TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथर्ववेदः - काण्डं १२

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


काण्डं १२
१२,१।१अ - सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
१२,१।१च् - सा नो भूतस्य भव्यस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोतु ॥१॥

१२,१।२अ - असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
१२,१।२च् - नानावीर्या ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥

१२,१।३अ - यस्यां समुद्र उत सिन्धुर् आपो यस्याम् अन्नं कृष्टयः संबभूवुः ।
१२,१।३च् - यस्याम् इदं जिन्वति प्राणद् एजत् सा नो भूमिः पूर्वपेये दधातु ॥३॥

१२,१।४अ - यस्याश् चतस्रः प्रदिशः पृथिव्या यस्याम् अन्नम् कृष्टयः संबभूवुः ।
१२,१।४च् - या बिभर्ति बहुधा प्राणद् एजत् सा नो भूमिर् गोष्व् अप्य् अन्ने दधातु ॥४॥

१२,१।५अ - यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
१२,१।५च् - गवाम् अश्वानां वयसश् च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥

१२,१।६अ - विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
१२,१।६च् - वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्रऋषभा द्रविणे नो दधातु ॥६॥

१२,१।७अ - यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् ।
१२,१।७च् - सा नो मधु प्रियं दुहाम् अथो उक्षतु वर्चसा ॥७॥

१२,१।८अ - यार्णवे 'धि सलिलम् अग्र आसीत् यां मायाभिर् अन्वचरन् मनीषिणः ।
१२,१।८च् - यस्या हृदयं परमे व्योमन्त् सत्येनावृतम् अमृतं पृथिव्याः ।
१२,१।८ए - सा नो भूमिस् त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥

१२,१।९अ - यस्याम् आपः परिचराः समानीर् अहोरात्रे अप्रमादं क्षरन्ति ।
१२,१।९च् - सा नो भूमिर् भूरिधारा पयो दुहाम् अथो उक्षतु वर्चसा ॥९॥

१२,१।१०अ - याम् अश्विनाव् अमिमातां विष्णुर् यस्यां विचक्रमे ।
१२,१।१०च् - इन्द्रो यां चक्र आत्मने 'नमित्रां शचीपतिः ।
१२,१।१०ए - सा नो भूमिर् वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}

१२,१।११अ - गिरयस् ते पर्वता हिमवन्तो 'रण्यं ते पृथिवि स्योनम् अस्तु ।
१२,१।११च् - बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीम् इन्द्रगुप्ताम् ।
१२,१।११ए - अजीतो 'हतो अक्षतो 'ध्य् अष्ठाम् पृथिवीम् अहम् ॥११॥

१२,१।१२अ - यत् ते मध्यं पृथिवि यच् च नभ्यं यास् त ऊर्जस् तन्वः संबभूवुः ।
१२,१।१२च् - तासु नो धेह्य् अभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥

१२,१।१३अ - यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
१२,१।१३च् - यस्यां मीयन्ते स्वरवः पृथिव्याम् ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात् ।
१२,१।१३ए - सा नो भूमिर् वर्धयद् वर्धमाना ॥१३॥

१२,१।१४अ - यो नो द्वेषत् पृथिवि यः पृतन्याद् यो 'भिदासान् मनसा यो वधेन ।
१२,१।१४च् - तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥

१२,१।१५अ - त्वज् जातास् त्वयि चरन्ति मर्त्यास् त्वं बिभर्षि द्विपदस् त्वं चतुष्पदः ।
१२,१।१५च् - तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिर् अमृतं मर्त्येभ्य उद्यन्त् सूर्यो रश्मिभिर् आतनोति ॥१५॥

१२,१।१६अ - ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥

१२,१।१७अ - विश्वस्वं मातरम् ओषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
१२,१।१७च् - शिवां स्योनाम् अनु चरेम विश्वहा ॥१७॥

१२,१।१८अ - महत् सधस्थं महती बभूविथ महान् वेग एजथुर् वेपथुष् टे ।
१२,१।१८च् - महांस् त्वेन्द्रो रक्षत्य् अप्रमादम् ।
१२,१।१८ए - सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश् चन ॥१८॥

१२,१।१९अ - अग्निर् भूम्याम् ओषधीष्व् अग्निम् आपो बिभ्रत्य् अग्निर् अश्मसु ।
१२,१।१९च् - अग्निर् अन्तः पुरुषेषु गोष्व् अश्वेष्व् अग्नयः ॥१९॥

१२,१।२०अ - अग्निर् दिव आ तपत्य् अग्नेर् देवस्योर्व् अन्तरिक्षम् ।
१२,१।२०च् - अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}

१२,१।२१अ - अग्निवासाः पृथिव्य् असितज्ञूस् त्विषीमन्तं संशितं मा कृणोतु ॥२१॥

१२,१।२२अ - भूम्यां देवेभ्यो ददति यज्ञं हव्यम् अरंकृतम् ।
१२,१।२२च् - भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
१२,१।२२ए - सा नो भूमिः प्राणम् आयुर् दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥

१२,१।२३अ - यस् ते गन्धः पृथिवि संबभूव यं बिभ्रत्य् ओषधयो यम् आपः ।
१२,१।२३च् - यं गन्धर्वा अप्सरसश् च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ॥२३॥

१२,१।२४अ - यस् ते गन्धः पुष्करम् आविवेश यं संजभ्रुः सूर्याया विवाहे ।
१२,१।२४च् - अमर्त्याः पृथिवि गन्धम् अग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ॥२४॥

१२,१।२५अ - यस् ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
१२,१।२५च् - यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
१२,१।२५ए - कन्यायां वर्चो यद् भूमे तेनास्मां अपि सं सृज मा नो द्विक्षत कश् चन ॥२५॥

१२,१।२६अ - शिला भूमिर् अश्मा पांसुः सा भूमिः संधृता धृता ।
१२,१।२६च् - तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥

१२,१।२७अ - यस्यां वृक्षा वानस्पत्या ध्रुवास् तिष्ठन्ति विश्वहा ।
१२,१।२७च् - पृथिवीं विश्वधायसं धृताम् अछावदामसि ॥२७॥

१२,१।२८अ - उदीराणा उतासीनास् तिष्ठन्तः प्रक्रामन्तः ।
१२,१।२८च् - पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥

१२,१।२९अ - विमृग्वरीं पृथिवीम् आ वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
१२,१।२९च् - ऊर्जं पुष्टं बिभ्रतीम् अन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥

१२,१।३०अ - शुद्धा न आपस् तन्वे क्षरन्तु यो नः सेदुर् अप्रिये तं नि दध्मः ।
१२,१।३०च् - पवित्रेण पृथिवि मोत् पुनामि ॥३०॥ {३}

१२,१।३१अ - यास् ते प्राचीः प्रदिशो या उदीचीर् यास् ते भूमे अधराद् याश् च पश्चात् ।
१२,१।३१च् - स्योनास् ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥

१२,१।३२अ - मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तराद् अधराद् उत ।
१२,१।३२च् - स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥

१२,१।३३अ - यावत् ते 'भि विपश्यामि भूमे सूर्येण मेदिना ।
१२,१।३३च् - तावन् मे चक्षुर् मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥

१२,१।३४अ - यच् छयानः पर्यावर्ते दक्षिणं सख्यम् अभि भूमे पार्श्वम् उत्तानास् त्वा प्रतीचीं यत् पृष्टीभिर् अधिशेमहे ।
१२,१।३४च् - मा हिंसीस् तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥

१२,१।३५अ - यत् ते भूमे विखनामि क्षिप्रं तद् अपि रोहतु ।
१२,१।३५च् - मा ते मर्म विमृग्वरि मा ते हृदयम् अर्पिपम् ॥३५॥

१२,१।३६अ - ग्रीष्मस् ते भूमे वर्षाणि शरद् धेमन्तः शिशिरो वसन्तः ।
१२,१।३६च् - ऋतवस् ते विहिता हायनीर् अहोरात्रे पृथिवि नो दुहाताम् ॥३६॥

१२,१।३७अ - याप सर्पं विजमाना विमृग्वरी यस्याम् आसन्न् अग्नयो ये अप्स्व् अन्तः ।
१२,१।३७च् - परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रम् शक्राय दध्रे वृषभाय वृष्णे ॥३७॥

१२,१।३८अ - यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
१२,१।३८च् - ब्रह्माणो यस्याम् अर्चन्त्य् ऋग्भिः साम्ना यजुर्विदः युज्यन्ते यस्याम् ऋत्विजः सोमम् इन्द्राय पातवे ॥३८॥

१२,१।३९अ - यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
१२,१।३९च् - सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥

१२,१।४०अ - सा नो भूमिर् आ दिशतु यद् धनं कामयामहे ।
१२,१।४०च् - भगो अनुप्रयुङ्क्ताम् इन्द्र एतु पुरोगवः ॥४०॥ {४}

१२,१।४१अ - यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
१२,१।४१च् - युध्यन्ते यस्याम् आक्रन्दो यस्याम् वदति दुन्दुभिः ।
१२,१।४१ए - सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥

१२,१।४२अ - यस्याम् अन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
१२,१।४२च् - भूम्यै पर्जन्यपत्न्यै नमो 'स्तु वर्षमेदसे ॥४२॥

१२,१।४३अ - यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।
१२,१।४३च् - प्रजापतिः पृथिवीं विश्वगर्भाम् आशामाशां रण्यां नः कृणोतु ॥४३॥

१२,१।४४अ - निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
१२,१।४४च् - वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥

१२,१।४५अ - जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
१२,१।४५च् - सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुर् अनपस्फुरन्ती ॥४५॥

१२,१।४६अ - यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
१२,१।४६च् - क्रिमिर् जिन्वत् पृथिवि यद्यद् एजति प्रावृषि तन् नः सर्पन् मोप सृपद् यच् छिवं तेन नो मृढ ॥४६॥

१२,१।४७अ - ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश् च यातवे ।
१२,१।४७च् - यैः संचरन्त्य् उभये भद्रपापास् तं पन्थानं जयेमानमित्रम् अतस्करं यच् छिवं तेन नो मृढ ॥४७॥

१२,१।४८अ - मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः ।
१२,१।४८च् - वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥

१२,१।४९अ - ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश् चरन्ति ।
१२,१।४९च् - उलं वृकं पृथिवि दुछुनाम् इत ऋक्षीकां रक्षो अप बाधयास्मत् ॥४९॥

१२,१।५०अ - ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
१२,१।५०च् - पिशाचान्त् सर्वा रक्षांसि तान् अस्मद् भूमे यावय ॥५०॥ {५}

१२,१।५१अ - यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
१२,१।५१च् - यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश् च्यावयंश् च वृक्षान् ।
१२,१।५१ए - वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिः ॥५१॥

१२,१।५२अ - यस्यां कृष्णम् अरुणं च संहिते अहोरात्रे विहिते भूम्याम् अधि ।
१२,१।५२च् - वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥

१२,१।५३अ - द्यौश् च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
१२,१।५३च् - अग्निः सूर्य आपो मेधां विश्वे देवाश् च सं ददुः ॥५३॥

१२,१।५४अ - अहम् अस्मि सहमान उत्तरो नाम भूम्याम् ।
१२,१।५४च् - अभीषाढ् अस्मि विश्वाषाढ् आशामाशां विषासहिः ॥५४॥

१२,१।५५अ - अदो यद् देवि प्रथमाना पुरस्ताद् देवैर् उक्ता व्यसर्पो महित्वम् ।
१२,१।५५च् - आ त्वा सुभूतम् अविशत् तदानीम् अकल्पयथाः प्रदिशश् चतस्रः ॥५५॥

१२,१।५६अ - ये ग्रामा यद् अरण्यं याः सभा अधि भूम्याम् ।
१२,१।५६च् - ये संग्रामाः समितयस् तेषु चारु वदेम ते ॥५६॥

१२,१।५७अ - अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं याद् अजायत ।
१२,१।५७च् - मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिर् ओषधीनाम् ॥५७॥

१२,१।५८अ - यद् वदामि मधुमत् तद् वदामि यद् ईक्षे तद् वनन्ति मा ।
१२,१।५८च् - त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥

१२,१।५९अ - शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।
१२,१।५९च् - भूमिर् अधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥

१२,१।६०अ - याम् अन्वैछद् धविषा विश्वकर्मान्तर् अर्णवे रजसि प्रविष्टाम् ।
१२,१।६०च् - भुजिष्यं पात्रं निहितं गुहा यद् आविर् भोगे अभवन् मातृमद्भ्यः ॥६०॥

१२,१।६१अ - त्वम् अस्य् आवपनी जनानाम् अदितिः कामदुघा पप्रथाना ।
१२,१।६१च् - यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥

१२,१।६२अ - उपस्थास् ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।
१२,१।६२च् - दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥

१२,१।६३अ - भूमे मातर् नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
१२,१।६३च् - संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}


१२,२।१अ - नढम् आ रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
१२,२।१च् - यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस् तेन त्वं साकम् अधराङ् परेहि ॥१॥

१२,२।२अ - अघशंसदुःशंसाभ्यां करेणानुकरेण च ।
१२,२।२च् - यक्ष्मं च सर्वं तेनेतो मृत्युं च निर् अजामसि ॥२॥

१२,२।३अ - निर् इतो मृत्युं निरृतिं निर् अरातिम् अजामसि ।
१२,२।३च् - यो नो द्वेष्टि तम् अद्ध्य् अग्ने अक्रव्याद् यम् उ द्विष्मस् तम् उ ते प्र सुवामसि ॥३॥

