TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - राशिशिलाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


राशिशिलाध्यायः
श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं
मायातीतमशेषजीवजगतामीशं दिनेशं रविम् ।
नत्वा गर्गपराशरादिरचिंतम् सण्गृह्य होराफलं
वक्ष्ये जातलपारिजातमखिलज्योतिर्विदां प्रीतये ॥१॥

भारद्वाजकुलोद्भवस्य विदुषः श्रीज्यक्कटाद्रेरिह ।
ज्योतिःशास्त्रविशारदस्य तनयः श्रीवैद्यनाथा सुधीः ।
होरासारसुधारसङ्य़विबुधश्रेणीमनःप्रीतये ।
राशीश्थाननिरूपणादि सकलं वक्ष्ये यथाऽनुक्रमन् ॥२॥

प्रणम्य वन्दारुजनाभिवन्द्यपदारविन्दं रधुनायकस्य ।
सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम् ॥३॥

अथ राशीनां संङ्य़विशेषाः ।

मेषाजः विश्वकृयतुम्बुराद्या वृषाभगाताबुरुगोकुलानि ।
द्वन्द्वं नृयुग्मां जितुमं यमं च युगं तृतीयं मिथुनं वदन्ति ॥४॥

कुलीरकर्कटककक्र्कटाख्याः कण्ठीरवः सिंहमृगेन्द्रलेयाः ।
पात्र्होनकन्यारमणीतरुण्यस्तौली वणिक्जूकतुलाघटाश्च ॥५॥

अल्यष्टमं वृश्चिककुर्पिकीटाः धन्वी धनुश्चापशराशनानि ।
मृगो मृगास्यो मकरश्च नक्रः कुम्भो घटस्तोयघराभिधानः ॥६॥

मीनान्त्यमत्स्यपृथुरोमभवा वदन्ति दस्त्रादिकर्क्षनवपादयुताः क्रियाद्याः ।
चक्रस्थिता दिविचरा दिननाथसंख्याः क्षेत्रर्क्षराशिभवनानि भसंङ्य़ितानि ॥७॥

कालात्मकस्य च शिरोमुखदेशवक्षोहृत्कृक्षिभागकटिबस्तिरहस्यदेशाः ।
उरू च जानुयुगलं परतस्तु जङ्गे पादद्वयं क्रियमुखावयवाः क्रमेण ॥८॥

अथ मीनादीनां स्वरूपवर्णनम् ।

ज्यत्यस्तोभयपुच्छमस्तकयुतौ मीनौ सकुम्भो नर-
स्थौली चापधरस्तुरङ्गजधनो नक्रो मृगास्थो भवेत् ।
वीणाढ्यं सगदं नृयुग्ममबला नौस्था ससस्यानला
शेषाः स्वस्वगुणाभिधानसदृशाः सर्वे स्वदेशाश्रयाः ॥९॥

अथ मेषादीनां स्थानवर्णनम् ।

मेषस्य धातुकररत्नधरातलं स्यात् उक्ष्णस्तु सातुकृषिगोकुलकाननानि ।
द्यूतकृयारतिविहारमही युगस्य वापीतटाकपुलिनानि कुलीरराशेः ॥१०॥

कण्टःईरवस्य धनशैलगुहावनानि षष्ठस्य शाद्वलवधूरतिशिल्पभूमिः ।
सर्वार्थसारपुरपण्यमही तुलायाः कीतस्य चाश्मविधकीटबिलप्रदेशाः ॥११॥

चापस्य वाजिरथवारणवासभूमिः एणाननस्य सरिदम्बुवनप्रदेशाः ।
कुम्भस्य तोयघटभाण्डगृहस्थलानि मीनाधिवाससरिदम्बुधितोयराशिः ॥१२॥

अथ मेषादीनां स्वरूपविशेषादिवर्णनम् ।

ह्वस्वा गोऽजघटाः समा मृगयुक्चापान्त्यकर्कटकाः ।
दीर्घा वृश्किककन्यकाहरितुला मेषादिपुंयोषितौ ।
प्रागादिक्रियगोनृयुक्कटकभान्येतानि कोणान्विता-
न्याहुः क्रूरशुभौ चरस्थिरतरद्वन्द्वानि तानि क्रमात् ॥१३॥

