TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथर्ववेदः - काण्डं १४

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


काण्डं १४
१४,१।१अ - सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
१४,१।१च् - ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥

१४,१।२अ - सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
१४,१।२च् - अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥२॥

१४,१।३अ - सोमं मन्यते पपिवान् यत् संपिंषन्त्य् ओषधिम् ।
१४,१।३च् - सोमं यं ब्रह्माणो विदुर् न तस्याश्नाति पार्थिवः ॥३॥

१४,१।४अ - यत् त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।
१४,१।४च् - वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥

१४,१।५अ - आछद्विधानैर् गुपितो बार्हतैः सोम रक्षितः ।
१४,१।५च् - ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥

१४,१।६अ - चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् ।
१४,१।६च् - द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥६॥

१४,१।७अ - रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी ।
१४,१।७च् - सुर्याया भद्रम् इद् वासो गाथयति परिष्कृता ॥७॥

१४,१।८अ - स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
१४,१।८च् - सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥८॥

१४,१।९अ - सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा ।
१४,१।९च् - सूर्यां यत् पत्ये शंसन्तीं मनसा सविताददात् ॥९॥

१४,१।१०अ - मनो अस्या अन आसीद् द्यौर् आसीद् उत छदिः ।
१४,१।१०च् - शुक्राव् अनढ्वाहाव् आस्तां यद् अयात् सूर्या पतिम् ॥१०॥ {१}

१४,१।११अ - ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् अइताम् ।
१४,१।११च् - श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश् चराचरः ॥११॥

१४,१।१२अ - शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
१४,१।१२च् - अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥१२॥

१४,१।१३अ - सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् ।
१४,१।१३च् - मघासु हन्यन्ते गावः फल्गुनीषु व्य् उह्यते ॥१३॥

१४,१।१४अ - यद् अश्विना पृछमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः ।
१४,१।१४च् - क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥१४॥

१४,१।१५अ - यद् अयातं शुभस् पती वरेयं सूर्याम् उप ।
१४,१।१५च् - विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितरम् अवृणीत पूषा ॥१५॥

१४,१।१६अ - द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
१४,१।१६च् - अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥१६॥

१४,१।१७अ - अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
१४,१।१७च् - उर्वारुकम् इव बन्धनात् प्रेतो मुञ्चामि नामुतः ॥१७॥

१४,१।१८अ - प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् ।
१४,१।१८च् - यथेयम् इन्द्र मीढ्ह्वः सुपुत्रा सुभगासति ॥१८॥

१४,१।१९अ - प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।
१४,१।१९च् - ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥
१४,१।२०अ - भगस् त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
१४,१।२०च् - गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥२०॥ {२}

१४,१।२१अ - इह प्रियं प्रजायै ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि ।
१४,१।२१च् - एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर् विदथम् आ वदासि ॥२१॥

१४,१।२२अ - इहैव स्तं मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् ।
१४,१।२२च् - क्रीढन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वस्तकौ ॥२२॥

१४,१।२३अ - पूर्वापरं चरतो मायैतौ शिशू क्रीढन्तौ परि यातो 'र्णवम् ।
१४,१।२३च् - विश्वान्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायसे नवः ॥२३॥

१४,१।२४अ - नवोनवो भवसि जायमानो 'ह्नां केतुर् उषसाम् एष्य् अग्रम् ।
१४,१।२४च् - भागं देवेभ्यो वि दधास्य् आयन् प्र चन्द्रमस् तिरसे दीर्घम् आयुः ॥२४॥
१४,१।२५अ - परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
१४,१।२५च् - कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥

१४,१।२६अ - नीललोहितं भवति कृत्यासक्तिर् व्य् अज्यते ।
१४,१।२६च् - एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥२६॥

१४,१।२७अ - अश्लीला तनूर् भवति रुशती पापयामुया ।
१४,१।२७च् - पतिर् यद् वध्वो वाससः स्वम् अङ्गम् अभ्यूर्णुते ॥२७॥

१४,१।२८अ - आशसनं विशसनम् अथो अधिविकर्तनम् ।
१४,१।२८च् - सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥

१४,१।२९अ - तृष्टम् एतत् कटुकम् अपाष्ठवद् विषवन् नैतद् अत्तवे ।
१४,१।२९च् - सूर्यां यो ब्रह्मा वेद स इद् वाधूयम् अर्हति ॥२९॥

१४,१।३०अ - स इत् तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
१४,१।३०च् - प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३}

१४,१।३१अ - युवं भगं सं भरतं समृद्धम् ऋतं वदन्ताव् ऋतोद्येषु ।
१४,१।३१च् - ब्रह्मणस् पते पतिम् अस्यै रोचय चारु संभलो वदतु वाचम् एताम् ॥३१॥

१४,१।३२अ - इहेद् असाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।
१४,१।३२च् - शुभं यतीर् उस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥

१४,१।३३अ - इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।
१४,१।३३च् - अस्मै वः पूषा मरुतश् च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥

१४,१।३४अ - अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् ।
१४,१।३४च् - सं भगेन सम् अर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥

१४,१।३५अ - यच् च वर्चो अक्षेषु सुरायां च यद् आहितम् ।
१४,१।३५च् - यद् गोष्व् अश्विना वर्चस् तेनेमां वर्चसावतम् ॥३५॥

१४,१।३६अ - येन महानघ्न्या जघनम् अश्विना येन वा सुरा ।
१४,१।३६च् - येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥

१४,१।३७अ - यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईढते अध्वरेषु ।
१४,१।३७च् - अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्यावान् ॥३७॥

१४,१।३८अ - इदम् अहं रुशन्तं ग्राभं तनूदूषिम् अपोहामि ।
१४,१।३८च् - यो भद्रो रोचनस् तम् उद् अचामि ॥३८॥

१४,१।३९अ - आस्यै ब्राह्मणाः स्नपनीर् हरन्त्व् अवीरघ्नीर् उद् अजन्त्व् आपः ।
१४,१।३९च् - अर्यम्णो अग्निं पर्य् एतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश् च ॥३९॥

१४,१।४०अ - शं ते हिरण्यं शम् उ सन्त्व् आपः शं मेथिर् भवतु शं युगस्य तर्द्म ।
१४,१।४०च् - शं त आपः शतपवित्रा भवन्तु शम् उ पत्या तन्वं सं स्पृशस्व ॥४०॥ {४}

१४,१।४१अ - खे रथस्य खे 'नसः खे युगस्य शतक्रतो ।
१४,१।४१च् - अपालाम् इन्द्र त्रिष् पूत्वाकृणोः सूर्यत्वचम् ॥४१॥

१४,१।४२अ - आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।
१४,१।४२च् - पत्युर् अनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥

१४,१।४३अ - यथा सिन्धुर् नदीनां साम्राज्यं सुषुवे वृषा ।
१४,१।४३च् - एवा त्वं सम्राज्ञ्य् एधि पत्युर् अस्तं परेत्य ॥४३॥

१४,१।४४अ - सम्राज्ञ्य् एधि श्वशुरेषु सम्राज्ञ्य् उत देवृषु ।
१४,१।४४च् - ननान्दुः सम्राज्ञ्य् एधि सम्राज्ञ्य् उत श्वश्र्वाः ॥४४॥

१४,१।४५अ - या अकृन्तन्न् अवयन् याश् च तत्निरे या देवीर् अन्तां अभितो 'ददन्त ।
१४,१।४५च् - तास् त्वा जरसे सं व्ययन्त्व् आयुष्मतीदं परि धत्स्व वासः ॥४५॥

१४,१।४६अ - जीवं रुदन्ति वि नयन्त्य् अध्वरं दीर्घाम् अनु प्रसितिं दीध्युर् नरः ।
१४,१।४६च् - वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥

१४,१।४७अ - स्योनं ध्रुवं प्रजायै धारयामि ते 'श्मानं देव्याः पृथिव्या उपस्थे ।
१४,१।४७च् - तम् आ तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥

१४,१।४८अ - येनाग्निर् अस्या भूम्या हस्तं जग्राह दक्षिणम् ।
१४,१।४८च् - तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥

१४,१।४९अ - देवस् ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
१४,१।४९च् - अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिम् कृणोतु ॥४९॥