१२,२।४अ - यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।
१२,२।४च् - तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्व् अप्सुषदो 'प्य् अग्नीन् ॥४॥

१२,२।५अ - यत् त्वा क्रुद्धाः प्रचक्रुर् मन्युना पुरुषे मृते ।
१२,२।५च् - सुकल्पम् अग्ने तत् त्वया पुनस् त्वोद् दीपयामसि ॥५॥

१२,२।६अ - पुनस् त्वादित्या रुद्रा वसवः पुनर् ब्रह्मा वसुनीतिर् अग्ने ।
१२,२।६च् - पुनस् त्वा ब्रह्मणस् पतिर् आधाद् दीर्घायुत्वाय शतशारदाय ॥६॥
१२,२।७अ - यो अग्निः क्रव्यात् प्रविवेश नो गृहम् इमं पश्यन्न् इतरं जातवेदसम् ।
१२,२।७च् - तं हरामि पितृयज्ञाय दूरं स घर्मम् इन्धां परमे सधस्थे ॥७॥

१२,२।८अ - क्रव्यादम् अग्निं प्र हिणोमि दूरम् यमराज्ञो गछतु रिप्रवाहः ।
१२,२।८च् - इहायम् इतरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥

१२,२।९अ - क्रव्यादम् अग्निम् इषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
१२,२।९च् - नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके 'पि भागो अस्तु ॥९॥

१२,२।१०अ - क्रव्यादम् अग्निं शशमानम् उक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।
१२,२।१०च् - मा देवयानैः पुनर् आ गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७}

१२,२।११अ - सम् इन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
१२,२।११च् - जहाति रिप्रम् अत्य् एन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥

१२,२।१२अ - देवो अग्निः संकसुको दिवस् पृष्ठान्य् आरुहत् ।
१२,२।१२च् - मुच्यमानो निर् एणसो 'मोग् अस्मां अशस्त्याः ॥१२॥

१२,२।१३अ - अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
१२,२।१३च् - अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥१३॥

१२,२।१४अ - संकसुको विकसुको निरृथो यश् च निस्वरः ।
१२,२।१४च् - ते ते यक्ष्मं सवेदसो दूराद् दूरम् अनीनशन् ॥१४॥

१२,२।१५अ - यो नो अश्वेषु वीरेषु यो नो गोष्व् अजाविषु ।
१२,२।१५च् - क्रव्यादं निर् णुदामसि यो अग्निर् जनयोपनः ॥१५॥

१२,२।१६अ - अन्येभ्यस् त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस् त्वा ।
१२,२।१६च् - निः क्रव्यादं नुदामसि यो अग्निर् जीवितयोपनः ॥१६॥

१२,२।१७अ - यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
१२,२।१७च् - तस्मिन् घृतस्तावो मृष्ट्वा त्वम् अग्ने दिवं रुह ॥१७॥

१२,२।१८अ - समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
१२,२।१८च् - अत्रैव दीदिहि द्यवि ज्योक् च सूर्यं दृशे ॥१८॥

१२,२।१९अ - सीसे मृढ्ढ्ह्वं नढे मृढ्ढ्ह्वम् अग्नौ संकसुके च यत् ।
१२,२।१९च् - अथो अव्यां रामायां शीर्षक्तिम् उपबर्हणे ॥१९॥

१२,२।२०अ - सीसे मलं सादयित्वा शीर्षक्तिम् उपबर्हणे ।
१२,२।२०च् - अव्याम् असिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८}

१२,२।२१अ - परं मृत्यो अनु परेहि पन्थां यस् त एष इतरो देवयानात् ।
१२,२।२१च् - चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥

१२,२।२२अ - इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहुतिर् नो अद्य ।
१२,२।२२च् - प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथम् आ वदेम ॥२२॥

१२,२।२३अ - इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् ।
१२,२।२३च् - शतं जीवन्तः शरदः पुरूचीस् तिरो मृत्युं दधताम् पर्वतेन ॥२३॥

१२,२।२४अ - आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।
१२,२।२४च् - तान् वस् त्वष्टा सुजनिमा सजोषाः सर्वम् आयुर् नयतु जीवनाय ॥२४॥

१२,२।२५अ - यथाहान्य् अनुपूर्वं भवन्ति यथ र्तव ऋतुभिर् यन्ति साकम् ।
१२,२।२५च् - यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥२५॥

१२,२।२६अ - अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।
१२,२।२६च् - अत्रा जहीत ये असन् दुरेवा अनमीवान् उत् तरेमाभि वाजान् ॥२६॥

१२,२।२७अ - उत् तिष्ठता प्र तरता सखायो 'श्मन्वती नदी स्यन्दत इयम् ।
१२,२।२७च् - अत्रा जहीत ये असन्न् अशिवाः शिवान्त् स्योनान् उत् तरेमाभि वाजान् ॥२७॥

१२,२।२८अ - वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
१२,२।२८च् - अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥

१२,२।२९अ - उदीचीनैः पथिभिर् वायुमद्भिर् अतिक्रामन्तो 'वरान् परेभिः ।
१२,२।२९च् - त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्य् अउहन् पदयोपनेन ॥२९॥

१२,२।३०अ - मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
१२,२।३०च् - आसीना मृत्युं नुदता सधस्थे 'थ जीवासो विदथम् आ वदेम ॥३०॥ {९}

१२,२।३१अ - इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
१२,२।३१च् - अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥३१॥

१२,२।३२अ - व्याकरोमि हविषाहम् एतौ तौ ब्रह्मणा व्य् अहं कल्पयामि ।
१२,२।३२च् - स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा सम् इमान्त् सृजामि ॥३२॥

१२,२।३३अ - यो नो अग्निः पितरो हृत्स्व् अन्तर् आविवेशामृतो मर्त्येषु ।
१२,२।३३च् - मय्य् अहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥

१२,२।३४अ - अपावृत्य गार्हपत्यात् क्रव्यादा प्रेत दक्षिणा ।
१२,२।३४च् - प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥

१२,२।३५अ - द्विभागधनम् आदाय प्र क्षिणात्य् अवर्त्या ।
१२,२।३५च् - अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्याद् अनिराहितः ॥३५॥

१२,२।३६अ - यत् कृषते यद् वनुते यच् च वस्नेन विन्दते ।
१२,२।३६च् - सर्वं मर्त्यस्य तन् नास्ति क्रव्याच् चेद् अनिराहितः ॥३६॥

१२,२।३७अ - अयज्ञियो हतवर्चा भवति नैनेन हविर् अत्तवे ।
१२,२।३७च् - छिनत्ति कृष्या गोर् धनाद् यं क्रव्याद् अनुवर्तते ॥३७॥

१२,२।३८अ - मुहुर् गृध्यैः प्र वदत्य् आर्तिम् मर्त्यो नीत्य ।
१२,२।३८च् - क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ॥३८॥

