TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - ग्राजयोगाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


राजयोगाध्यायः
कन्यमीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः
सेनामत्तमतङ्गचाजिविपुलो राजा यशस्वी भवेत् ।
तौलिच्छागवृधावसानगृहगैर्जातोऽखिलक्ष्मापति-
र्गिचापान्त्यमकेन्द्रगैः पृथुयशाः पृथ्वीश्चरो जायते ॥१॥

कन्यामेषतुलामृगेन्द्रघटगैर्जतो महीपालको
दुश्चिक्यप्रतिभारसातलगतैर्बहुर्र्थदेशाधिपः ।
खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ
शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्द्वार्मिकः ॥२॥

तारेशहोरासहिता गभोगा जातो यशस्वी मनुजाधिपः स्यात् ।
सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥३॥

लग्नास्पदानङ्गगृहोपयाता बलान्वितः शोभनखेचरेन्द्राः ।
कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरांअः ॥४॥

वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः ।
सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्भानवनायकः स्यात् ॥५॥

अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते
जातो राजकुलाग्नजो रिपुकुलघ्वंसी बहुस्त्रीरतः ।
हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वमागान्वितै-
रेको लग्नगतो यदि क्षितिपतिः पङ्चादिकैर्वित्तवान् ॥६॥

शुक्रेऽरिनीचमपहाय कुतुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् ।
चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥७॥

मीने मीननवांशके भृउगुसुते लग्नस्थिते भूपतिः
स्वोच्चे लग्नगृहाधिपे बलयुते राजा शशाङ्केक्षिते ।
लग्नस्वामिनि तुङ्गमन्दिरगते नीचारिभागंविना विना
केन्द्रस्थानगते नभोगवियुते जातो महीपालकः ॥८॥

भाग्यस्थे निजतुङ्गमित्रभवने सम्पूर्णगात्रे विधौ
लग्नादास्पदवित्तराशिगतयोः शन्यारयोर्भूपतिः ।
चन्द्रे पूर्णकलान्विते बलयुते लग्नं विना केन्द्रगे
दृष्टे दानवमन्त्रिणा च गुरुणा राजा महीदानकृत् ॥९॥

एकस्मिन्परमोच्चगेऽतिसुहृदा द्टॄष्टे यदि क्ष्मापति-
स्तत्तुल्यो भृगुनन्दने बलयुते लाभेऽथवा रिःफगे ।
द्वित्रिव्योमचरेषु तुङ्गगृहगेष्विन्दौ कुलीरे स्थिते
लग्ने पूर्णबलान्विते नरपतिः सर्वत्र पूज्यो भवेत् ॥२०॥

सर्वे चोपचयस्थिताः शुभस्वगाः पापा विलग्नस्थिता
मानस्था यदि वा जितारिनिचयः क्रूरो महीपालकः ।
भानौ सप्तमगे निशाकरयुते तुङ्गादिवर्गस्थिते
सौम्यासौम्यनिरीक्षितेऽतिचपलो राजाऽथवा तत्समः ॥२१॥

नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः ।
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धर्मिकचक्रवर्ती ॥२३॥

नीचस्थितग्रहनवांशपतौ त्रिकोणे केन्द्रेऽथवा चरगृहे यदि जन्मलग्ने ।
तद्भावपे चरगृहांशसमन्विते वा जातो महीपतिरतिप्रबलोऽथवा स्यात् ॥२४॥

मानस्थनपतौ पराभवगते पारावतांशेऽथवा
स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् ।
लग्ने नीचगृहे पुरन्द्दरगुरौ रन्ध्रे सपापग्रहे
तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥२५॥

जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे
रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् ।
भाग्येशस्थन्वांशपे तनयगे बन्धुस्थिते वा नृपो
दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥२६॥

भाग्शेयेन निरीक्षिते ययिसुते केन्द्रस्थिते भृगुजाम्
तुल्शत्वं समुपैति जातमनुजो लग्नस्थिते वाक्पतौ ।
केन्द्रे वा शदि कोणगे रविसुते मूलत्रिकोणोच्चगे
लाभेयेन निरीक्षिते बलशुते भूपालतुल्शो भवेत् ॥२७॥

लग्ने शीतकरे गुरौ सुखगते कर्मस्थिते भार्गवे
तुङ्गस्वर्क्षगते दिवाकरसुते राजाऽथवा तत्समः ।
अन्त्योपा न्त्वविलग्नवित्तसहजव्यापारगेहेषु वा
सौम्यव्योमचरेपु भूपतिसमो राजाधिराजप्रियः ॥२८॥