१४,१।५०अ - गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासः ।
१४,१।५०च् - भगो अर्यमा सविता पुरंधिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥५०॥ {५}
१४,१।५१अ - भगस् ते हस्तम् अग्रहीत् सविता हस्तम् अग्रहीत् ।
१४,१।५१च् - पत्नी त्वम् असि धर्मणाहं गृहपतिस् तव ॥५१॥

१४,१।५२अ - ममेयम् अस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः ।
१४,१।५२च् - मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥

१४,१।५३अ - त्वष्टा वासो व्य् अदधाच् छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।
१४,१।५३च् - तेनेमां नारीं सविता भगश् च सूर्याम् इव परि धत्तां प्रजया ॥५३॥

१४,१।५४अ - इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।
१४,१।५४च् - बृहस्पतिर् मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
१४,१।५५अ - बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशां अकल्पयत् ।
१४,१।५५च् - तेनेमाम् अश्विना नारीं पत्ये सं शोभयामसि ॥५५॥

१४,१।५६अ - इदं तद् रूपं यद् अवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
१४,१।५६च् - ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥

१४,१।५७अ - अहं वि ष्यामि मयि रूपम् अस्या वेदद् इत् पश्यन् मनसः कुलायम् ।
१४,१।५७च् - न स्तेयम् अद्मि मनसोद् अमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥

१४,१।५८अ - प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।
१४,१।५८च् - उरुं लोकं सुगम् अत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥

१४,१।५९अ - उद् यछध्वम् अप रक्षो हनाथेमं नारीं सुकृते दधात ।
१४,१।५९च् - धाता विपश्चित् पतिम् अस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥

१४,१।६०अ - भगस् ततक्ष चतुरः पादान् भगस् ततक्ष चत्वार्य् उष्पलानि ।
१४,१।६०च् - त्वष्टा पिपेश मध्यतो 'नु वर्ध्रान्त् सा नो अस्तु सुमङ्गली ॥६०॥

१४,१।६१अ - सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
१४,१।६१च् - आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥

१४,१।६२अ - अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।
१४,१।६२च् - इन्द्रापतिघ्नीम् पुत्रिणीम् आस्मभ्यं सवितर् वह ॥६२॥

१४,१।६३अ - मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
१४,१।६३च् - शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥

१४,१।६४अ - ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
१४,१।६४च् - अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६}


१४,२।१अ - तुभ्यम् अग्रे पर्य् अवहन्त् सूर्यां वहतुना सह ।
१४,२।१च् - स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥

१४,२।२अ - पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा ।
१४,२।२च् - दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥२॥

१४,२।३अ - सोमस्य जाया प्रथमं गन्धर्वस् ते 'परः पतिः ।
१४,२।३च् - तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥३॥

१४,२।४अ - सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये ।
१४,२।४च् - रयिं च पुत्रांस् चादाद् अग्निर् मह्यम् अथो इमाम् ॥४॥

१४,२।५अ - आ वाम् अगन्त् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अरंसत ।
१४,२।५च् - अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥५॥

१४,२।६अ - सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
१४,२।६च् - सुगं तीर्थं सुप्रपाणं शुभस् पती स्थाणुं पथिष्ठाम् अप दुर्मतिं हतम् ॥६॥

१४,२।७अ - या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
१४,२।७च् - तास् त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥

१४,२।८अ - एमं पन्थाम् अरुक्षाम सुगं स्वस्तिवाहनम् ।
१४,२।८च् - यस्मिन् वीरो न रिष्यत्य् अन्येषां विन्दते वसु ॥८॥

१४,२।९अ - इदं सु मे नरः शृणुत ययाशिषा दंपती वामम् अश्नुतः ।
१४,२।९च् - ये गन्धर्वा अप्सरसश् च देवीर् एषु वानस्पत्येषु ये 'धि तस्थुः ।
१४,२।९ए - स्योनास् ते अस्यै वध्वै भवन्तु मा हिंसिषुर् वहतुम् उह्यमानम् ॥९॥

१४,२।१०अ - ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनां अनु ।
१४,२।१०च् - पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}

१४,२।११अ - मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।
१४,२।११च् - सुगेन दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥११॥