१२,२।३९अ - ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।
१२,२।३९च् - ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत् ॥३९॥
१२,२।४०अ - यद् रिप्रं शमलं चकृम यच् च दुष्कृतम् ।
१२,२।४०च् - आपो मा तस्माच् छुम्भन्त्व् अग्नेः संकसुकाच् च यत् ॥४०॥ {१०}

१२,२।४१अ - ता अधराद् उदीचीर् आववृत्रन् प्रजानैतीः पथिभिर् देवयानैः ।
१२,२।४१च् - पर्वतस्य वृषभस्याधि पृष्ठे नवाश् चरन्ति सरितः पुराणीः ॥४१॥

१२,२।४२अ - अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥

१२,२।४३अ - इमं क्रव्याद् आ विवेशायं क्रव्यादम् अन्व् अगात् ।
१२,२।४३च् - व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥

१२,२।४४अ - अन्तर्धिर् देवानां परिधिर् मनुष्याणाम् अग्निर् गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥

१२,२।४५अ - जीवानाम् आयुः प्र तिर त्वम् अग्ने पितॄणां लोकम् अपि गछन्तु ये मृताः ।
१२,२।४५च् - सुगार्हपत्यो वितपन्न् अरातिम् उषामुषां श्रेयसीं धेह्य् अस्मै ॥४५॥

१२,२।४६अ - सर्वान् अग्ने सहमानः सपत्नान् अइषाम् ऊर्जं रयिम् अस्मासु धेहि ॥४६॥

१२,२।४७अ - इमम् इन्द्रं वह्निं पप्रिम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् ।
१२,२।४७च् - तेनाप हत शरुम् आपतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥

१२,२।४८अ - अनढ्वाहं प्लवम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् ।
१२,२।४८च् - आ रोहत सवितुर् नावम् एतां षढ्भिर् उर्वीभिर् अमतिं तरेम ॥४८॥

१२,२।४९अ - अहोरात्रे अन्व् एषि बिभ्रत् क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः ।
१२,२।४९च् - अनातुरान्त् सुमनसस् तल्प बिभ्रज् ज्योग् एव नः पुरुषगन्धिर् एधि ॥४९॥

१२,२।५०अ - ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
१२,२।५०च् - क्रव्याद् यान् अग्निर् अन्तिकाद् अश्व इवानुवपते नढम् ॥५०॥ {११}

१२,२।५१अ - ये 'श्रद्धा धनकाम्या क्रव्यादा समासते ।
१२,२।५१च् - ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥

१२,२।५२अ - प्रेव पिपतिषति मनसा मुहुर् आ वर्तते पुनः ।
१२,२।५२च् - क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ॥५२॥

१२,२।५३अ - अविः कृष्णा भागधेयं पशूनां सीसं क्रव्याद् अपि चन्द्रं त आहुः ।
१२,२।५३च् - माषाः पिष्टा भागधेयं ते हव्यम् अरण्यान्या गह्वरं सचस्व ॥५३॥

१२,२।५४अ - इषीकां जरतीम् इष्ट्वा तिल्पिञ्जं दण्ढनं नढम् ।
१२,२।५४च् - तम् इन्द्र इध्मम् कृत्वा यमस्याग्निं निरादधौ ॥५४॥

१२,२।५५अ - प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्य् आविवेश ।
१२,२।५५च् - परामीषाम् असून् दिदेश दीर्घेणायुषा सम् इमान्त् सृजामि ॥५५॥ {१२}


१२,३।१अ - पुमान् पुंसो 'धि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
१२,३।१च् - यावन्ताव् अग्रे प्रथमं समेयथुस् तद् वां वयो यमराज्ये समानम् ॥१॥

१२,३।२अ - तावद् वां चक्षुस् तति वीर्याणि तावत् तेजस् ततिधा वाजिनानि ।
१२,३।२च् - अग्निः शरीरं सचते यदैधो 'धा पक्वान् मिथुना सं भवाथः ॥२॥

१२,३।३अ - सम् अस्मिंल् लोके सम् उ देवयाने सं स्मा समेतं यमराज्येषु ।
१२,३।३च् - पूतौ पवित्रैर् उप तद् ध्वयेथां यद्यद् रेतो अधि वां संबभूव ॥३॥

१२,३।४अ - आपस् पुत्रासो अभि सं विशध्वम् इमं जीवं जीवधन्याः समेत्य ।
१२,३।४च् - तासां भजध्वम् अमृतं यम् आहुर् ओदनं पचति वां जनित्री ॥४॥

१२,३।५अ - यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच् च वाचः ।
१२,३।५च् - स ओदनः शतधारः स्वर्ग उभे व्य् आप नभसी महित्वा ॥५॥

१२,३।६अ - उभे नभसी उभयांश् च लोकान् ये यज्वनाम् अभिजिताः स्वर्गाः ।
१२,३।६च् - तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर् जरसि सं श्रयेथाम् ॥६॥

१२,३।७अ - प्राचींप्राचीं प्रदिशम् आ रभेथाम् एतं लोकं श्रद्दधानाः सचन्ते ।
१२,३।७च् - यद् वां पक्वं परिविष्टम् अग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥

१२,३।८अ - दक्षिणां दिशम् अभि नक्षमाणौ पर्यावर्तेथाम् अभि पात्रम् एतत् ।
१२,३।८च् - तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात् ॥८॥

१२,३।९अ - प्रतीची दिशाम् इयम् इद् वरं यस्यां सोमो अधिपा मृढिता च ।
१२,३।९च् - तस्यां श्रयेथां सुकृतः सचेथाम् अधा पक्वान् मिथुना सं भवाथः ॥९॥

१२,३।१०अ - उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशाम् उदीची कृणवन् नो अग्रम् ।
१२,३।१०च् - पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर् विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३}

१२,३।११अ - ध्रुवेयं विराण् नमो अस्त्व् अस्यै शिवा पुत्रेभ्य उत मह्यम् अस्तु ।
१२,३।११च् - सा नो देव्य् अदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥

१२,३।१२अ - पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
१२,३।१२च् - यम् ओदनं पचतो देवते इह तं नस् तप उत सत्यं च वेत्तु ॥१२॥

१२,३।१३अ - यद्यद् कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।
१२,३।१३च् - यद् वा दास्य् आर्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥

१२,३।१४अ - अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैर् अप हन्तु रक्षः ।
१२,३।१४च् - आ रोह चर्म महि शर्म यछ मा दंपती पौत्रम् अघं नि गाताम् ॥१४॥

१२,३।१५अ - वनस्पतिः सह देवैर् न आगन् रक्षः पिशाचां अपबाधमानः ।
१२,३।१५च् - स उच् छ्रयातै प्र वदाति वाचं तेन लोकां अभि सर्वान् जयेम ॥१५॥

