TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथर्ववेदः - काण्डं १०

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


काण्डं १०
१०,१।१अ - यां कल्पयन्ति वहतौ वधूम् इव विश्वरूपां हस्तकृतां चिकित्सवः ।
१०,१।१च् - साराद् एत्व् अप नुदाम एनाम् ॥१॥

१०,१।२अ - शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।
१०,१।२च् - साराद् एत्व् अप नुदाम एनाम् ॥२॥

१०,१।३अ - शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
१०,१।३च् - जाया पत्या नुत्तेव कर्तारं बन्ध्व् ऋछतु ॥३॥

१०,१।४अ - अनयाहम् ओषध्या सर्वाः कृत्या अदूदुषम् ।
१०,१।४च् - यां क्षेत्रे चक्रुर् यां गोषु यां वा ते पुरुषेषु ॥४॥

१०,१।५अ - अघम् अस्त्व् अघकृते शपथः शपथीयते ।
१०,१।५च् - प्रत्यक् प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ॥५॥

१०,१।६अ - प्रतीचीन आङ्गिरसो 'ध्यक्षो नः पुरोहितः ।
१०,१।६च् - प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥

१०,१।७अ - यस् त्वोवाच परेहीति प्रतिकूलम् उदाय्यम् ।
१०,१।७च् - तं कृत्ये 'भिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥

१०,१।८अ - यस् ते परूंषि संदधौ रथस्येव र्भुर् धिया ।
१०,१।८च् - तं गछ तत्र ते 'यनम् अज्ञातस् ते 'यं जनः ॥८॥

१०,१।९अ - ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
१०,१।९च् - शंभ्व् इदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥

१०,१।१०अ - यद् दुर्भगां प्रस्नपितां मृतवत्साम् उपेयिम ।
१०,१।१०च् - अपैतु सर्वं मत् पापं द्रविणं मोप तिष्ठतु ॥१०॥ (१)

१०,१।११अ - यत् ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
१०,१।११च् - संदेश्यात् सर्वस्मात् पापाद् इमा मुञ्चन्तु त्वौषधीः ॥११॥

१०,१।१२अ - देवैनसात् पित्र्यान् नामग्राहात् संदेश्याद् अभिनिष्कृतात् ।
१०,१।१२च् - मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥

१०,१।१३अ - यथा वातश् च्यावयति भूम्या रेणुम् अन्तरिक्षाच् चाभ्रम् ।
१०,१।१३च् - एवा मत् सर्वं दुर्भूतं ब्रह्मनुत्तम् अपायति ॥१३॥

१०,१।१४अ - अप क्राम नानदती विनद्धा गर्दभीव ।
१०,१।१४च् - कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥

१०,१।१५अ - अयं पन्थाः कृत्येति त्वा नयामो 'भिप्रहितां प्रति त्वा प्र हिण्मः ।
१०,१।१५च् - तेनाभि याहि भञ्जत्य् अनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥

१०,१।१६अ - पराक् ते ज्योतिर् अपथं ते अर्वाग् अन्यत्रास्मद् अयना कृणुष्व ।
१०,१।१६च् - परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥

१०,१।१७अ - वात इव वृक्षान् नि मृणीहि पादय मा गाम् अश्वं पुरुषम् उच् छिष एषाम् ।
१०,१।१७च् - कर्तॄन् निवृत्येतः कृत्ये 'प्रजास्त्वाय बोधय ॥१७॥

१०,१।१८अ - यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।
१०,१।१८च् - अग्नौ वा त्वा गार्हपत्ये 'भिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥

१०,१।१९अ - उपाहृतम् अनुबुद्धं निखातं वैरं त्सार्य् अन्व् अविदाम कर्त्रम् ।
१०,१।१९च् - तद् एतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥

१०,१।२०अ - स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।
१०,१।२०च् - उत् तिष्ठैव परेहीतो 'ज्ञाते किम् इहेछसि ॥२०॥ (२)

१०,१।२१अ - ग्रीवास् ते कृत्ये पादौ चापि कर्त्स्यामि निर् द्रव ।
१०,१।२१च् - इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥

१०,१।२२अ - सोमो राजाधिपा मृढिता च भूतस्य नः पतयो मृढयन्तु ॥२२॥

१०,१।२३अ - भवाशर्वाव् अस्यतां पापकृते कृत्याकृते ।
१०,१।२३च् - दुष्कृते विद्युतं देवहेतिम् ॥२३॥

१०,१।२४अ - यद्य् एयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
१०,१।२४च् - सेतो 'ष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥

१०,१।२५अ - अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
१०,१।२५च् - जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥

१०,१।२६अ - परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
१०,१।२६च् - मृगः स मृगयुस् त्वं न त्वा निकर्तुम् अर्हति ॥२६॥

१०,१।२७अ - उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।
१०,१।२७च् - उत पूर्वस्य निघ्नतो नि हन्त्य् अपरः प्रति ॥२७॥

१०,१।२८अ - एतद् धि शृणु मे वचो 'थेहि यत एयथ ।
१०,१।२८च् - यस् त्वा चकार तं प्रति ॥२८॥

१०,१।२९अ - अनागोहत्या वै भीमा कृत्ये मा नो गाम् अश्वं पुरुषं वधीः ।
१०,१।२९च् - यत्रयत्रासि निहिता ततस् त्वोत् थापयामसि पर्णाल् लघीयसी भव ॥२९॥

१०,१।३०अ - यदि स्थ तमसावृता जालेनभिहिता इव ।
१०,१।३०च् - सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥

१०,१।३१अ - कृत्याकृतो वलगिनो 'भिनिष्कारिणः प्रजाम् ।
१०,१।३१च् - मृणीहि कृत्ये मोच् छिषो 'मून् कृत्याकृतो जहि ॥३१॥

१०,१।३२अ - यथा सूर्यो मुच्यते तमसस् परि रात्रिं जहात्य् उषसश्च केतून् ।
१०,१।३२च् - एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ (३)


१०,२।१अ - केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।
१०,२।१च् - केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥

१०,२।२अ - कस्मान् नु गुल्फाव् अधराव् अकृण्वन्न् अष्ठीवन्ताव् उत्तरौ पुरुषस्य ।
१०,२।२च् - जङ्घे निरृत्य न्य् अदधुः क्व स्विज् जानुनोः संधी क उ तच् चिकेत ॥२॥