दीर्योपेता निशि वृषनृयुक्कर्किचापाजनक्राः
हित्वा युग्मं भवनमपरे पृष्टपूर्वोदयाश्च ।
शेषाः शीर्दीदयदिनबलाः श्रेष्ठता राशयस्ते
मीनाकारद्वयमुभयतः काललग्नं समेति ॥१४॥

अथ मीनादीनां सलिलादिसंङ्य़ाविशेषाः ।

मीनालिकर्कटमृगाः सलिलाभिनास्तोयाश्रया घटवधुयुगगोपसंङ्य़ाः ।
निस्तोयभूतलचराः क्रियचापतौलिकण्ठीरवाश्च बहवः प्रवदन्ति सन्तः ॥१५॥

अथ भावविशेषसम्बन्धाम्मेषादीनां चतुष्पदादिसज्ङ्य़ापूर्वकं बलित्वकथनम् ।

चापापरार्धहरिगोमकरादिमेषा मानस्थिता बलयुताश्च चतुष्पदाख्याः ।
कन्यानृयुग्मघटटाऊळीशारषाणड्य लग्नान्विता यदि नरा द्विपदा बलाढ्याः ॥१६॥

मृगापरार्द्धान्त्यकुलीरसंङ्य़ा जलाभिधाना बलिनश्चतुर्थे ।
जलाश्रयो वृश्चिकनामधेयः स सप्तमस्थानगतो बली स्यात् ॥१७॥

केन्द्रं गतोऽहि द्विपदो बलाढ्यः चतुष्पदाः केन्द्रगता रजन्याम् ।
कीटास्तु सर्वे यदि कण्टकस्थाः सन्धिद्वये वीर्ययुता भवन्ति ॥१८॥

अथ राशीनां घातु-मूल जीवसज्ङ्य़ाः ।

घातुर्मूलं जीवमित्वाहुरार्या मेषादीनामोजयुग्मे तथैव ।
स्वर्णाद्वातुर्मृत्तिकान्तं तृणान्तं वृक्षान्मूलं जीवकूटः स जीवः ॥१९॥

अथ मेषादीनां विप्रत्वादिनरूपणाम् ।

मीनालिवृषभा विप्राश्चापाजहरयो नृपाः ।
कुम्भयुग्मतुला वैश्याः शूद्राः स्त्रीमृगकर्कटाः ॥२०॥

अथ मेषादीनां कालविशेषे अन्धत्वादिनिरूपणम् ।

सदा निशान्धाः क्रियगोमृगेशा मध्यन्दिने कर्कटयुग्मकन्ताः ।
पूर्वाह्वकाले बधिरौ तुलाली धन्वी मृगाख्यश्च तथाऽपराहे ॥२१॥

मृगान्नश्चापघरश्च पङ्गू सन्धिद्वये नाशकरौ भवेताम् ।
स्यादृक्षसन्धिः कटकालिमीनभान्तं प्रगण्ढान्तमिति प्रसिद्धम् ॥२२॥

अथ मेषादीनां वर्णविशेषः ।

रक्तगौरशुककान्तिपाटलाः पाण्डुइत्ररुचिनीलकाङ्चनाः ।
पिङ्गलः शबलबभ्रुपाण्डुरास्तुम्बुरादिभवनेषु कलिताः ॥२३॥

अथ मेषादीनां बलाबलफलम् ।

वस्त्राद्यं शालिमुख्यं, वनफलनिचयः, कन्दली मुख्यधान्यम्,
स्वक्सारं, मुद्गपूर्वं, तिलवसनमुखं, त्विक्षुलोहादिकं च ।
शस्त्रावं, काङ्चनाद्यं जलजनिकुसुमं, तोयजातं समस्तम्,
द्रव्याण्याहुः क्रियादिष्वबलयुतेष्वल्पताधिक्यभाङ्जि ॥२४॥

अथ राशिस्वामिनिरूपणम् ।

धराजशुक्रङ्य़शशिनसौम्यसितारजीवार्कजमन्दजीवाः ।
क्रमेण मेषादिषु राशिनाथस्तदंशपाश्चेति वदन्ति सन्तः ॥२५॥