१२,३।१६अ - सप्त मेधान् पशवः पर्य् अगृह्णन् य एषां ज्योतिष्मां उत यश् चकर्श ।
१२,३।१६च् - त्रयस्त्रिंशद् देवतास् तान्त् सचन्ते स नः स्वर्गम् अभि नेष लोकम् ॥१६॥

१२,३।१७अ - स्वर्गं लोकम् अभि नो नयासि सं जायया सह पुत्रैः स्याम ।
१२,३।१७च् - गृह्णामि हस्तम् अनु मैत्व् अत्र मा नस् तारीन् निरृतिर् मो अरातिः ॥१७॥

१२,३।१८अ - ग्राहिं पाप्मानम् अति तां अयाम तमो व्य् अस्य प्र वदासि वल्गु ।
१२,३।१८च् - वानस्पत्य उद्यतो मा जिहिंसीर् मा तण्ढुलं वि शरीर् देवयन्तम् ॥१८॥

१२,३।१९अ - विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् ।
१२,३।१९च् - वर्षवृद्धम् उप यछ शूर्पं तुषं पलावान् अप तद् विनक्तु ॥१९॥

१२,३।२०अ - त्रयो लोकाः संमिता ब्राह्मणेन द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् ।
१२,३।२०च् - अंशून् गृभीत्वान्वारभेथाम् आ प्यायन्तां पुनर् आ यन्तु शूर्पम् ॥२०॥ {१४}

१२,३।२१अ - पृथग् रूपाणि बहुधा पशूनाम् एकरूपो भवसि सं समृद्ध्या ।
१२,३।२१च् - एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥

१२,३।२२अ - पृथिवीं त्वा पृथिव्याम् आ वेशयामि तनूः समानी विकृता त एषा ।
१२,३।२२च् - यद्यद् द्युत्तं लिखितम् अर्पणेन तेन मा सुस्रोर् ब्रह्मणापि तद् वपामि ॥२२॥

१२,३।२३अ - जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
१२,३।२३च् - उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैर् आज्येनातिषक्ता ॥२३॥

१२,३।२४अ - अग्निः पचन् रक्षतु त्वा पुरस्ताद् इन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।
१२,३।२४च् - वरुणस् त्वा दृंहाद् धरुणे प्रतीच्या उत्तरात् त्वा सोमः सं ददातै ॥२४॥

१२,३।२५अ - पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् ।
१२,३।२५च् - ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्य् अग्निर् इन्धाम् ॥२५॥

१२,३।२६अ - आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्य् अन्तरिक्षम् ।
१२,३।२६च् - शुद्धाः सतीस् ता उ शुम्भन्त एव ता नः स्वर्गम् अभि लोकं नयन्तु ॥२६॥

१२,३।२७अ - उतेव प्रभ्वीर् उत संमितास उत शुक्राः शुचयश् चामृतासः ।
१२,३।२७च् - ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥

१२,३।२८अ - संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
१२,३।२८च् - असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥

१२,३।२९अ - उद् योधन्त्य् अभि वल्गन्ति तप्ताः फेनम् अस्यन्ति बहुलांश् च बिन्दून् ।
१२,३।२९च् - योषेव दृष्ट्वा पतिम् ऋत्वियायैतैस् तण्ढुलैर् भवता सम् आपः ॥२९॥

१२,३।३०अ - उत् थापय सीदतो बुध्न एनान् अद्भिर् आत्मानम् अभि सं स्पृशन्ताम् ।
१२,३।३०च् - अमासि पात्रैर् उदकं यद् एतन् मितास् तण्ढुलाः प्रदिशो यदीमाः ॥३०॥ {१५}

१२,३।३१अ - प्र यछ पर्शुं त्वरया हरौसम् अहिंसन्त ओषधीर् दान्तु पर्वन् ।
१२,३।३१च् - वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥

१२,३।३२अ - नवं बर्हिर् ओदनाय स्तृणीत प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु ।
१२,३।३२च् - तस्मिन् देवाः सह दैवीर् विशन्त्व् इमं प्राश्नन्त्व् ऋतुभिर् निषद्य ॥३२॥

१२,३।३३अ - वनस्पते स्तीर्णम् आ सीद बर्हिर् अग्निष्टोभैः संमितो देवताभिः ।
१२,३।३३च् - त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥

१२,३।३४अ - षष्ट्यां शरत्सु निधिपा अभीछात् स्वः पक्वेनाभ्य् अश्नवातै ।
१२,३।३४च् - उपैनं जीवान् पितरश् च पुत्रा एतं स्वर्गं गमयान्तम् अग्नेः ॥३४॥

१२,३।३५अ - धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश् च्यावयन्तु ।
१२,३।३५च् - तं त्वा दंपती जीवन्तौ जीवपुत्राव् उद् वासयातः पर्य् अग्निधानात् ॥३५॥

१२,३।३६अ - सर्वान्त् समागा अभिजित्य लोकान् यावन्तः कामाः सम् अतीतृपस् तान् ।
१२,३।३६च् - वि गाहेथाम् आयवनं च दर्विर् एकस्मिन् पात्रे अध्य् उद् धरैनम् ॥३६॥

१२,३।३७अ - उप स्तृणीहि प्रथय पुरस्ताद् घृतेन पात्रम् अभि घारयैतत् ।
१२,३।३७च् - वाश्रेवोस्रा तरुणं स्तनस्युम् इमं देवासो अभिहिङ्कृणोत ॥३७॥

१२,३।३८अ - उपास्तरीर् अकरो लोकम् एतम् उरुः प्रथताम् असमः स्वर्गः ।
१२,३।३८च् - तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥

१२,३।३९अ - यद्यज् जाया पचति त्वत् परःपरः पतिर् वा जाये त्वत् तिरः ।
१२,३।३९च् - सं तत् सृजेथां सह वां तद् अस्तु संपादयन्तौ सह लोकम् एकम् ॥३९॥

१२,३।४०अ - यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः ।
१२,३।४०च् - सर्वांस् तां उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६}

१२,३।४१अ - वसोर् या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
१२,३।४१च् - सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात् ॥४१॥

१२,३।४२अ - निधिं निधिपा अभ्य् एनम् इछाद् अनीश्वरा अभितः सन्तु ये 'न्ये ।
१२,३।४२च् - अस्माभिर् दत्तो निहितः स्वर्गस् त्रिभिः काण्ढैस् त्रीन्त् स्वर्गान् अरुक्षत् ॥४२॥

१२,३।४३अ - अग्नी रक्षस् तपतु यद् विदेवं क्रव्याद् पिशाच इह मा प्र पास्त ।
१२,३।४३च् - नुदाम एनम् अप रुध्मो अस्मद् आदित्या एनम् अङ्गिरसः सचन्ताम् ॥४३॥
१२,३।४४अ - आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं घृतेन मिश्रं प्रति वेदयामि ।
१२,३।४४च् - शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृताव् अपीतम् ॥४४॥