१०,२।३अ - चतुष्टयं युजते संहितान्तं जानुभ्याम् ऊर्ध्वं शिथिरं कबन्धम् ।
१०,२।३च् - श्रोणी यद् ऊरू क उ तज् जजान याभ्यां कुसिन्धं सुदृडं बभूव ॥३॥

१०,२।४अ - कति देवाः कतमे त आसन् य उरो ग्रीवाश् चिक्युः पुरुषस्य ।
१०,२।४च् - कति स्तनौ व्य् अदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीर् अचिन्वन् ॥४॥

१०,२।५अ - को अस्य बाहू सम् अभरद् वीर्यां करवाद् इति ।
१०,२।५च् - अंसौ को अस्य तद् देवः कुसिन्धे अध्य् आ दधौ ॥५॥

१०,२।६अ - कः सप्त खानि वि ततर्द शीर्षणि कर्णाव् इमौ नासिके चक्षणी मुखम् ।
१०,२।६च् - येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥

१०,२।७अ - हन्वोर् हि जिह्वाम् अदधात् पुरूचीम् अधा महीम् अधि शिश्राय वाचम् ।
१०,२।७च् - स आ वरीवर्ति भुवनेष्व् अन्तर् अपो वसानः क उ तच् चिकेत ॥७॥

१०,२।८अ - मस्तिष्कम् अस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् ।
१०,२।८च् - चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥

१०,२।९अ - प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः ।
१०,२।९च् - आनन्दान् उग्रो नन्दांश् च कस्माद् वहति पूरुषः ॥९॥

१०,२।१०अ - आर्तिर् अवर्तिर् निरृतिः कुतो नु पुरुषे 'मतिः ।
१०,२।१०च् - राद्धिः समृद्धिर् अव्यृद्धिर् मतिर् उदितयः कुतः ॥१०॥ (४)

१०,२।११अ - को अस्मिन्न् आपो व्य् अदधात् विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।
१०,२।११च् - तीव्रा अरुणा लोहिनीस् ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥

१०,२।१२अ - को अस्मिन् रूपम् अदधात् को मह्मानं च नाम च ।
१०,२।१२च् - गातुं को अस्मिन् कः केतुं कश् चरित्रानि पुरुषे ॥१२॥

१०,२।१३अ - को अस्मिन् प्राणं अवयत् को अपानं व्यानम् उ ।
१०,२।१३च् - समानम् अस्मिन् को देवो 'धि शिश्राय पुरुषे ॥१३॥

१०,२।१४अ - को अस्मिन् यज्ञम् अदधाद् एको देवो 'धि पुरुषे ।
१०,२।१४च् - को अस्मिन्त् सत्यं को 'नृतं कुतो मृत्युः कुतो 'मृतम् ॥१४॥

१०,२।१५अ - को अस्मै वासः पर्य् अदधात् को अस्यायुर् अकल्पयत् ।
१०,२।१५च् - बलं को अस्मै प्रायछत् को अस्याकल्पयज् जवम् ॥१५॥

१०,२।१६अ - केनापो अन्व् अतनुत केनाहर् अकरोद् रुचे ।
१०,२।१६च् - उषसं केनान्व् अइन्द्ध केन सायंभवं ददे ॥१६॥

१०,२।१७अ - को अस्मिन् रेतो न्य् अदधात् तन्तुर् आ तायताम् इति ।
१०,२।१७च् - मेधां को अस्मिन्न् अध्य् अउहत् को बाणं को नृतो दधौ ॥१७॥

१०,२।१८अ - केनेमां भूमिम् अउर्णोत् केन पर्य् अभवद् दिवम् ।
१०,२।१८च् - केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥

१०,२।१९अ - केन पर्जन्यम् अन्व् एति केन सोमं विचक्षणम् ।
१०,२।१९च् - केन यज्ञम् च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥

१०,२।२०अ - केन श्रोत्रियम् आप्नोति केनेमं परमेष्ठिनम् ।
१०,२।२०च् - केनेमम् अग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ (५)

१०,२।२१अ - ब्रह्म श्रोत्रियम् आप्नोति ब्रह्मेमं परमेष्ठिनम् ।
१०,२।२१च् - ब्रह्मेमम् अग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥

१०,२।२२अ - केन देवां अनु क्षियति केन दैवजनीर् विशः ।
१०,२।२२च् - केनेदम् अन्यन् नक्षत्रं केन सत् क्षत्रम् उच्यते ॥२२॥

१०,२।२३अ - ब्रह्म देवां अनु क्षियति ब्रह्म दैवजनीर् विशः ।
१०,२।२३च् - ब्रह्मेदम् अन्यन् नक्षत्रं ब्रह्म सत् क्षत्रम् उच्यते ॥२३॥

१०,२।२४अ - केनेयं भूमिर् विहिता केन द्यौर् उत्तरा हिता ।
१०,२।२४च् - केनेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षम् व्यचो हितम् ॥२४॥

१०,२।२५अ - ब्रह्मणा भूमिर् विहिता ब्रह्म द्यौर् उत्तरा हिता ।
१०,२।२५च् - ब्रह्मेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥२५॥

१०,२।२६अ - मूर्धानम् अस्य संसीव्याथर्वा हृदयं च यत् ।
१०,२।२६च् - मस्तिष्काद् ऊर्ध्वः प्रैरयत् पवमानो 'धि शीर्षतः ॥२६॥

१०,२।२७अ - तद् वा अथर्वणः शिरो देवकोशः समुब्जितः ।
१०,२।२७च् - तत् प्राणो अभि रक्षति शिरो अन्नम् अथो मनः ॥२७॥

१०,२।२८अ - ऊर्ध्वो नु सृष्टा३स् तिर्यङ् नु सृष्टा३स् सर्वा दिशः पुरुष आ बभूवा३ं ।
१०,२।२८च् - पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥

१०,२।२९अ - यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
१०,२।२९च् - तस्मै ब्रह्म च ब्राह्माश् च चक्षुः प्राणं प्रजां ददुः ॥२९॥

१०,२।३०अ - न वै तम् चक्षुर् जहाति न प्राणो जरसः पुरा ।
१०,२।३०च् - पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥

१०,२।३१अ - अष्टाचक्रा नवद्वारा देवानां पूर् अयोध्या ।
१०,२।३१च् - तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥

१०,२।३२अ - तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।
१०,२।३२च् - तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ॥३२॥

१०,२।३३अ - प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
१०,२।३३च् - पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ (६)


१०,३।१अ - अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।
१०,३।१च् - तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥

१०,३।२अ - प्रैणान् छृणीहि प्र मृणा रभस्व मणिस् ते अस्तु पुरएता पुरस्तात् ।
१०,३।२च् - अवारयन्त वरणेन देवा अभ्याचारम् असुराणां श्वःश्वः ॥२॥

१०,३।३अ - अयं मणिर् वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।
१०,३।३च् - स ते शत्रून् अधरान् पादयाति पूर्वस् तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥

१०,३।४अ - अयं ते कृत्यां वितताम् पौरुषेयाद् अयं भयात् ।
१०,३।४च् - अयं त्वा सर्वस्मात् पापाद् वरणो वारयिष्यते ॥४॥

१०,३।५अ - वरणो वारयाता अयं देवो वनस्पतिः ।
१०,३।५च् - यक्ष्मो यो अस्मिन्न् आविष्टस् तम् उ देवा अवीवरन् ॥५॥

१०,३।६अ - स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावाद् अजुष्टाम् ।
१०,३।६च् - परिक्षवाच् छकुनेः पापवादाद् अयं मणिर् वरणो वारयिष्यते ॥६॥

१०,३।७अ - अरात्यास् त्वा निरृत्या अभिचाराद् अथो भयात् ।
१०,३।७च् - मृत्योर् ओजीयसो वधाद् वरणो वारयिष्यते ॥७॥

१०,३।८अ - यन् मे माता यन् मे पिता भ्रातरो यच् च मे स्वा यद् एनश् चकृमा वयम् ।
१०,३।८च् - ततो नो वारयिष्यते 'यं देवो वनस्पतिः ॥८॥

१०,३।९अ - वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।
१०,३।९च् - असूर्तं रजो अप्य् अगुस् ते यन्त्व् अधमं तमः ॥९॥

१०,३।१०अ - अरिष्टो 'हम् अरिष्टगुर् आयुष्मान्त् सर्वपूरुषः ।
१०,३।१०च् - तम् मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ (७)

१०,३।११अ - अयं मे वरण उरसि राजा देवो वनस्पतिः ।
१०,३।११च् - स मे शत्रून् वि बाधताम् इन्द्रो दस्यून् इवासुरान् ॥११॥

१०,३।१२अ - इमं बिभर्मि वरणम् आयुष्मान् छतशारदः ।
१०,३।१२च् - स मे राष्ट्रं च क्षत्रं च पशून् ओजश् च मे दधत् ॥१२॥

१०,३।१३अ - यथा वातो वनस्पतीन् वृक्षान् भनक्त्य् ओजसा ।
१०,३।१३च् - एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥१३॥

१०,३।१४अ - यथा वातश् चाग्निश् च वृक्षान् प्सातो वनस्पतीन् ।
१०,३।१४च् - एवा सपत्नान् मे प्साहि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥१४॥

१०,३।१५अ - यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।
१०,३।१५च् - एवा सपत्नांस् त्वं मम प्र क्षिणीहि न्य् अर्पय ।
१०,३।१५ए - पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥१५॥

१०,३।१६अ - तांस् त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुषः ।
१०,३।१६च् - य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥

१०,३।१७अ - यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
१०,३।१७च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।१७ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥१७॥

१०,३।१८अ - यथा यशश् चन्द्रमस्य् आदित्ये च नृचक्षसि ।
१०,३।१८च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।१८ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥१८॥

१०,३।१९अ - यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।
१०,३।१९च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।१९ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥१९॥

१०,३।२०अ - यथा यशः कन्यायां यथास्मिन्त् संभृते रथे ।
१०,३।२०च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२०ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२०॥ (८)

१०,३।२१अ - यथा यशः सोमपीथे मधुपर्के यथा यशः ।
१०,३।२१च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२१ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२१॥

१०,३।२२अ - यथा यशो 'ग्निहोत्रे वषट्कारे यथा यशः ।
१०,३।२२च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२२ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२२॥

१०,३।२३अ - यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।
१०,३।२३च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२३ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२३॥

१०,३।२४अ - यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।
१०,३।२४च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२४ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२४॥

१०,३।२५अ - यथा देवेष्व् अमृतं यथैषु सत्यम् आहितम् ।
१०,३।२५च् - एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
१०,३।२५ए - तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥२५॥ (९)


१०,४।१अ - इन्द्रस्य प्रथमो रथो देवानाम् अपरो रथो वरुणस्य तृतीय इत् ।
१०,४।१च् - अहीनाम् अपमा रथ स्थानुम् आरद् अथार्षत् ॥१॥

१०,४।२अ - दर्भः शोचिस् तरूणकम् अश्वस्य वारः परुषस्य वारः ।
१०,४।२च् - रथस्य बन्धुरम् ॥२॥

१०,४।३अ - अव श्वेत पदा जहि पूर्वेण चापरेण च ।
१०,४।३च् - उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ॥३॥

१०,४।४अ - अरंघुषो निमज्योन्मज पुनर् अब्रवीत् ।
१०,४।४च् - उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ॥४॥

१०,४।५अ - पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रम् उतासितम् ।
१०,४।५च् - पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥

१०,४।६अ - पैद्व प्रेहि प्रथमो 'नु त्वा वयम् एमसि ।
१०,४।६च् - अहीन् व्य् अस्यतात् पथो येन स्मा वयम् एमसि ॥६॥

१०,४।७अ - इदं पैद्वो अजायतेदम् अस्य परायणम् ।
१०,४।७च् - इमान्य् अर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥

१०,४।८अ - संयतं न वि ष्परद् व्यात्तं न सं यमत् ।
१०,४।८च् - अस्मिन् क्षेत्रे द्वाव् अही स्त्री च पुमांश् च ताव् उभाव् अरसा ॥८॥

१०,४।९अ - अरसास इहाहयो ये अन्ति ये च दूरके ।
१०,४।९च् - घनेन हन्मि वृश्चिकम् अहिं दण्ढेनागतम् ॥९॥

१०,४।१०अ - अघाश्वस्येदं भेषजम् उभयो स्वजस्य च ।
१०,४।१०च् - इन्द्रो मे 'हिम् अघायन्तम् अहिं पैद्वो अरन्धयत् ॥१०॥ (१०)

१०,४।११अ - पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।
१०,४।११च् - इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥

१०,४।१२अ - नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
१०,४।१२च् - जघानेन्द्रो जघ्निमा वयम् ॥१२॥

१०,४।१३अ - हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः ।
१०,४।१३च् - दर्विं करिक्रतं श्वित्रं दर्भेष्व् असितं जहि ॥१३॥