अथ सूर्यादीनां त्रिकोणराश्यादिवर्णनम् ।

मूलत्रिकोणा हरिताबुरुक्रिया वधूधनुस्तौलिघटा दिवाकरत् ।
सितासिताकर्कङ्गिरसां नखांशकास्त्रिकोणमादौ परतः स्वमन्दिरम् ॥२६॥

वृषादिभागत्रयमुच्चमिन्दोर्मूलत्रिकोणं परतस्तु सर्वम् ।
मेषादिगा द्वादशभागसंङ्य़ाः कुजस्य कोणं परतः स्वभं स्यात् ॥२७॥

कन्यार्द्धमुच्चं, शशिजस्य लोणं दशांशकाः स्वर्क्षफलं शरांशाः ।
कुम्भस्त्रिकोणं, फणिनायकस्य तुङ्गं नृयुग्मं, रमणी गृहं स्यात् ॥२८॥

अथ सूर्यादीनामुच्चनीचराशिनिरूपणपूर्वकमत्युच्चनोचभागनिरूपणम् ।

मेषो वृषो मकरषष्ठकुलीरमीनाः तौली च तुङ्गभवनानि तदस्तनीचाः ।
नित्याङ्गनाहरिमणामनुसारनीरसण्ख्या दिवाकरसुखादतितुङ्गभागाः ॥२९॥

अथ दशवर्गीनिरूपणं तस्वामिनिरूपणङ्च ।

लग्नं होरा दृकाणं स्वरनवदशकद्वादशांशा कलांशाः
त्रिंशत्षष्ट्यंशकाख्या व्ययदुरितचयश्रिकरा मानवानाम् ।
होरा राश्यर्धमोजे इनकरशशिनोरिन्दुमार्तण्ढोरे (२)
युग्मे राशौ, दृगाणा निजतनयतपःस्थानपानां भवन्ति ॥३०॥ (३)

लग्नादिसप्तमांशेशास्त्वोजे राशौ यथाक्रमम् ।
युग्मे लग्ने स्वरांशानामधिपाः सप्तमादयः ॥३१॥ (४)

चापाजसिंहराशीनां नवांशास्तुम्बुरादयः ।
वृषक्नयामृगाणां च मृगाद्या नव कीर्तिताः ॥३२॥

नृयुक्तुलाघटानां च तुलाद्याश्चांशका नव ।
कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः ॥३३॥

चरे चाद्यंशको ङ्य़ेयः, स्थिरे मध्यनवांशकः ।
अन्त्यांशको द्विस्वभावे वर्गोत्तम इति स्मृतः ॥३४॥ (५)

लग्नादिदशमांशेशात्वोजे, युग्मे शुभादिकाः (६)
द्वादशांशाधिपतयस्तत्तद्रासिवशानुगाः ॥३५॥ (७)

ओजे कलांशप्रभुखास्तदीशा विरङ्चिशौरीशदिवाकराश्च ।
युग्मे विलग्ने सति भास्कराद्या विलोमतः षोडशभागनाथाः ॥३६॥ (८)

अथ दयवर्गजाताः संङ्य़ावियेषाः ।

मूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां दयवर्गजानम् ।
संबोगजातोत्तमनामपूर्वा वैशेषिकांशा इति ते वदन्ति ॥४४॥

उत्तमं तु त्रिवर्गैक्यं चातुर्वर्गन्तु गोपुरम् ।
वर्गपङ्चकसंयोगं सिंहासनमिहोच्यते ॥४५॥

वर्गह्वयं पारिजातं षड्णां पारावतांशकः ।
सप्तमं देवलोकः स्यादष्टमं च तथा भवेत् ॥४६॥

ऐरवतम् तु नवकं फलं तेषां पृथक् पृथक् ॥१/२॥

अथषद्वर्गाः सप्तवर्गश्चा ।

विलग्नहोराद्रेष्काणनवांशद्वादशांशकाः ॥४७॥

त्रिंशांशकश्च षड्वर्गः शुभकर्मसु शस्यते ।
सप्तांशयुक्तः षड्वर्गः सप्तवर्गोऽभिधीयते ॥४८॥

