तिम् ।
यानादिभाग्यं नरपालतुल्यं यशः स्वपाके भृगुजः करोति ॥१५७॥

अथ शुक्रदशायामन्तर्दशाफलानि ।

शव्यास्त्रीधनवस्त्राप्तिं धर्मादिसुखसम्पदः ।
रिपुनाशं यशोलाभं शुक्रे शुक्रदशान्तरे ॥१५८॥

मुर्धोदराक्षिरागं च कृषिगोवित्तनाशनम् ।
नृपक्रोधमवाप्नोति रवौ शुक्रदशान्तरे ॥१५९॥

शीर्षोष्णरोगसन्तापं कामादिरिपुपीडनम् ।
किङ्चिर् सुखमवाप्नोति चन्द्रे शुक्रदशान्तरे ॥१६०॥

पित्तासृगक्षिरोगं च चित्तोत्साहं धनागमम् ।
दारमूलाभमाप्नोति कुजे शुक्रदशान्तरे ॥१६१॥

नीलवस्तुधनप्राप्नोति बन्धुद्वेषं सुहृद्भयम् ।
अग्निबाधामवाप्नोति रहौ शुक्रदशान्तरे ॥१६२॥

धनवस्त्रविभूषाप्तिं धर्मचारं सुखावहम् ।
स्त्रीसुतार्ति च वैषम्य गुरौ शुक्रदशान्तरे ॥१६३॥

वृद्धस्त्रीजनसम्भोगं गृहक्षेत्रधनागमम् ।
शत्रुनाशमवाप्नोति मन्दे शुक्रदशान्तरे ॥१६४॥

सुतमित्रसुखार्थाप्ति नृपप्रीतिं महत्सुखम् ।
सुभमारेज्यमाप्नोति बुधे शुक्रदशान्तरे ॥१६५॥

कलहं बन्धुनाशं च शत्रुपीडां मनोभयम् ।
धनच्छेदमवाप्नोति केतौ शुक्रदशान्तरे ॥१६६॥

उच्चराशिं गतः शुक्रो नीचांशकसमन्वितः ।
स्वपाके धन्ननाशं च कुर्वीत पदविच्युतिम् ॥१६७॥

भार्गवो नीचराशिस्थः स्वोच्चांशकसमन्वितः ।
स्वदाये कृषिवाणिज्यं धनलाभं प्र्यच्छति ॥१६८॥

दशाफले विशेषता ।

सम्यग्बलिनः स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता ।
नीचाम्शगतस्य शत्रुभगो ङ्य़ेयाऽनिष्टफला दशा प्रसूतौ ॥१६९॥

तत्तद्भावार्थलामेशदशास्वन्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युतेइतकारकैः ॥१७०॥

त्रिकोणधनलाभस्था बलिनो यदि शोभनाः ।
स्वदशान्तर्दशाकाले कुर्वन्ति विपुल्कं सुखम् ॥१७१॥

अस्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपरिजाते ।
राशिस्वरूपादि दशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥१७२॥

इति श्रीनव्ग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:13.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हुजरात

  • f  Body-guard. 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site