१०,४।१४अ - कैरातिका कुमारिका सका खनति भेषजम् ।
१०,४।१४च् - हिरण्ययीभिर् अभ्रिभिर् गिरीनाम् उप सानुषु ॥१४॥

१०,४।१५अ - आयम् अगन् युवा भिषक् पृश्निहापराजितः ।
१०,४।१५च् - स वै स्वजस्य जम्भन उभयोर् वृश्चिकस्य च ॥१५॥

१०,४।१६अ - इन्द्रो मे 'हिम् अरन्धयन् मित्रश् च वरुणश् च ।
१०,४।१६च् - वातापर्जन्योभा ॥१६॥

१०,४।१७अ - इन्द्रो मे 'हिम् अरन्धयत् पृदाकुं च पृदाक्वम् ।
१०,४।१७च् - स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥

१०,४।१८अ - इन्द्रो जघान प्रथमं जनितारम् अहे तव ।
१०,४।१८च् - तेषाम् उ तृह्यमाणानां कः स्वित् तेषाम् असद् रसः ॥१८॥

१०,४।१९अ - सं हि शीर्षाण्य् अग्रभं पौञ्जिष्ठ इव कर्वरम् ।
१०,४।१९च् - सिन्धोर् मध्यं परेत्य व्य् अनिजम् अहेर् विषम् ॥१९॥

१०,४।२०अ - अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।
१०,४।२०च् - हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ (११)

१०,४।२१अ - ओषधीनाम् अहं वृण उर्वरीर् इव साधुया ।
१०,४।२१च् - नयाम्य् अर्वतीर् इवाहे निरैतु विषम् ॥२१॥

१०,४।२२अ - यद् अग्नौ सूर्ये विषं पृथिव्याम् ओषधीषु यत् ।
१०,४।२२च् - कान्दाविषं कनक्नकं निरैत्व् अइतु ते विषम् ॥२२॥

१०,४।२३अ - ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
१०,४।२३च् - येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥

१०,४।२४अ - तौदी नामासि कन्या घृताची नाम वा असि ।
१०,४।२४च् - अधस्पदेन ते पदम् आ ददे विषदूषणम् ॥२४॥

१०,४।२५अ - अङ्गादङ्गात् प्र च्यावय हृदयम् परि वर्जय ।
१०,४।२५च् - अधा विषस्य यत् तेजो 'वाचीनं तद् एतु ते ॥२५॥

१०,४।२६अ - आरे अभूद् विषम् अरौद् विषे विषम् अप्राग् अपि ।
१०,४।२६च् - अग्निर् विषम् अहेर् निर् अधात् सोमो निर् अणयीत् ।
१०,४।२६ए - दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥२६॥ (१२)


१०,५।१अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।१च् - जिष्णवे योगाय ब्रह्मयोगैर् वो युनज्मि ॥१॥

१०,५।२अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।२च् - जिष्णवे योगाय क्षत्रयोगैर् वो युनज्मि ॥२॥

१०,५।३अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।३च् - जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि ॥३॥

१०,५।४अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।४च् - जिष्णवे योगाय सोमयोगैर् वो युनज्मि ॥४॥

१०,५।५अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।५च् - जिष्णवे योगायाप्सुयोगैर् वो युनज्मि ॥५॥

१०,५।६अ - इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
१०,५।६च् - जिष्णवे योगाय विश्वानि मा भूतान्य् उप तिष्ठन्तु युक्ता म आप स्थ ॥६॥

१०,५।७अ - अग्नेर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।७च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥७॥

१०,५।८अ - इन्द्रस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।८च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥८॥

१०,५।९अ - सोमस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।९च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥९॥

१०,५।१०अ - वरुणस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।१०च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥१०॥ (१३)

१०,५।११अ - मित्रावरुणयोर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।११च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥११॥

१०,५।१२अ - यमस्य भाग स्थ अपाम् शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।१२च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥१२॥

१०,५।१३अ - पितॄणां भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।१३च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥१३॥

१०,५।१४अ - देवस्य सवितुर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त ।
१०,५।१४च् - प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥१४॥

१०,५।१५अ - यो व आपो 'पां भागो 'प्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।१५च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।१५ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।१५ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १५ ॥

१०,५।१६अ - यो व आपो 'पाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।१६च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।१६ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।१६ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १६ ॥

१०,५।१७अ - यो व आपो 'पाम् वत्सो 'प्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।१७च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।१७ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।१७ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १७ ॥

१०,५।१८अ - यो व आपो 'पां वृषभो 'प्स्व् अन्तर् यजुष्यो देवयजनः ॥
१०,५।१८च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।१८ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥
१०,५।१८ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १८ ॥

१०,५।१९अ - यो व आपो 'पां हिरण्यगर्भो 'प्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।१९च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।१९ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।१९ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १९ ॥

१०,५।२०अ - यो व आपो 'पां अश्मा पृश्निर् दिव्यो 'प्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।२०च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।२०ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२०ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २० ॥

१०,५।२१अ - यो व आपो 'पां अग्नयो 'प्स्व् अन्तर् यजुष्यो देवयजनः ।
१०,५।२१च् - इदं तम् अति सृजामि तं माभ्यवनिक्षि ।
१०,५।२१ए - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२१ग् - तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २१ ॥

१०,५।२२अ - यद् अर्वाचीनं त्रैहायणाद् अनृतं किं चोदिम ।
१०,५।२२च् - आपो मा तस्मात् सर्वस्माद् दुरितात् पान्त्व् अंहसः ॥२२॥

१०,५।२३अ - समुद्रं वः प्र हिणोमि स्वां योनिम् अपीतन ।
१०,५।२३च् - अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥२३॥

१०,५।२४अ - अरिप्रा आपो अप रिप्रम् अस्मत् ।
१०,५।२४च् - प्रास्मद् एनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यम् प्र मलं वहन्तु ॥२४॥

१०,५।२५अ - विष्णोः क्रमो 'सि सपत्नहा पृथिवीसंशितो 'ग्नितेजाः ।
१०,५।२५च् - पृथिवीम् अनु वि क्रमे 'हं पृथिव्यास् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२५ए - स मा जीवीत् तं प्रानो जहातु ॥२५॥

१०,५।२६अ - विष्णोः क्रमो 'सि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
१०,५।२६च् - अन्तरिक्षम् अनु वि क्रमे 'हं अन्तरिक्षात् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२६ए - स मा जीवीत् तं प्रानो जहातु ॥२६॥