१२,३।४५अ - इदं प्रापम् उत्तमं काण्ढम् अस्य यस्माल् लोकात् परमेष्ठी समाप ।
१२,३।४५च् - आ सिञ्च सर्पिर् घृतवत् सम् अङ्ग्ध्य् एष भागो अङ्गिरसो नो अत्र ॥४५॥

१२,३।४६अ - सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
१२,३।४६च् - मा नो द्यूते 'व गान् मा समित्यां मा स्मान्यस्मा उत् सृजता पुरा मत् ॥४६॥

१२,३।४७अ - अहं पचाम्य् अहं ददामि ममेद् उ कर्मन् करुणे 'धि जाया ।
१२,३।४७च् - कौमारो लोको अजनिष्ट पुत्रो 'न्वारभेथां वय उत्तरावत् ॥४७॥

१२,३।४८अ - न किल्बिषम् अत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।
१२,३।४८च् - अनूनं पात्रं निहितं न एतत् पक्तारं पक्वः पुनर् आ विशाति ॥४८॥

१२,३।४९अ - प्रियं प्रियाणां कृणवाम तमस् ते यन्तु यतमे द्विषन्ति ।
१२,३।४९च् - धेनुर् अनढ्वान् वयोवय आयद् एव पौरुषेयम् अप मृत्युं नुदन्तु ॥४९॥

१२,३।५०अ - सम् अग्नयः विदुर् अन्यो अन्यं य ओषधीः सचते यश् च सिन्धून् ।
१२,३।५०च् - यावन्तो देवा दिव्य् आतपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७}

१२,३।५१अ - एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।
१२,३।५१च् - क्षत्रेणात्मानं परि धापयाथो 'मोतं वासो मुखम् ओदनस्य ॥५१॥

१२,३।५२अ - यद् अक्षेषु वदा यत् समित्यां यद् वा वदा अनृतं वित्तकाम्या ।
१२,३।५२च् - समानं तन्तुम् अभि सम्वसानौ तस्मिन्त् सर्वं शमलं सादयाथः ॥५२॥

१२,३।५३अ - वर्षं वनुष्वापि गछ देवांस् त्वचो धूमं पर्य् उत् पातयासि ।
१२,३।५३च् - विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् ॥५३॥

१२,३।५४अ - तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।
१२,३।५४च् - अपाजैत् कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥

१२,३।५५अ - प्राच्यै त्वा दिशे 'ग्नये 'धिपतये 'सिताय रक्षित्र आदित्यायेषुमते ।
१२,३।५५च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।५५ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥५५॥

१२,३।५६अ - दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
१२,३।५६च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।५६ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥५६॥

१२,३।५७अ - प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे 'न्नायेषुमते ।
१२,३।५७च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।५७ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥५७॥

१२,३।५८अ - उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रे 'शन्या इषुमत्यै ।
१२,३।५८च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।५८ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥५८॥

१२,३।५९अ - ध्रुवायै त्वा दिशे विष्णवे 'धिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।
१२,३।५९च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।५९ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥५९॥

१२,३।६०अ - ऊर्ध्वायै त्वा दिशे बृहस्पतये 'धिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
१२,३।६०च् - एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः ।
१२,३।६०ए - दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥६०॥ {१८}


१२,४।१अ - ददामीत्य् एव ब्रूयाद् अनु चैनाम् अभुत्सत ।
१२,४।१च् - वशां ब्रह्मभ्यो याचद्भ्यस् तत् प्रजावद् अपत्यवत् ॥१॥

१२,४।२अ - प्रजया स वि क्रीणीते पशुभिश् चोप दस्यति ।
१२,४।२च् - य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥

१२,४।३अ - कूटयास्य सं शीर्यन्ते श्लोणया काटम् अर्दति ।
१२,४।३च् - बण्ढया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥

१२,४।४अ - विलोहितो अधिष्ठानाच् छक्नो विन्दति गोपतिम् ।
१२,४।४च् - तथा वशायाः संविद्यं दुरदभ्ना ह्य् उच्यसे ॥४॥

१२,४।५अ - पदोर् अस्या अधिष्ठानाद् विक्लिन्दुर् नाम विन्दति ।
१२,४।५च् - अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥

१२,४।६अ - यो अस्याः कर्णाव् आस्कुनोत्य् आ स देवेषु वृश्चते ।
१२,४।६च् - लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥

१२,४।७अ - यद् अस्याः कस्मै चिद् भोगाय बालान् कश् चित् प्रकृन्तति ।
१२,४।७च् - ततः किशोरा म्रियन्ते वत्सांश् च घातुको वृकः ॥७॥

१२,४।८अ - यद् अस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिढत् ।
१२,४।८च् - ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्य् अनामनात् ॥८॥

१२,४।९अ - यद् अस्याः पल्पूलनं शकृद् दासी समस्यति ।
१२,४।९च् - ततो 'परूपं जायते तस्माद् अव्येष्यद् एनसः ॥९॥

१२,४।१०अ - जायमानाभि जायते देवान्त् सब्राह्मणान् वशा ।
१२,४।१०च् - तस्माद् ब्रह्मभ्यो देयैषा तद् आहुः स्वस्य गोपनम् ॥१०॥ {१९}

१२,४।११अ - य एनां वनिम् आयन्ति तेषां देवकृता वशा ।
१२,४।११च् - ब्रह्मज्येयं तद् अब्रुवन् य एनां निप्रियायते ॥११॥

१२,४।१२अ - य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
१२,४।१२च् - आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥

१२,४।१३अ - यो अस्य स्याद् वशाभोगो अन्याम् इछेत तर्हि सः ।
१२,४।१३च् - हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥

१२,४।१४अ - यथा शेवधिर् निहितो ब्राह्मणानां तथा वशा ।
१२,४।१४च् - ताम् एतद् अछायन्ति यस्मिन् कस्मिंश् च जायते ॥१४॥

१२,४।१५अ - स्वम् एतद् अछायन्ति यद् वशां ब्राह्मणा अभि ।
१२,४।१५च् - यथैनान् अन्यस्मिन् जिनीयाद् एवास्या निरोधनम् ॥१५॥

१२,४।१६अ - चरेद् एवा त्रैहायणाद् अविज्ञातगदा सती ।
१२,४।१६च् - वशां च विद्यान् नारद ब्राह्मणास् तर्ह्य् एष्याः ॥१६॥

१२,४।१७अ - य एनाम् अवशाम् आह देवानां निहितं निधिम् ।
१२,४।१७च् - उभौ तस्मै भवाशर्वौ परिक्रम्येषुम् अस्यतः ॥१७॥

१२,४।१८अ - यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
१२,४।१८च् - उभयेनैवास्मै दुहे दातुं चेद् अशकद् वशाम् ॥१८॥