मन्दे चोत्तमवर्गके बलयुते नीचा<शवर्ज्ये गुरौ
भानौ शोभनदृष्तिभागसहिते राजप्रियस्तत्समः ।
राहौ कर्मणि लाभगे रविसुते भाग्याधिपेनेक्षिते
लग्नेशे यदि नीचखेटरहिते पृथ्वीशतुल्यो भवेत् ॥२९॥

नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः ।
स्वतुङ्गराश्यांशसमन्विता वा धरापतिर्धर्मिकचक्रवर्ती ॥२०॥

लग्नात्कर्मशुभाहिपौ शुभगृहाद्वयापारधर्मेश्वरौ
मानादास्पदभाग्यपौ च सहित्तावन्योन्यराशिस्थितौ ।
अन्योन्यक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी
जातो यानपकायपिक्षितयुतौ बहुर्थयनाधिपः ॥२१॥

षतसु ग्रहेषुच्चगृहस्थितेषु राजाधिराजोऽखिलभूपतिः स्यात् ।
उच्चं गतैः पङ्चभिरिन्द्रवन्द्ये लग्नस्थिते सर्वजनावनीशः ॥२२॥

कुम्भोदयस्थे रविजे चतुर्भिः स्वोच्चंगतैः सर्वमहीपतिः स्यात् ।
मेषोदयस्थे यदि चन्द्रपुत्रे स्वोच्चं गते देवगुरौ नृपालः ॥२३॥

चन्द्रे वृषोदयगते यदि षड्भिरन्यैर्दृष्टेऽतिबाल्यवयसि क्षितिनायकः स्यात् ।
तुङ्गस्थितैकस्वचरे निजमित्रयातैरन्यैः समेति नरपालसमानभोग्यम् ॥२४॥

वर्गोत्तमे वा यदि पुष्करांशे सारेन्दुदेवेन्द्रगुरौ नृपालः ।
कर्मस्थिते शोभनदृष्तियुक्ते सम्पूर्णगात्रे शशिनि क्षितीशः ॥२५॥

गुरुसितयुतचन्द्रे चापगे चन्द्रसूनौ यदि तनुगृहयाते भूमिजे कन्यकायाम् ।
म्टॄगसुखभवनस्थे भानुपुत्रे नृपः स्यादतिशयबलयुक्तः सर्वभूपालपूज्यः ॥२६॥

कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैर्नृपालः ।
मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः ॥२७॥

मृगोदयस्थे यदि भुकुमारे कुलीरगे चन्द्रमसि क्षितीशः ।
धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः ॥२८॥

लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्रङ्य़देवगुरुद्टॄष्टियुते तु राजा ।
वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥२९॥

शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः ।
लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥३०॥

चापार्धं गतवान् सहन्नकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः ।
यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद्
दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥३१॥

उपचयगृहसंस्थो जन्मपो स्यस्य चन्द्रात्
शुभगृहनवांशे केन्द्रयाताश्च सौम्याः ।
सकलबलवियुक्ता ये च पापाभिधानाः
स भवति नरनाथः शक्रतुल्यो बलेन ॥३२॥

उच्चामिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।
स शास्ति पृथ्वी बहुरत्नपूर्णा बृहस्पतिः कर्कटकोपगश्चेत् ॥३३॥

स्वस्य त्रिकोणे रविरुच्चगोऽपि वा स्वस्वांशस्था रविशुक्रसोमजाः ।
तृतीयषष्ठमगा निशाकरात् कुर्वन्ति गोपालमिव क्षितीश्वरम् ॥३४॥

रविशाशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थैर्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।
स भवति नरपुत्रो भुपतिर्यत् प्रयणे गजमदजलसेकैः सिच्यते यस्य रेणुः ॥३५॥

क्षमासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरिक्षितः ।
भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥३६॥

भ्धोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले ।
वियद्रते भार्गवनन्दने ग्रहे प्रशास्ति पृठ्वीमगदो निराकुलः ॥३७॥

प्रधानबलसंयुक्तः सम्पूर्णः शशलाङ्छनः ।
एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥३८॥

देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।
करोति बहुधानाथं निर्जितारातिमण्डलम् ॥३९॥

लग्नेशे केन्द्रराशिस्थे कर्मेशे वृधिराशिगे ।
भाग्येशे लाभगे जातश्चिरञ्जिवी महीपतिः ॥४०॥

रविलुप्तकरः सौम्यः स्वस्थो मूलत्रिकोणगः ।
सर्वविद्याधिको राजा नेतरेषां स्वचारिणाम् ॥४१॥

अर्कङ्य़ौ सुखराशिश्थौ मन्देन्दू दशमस्थितौ ।
कुजोदये च सङ्जातो यदिराजा न संशयः ॥४२॥