१०,५।२७अ - विष्णोः क्रमो 'सि सपत्नहा द्यौसंशितः सूर्यतेजाः ।
१०,५।२७च् - दिवम् अनु वि क्रमे 'हं दिवस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२७ए - स मा जिवीत् तं प्रानो जहातु ॥२७॥

१०,५।२८अ - विष्णोः क्रमो 'सि सपत्नहा दिक्संशितो मनस्तेजाः ।
१०,५।२८च् - दिशो अनु वि क्रमे 'हं दिग्भ्यस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२८ए - स मा जीवीत् तं प्रानो जहातु ॥२८॥

१०,५।२९अ - विष्णोः क्रमो 'सि सपत्नहाशासंशितो वाततेजाः ।
१०,५।२९च् - आशा अनु वि क्रमे 'हं आशाभ्यस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।२९ए - स मा जीवीत् तं प्रानो जहातु ॥२९॥

१०,५।३०अ - विष्णोः क्रमो 'सि सपत्नहा ऋक्संशितो सामतेजाः ।
१०,५।३०च् - ऋचो 'नु वि क्रमे 'हं ऋग्भ्यस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३०ए - स मा जीवीत् तं प्रानो जहातु ॥३०॥ (१५)

१०,५।३१अ - विष्णोः क्रमो 'सि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।
१०,५।३१च् - यज्ञम् अनु वि क्रमे 'हं यज्ञात् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३१ए - स मा जीवीत् तं प्रानो जहातु ॥३१॥

१०,५।३२अ - विष्णोः क्रमो 'सि सपत्नहौषधीसंशितो सोमतेजाः ।
१०,५।३२च् - ओषधीर् अनु वि क्रमे 'हं ओषधीभ्यस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३२ए - स मा जीवीत् तं प्रानो जहातु ॥३२॥

१०,५।३३अ - विष्णोः क्रमो 'सि सपत्नहाप्सुसंशितो वरुणतेजाः ।
१०,५।३३च् - अपो 'नु वि क्रमे 'हं अद्भ्यस् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३३ए - स मा जीवीत् तं प्रानो जहातु ॥३३॥

१०,५।३४अ - विष्णोः क्रमो 'सि सपत्नहा कृषिसंशितो 'न्नतेजाः ।
१०,५।३४च् - कृषिम् अनु वि क्रमे 'हं कृष्यास् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३४ए - स मा जीवीत् तं प्रानो जहातु ॥३४॥

१०,५।३५अ - विस्णोः क्रमो 'सि सपत्नहा प्राणसंशितः पुरुषतेजाः ।
१०,५।३५च् - प्राणम् अनु वि क्रमे 'हं प्राणात् तं निर् भजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
१०,५।३५ए - स मा जीवीत् तं प्रानो जहातु ॥३५॥
१०,५।३६अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः ।
१०,५।३६च् - इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य वर्चस् तेजः प्राणम् आयुर् नि वेष्टयामीदम् एनम् अधराञ्चं पादयामि ॥३६॥

१०,५।३७अ - सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्व् आवृतम् ।
१०,५।३७च् - सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥३७॥

१०,५।३८अ - दिशो ज्योतिष्मतीर् अभ्यावर्ते ।
१०,५।३८च् - ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥३८॥

१०,५।३९अ - सप्तऋषीन् अभ्यावर्ते ।
१०,५।३९च् - ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥३९॥

१०,५।४०अ - ब्रह्माभ्यावर्ते ।
१०,५।४०च् - तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥४०॥ (१६)

१०,५।४१अ - ब्राह्मणां अभ्यावर्ते ।
१०,५।४१च् - ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥४१॥

१०,५।४२अ - यम् वयं मृगयामहे तं वधै स्तृणवामहै ।
१०,५।४२च् - व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥४२॥

१०,५।४३अ - वैश्वानरस्य दंष्ट्राभ्यां हेतिस् तं सम् अधाद् अभि ।
१०,५।४३च् - इयं तं प्सात्व् आहुतिः समिद् देवी सहीयसी ॥४३॥

१०,५।४४अ - राज्ञो वरुणस्य बन्धो 'सि ।
१०,५।४४च् - सो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ॥४४॥

१०,५।४५अ - यत् ते अन्नं भुवस् पत आक्षियति पृथिवीम् अनु ।
१०,५।४५च् - तस्य नस् त्वं भुवस् पते संप्रयछ प्रजापते ॥४५॥

१०,५।४६अ - अपो दिव्या अचायिषं रसेन सम् अपृक्ष्महि ।
१०,५।४६च् - पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥४६॥

१०,५।४७अ - सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा ।
१०,५।४७च् - विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥४७॥

१०,५।४८अ - यद् अग्ने अद्य मिथुना शपतो यद् वाचस् तृष्टं जनयन्त रेभाः ।
१०,५।४८च् - मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥४८॥

१०,५।४९अ - परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
१०,५।४९च् - परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥४९॥

१०,५।५०अ - अपाम् अस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
१०,५।५०च् - सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥५०॥ (१७)


१०,६।१अ - अरातीयोर् भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।
१०,६।१च् - अपि वृश्चाम्य् ओजसा ॥१॥

१०,६।२अ - वर्म मह्यम् अयं मणिः फालाज् जातः करिष्यति ।
१०,६।२च् - पूर्णो मन्थेन मागमद् रसेन सह वर्चसा ॥२॥

१०,६।३अ - यत् त्वा शिक्वः परावधीत् तक्षा हस्तेन वास्या ।
१०,६।३च् - आपस् त्वा तस्मज् जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥

१०,६।४अ - हिरण्यस्रग् अयं मणिः श्रद्धां यज्ञं महो दधत् ।
१०,६।४च् - गृहे वसतु नो 'तिथिः ॥४॥

१०,६।५अ - तस्मै घृतं सुरं मध्व् अन्नमन्नम् क्षदामहे ।
१०,६।५च् - स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश् चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिर् एत्य ॥५॥

१०,६।६अ - यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे ।
१०,६।६च् - तम् अग्निः प्रत्य् अमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥६॥

१०,६।७अ - यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे ।
१०,६।७च् - तम् इन्द्रः प्रत्य् अमुञ्चतौजसे वीर्याय कम् ।
१०,६।७ए - सो अस्मै बलम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥७॥

१०,६।८अ - यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् कधिरम् ओजसे ।
१०,६।८च् - तं सोमः प्रत्य् अमुञ्चत महे श्रोत्राय चक्षसे ।
१०,६।८ए - सो अस्मै वर्च इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वम् द्विषतो जहि ॥८॥