१४,२।१२अ - सं काशयामि वहतुं ब्रह्मणा गृहैर् अघोरेण चक्षुषा मित्रियेण ।
१४,२।१२च् - पर्याणद्धं विश्वरूपं यद् अस्ति स्योनं पतिभ्यः सविता तत् कृणोतु ॥१२॥

१४,२।१३अ - शिवा नारीयम् अस्तम् आगन्न् इमं धाता लोकम् अस्यै दिदेश ।
१४,२।१३च् - ताम् अर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥

१४,२।१४अ - आत्मन्वत्य् उर्वरा नारीयम् आगन् तस्यां नरो वपत बीजम् अस्याम् ।
१४,२।१४च् - सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धम् ऋषभस्य रेतः ॥१४॥

१४,२।१५अ - प्रति तिष्ठ विराढ् असि विष्णुर् इवेह सरस्वति ।
१४,२।१५च् - सिनीवालि प्र जायतां भगस्य सुमताव् असत् ॥१५॥

१४,२।१६अ - उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत ।
१४,२।१६च् - मादुष्कृतौ व्येनसाव् अघ्न्याव् अशुनम् आरताम् ॥१६॥

१४,२।१७अ - अघोरचक्षुर् अपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।
१४,२।१७च् - वीरसूर् देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥

१४,२।१८अ - अदेवृघ्न्य् अपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।
१४,२।१८च् - प्रजावती वीरसूर् देवृकामा स्योनेमम् अग्निं गार्हपत्यं सपर्य ॥१८॥

१४,२।१९अ - उत् तिष्ठेतः किम् इछन्तीदम् आगा अहं त्वेढे अभिभूः स्वाद् गृहात् ।
१४,२।१९च् - शून्यैषी निरृते याजगन्थोत् तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥

१४,२।२०अ - यदा गार्हपत्यम् असपर्यैत् पूर्वम् अग्निं वधूर् इयम् ।
१४,२।२०च् - अधा सरस्वत्यै नारि पितृभ्यश् च नमस् कुरु ॥२०॥ {८}

१४,२।२१अ - शर्म वर्मैतद् आ हरास्यै नार्या उपस्तिरे ।
१४,२।२१च् - सिनीवालि प्र जायतां भगस्य सुमताव् असत् ॥२१॥

१४,२।२२अ - यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
१४,२।२२च् - तद् आ रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥

१४,२।२३अ - उप स्तृणीहि बल्बजम् अधि चर्मणि रोहिते ।
१४,२।२३च् - तत्रोपविश्य सुप्रजा इमम् अग्निं सपर्यतु ॥२३॥

१४,२।२४अ - आ रोह चर्मोप सीदाग्निम् एष देवो हन्ति रक्षांसि सर्वा ।
१४,२।२४च् - इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत् पुत्रस् त एषः ॥२४॥

१४,२।२५अ - वि तिष्ठन्तां मातुर् अस्या उपस्थान् नानारूपाः पशवो जायमानाः ।
१४,२।२५च् - सुमङ्गल्य् उप सीदेमम् अग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥

१४,२।२६अ - सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
१४,२।२६च् - स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥

१४,२।२७अ - स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।
१४,२।२७च् - स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥

१४,२।२८अ - सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत ।
१४,२।२८च् - सौभाग्यम् अस्यै दत्त्वा दौर्भाग्यैर् विपरेतन ॥२८॥

१४,२।२९अ - या दुर्हार्दो युवतयो याश् चेह जरतीर् अपि ।
१४,२।२९च् - वर्चो न्व् अस्यै सं दत्ताथास्तं विपरेतन ॥२९॥

१४,२।३०अ - रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।
१४,२।३०च् - आरोहत् सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}

१४,२।३१अ - आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
१४,२।३१च् - इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥

१४,२।३२अ - देवा अग्रे न्य् अपद्यन्त पत्नीः सम् अस्पृशन्त तन्वस् तनूभिः ।
१४,२।३२च् - सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥

१४,२।३३अ - उत् तिष्ठेतो विश्वावसो नमसेढामहे त्वा ।
१४,२।३३च् - जामिम् इछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥

१४,२।३४अ - अप्सरसः सधमादं मदन्ति हविर्धानम् अन्तरा सूर्यं च ।
१४,२।३४च् - तास् ते जनित्रम् अभि ताः परेहि नमस् ते गन्धर्वर्तुना कृणोमि ॥३४॥

१४,२।३५अ - नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।
१४,२।३५च् - विश्वावसो ब्रह्मणा ते नमो 'भि जाया अप्सरसः परेहि ॥३५॥

१४,२।३६अ - राया वयं सुमनसः स्यामोद् इतो गन्धर्वम् आवीवृताम ।
१४,२।३६च् - अगन्त् स देवः परमं सधस्थम् अगन्म यत्र प्रतिरन्त आयुः ॥३६॥

१४,२।३७अ - सं पितराव् ऋत्विये सृजेथां माता पिता च रेतसो भवाथः ।
१४,२।३७च् - मर्य इव योषाम् अधि रोहयैनां प्रजां कृण्वाथाम् इह पुष्यतं रयिम् ॥३७॥

१४,२।३८अ - तां पूषं छिवतमाम् एरयस्व यस्यां बीजं मनुष्या वपन्ति ।
१४,२।३८च् - या न ऊरू उशती विश्रयाति यस्याम् उशन्तः प्रहरेम शेपः ॥३८॥

१४,२।३९अ - आ रोहोरुम् उप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
१४,२।३९च् - प्रजां कृण्वाथाम् इह मोदमानौ दीर्घं वाम् आयुः सविता कृणोतु ॥३९॥

१४,२।४०अ - आ वां प्रजां जनयतु प्रजापतिर् अहोरात्राभ्यां सम् अनक्त्व् अर्यमा ।
१४,२।४०च् - अदुर्मङ्गली पतिलोकम् आ विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}

१४,२।४१अ - देवैर् दत्तं मनुना साकम् एतद् वाधूयं वासो वध्वश् च वस्त्रम् ।
१४,२।४१च् - यो ब्रह्मणे चिकितुषे ददाति स इद् रक्षांसि तल्पानि हन्ति ॥४१॥

१४,२।४२अ - यं मे दत्तो ब्रह्मभागं वधूयोर् वाधूयं वासो वध्वश् च वस्त्रम् ।
१४,२।४२च् - युवं ब्रह्मणे 'नुमन्यमानौ बृहस्पते साकम् इन्द्रश् च दत्तम् ॥४२॥

१४,२।४३अ - स्योनाद् योनेर् अधि बध्यमानौ हसामुदौ महसा मोदमानौ ।
१४,२।४३च् - सुगू सुपुत्रौ सुगृहौ तराथो जीवाव् उषसो विभातीः ॥४३॥

१४,२।४४अ - नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।
१४,२।४४च् - आण्ढात् पतत्रीवामुक्षि विश्वस्माद् एनसस् परि ॥४४॥

१४,२।४५अ - शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
१४,२।४५च् - आपः सप्त सुस्रुवुर् देवीस् ता नो मुञ्चन्त्व् अंहसः ॥४५॥

१४,२।४६अ - सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
१४,२।४६च् - ये भूतस्य प्रचेतसस् तेभ्य इदम् अकरं नमः ॥४६॥

१४,२।४७अ - य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः ।
१४,२।४७च् - संधाता संधिं मघवा पुरूवसुर् निष्कर्ता विह्रुतं पुनः ॥४७॥

१४,२।४८अ - अपास्मत् तम उछतु नीलं पिशङ्गम् उत लोहितं यत् ।
१४,२।४८च् - निर्दहनी या पृषातक्य् अस्मिन् तां स्थाणाव् अध्य् आ सजामि ॥४८॥

१४,२।४९अ - यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।
१४,२।४९च् - व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणाव् अधि सादयामि ॥४९॥

१४,२।५०अ - या मे प्रियतमा तनूः सा मे बिभाय वाससः ।
१४,२।५०च् - तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}

१४,२।५१अ - ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।
१४,२।५१च् - वासो यत् पत्नीभिर् उतं तन् न स्योनम् उप स्पृशात् ॥५१॥