दिवाकरोदये सिंहे शुक्रांशक्विवर्जिते ।
कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः ॥४३॥

मा(भा)नपुत्रोदयस्थौ वा मन्दावनिसुतौ यदि ।
पूर्णेन्दौ गुरुराशिस्थे जातो राजा भविष्यति ॥४४॥

बली विलग्नाधिपतिश्च केन्द्रे भूपालयोगं कुरुते नराणाम् ।
तन्मित्रदृष्टे यदि नीचवंशे जातोऽपि राजा नृपवन्दितो वा ॥४५॥

जन्माधिपः स्वोच्चगृहे मृगाङ्कं पश्यत्यवश्यं यदि भूमिपालः ।
गजादिसेनातुरगादिसङ्धैर्जितारिकोटिर्जगति प्रजातः ॥४६॥

लग्नं विहाय केन्द्रस्थे चन्द्रे पूर्णकलान्विते ।
गुरुभार्गवसन्दृष्टे जातो राजा भवेन्नरः ॥४७॥

लग्नेशे केन्द्रमावस्थे नीचमूढारिभं विना ।
नान्यग्रहयुक्ते राजा सार्वभौमो भविष्यति ॥४८॥

गुरुचन्द्रदिवानाथाः सुतविक्रमधर्मगः ।
जातो यदि महीपालः कुबेरसमवित्तवान् ॥४९॥

चापोदयस्थे बलिनि प्रभाकरे महीसुते कर्मगते सशीतगौ ।
उपान्त्यगे वा भृगुजे व्ययस्थिते सुरेन्द्रतुल्यो नृपतिः प्रजायते ॥५०॥

विक्रमायारिगाः पापा जन्मपः शुभवीक्षितः ।
राजा भवति तेजस्वी समस्तजनवन्दितः ॥५१॥

मृगोदयस्थे बलिनि क्षमासुते शनौतपःस्थानतेऽथवाऽन्त्यगे ।
देवाकरे सप्तमगे सशीतगौ महीपतिश्चङ्चलमानसो भवेत् ॥५२॥

लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि ।
जातो नृपकुले राजा तत्समो वा धनीभवेत् ॥५३॥

जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे
केन्द्रस्थाः शुभवर्गगा यदि शुभा वीर्यन्विता भूपतिः ।
जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः
शान्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥५४॥

विवाकरे मीनगृहोपयाते कुलीरलग्ने शशिनि क्षितीशः ।
अरातिनीचग्रहदृष्टियुक्ता भूपालयोगं न दिशन्ति सर्वे ॥५५॥

जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् ।
विवसुखमूढव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥५६॥

धनुर्मीनतुलामेषभृगकुम्भोदये शनौ ।
चार्वङ्गो नृपतिविद्वान् परुग्रामाप्रणिर्भवेत् ॥५७॥

स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।
शुभं सम्पूर्णपादोनदलपादालप्निष्फलम् ॥५८॥

अथ पङ्च महापुरुषयोगाः ।

मूलत्रिकोणनिजतुङ्गगृहोपगाता भौमङ्य़जीवसितभानुसुता बलिष्ठाः ।
केन्द्रस्थिता यदा रुचभद्रहंसमालव्यचारुशशयोगकरा भवन्ति ॥५९॥

अथ रुचक-योगफलम् ।

जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशीलान्वितः
शस्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः ।
लावण्यारुणकान्तिकोमलतनुस्त्यागी जीतारिर्धनी
सप्तत्यब्दमितायुषा सह सुखी सेनातुङ्गाधिपः ॥६०॥

धर्मेशलाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती ।
स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाभ्राज्यपतित्वमेति ॥६१॥

अथ भाद्रयोगफलम् ।

शारूउलप्रतिमाननो गजगातिः पीनोरुवक्षस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छयः ।
मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो
राजाऽशीतिभितायुरेति विपुलप्रङ्य़ायशोवित्तवान् ॥६२॥

अथ हंसयोगफलम् ।

रक्तास्योन्नतनासिकः सुचरणो हंसखरः श्लेष्मको
गौरङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी ।
शास्त्रङ्य़ानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी
जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥६३॥

अथ मालव्ययोगफलम् ।

स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी
तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः ।
उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः
सप्तत्यब्दमुपैति सप्तसहितं (७७) मालव्ययोगोद्भवः ॥६४॥

अथ शशयोगफलम् ।

भूपो वा सचिवो वनाच्लरतः सेनापतिः क्रूरधी-
र्घतोवार्दविनोदङ्चनपरो दाता सरोषेक्षणः ।
तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी
जातः सप्ततिरायुरेति शशके जारक्रियाशीलवान् ॥६५॥