१०,६।९अ - यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं खदिरम् ओजसे ।
१०,६।९च् - तं सूर्यः प्रत्य् अमुञ्चत तेनेमा अजयद् दिशः ।
१०,६।९ए - सो अस्मै भूतिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥९॥

१०,६।१०अ - यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् खदिरम् ओजसे ।
१०,६।१०च् - तम् बिभ्रच् चन्द्रमा मणिम् असुराणां पुरो 'जयद् दानवानां हिरण्ययीः ।
१०,६।१०ए - सो अस्मै श्रियम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१०॥ (१८)

१०,६।११अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।११च् - सो अस्मै वाजिनम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥११॥

१०,६।१२अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१२च् - तेनेमां मणिना कृषिम् अश्विनाव् अभि रक्षतः ।
१०,६।१२ए - स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१२॥

१०,६।१३अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१३च् - तम् बिभ्रत् सविता मणिं तेनेदम् अजयत् स्वः ।
१०,६।१३ए - सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१३॥

१०,६।१४अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१४च् - तम् आपो बिभ्रतीर् मणिं सदा धावन्त्य् अक्षिताः ।
१०,६।१४ए - स आभ्यो 'मृतम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१४॥

१०,६।१५अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१५च् - तम् राजा वरुणो मणिं प्रत्य् अमुञ्चत शंभुवम् ।
१०,६।१५ए - सो अस्मै सत्यम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१५॥

१०,६।१६अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१६च् - तं देवा बिभ्रतो मणिं सर्वांल् लोकान् युधाजयन् ।
१०,६।१६ए - स एभ्यो जितिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१६॥

१०,६।१७अ - यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे ।
१०,६।१७च् - तम् इमं देवता मणिं प्रत्य् अमुञ्चन्त शम्भुवम् ।
१०,६।१७ए - स आभ्यो विश्वम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥१७॥

१०,६।१८अ - ऋतवस् तम् अबध्नतार्तवास् तम् अबध्नत ।
१०,६।१८च् - संवत्सरस् तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥

१०,६।१९अ - अन्तर्देशा अबध्नत प्रदिशस् तम् अबध्नत ।
१०,६।१९च् - प्रजापतिसृष्टो मणिर् द्विषतो मे 'धरां अकः ॥१९॥

१०,६।२०अ - अथर्वाणो अबध्नताथर्वणा अबध्नत ।
१०,६।२०च् - तैर् मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस् तेन त्वम् द्विषतो जहि ॥२०॥ (१९)

१०,६।२१अ - तं धाता प्रत्य् अमुञ्चत स भूतं व्य् अकल्पयत् ।
१०,६।२१च् - तेन त्वं द्विषतो जहि ॥२१॥

१०,६।२२अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२२च् - स मायं मणिर् आगमद् रसेन सह वर्चसा ॥२२॥

१०,६।२३अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२३च् - स मायं मणिर् आगमत् सह गोभिर् अजाविभिर् अन्नेन प्रजया सह ॥२३॥

१०,६।२४अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२४च् - स मायं मणिर् आगमत् सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥

१०,६।२५अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२५च् - स मायं मणिर् आगमन् मधोर् घृतस्य धारया कीलालेन मणिः सह ॥२५॥

१०,६।२६अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२६च् - स मायं मणिर् आगमद् ऊर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥

१०,६।२७अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२७च् - स मायं मणिर् आगमत् तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥

१०,६।२८अ - यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् ।
१०,६।२८च् - स मायं मणिर् आगमत् सर्वाभिर् भूतिभिः सह ॥२८॥

१०,६।२९अ - तम् इमं देवता मणिं मह्यं ददतु पुष्टये ।
१०,६।२९च् - अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥

१०,६।३०अ - ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।
१०,६।३०च् - असपत्नः सपत्नहा सपत्नान् मे 'धरां अकः ॥३०॥ (२०)

१०,६।३१अ - उत्तरं द्विषतो माम् अयं मणिः कृणोतु देवजाः ।
१०,६।३१च् - यस्य लोका इमे त्रयः पयो दुग्धम् उपासते ।
१०,६।३१ए - स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥

१०,६।३२अ - यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।
१०,६।३२च् - स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥

१०,६।३३अ - यथा बीजम् उर्वरायां कृष्टे फालेन रोहति ।
१०,६।३३च् - एवा मयि प्रजा पशवो 'न्नमन्नं वि रोहतु ॥३३॥

१०,६।३४अ - यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
१०,६।३४च् - तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ॥३४॥

१०,६।३५अ - एतम् इध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।
१०,६।३५च् - तस्मिन् विधेम सुमतिं स्वस्ति प्रजाम् चक्षुः पशून्त् समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ (२१)


१०,७।१अ - कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतम् अस्याध्य् आहितम् ।
१०,७।१च् - क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यम् अस्य प्रतिष्ठितम् ॥१॥

१०,७।२अ - कस्माद् अङ्गाद् दीप्यते अग्निर् अस्य कस्माद् अङ्गात् पवते मातरिश्व ।
१०,७।२च् - कस्माद् अङ्गाद् वि मिमीते 'धि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥

१०,७।३अ - कस्मिन्न् अङ्गे तिष्ठति भूमिर् अस्य कस्मिन्न् अङ्गे तिष्ठत्य् अन्तरिक्षम् ।
१०,७।३च् - कस्मिन्न् अङ्गे तिष्ठत्य् आहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्य् उत्तरं दिवः ॥३॥

१०,७।४अ - क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।
१०,७।४च् - यत्र प्रेप्सन्तीर् अभियन्त्य् आवृतः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥४॥

१०,७।५अ - क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
१०,७।५च् - यत्र यन्त्य् ऋतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥५॥

१०,७।६अ - क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।
१०,७।६च् - यत्र प्रेप्सन्तीर् अभियन्त्य् आपः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥६॥

१०,७।७अ - यस्मिन्त् स्तब्ध्वा प्रजापतिर् लोकान्त् सर्वां अधारयत् ।
१०,७।७च् - स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥७॥

१०,७।८अ - यत् परमम् अवमम् यच् च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।
१०,७।८च् - कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत् कियत् तद् बभूव ॥८॥

१०,७।९अ - कियता स्कम्भः प्र विवेश भूतम् कियद् भविष्यद् अन्वाशये 'स्य ।
१०,७।९च् - एकं यद् अङ्गम् अकृणोत् सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥

१०,७।१०अ - यत्र लोकाम्श् च कोशांश् चापो ब्रह्म जना विदुः ।
१०,७।१०च् - असच् च यत्र सच् चान्त स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१०॥ (२२)