१४,२।५२अ - उशतीः कन्यला इमाः पितृलोकात् पतिं यतीः ।
१४,२।५२च् - अव दीक्षाम् असृक्षत स्वाहा ॥५२॥

१४,२।५३अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५३च् - वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥५३॥

१४,२।५४अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५४च् - तेजो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥५४॥

१४,२।५५अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५५च् - भजो गोषु प्रविष्टो यस् तेनेमां सं सृजामसि ॥५५॥

१४,२।५६अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५६च् - यशो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥५६॥

१४,२।५७अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५७च् - पयो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥५७॥

१४,२।५८अ - बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
१४,२।५८च् - रसो गोषु प्रविष्टो यस् तेनेमां सं सृजामसि ॥५८॥

१४,२।५९अ - यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तो 'घम् ।
१४,२।५९च् - अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥५९॥

१४,२।६०अ - यदीयं दुहिता तव विकेश्य् अरुदद् गृहे रोदेन कृण्वत्य् अघम् ।
१४,२।६०च् - अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}

१४,२।६१अ - यज् जामयो यद् युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीर् अघम् ।
१४,२।६१च् - अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥६१॥

१४,२।६२अ - यत् ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितम् अघकृद्भिर् अघं कृतम् ।
१४,२।६२च् - अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥६२॥

१४,२।६३अ - इयं नार्य् उप ब्रूते पूल्यान्य् आवपन्तिका ।
१४,२।६३च् - दीर्घायुर् अस्तु मे पतिर् जीवाति शरदः शतम् ॥६३॥

१४,२।६४अ - इहेमाव् इन्द्र सं नुद चक्रवाकेव दंपती ।
१४,२।६४च् - प्रजयैनौ स्वस्तकौ विश्वम् आयुर् व्य् अश्नुताम् ॥६४॥

१४,२।६५अ - यद् आसन्द्याम् उपधाने यद् वोपवासने कृतम् ।
१४,२।६५च् - विवाहे कृत्यां यां चक्रुर् आस्नाने तां नि दध्मसि ॥६५॥

१४,२।६६अ - यद् दुष्कृतं यच् छमलं विवाहे वहतौ च यत् ।
१४,२।६६च् - तत् संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥

१४,२।६७अ - संभले मलं सादयित्वा कम्बले दुरितं वयम् ।
१४,२।६७च् - अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥६७॥

१४,२।६८अ - कृत्रिमः कण्टकः शतदन् य एषः ।
१४,२।६८च् - अपास्याः केश्यं मलम् अप शीर्षण्यं लिखात् ॥६८॥

१४,२।६९अ - अङ्गादङ्गाद् वयम् अस्या अप यक्ष्मं नि दध्मसि ।
१४,२।६९च् - तन् मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापद् उर्व् अन्तरिक्षम् ।
१४,२।६९ए - अपो मा प्रापन् मलम् एतद् अग्ने यमम् मा प्रापत् पितॄंश् च सर्वान् ॥६९॥

१४,२।७०अ - सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
१४,२।७०च् - सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजम् एमम् ॥७०॥ {१३}

१४,२।७१अ - अमो 'हम् अस्मि सा त्वं सामाहम् अस्म्य् ऋक् त्वं द्यौर् अहं पृथिवी त्वम् ।
१४,२।७१च् - ताव् इह सं भवाव प्रजाम् आ जनयावहै ॥७१॥

१४,२।७२अ - जनियन्ति नाव् अग्रवः पुत्रियन्ति सुदानवः ।
१४,२।७२च् - अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥

१४,२।७३अ - ये पितरो वधूदर्शा इमं वहतुम् आगमन् ।
१४,२।७३च् - ते अस्यै वध्वै संपत्न्यै प्रजावच् छर्म यछन्तु ॥७३॥

१४,२।७४अ - येदं पूर्वागन् रशनायमाना प्रजाम् अस्यै द्रविणं चेह दत्त्वा ।
१४,२।७४च् - तां वहन्त्व् अगतस्यानु पन्थां विराढ् इयं सुप्रजा अत्य् अजैषीत् ॥७४॥

१४,२।७५अ - प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।
१४,२।७५च् - गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:09.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

twisting action

  • पिरगळण्याची क्रिया 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.