गर्गहोरायाम् ।

यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः ।
अधियोगादियोगेषु स्वदशायां फलप्रदः ॥६६॥

अथ भास्करादियोगाः ।

भानोरर्थगते बुधे शशिसुताल्लाभस्थितश्चन्द्रमा-
श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः ।
शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रुपवान्
गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥६७॥

अथ चन्द्रयोगः ।

चन्द्राद्विक्रमगः कुजोऽवनिसुतादस्ते शनिः सूर्यजा-
दस्ते दैत्यगुतुः सितान्मदनगो जीवो यदीन्द्राह्वयः ।
स्यातस्तत्रभवः सशीलगुणवान् भूपोऽथवा तत्समो
वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥६८॥

अथ मरुद्योगः ।
शुक्रात् कोणगतो गुरुः सुरगुरोः पुत्र शशी शीतगोः
केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संङ्य़कः ।
वाग्मी वायुभवो विशालह्वदयः स्थूलोदरः शास्त्रवित्
सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥६९॥

अथ बुधयोगः ।

लग्नेङ्य़ो गुरुकेन्द्रगो हिमकरश्चन्द्रादहिर्वित्तगः
सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः ।
राजश्रीबुधयोगजोऽतुलप्रख्यातनामा विदुः
शास्त्रङ्य़ानकरक्रियासु चतुरो भीमानशत्रुर्भवेत् ॥७०॥

अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः ।

लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने ।
अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥७१॥

द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते ।
शीतांशोः सुनफायोगस्त्वनफानाम् कीर्तितः ॥७२॥

योगो धुरन्धुराख्यः स्याद्वीना सर्वत्र भास्करम् ।
एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥७३॥

चन्द्रे सभानौ यदि नीचदृष्टे पापांशके यादि दरिद्रयोगम् ।
क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥७४॥

विधुन्तुदादिग्रहपीडितेन्तौ पापेक्षिते चाशु दरिद्रमेति ।
लग्नाचतुष्केन्द्रगृहे सपापे निशाकराद्वाऽशु दरिद्रमेति ॥७५॥

चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राह्वादिपीडिततनौ तु दरिद्र एव ।
नीचारिवीक्षणयुते रिपुराशिवर्गे चन्द्रे तुलाधरगते तु तथा वदन्ति ॥७६॥

केन्द्रे वा यदि कोणगे हिमकरे नीचारिवर्गस्थिते
चन्द्रादन्त्यसपत्नरन्ध्रगृहगे जीवे दरिद्रो भवेत् ।
पापांशे रिपुवीक्षिते चरगृहे चन्द्रे चरांशेऽथवा
जातो याति दरिद्रयोगमतुलं देवेज्यदृग्वर्जिते ॥७७॥

अन्योन्यदृष्तौ शनिदानवेज्यौ नीचारिपापग्रहवर्गयातौ ।
एकर्क्षगौ वा यदि राजवंशे जातोऽपि लेमद्रुमयोगमेति ॥७८॥

चन्द्रे पापयुते तु पापभवने पापाम्शके वा निशि
व्योमेशेन निरिक्षिते गतबले केमद्रुयोगो भवेत् ।
भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा
चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥७९॥

अथ केमद्रुमयोगापवादः ।

निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः ।
शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥८०॥

चन्द्रेऽतिमित्रनिजतुङ्गांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः ।
चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरोद्रतया विहीनः ॥८१॥

योगे केमद्रुमे प्राप्ते यस्मिन् कस्मिश्च जातके ।
राजयोगा विनश्यन्ति हरिं द्टॄष्वा यथा द्विपाः ॥८२॥

होरायाम् ।

हित्वाऽर्कं सुनफाऽनफादुरुधुरा स्वान्त्योभयत्थैर्ग्रहः
शीतांशोः कथितोऽन्यथा तु बलिभिः केमद्रुमोऽन्यैस्त्वसौ ।
केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेष्यते
केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिप्रसिद्धा न ते ॥८३॥

अथ सुनफादियोगफलम् ।

स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च ।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिविषयसुखसुवेषो निर्वृतश्चानफायाम् ॥८४॥

दत्पङ्गभोगसुख भाग्धनवाहनाच्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः ।
केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥८५॥

अथ कुजादिकृतसुनफायोगफलानि ।

जातश्च भूपतिश्चण्डो हिंस्त्रो हिम्भः सुधीरधीः ।
धनविक्रमवान् कोपी चन्द्राद्धनगते कुजे ॥८६॥

वेदशास्त्रकलागेयकुशलः सुशरीरवान् ।
मनस्वी हितवाग् धर्मी चन्द्राद्वित्तगते बुधे ॥८७॥