१०,७।११अ - यत्र तपः पराक्रम्य व्रतं धारयत्य् उत्तरम् ।
१०,७।११च् - ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥११॥

१०,७।१२अ - यस्मिन् भूमिर् अन्तरिक्षं द्यौर् यस्मिन्न् अध्य् आहिता ।
१०,७।१२च् - यत्राग्निश् चन्द्रमाः सूर्यो वातस् तिष्ठन्त्य् आर्पिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१२॥

१०,७।१३अ - यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः ।
१०,७।१३च् - स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१३॥

१०,७।१४अ - यत्र ऋषयः प्रथमजा ऋचः साम यजुर् मही ।
१०,७।१४च् - एकर्षिर् यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१४॥

१०,७।१५अ - यत्रामृतं च मृत्युश् च पुरुषे 'धि समाहिते ।
१०,७।१५च् - समुद्रो यस्य नाढ्यः पुरुषे 'धि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१५॥

१०,७।१६अ - यस्य चतस्रः प्रदिशो नाढ्यस् तिष्ठन्ति प्रथमाः ।
१०,७।१६च् - यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१६॥

१०,७।१७अ - ये पुरुषे ब्रह्म विदुस् ते विदुः परमेष्ठिनम् ।
१०,७।१७च् - यो वेद परमेष्ठिनं यश् च वेद प्रजापतिम् ।
१०,७।१७ए - ज्येष्ठं ये ब्राह्मणं विदुस् ते स्कम्भम् अनुसंविदुः ॥१७॥

१०,७।१८अ - यस्य शिरो वैश्वानरश् चक्षुर् अङ्गिरसो 'भवन् ।
१०,७।१८च् - अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१८॥

१०,७।१९अ - यस्य ब्रह्म मुखम् आहुर् जिह्वां मधुकशाम् उत ।
१०,७।१९च् - विराजम् ऊधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥१९॥

१०,७।२०अ - यस्माद् ऋचो अपातक्षन् यजुर् यस्माद् अपाकषन् ।
१०,७।२०च् - सामानि यस्य लोमान्य् अथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥२०॥ (२३)

१०,७।२१अ - असच्चाखां प्रतिष्ठन्तीं परमम् इव जना विदुः ।
१०,७।२१च् - उतो सन् मन्यन्ते 'वरे ये ते शाखाम् उपासते ॥२१॥

१०,७।२२अ - यत्रादित्याश् च रुद्राश् च वसवश् च समाहिताः ।
१०,७।२२च् - भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥२२॥

१०,७।२३अ - यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा ।
१०,७।२३च् - निधिं तम् अद्य को वेद यं देवा अभिरक्षथ ॥२३॥

१०,७।२४अ - यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठम् उपासते ।
१०,७।२४च् - यो वै तान् विद्यात् प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥२४॥

१०,७।२५अ - बृहन्तो नाम ते देवा ये 'सतः परि जज्ञिरे ।
१०,७।२५च् - एकं तद् अङ्गं स्कम्भस्यासद् आहुः परो जनाः ॥२५॥

१०,७।२६अ - यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत् ।
१०,७।२६च् - एकं तद् अङ्गं स्कम्भस्य पुराणम् अनुसंविदुः ॥२६॥

१०,७।२७अ - यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्रा विभेजिरे ।
१०,७।२७च् - तान् वै त्रयस्त्रिंशद् देवान् एके ब्रहम्विदो विदुः ॥२७॥

१०,७।२८अ - हिरण्यगर्भम् परमम् अनत्युद्यं जना विदुः ।
१०,७।२८च् - स्कम्भस् तद् अग्रे प्रासिञ्चद् धिरण्यं लोके अन्तरा ॥२८॥

१०,७।२९अ - स्कम्भे लोकाः स्कम्भे तपः स्कम्भे 'ध्य् ऋतम् आहितम् ।
१०,७।२९च् - स्कम्भ त्वा वेद प्रत्यक्षम् इन्द्रे सर्वं समाहितम् ॥२९॥

१०,७।३०अ - इन्द्रे लोका इन्द्रे तप इन्द्रे 'ध्य् ऋतम् आहितम् ।
१०,७।३०च् - इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ (२४)

१०,७।३१अ - नाम नाम्ना जोहवीति पुरा सूर्यात् पुरोषसः ।
१०,७।३१च् - यद् अजः प्रथमं संबभूव स ह तत् स्वराज्यम् इयाय यस्मान् नान्यत् परम् अस्ति भूतम् ॥३१॥

१०,७।३२अ - यस्य भूमिः प्रमान्तरिक्षम् उतोदरम् ।
१०,७।३२च् - दिवं यश् चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥

१०,७।३३अ - यस्य सूर्यश् चक्षुश् चन्द्रमाश् च पुनर्णवः ।
१०,७।३३च् - अग्निं यश् चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥

१०,७।३४अ - यस्य वातः प्राणापानौ चक्षुर् अङ्गिरसो 'भवन् ।
१०,७।३४च् - दिशो यश् चक्रे प्रज्ञानीस् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
१०,७।३५अ - स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्व् अन्तरिक्षम् ।
१०,७।३५च् - स्कम्भो दाधार प्रदिशः षढ् उर्वीः स्कम्भ इदं विश्वं भुवनम् आ विवेश ॥३५॥

१०,७।३६अ - यः श्रमात् तपसो जातो लोकान्त् सर्वान्त् समानशे ।
१०,७।३६च् - सोमं यश् चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥

१०,७।३७अ - कथं वातो नेलयति कथं न रमते मनः ।
१०,७।३७च् - किम् आपः सत्यं प्रेप्सन्तीर् नेलयन्ति कदा चन ॥३७॥

१०,७।३८अ - महद् यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
१०,७।३८च् - तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
१०,७।३९अ - यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
१०,७।३९च् - यस्मै देवाः सदा बलिं प्रयछन्ति विमिते 'मितं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥३९॥

१०,७।४०अ - अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।
१०,७।४०च् - सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥

१०,७।४१अ - यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।
१०,७।४१च् - स वै गुह्यः प्रजापतिः ॥४१॥

१०,७।४२अ - तन्त्रम् एके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।
१०,७।४२च् - प्रान्या तन्तूंस् तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥

१०,७।४३अ - तयोर् अहं परिनृत्यन्त्योर् इव न वि जानामि यतरा परस्तात् ।
१०,७।४३च् - पुमान् एनद् वयत्य् उद् गृणन्ति पुमान् एनद् वि जभाराधि नाके ॥४३॥