१२,४।१९अ - दुरदभ्नैनम् आ शये याचितां च न दित्सति ।
१२,४।१९च् - नास्मै कामाः सम् ऋध्यन्ते याम् अदत्त्वा चिकीर्षति ॥१९॥

१२,४।२०अ - देवा वशाम् अयाचन् मुखं कृत्वा ब्राह्मणम् ।
१२,४।२०च् - तेषां सर्वेषाम् अददद् धेढं न्य् एति मानुषः ॥२०॥ {२०}

१२,४।२१अ - हेढं पशूनां न्य् एति ब्राह्मणेभ्यो 'ददद् वशाम् ।
१२,४।२१च् - देवानां निहितं भागं मर्त्यश् चेन् निप्रियायते ॥२१॥

१२,४।२२अ - यद् अन्ये शतं याचेयुर् ब्राह्मणा गोपतिं वशाम् ।
१२,४।२२च् - अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥

१२,४।२३अ - य एवं विदुषे 'दत्त्वाथान्येभ्यो ददद् वशाम् ।
१२,४।२३च् - दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥

१२,४।२४अ - देवा वशाम् अयाचन् यस्मिन्न् अग्रे अजायत ।
१२,४।२४च् - ताम् एतां विद्यान् नारदः सह देवैर् उद् आजत ॥२४॥

१२,४।२५अ - अनपत्यम् अल्पपशुं वशा कृणोति पूरुषम् ।
१२,४।२५च् - ब्राह्मणैश् च याचिताम् अथैनां निप्रियायते ॥२५॥

१२,४।२६अ - अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
१२,४।२६च् - तेभ्यो याचन्ति ब्राह्मणास् तेष्व् आ वृश्चते 'ददत् ॥२६॥

१२,४।२७अ - यावद् अस्या गोपतिर् नोपशृणुयाद् ऋचः स्वयम् ।
१२,४।२७च् - चरेद् अस्य तावद् गोषु नास्य श्रुत्वा गृहे वसेत् ॥२७॥

१२,४।२८अ - यो अस्या ऋच उपश्रुत्याथ गोष्व् अचीचरत् ।
१२,४।२८च् - आयुश् च तस्य भूतिं च देवा वृश्चन्ति हीढिताः ॥२८॥

१२,४।२९अ - वशा चरन्ती बहुधा देवानां निहितो निधिः ।
१२,४।२९च् - आविष् कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥

१२,४।३०अ - आविर् आत्मानं कृणुते यदा स्थाम जिघांसति ।
१२,४।३०च् - अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}

१२,४।३१अ - मनसा सं कल्पयति तद् देवां अपि गछति ।
१२,४।३१च् - ततो ह ब्रह्माणो वशाम् उपप्रयन्ति याचितुम् ॥३१॥

१२,४।३२अ - स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
१२,४।३२च् - दानेन राजन्यो वशाया मातुर् हेढम् न गछति ॥३२॥

१२,४।३३अ - वशा माता राजन्यस्य तथा संभूतम् अग्रशः ।
१२,४।३३च् - तस्या आहुर् अनर्पणं यद् ब्रह्मभ्यः प्रदीयते ॥३३॥

१२,४।३४अ - यथाज्यं प्रगृहीतम् आलुम्पेत् स्रुचो अग्नये ।
१२,४।३४च् - एवा ह ब्रह्मभ्यो वशाम् अग्नय आ वृश्चते 'ददत् ॥३४॥

१२,४।३५अ - पुरोढाशवत्सा सुदुघा लोके 'स्मा उप तिष्ठति ।
१२,४।३५च् - सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥

१२,४।३६अ - सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
१२,४।३६च् - अथाहुर् नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥

१२,४।३७अ - प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
१२,४।३७च् - वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥

१२,४।३८अ - यो वेहतं मन्यमानो 'मा च पचते वशाम् ।
१२,४।३८च् - अप्य् अस्य पुत्रान् पौत्रांश् च याचयते बृहस्पतिः ॥३८॥

१२,४।३९अ - महद् एषाव तपति चरन्ती गोषु गौर् अपि ।
१२,४।३९च् - अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥

१२,४।४०अ - प्रियं पशूनां भवति यद् ब्रह्मभ्यः प्रदीयते ।
१२,४।४०च् - अथो वशायास् तत् प्रियं यद् देवत्रा हविः स्यात् ॥४०॥ {२२}

१२,४।४१अ - या वशा उदकल्पयन् देवा यज्ञाद् उदेत्य ।
१२,४।४१च् - तासां विलिप्त्यं भीमाम् उदाकुरुत नारदः ॥४१॥

१२,४।४२अ - तां देवा अमीमांसन्त वशेया३म् अवशेति ।
१२,४।४२च् - ताम् अब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥

१२,४।४३अ - कति नु वशा नारद यास् त्वं वेत्थ मनुष्यजाः ।
१२,४।४३च् - तास् त्वा पृछामि विद्वांसं कस्या नाश्नीयाद् अब्राह्मणः ॥४३॥

१२,४।४४अ - विलिप्त्या बृहस्पते या च सूतवशा वशा ।
१२,४।४४च् - तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ॥४४॥

१२,४।४५अ - नमस् ते अस्तु नारदानुष्ठु विदुषे वशा ।
१२,४।४५च् - कतमासां भीमतमा याम् अदत्त्वा पराभवेत् ॥४५॥

१२,४।४६अ - विलिप्ती या बृहस्पते 'थो सूतवशा वशा ।
१२,४।४६च् - तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ॥४६॥

१२,४।४७अ - त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
१२,४।४७च् - ताः प्र यछेद् ब्रह्मभ्यः सो 'नाव्रस्कः प्रजापतौ ॥४७॥

१२,४।४८अ - एतद् वो ब्राह्मणा हविर् इति मन्वीत याचितः ।
१२,४।४८च् - वशां चेद् एनं याचेयुर् या भीमाददुषो गृहे ॥४८॥

१२,४।४९अ - देवा वशां पर्य् अवदन् न नो 'दाद् इति हीढिताः ।
१२,४।४९च् - एताभिर् ऋग्भिर् भेदं तस्माद् वै स पराभवत् ॥४९॥

१२,४।५०अ - उतैनां भेदो नाददाद् वशाम् इन्द्रेण याचितः ।
१२,४।५०च् - तस्मात् तं देवा आगसो 'वृश्चन्न् अहमुत्तरे ॥५०॥

१२,४।५१अ - ये वशाया अदानाय वदन्ति परिरापिणः ।
१२,४।५१च् - इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥

१२,४।५२अ - ये गोपतिं पराणीयाथाहुर् मा ददा इति ।
१२,४।५२च् - रुद्रस्यास्तां ते हेतीं परि यन्त्य् अचित्त्या ॥५२॥

१२,४।५३अ - यदि हुतं यद्य् अहुताम् अमा च पचते वशाम् ।
१२,४।५३च् - देवान्त् सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर् ऋछति ॥५३॥ {२३}