जातकेषु च सर्वेषु ग्रहाणां बलकारणम् ॥१/२॥

अथ भावानां नामानि ।

कल्पोदयाद्यतनुजन्मविलग्नहोरा वागर्थभुक्तिन्यनस्वकुटुम्बभानि ।
दुश्चिक्यविक्रमसहोदरवीर्यधैर्यकर्णास्तृतीयभवनस्य भवन्ति संङ्य़ाः ॥४९॥

पातालवृद्धिहिबुकक्षितिमातृविद्यायानाम्बुगेहसुखबन्धुचतुष्टयानि ।
धीदेवराजपितृनन्दनपङ्चकानि रोगांगशस्त्रभयषष्ठारिपुक्षतानि ॥५०॥

जामित्रकामगमनानि कलत्रसम्पद्द्यूनास्तसप्तमगृहाणि वदन्ति चार्याः ।
रन्ध्रायुरष्टणमृत्युविनाशनानि धर्मो गुरुः शुभतपोनवभाग्यमानि ॥५१॥

व्यापारमेषूर्णमध्यमानं ङ्य़ानं च राजास्पदकर्मसंङ्य़ाः ।
एकादशोपान्त्यभवायलाभा रिःफव्ययद्वादशकान्त्यभाति ॥५२॥

अथ भावानां केन्द्रादिसंङ्य़ाः ।
मेषूरणोदयकलत्ररसातलानि स्युः केन्द्रकण्टकचतुष्टयसंङ्य़ितानि ।
लग्नात्रिकोणभवनं च स्यादित्रिकोणमुदयान्नव्मं वदन्ति ॥५३॥

तनुसुखमदनाङ्य़ा राशयः केन्द्रसंङ्य़ाउ पणफरभवनानि स्वायपुत्राष्टमानि ।
व्ययरिपुगुरुदुश्चिक्यानि चापोक्लिमानि प्रभ्वति चतुरस्रं मृत्युबन्धुद्वयं च ॥५४॥

दुश्चिक्यायारिमानान्युपचयभवनान्याहुराहुराचार्यमुख्याः
शेषाः पीडर्क्षसंङ्य़ा नवधनजलधीकामरन्ध्रान्त्यहोराः ।
एते भावास्तदीशेन्दुजसितगुरुभिः संयुता वीक्षिता वा
नान्यैर्युक्ता न दृष्टा यदि शुभफलदा जन्मतः पृच्छतो वा ॥५५॥

अथ राशीनामुदयमानानि ।

नखा जिना विंशतिरष्टयुक्ता रदाङ्गलोका वियदर्णवाख्याः ।
मेषादिभानं क्रमशो वदन्ति तुलादिषत्कस्य विलोमतस्ते ॥५६॥

अथ राशीनां शुभाशुभभागाः ।

तनुः शरा रारिखराः किरीटिनो धना गुरुर्हेयनखा नरा नुकाः ।
शशाङ्कभागा यदि तुम्बुरादिके मुहूर्तजन्मादिषु मृत्युसूचकाः ॥५७॥

पुत्रो वतुर्दिव्यजनाधिको धनी विराटयो गोत्रवयो धिको धुनाः ।
मेषादिके पुष्करभागसंङ्य़का मुहुर्तजन्मादिषु शोभनप्रदाः ॥५८॥

अथ मेषादिराशीनां वासदेशाः ।

क्रमात्पाटलकर्नातचरचोलवसुन्ध्राः ।
पाण्ड्यकेरलकोल्लासमलयावनिसैन्धवाः ॥५९॥

उदक्पङ्चालयवनकोशलक्षितिसंङ्य़काः ।
मेषादिसर्वराशीनां वासदेशाः प्रकीर्तिताः ॥६०॥

अथ राशीनां ष्लवस्वनिरूपणम् ।

स्वाम्याशाख्यं यत्तदापप्लवस्वं भानुक्रान्तादम्बुसंङ्य़ोऽभिजित्स्यात् ।
होरातन्त्रे पारिजाताभिधाने संङ्य़ाध्यायः कीर्तितो राशिशीलः ॥६१॥

इति श्रीनवग्रहकृपया वैद्याथविरचिते जातकपारिजाते
राशिशीलाध्यायः प्रथमः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:03.4830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रोटी

  • f  Bread; a cake or loaf of bread. 
  • स्त्री. फुले येणारे झुडूप . 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.