सर्वविद्याधिकः श्रीमान् कुटुम्बी नृपल्लभः ।
राजतुल्यशस्त्री च चद्रात्वित्तगते गुरौ ॥८८॥

विक्रमस्त्रीधनक्षेत्रकर्मवान् बहुवित्तवान् ।
च्तुष्पदाढ्या राजस्त्रीः सिते चद्रात् कुतुम्बगे ॥८९॥

पुरग्रामस्थिताशेषैः पूजितो धनवान् सुधिः ।
निपुणः सर्वकार्येषु चन्द्राद्वित्तगते शनौ ॥९०॥

अथ कुजादिग्रहकृतानफयोगफलानि ।

मानी रणोत्सुकः क्रोधी धृष्टश्चोरजनप्रभुः ।
धीरः स्वतनुलोभी स्याच्चन्द्रादन्त्यगते कुजे ॥९१॥

गान्धर्वलेख्यपटुवाक् कविर्वक्ता सुदेहवान् ।
यशःस्वी राजपूज्यः स्यात् चन्द्राद्व्ययगते बुधे ॥९२॥

राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् ।
शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥९३॥

युवतीजनकदर्पुः पश्चादिधनवान् सुधीः ।
धन्धान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥९४॥

विस्तीर्णबाहुर्गुणवान् नेता पश्चादिवित्तवान् ।
गृहीतवाक्यो दुस्त्रीकश्चन्द्रादन्त्यङ्गते शनौ ॥९५॥

अथ दुरन्धरयोगफलानि ।

असत्यवादी गुणवान् बिपुणोऽतिषठो गुणी ।
लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥९६॥

स्वकर्मविभवो दृष्टो यशस्वी रिपिपीडितः ।
स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥९७॥

व्यायानी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् ।
भयादशीलः  शीतांशौ मध्यगे कुजशुक्रयोः ॥९८॥

कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् ।
असन्तृप्तो निशानाथे मध्यगे कुजमदयोः ॥९९॥

धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः ।
यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥१००॥

नृत्य्गानरतः कान्तः प्रियवाक् शुभगः सुधिः ।
शूर्प्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥१०१॥

देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः ।
स्वबन्धुजनविद्वेषी चन्द्रे मन्दङ्य़मध्यगे ॥१०२॥

नृपतुल्यकरः श्रीमान् नीतिङ्य़ो विक्रमान्वितः ।
ख्यारोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥१०३॥

सुखी विनयविङ्य़ानविद्यारूपगुणान्वितः ।
धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥१०४॥

वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः ।
धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥१०५॥

अवोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं युदक्तम् ।
स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्थैव फलमस्ति पराशरद्याः ॥१०६॥

चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्रादहिर्वा यदि रिःफयातः ।
नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरार्याः ॥१०७॥

अथ शकटयोगः ।

षष्ठामगतश्चन्द्रात्सुरराजपुरोहितः ।
केन्द्रादन्यगतो लग्नाद्योगः शकटसंङ्य़ितः ॥१०८॥

अपि राजकुले जातो निःस्वः शकटयोगजः ।
क्लेशायासवशान्नित्यं सन्टप्तो नृपविप्रयः ॥१०९॥

अथ पारिजातादियोगफलानि ।

सपारिजारद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः ।
सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥११०॥

करोति पारावतभागयुक्तो विद्यायशःशीविपुलं नराणाम् ।
सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ॥१११॥

अथ अधमादि योगः ।

अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे
शशिनि विनयवित्तङ्य़ानधीनैपुणानि ।
अहनि निशि च चन्द्रे स्वाधिमित्रंशके वा
सुर्गुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥११२॥

अथ चन्द्राधियोगा ।

सौम्यैः स्मरारिनिधनेष्वधियोग इन्द्रोस्तस्मिश्चमूपसचिवक्षितिपालजन्म ।
सम्पत्तिसौम्ख्यविभवा हतशत्रवश्च दीर्घयुषो विगतरेगभयाश्च जाताः ॥११३॥

अथ लग्नाधियोगः ।

लग्नादरिद्यूनगृहाष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः ।
लग्नाधियोगो भवति प्रसिद्धिः पापः सुखस्थानविवर्जितैश्च ॥११४॥

लग्नाधियोगो बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी ।
मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥११५॥

अथ गजकेसरीयोगः ।

केन्द्रस्थिते देवगुरौ मृगाङ्कायोगस्तदाहुर्गज्केसरीति ।
दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥११६॥

गजकेसरिसङ्जातस्तेजस्वी धनधान्यवान् ।
मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥११७॥

अथ अमलायोगः ।

यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः ।
तस्य कीर्तिरमला भुवि तिष्ठोदायुषोऽन्तमविनाशनसम्पत् ॥११८॥

लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते ।
योगोऽयमभला नाम कीर्तिराचन्द्रतारकी ॥११९॥

राजपूज्यो महाभोगी दाता बन्धुजनप्रियः ।
परोपकारी गुणवान् अमलायोगसम्भवः ॥१२०॥

अथ वास्यादियोगाः ।

व्ययधनयुतखेटैर्वासिवेवेशी दिनेशादुभयचरिकयोगश्चोभयस्थानसंस्थैः ।
निजगृहसुहृदुचस्थानयातैश्च जाता बहुधनसुखयुक्ता राजतुल्या भवन्ति ॥१२१॥

वास्यादियोगफलानि ।

जातः सुशीलः शुभवेसियोगे वाग्मी धनी वीतभयो जितारिः ।
पापग्रहे दुष्टजनानुरक्तः पापार्मकरो वित्तसुखादिहीनः ॥१२२॥

वासौ शुभग्रहयुते निपुणः प्रदाता विद्याविनोदसुखवित्तयशोबलाढ्यः ।
पापान्विते यदि विदेशगतोऽतिमूर्खः कामातुरो वधरुचिर्विकृताननः स्यात् ॥१२३॥

सौम्यान्वितोभयचरीप्रभवा नरेन्द्रास्तत्तुल्यवित्तसुखशीलदयानुरक्ताः ।
पापान्वितोभयचरौ यदि पापकृत्या रोगाभिभूतपरकर्मरता दरिद्राः ॥१२४॥

अथ शुभादियोगाः ।

शुभाशुभाढ्ये यदि जन्मलग्ने शुभाशुभाख्यौ भवतस्तदानीम् ।
व्ययस्वगैः पापशुभैर्विलग्नात् पापाल्ह्यसौम्यग्रहकर्त्तरी च ॥१२५॥

शुभयोगभवो वाग्मी रूपशीलगुणान्वितः ।
पापयोगोद्भवः कामी पापकर्मा परार्थभुक् ॥१२६॥

शुभकर्तरिसङ्जातस्तेजोवित्तबलाधिकः ।
पापकर्तरिके पापी भिक्षाशी मलिनो भवेत् ॥१२७॥

अथ पर्वतयोगः ।

सौम्येषु केन्द्रगृहगेषु सपत्नरन्ध्रे शुद्धे,अथवा शुभयुते यदि पर्वतः स्यात् ।
लग्नान्त्यपौ यदि परस्परकेन्द्रयातौ मित्रेक्षितौ भवति पर्वतनाम योगः ॥१२८॥

भाग्यान्वितः पर्वतयोगजातो विद्याविनोदाभिरतः प्रदाता ।
कामी परस्त्रीजनकेलिलोलस्तेजोयशस्वी पुरनायकः स्यात् ॥१२९॥

अथ काहलयोगः ।

अन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बलयुते यदि काहलः स्यात् ।
कर्मेश्वरेण सहिते तु विलोकिते वा स्वोच्चस्वके सुखपतौ यदि ताद्दशः स्यात् ॥१३०॥

ओजस्वी साहसी मूर्खश्चतुरङ्गबलैर्युतः ।
यत्किङ्चिद्ग्रामनाथस्तु जातः स्यात् काहले नरः ॥१३१॥

अथ मालिकायोगः ।

लग्नादिसप्तगृहगा यदि सप्त खेटा जातो महीपतिरनेकगजाश्वनाथः ।
वित्तादिगो निधिपतिः पितृभक्तियुक्तो धीरोऽग्नरूपगुणवान् नरचक्रवर्ती ॥१३२॥

जातो चदा विक्रममालिकायां भूपः स शूरो धनीकश्च रोगी ।
सुखदिकषेद् बहुदेशभाम्यभोगी महादानपरो महीपः ॥१३३॥

पुत्राथा यदि मालिका नरपतिर्यन्वाऽथका कीर्तिमान् ।
लातः चष्ठगृहात् कचिद् धनसुखप्राप्तो दरिद्रो भवेत् ।
कामादिग्रहमालिका यदि बहुस्त्रीयङ्य़भो भूपतिः ।
दीर्घर्धनवर्जितो नरवरस्त्रीनिर्जितश्चाष्टमान् ॥१३४॥

धर्मादिग्रहमालिका गुणनिधिर्यज्वा तपस्वी विभुः ।
कर्माद्या यदि धर्मकर्मनिरतः सम्पूजितः सज्जनैः ।
लाभाद्राजवराङ्गनामनिपतिः सर्वक्रियादक्षको ।
जातो रिःफगृहाद्बहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥१३५॥

अथ चामरयोगः ।

लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम् योगः ।
सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥१३६॥

योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः ।
सर्वङ्य़ः स्वाद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥१३७॥

अथ शङ्कयोगः ।

अन्योन्यकेद्न्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्कयोगः ।
लग्नाधिपे च गगनाधिपतौ चरस्थे भाम्याधिपे बलयुते तु तया वदन्ति ॥१३८॥

श॥ए जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा ।
शास्त्रङ्य़ानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणाभशीतिः ॥१३९॥

अथ भेरीयोगः ।

स्वान्त्योदयास्तभवनेषु वियचरेषु कर्माधिपे बलयुते यदि भेरियोगः ।
केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥१४०॥

दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धः ।
आचारभुरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥१४१॥

अथ् मृदङ्गयोगः ।

उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये ।
लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरुपनृपतुल्ययशःप्रदः स्यात् ॥१४२॥

अथ श्रीन्नाथयोगः ।

कामेश्वरे कर्मगते स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च ।
श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥१४३॥

अथ शारदयोगः ।

योगः शारदसंङ्य़कः सुतगते कर्माधिपे चन्द्रजे
केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ।
चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे
लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंङ्य़कः ॥१४४॥

स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्तः ।
विद्याविदोदरतिशीलतपोबलाढ्या जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥१४५॥

अथ मत्स्ययोगः ।

लग्नधर्मगते पापे पङ्चमे सदसद्युते ।
चतुरस्त्रं गते पापे योगोऽयं मत्स्यसंङ्य़कः ॥१४६॥

कालङ्य़ः करुणासिन्धुर्गुणधीबलरुपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥१४७॥

अथ कुर्मयोगः ।

कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रांशकराशियाताः ।
तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥१४८॥

विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः ।
धीरः सुखा वागुपकारकर्ता कुर्मोद्भवो मानवनायको वा ॥१४९॥

अथ खाङ्गयोगः ।

भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
लग्नेशे केन्द्रकोणस्थे खङ्गयोग इतीरितः ॥१५०॥

वेदार्यशास्त्रनिखिलागमतत्त्वयुक्तिभ्द्धिप्रतापबलवीर्यसुखानुरक्ताः ।
निर्मत्सराश्च निजवीर्यमहानुभावाः खङ्गे भवन्ति पुरुषाः कुशलाः कृतङ्य़ाः ॥१५१॥

अथ लक्ष्मीयोगः ।

केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे ।
कग्नाधिपे बलाढ्ये च लक्ष्मीयोग इतीरितः ॥१५२॥

गुणाभिराभो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः ।
दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥१५३॥

अथ कुसुमयोगः ।

स्थिरलग्ने भृगौ केन्द्रे त्रिकोणेन्दौ शुभेतरे ।
मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥१५४॥

दाता महीमण्डलणथवन्द्यो भोगी महावंशजराजमुख्यः ।
लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥१५५॥

अथ पारिजातयोगः ।

विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि तदंशनाधः ।
केन्द्रत्रिकोणोपगतए यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥१५६॥

मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवार्जितयुक्तः ।
स्वकर्मधर्माभिरतो दयालुर्योगो स्याद्यदि पारिजातः ॥१५७॥

अथ कलानिधियोगः ।

द्वितीये पङ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥१५८॥

कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः ।
सेनातुरङ्गमदवारणशङ्खभेरीवाद्यान्वितो विगतरेगभयारिसङ्घः ॥१५९॥

अथ अंशावतारयोगः ।

केन्द्रगौ सितदेवेज्यौ स्वोचे केन्द्रगतेऽर्कजे ।
चरलग्ने यदा जन्म योगोऽयभवतारजः ॥१६०॥

पुण्यश्लोकस्तीर्थचारी कलाङ्य़ः कामासक्तः कालकर्ता जितात्मा ।
वेदान्तङ्य़ो वेदशास्त्रधिकारी जातो राजश्रीधरोऽंशावतारे ॥१६१॥

अथ हरि-हर-विवियोगाः ।

वित्तेशाद्भनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः
कामेशात् सुखभाग्यरन्ध्रगृहगा जीवाआब्जचन्द्रात्मजाः ।
देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः
प्रोक्तास्तत्र पुरातनैर्हरिहरव्रह्माख्ययोगा इमे ॥१६२॥

निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः ।
जितरिपुकुलसङ्धः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा ॥१६३॥

अथ नाभसयोगः ।

यूपेषुशक्तियवदण्डगदासमुद्रच्छत्रार्द्धचन्द्रशकटाम्बुजपक्षियोगाः ।
नौचक्रवज्नहलकार्मुककूटवापीशृन्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥१६४॥