१२,५।५३अ - श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥

१२,५।२अ - सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥

१२,५।३अ - स्वधया परिहिता श्रद्धया पर्यूडा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥

१२,५।४अ - ब्रह्म पदवायं ब्राह्मणो 'धिपतिः ॥४॥

१२,५।५अ - ताम् आददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥

१२,५।६अ - अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४}

१२,५।७अ - ओजश् च तेजश् च सहश् च बलं च वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥७॥

१२,५।८अ - ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥८॥

१२,५।९अ - आयुश् च रूपं च नाम च कीर्तिश् च प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥९॥

१२,५।१०अ - पयश् च रसश् चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश् च ॥१०॥

१२,५।११अ - तानि सर्वाण्य् अप क्रामन्ति ब्रह्मगवीम् आददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}

१२,५।१२अ - सैषा भीमा ब्रह्मगव्य् अघविषा साक्षात् कृत्या कूल्बजम् आवृता ॥१२॥

१२,५।१३अ - सर्वाण्य् अस्यां घोराणि सर्वे च मृत्यवः ॥१३॥

१२,५।१४अ - सर्वाण्य् अस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥

१२,५।१५अ - सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्य् आदीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥

१२,५।१६अ - मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर् हि सा ॥१६॥

१२,५।१७अ - तस्माद् वै ब्राह्मणानां गौर् दुराधर्षा विजानता ॥१७॥

१२,५।१८अ - वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥

१२,५।१९अ - हेतिः शफान् उत्खिदन्ती महादेवो 'पेक्षमाणा ॥१९॥

१२,५।२०अ - क्षुरपविर् ईक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥

१२,५।२१अ - मृत्युर् हिङ्कृण्वत्य् उग्रो देवः पुछं पर्यस्यन्ती ॥२१॥

१२,५।२२अ - सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥

१२,५।२३अ - मेनिर् दुह्यमाना शीर्षक्तिर् दुग्धा ॥२३॥

१२,५।२४अ - सेदिर् उपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
१२,५।२५अ - शरव्या मुखे 'पिनह्यमान ऋतिर् हन्यमाना ॥२५॥

१२,५।२६अ - अघविषा निपतन्ती तमो निपतिता ॥२६॥

१२,५।२७अ - अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}

१२,५।२८अ - वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥

१२,५।२९अ - देवहेतिर् ह्रियमाणा व्यृद्धिर् हृता ॥२९॥

१२,५।३०अ - पाप्माधिधीयमाना पारुष्यम् अवधीयमाना ॥३०॥

१२,५।३१अ - विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥

१२,५।३२अ - अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
१२,५।३३अ - मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥

१२,५।३४अ - असंज्ञा गन्धेन शुग् उद्ध्रियमाणाशीविष उद्धृता ॥३४॥

१२,५।३५अ - अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता ॥३५॥

१२,५।३६अ - शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥

१२,५।३७अ - अवर्तिर् अश्यमाना निरृतिर् अशिता ॥३७॥

१२,५।३८अ - अशिता लोकाच् छिनत्ति ब्रह्मगवी ब्रह्मज्यम् अस्माच् चामुष्माच् च ॥३८॥ {२७}

१२,५।३९अ - तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम् ॥३९॥

१२,५।४०अ - अस्वगता परिह्णुता ॥४०॥

१२,५।४१अ - अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥

१२,५।४२अ - सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥

१२,५।४३अ - छिनत्त्य् अस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥

१२,५।४४अ - विवाहां ज्ञातीन्त् सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥

१२,५।४५अ - अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् अपरापरणो भवति क्षीयते ॥४५॥

१२,५।४६अ - य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥४६॥ {२८}

१२,५।४७अ - क्षिप्रं वै तस्याहनने गृध्राः कुर्वत अइलबम् ॥४७॥

१२,५।४८अ - क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीर् आघ्नानाः पाणिनोरसि कुर्वाणाः पापम् अइलबम् ॥४८॥

१२,५।४९अ - क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत अइलबम् ॥४९॥

१२,५।५०अ - क्षिप्रं वै तस्य पृछन्ति यत् तद् आसी३द् इदं नु ता३द् इति ॥५०॥

१२,५।५१अ - छिन्ध्य् आ छिन्धि प्र छिन्ध्य् अपि क्षापय क्षापय ॥५१॥

१२,५।५२अ - आददानम् आङ्गिरसि ब्रह्मज्यम् उप दासय ॥५२॥

१२,५।५३अ - वैश्वदेवी ह्य् उच्यसे कृत्या कूल्बजम् आवृता ॥५३॥

१२,५।५४अ - ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥

१२,५।५५अ - क्षुरपविर् मृत्युर् भूत्वा वि धाव त्वम् ॥५५॥

१२,५।५६अ - आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥

१२,५।५७अ - आदाय जीतं जीताय लोके 'मुष्मिन् प्र यछसि ॥५७॥

१२,५।५८अ - अघ्न्ये पदवीर् भव ब्राह्मणस्याभिशस्त्या ॥५८॥

१२,५।५९अ - मेनिः शरव्या भवाघाद् अघविषा भव ॥५९॥

१२,५।६०अ - अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ॥६०॥

१२,५।६१अ - त्वया प्रमूर्णं मृदितम् अग्निर् दहतु दुश्चितम् ॥६१॥ {२९}

१२,५।६२अ - वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥

१२,५।६३अ - ब्रह्मज्यं देव्य् अघ्न्य आ मूलाद् अनुसंदह ॥६३॥

१२,५।६४अ - यथायाद् यमसादनात् पापलोकान् परावतः ॥६४॥

१२,५।६५अ - एवा त्वं देव्य् अघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ॥६५॥

१२,५।६६अ - वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥

१२,५।६७अ - प्र स्कन्धान् प्र शिरो जहि ॥६७॥

१२,५।६८अ - लोमान्य् अस्य सं छिन्धि त्वचम् अस्य वि वेष्टय ॥६८॥

१२,५।६९अ - मांसान्य् अस्य शातय स्नावान्य् अस्य सं वृह ॥६९॥

१२,५।७०अ - अस्थीन्य् अस्य पीढय मज्जानम् अस्य निर् जहि ॥७०॥

१२,५।७१अ - सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥

१२,५।७२अ - अग्निर् एनं क्रव्यात् पृथिव्या नुदताम् उद् ओषतु वायुर् अन्तरिक्षान् महतो वरिम्णः ॥७२॥

१२,५।७३अ - सूर्य एनं दिवः प्र णुदतां न्य् ओषतु ॥७३॥ {३०}

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:09.4670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कणऊब

  • स्त्री. ( कों .) दाणेऊब ; धान्य पिकून तयार होण्याच्या हंगामांतील उष्णता ( भाद्रपद ; आश्विन महिन्यांतील ). ( कण + ऊब ) 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site