रब्जुर्नलश्च मुसलस्त्रित यास्रयाख्याः स्रग्भोगिनौ तु दलयोगभवौ भवेताम् ।
वीणादयश्च कथिता दरदामपाशकेदारशूलयुगगोलकसप्तसङ्ख्याः ॥१६५॥

होरायाम् ।

रब्जुर्मुसलं नल चराद्यैः सस्यस्त्वाश्चयजान् जगाद् योगान् ।
केन्द्रैः सदसद्युतैर्दवाख्यौ स्वक्सर्पौ कथितौ पराशरेण ॥१६६॥

योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवश्राण्डजगोलकाद्यैः ।
केन्द्रोपगप्रोक्तफलौ दलाख्यावित्यहुरन्ये न पृथक् फलौ तौ ॥१६७॥

इदानी गदाशकटविहगश्रृन्गाटकहलान् पञ्च योगानाह ।

आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः स्वबन्ध्वोः ।
श्टॄङ्गटकं नवमपङ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ङ्य़ाः ॥१६८॥

शकटाण्डजवच्छुभाशुभैर्वज्नन्तद्विपरीतगैर्यवः ।
कमलं तु विमिश्रसंस्थतैर्वापी तद्यादि केन्द्रबाह्यतः ॥१६९॥

कण्टकादिप्रवृत्तैश्च वतुर्गृहगतैर्ग्रहैः ।
यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥१७०॥

नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः ।
अर्धचन्द्रस्तु होराद्यैः प्रोक्तादन्यर्क्षसंस्थितैः ॥१७१॥

एकान्तरगतैरर्थात्समुद्रः षड्गृहाश्रितैः ।
विलग्नादिस्थितैश्चक्रभित्याकृतिजसङ्ग्रहः ॥१७२॥

सङ्ग्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायद्वल्लकीदामपाशाः ।
केदाराख्यः शूलयोगो बुगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥१७३॥

अथ आश्रयदलयोगफलम् ।

ईर्ष्युविदेशनिरतोऽध्वरतश्च रज्जवाम् मानी धनी च मुसले बहुभृत्यसक्तः ।
व्यङ्गः स्थिराढ्यनिपुणो नलजः स्नगुत्थो भोगान्वितो भजगतो बहुदुःखभाजः ॥१७४॥

अथ गदादियोगफलम् ।

यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां तद्वृत्तिभुक् शकतः सरुजः कुदारः ।
दूतोऽटनः कलकृद्विहगे प्रदिष्टः, शृण्गाटके चिरसुखी कृषकृद्धलाख्ये ॥१७५॥

वज्नेऽन्त्यपूर्वसुखितः सुभगोऽतिशूरः, शौचान्वितोऽपि च यत्रे सुखितो वयोऽन्तः
विख्यातकीर्त्यमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥१७६॥

त्यागात्मवान् क्रतुरैर्यजते च यूपे हिंस्रोऽथ गुप्त्याधिकृतः शरकृच्छराख्ये ।
नीचोऽलसः सुखधनैर्वियुतश्च शल्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्त्यवृत्तिः ॥१७७॥

क्षत्रे चाद्यन्तसौख्यातुलधनबलवान् नौभस्तोयजीवी
चक्रे राजा यशस्वी जलाधिभवनरस्तोयवृत्तिः क्षितीशः ।
अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे
चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥१७८॥

वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो-
दामिह्यामुपकारकृत्पटुमतिः प्रख्यातविद्याधनी ।
पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान्
केदारे कृषिवित्तवानलसदीर्बन्धूपकारी भवेत् ॥१७९॥

शूले कोपरत्तन्वितो धनरुचिः शूरः क्षतो निर्धनी
भिक्षाशी युगयोगजोऽतिचपलः पापण्डको मद्यपः ।
गोले निर्द्वनकोऽलसोऽटनपरः स्वल्पायुरङ्य़ानधी-
द्वत्रिंशन् कथिता वराहमिहिराचार्येण योगा इये ॥१८०॥

भूपालयोगरुचपङ्चकभास्कराद्याः केमद्रुमाधमसनग्रहमालिकाश्च ।
लक्ष्मीहरीशविधिकाहलनाभसद्याः सूर्यादिदेवकृपया परिकीर्तितास्ते ॥१८१॥

इति श्रीवैद्यनाथदैवङ्य़विरचिते जातकपारिजाते राजयोगासये सप्तमेऽध्याये ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:06.9830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थक

  • उद्गा . गुरे हांकण्याचा शब्द . गाय निघाली खाऊं साळी । थै , थै म्हणतां ओढाळी । - कथा २ . १० . ११३ . [ ध्व . ] म्ह ० थैक म्हणतां ब्रह्महत्या = क्षुल्लक गोष्टीचा भयंकर परिणाम होणे . 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site