१०,७।४४अ - इमे मयूखा उप तस्तभुर् दिवं सामानि चक्रुस् तसराणि वातवे ॥४४॥ (२५)


१०,८।१अ - यो भूतं च भव्यं च सर्वं यश् चाधितिष्ठति ।
१०,८।१च् - स्व् अर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥

१०,८।२अ - स्कम्भेनेमे विष्टभिते द्यौश् च भूमिश् च तिष्ठतः ।
१०,८।२च् - स्कम्भ इदं सर्वम् आत्मन्वद् यत् प्राणन् निमिषच् च यत् ॥२॥

१०,८।३अ - तिस्रो ह प्रजा अत्यायम् आयन् न्य् अन्या अर्कम् अभितो 'विशन्त ।
१०,८।३च् - बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीर् आ विवेश ॥३॥

१०,८।४अ - द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत ।
१०,८।४च् - तत्राहतास् त्रीणि शतानि शङ्कवः षष्टिश् च खीला अविचाचला ये ॥४॥

१०,८।५अ - इदं सवितर् वि जानीहि षढ् यमा एक एकजः ।
१०,८।५च् - तस्मिन् हापित्वम् इछन्ते य एषाम् एक एकजः ॥५॥

१०,८।६अ - आविः सन् निहितं गुहा जरन् नाम महत् पदम् ।
१०,८।६च् - तत्रेदं सर्वम् आर्पितम् एजत् प्राणत् प्रतिष्ठितम् ॥६॥

१०,८।७अ - एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
१०,८।७च् - अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं क्व तद् बभूव ॥७॥

१०,८।८अ - पञ्चवाही वहत्यग्रम् एषां प्रष्टयो युक्ता अनुसंवहन्ति ।
१०,८।८च् - अयातम् अस्य ददृशे न यातं परं नेदीयो 'वरं दवीयः ॥८॥

१०,८।९अ - तिर्यग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम् ।
१०,८।९च् - तद् आसत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥

१०,८।१०अ - या पुरस्ताद् युज्यते या च पश्चाद् या विश्वतो युज्यते या च सर्वतः ।
१०,८।१०च् - यया यज्ञः प्राङ् तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ (२६)

१०,८।११अ - यद् एजति पतति यच् च तिष्ठति प्राणद् अप्राणन् निमिषच् च यद् भुवत् ।
१०,८।११च् - तद् दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्य् एकम् एव ॥११॥

१०,८।१२अ - अनन्तं विततं पुरुत्रानन्तम् अन्तवच् चा समन्ते ।
१०,८।१२च् - ते नाकपालश् चरति विचिन्वन् विद्वान् भूतम् उत भव्यम् अस्य ॥१२॥

१०,८।१३अ - प्रजापतिश् चरति गर्भे अन्तर् अदृश्यमानो बहुधा वि जायते ।
१०,८।१३च् - अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ॥१३॥

१०,८।१४अ - ऊर्ध्वं भरन्तम् उदकं कुम्भेनेवोदहार्यम् ।
१०,८।१४च् - पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥

१०,८।१५अ - दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
१०,८।१५च् - महद् यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥

१०,८।१६अ - यतः सूर्यः उदेत्य् अस्तं यत्र च गछति ।
१०,८।१६च् - तद् एव मन्ये 'हं ज्येष्ठं तद् उ नात्य् एति किं चन ॥१६॥

१०,८।१७अ - ये अर्वाङ् मध्य उत वा पुराणं वेदं विद्वांसम् अभितो वदन्ति ।
१०,८।१७च् - आदित्यम् एव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥

१०,८।१८अ - सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् ।
१०,८।१८च् - स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥

१०,८।१९अ - सत्येनोर्ध्वस् तपति ब्रह्मणार्वाङ् वि पश्यति ।
१०,८।१९च् - प्राणेन तिर्यङ् प्राणति यस्मिन् ज्येष्ठम् अधि श्रितम् ॥१९॥

१०,८।२०अ - यो वै ते विद्याद् अरणी याभ्यां निर्मथ्यते वसु ।
१०,८।२०च् - स विद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत् ॥२०॥ (२७)

१०,८।२१अ - अपाद् अग्रे सम् अभवत् सो अग्रे स्वर् आभरत् ।
१०,८।२१च् - चतुष्पाद् भूत्वा भोग्यः सर्वम् आदत्त भोजनम् ॥२१॥

१०,८।२२अ - भोग्यो भवद् अथो अन्नम् अदद् बहु ।
१०,८।२२च् - यो देवम् उत्तरावन्तम् उपासातै सनातनम् ॥२२॥

१०,८।२३अ - सनातनम् एनम् आहुर् उताद्य स्यात् पुनर्णवः ।
१०,८।२३च् - अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥

१०,८।२४अ - शतं सहस्रम् अयुतं न्यर्बुदम् असंख्येयं स्वम् अस्मिन् निविष्टम् ।
१०,८।२४च् - तद् अस्य घ्नन्त्य् अभिपश्यत एव तस्माद् देवो रोचत् एष एतत् ॥२४॥

१०,८।२५अ - बालाद् एकम् अणीयस्कम् उतैकं नेव दृश्यते ।
१०,८।२५च् - ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥

१०,८।२६अ - इयं कल्याण्य् अजरा मर्त्यस्यामृता गृहे ।
१०,८।२६च् - यस्मै कृता शये स यश् चकार जजार सः ॥२६॥

१०,८।२७अ - त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
१०,८।२७ब् - त्वं जीर्णो दण्ढेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥

१०,८।२८अ - उतैषां पितोत वा पुत्र एषाम् उतैषां ज्येष्ठ उत वा कनिष्ठः ।
१०,८।२८च् - एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥

१०,८।२९अ - पूर्णात् पूर्णम् उद् अचति पूर्णं पूर्णेन सिच्यते ।
१०,८।२९च् - उतो तद् अद्य विद्याम यतस् तत् परिषिच्यते ॥२९॥

१०,८।३०अ - एषा सनत्नी सनम् एव जातैषा पुराणी परि सर्वं बभूव ।
१०,८।३०च् - मही देव्य् उषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ (२८)

१०,८।३१अ - अविर् वै नाम देवतर्तेनास्ते परीवृता ।
१०,८।३१च् - तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥

१०,८।३२अ - अन्ति सन्तं न जहात्य् अन्ति सन्तं न पश्यति ।
१०,८।३२च् - देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥

१०,८।३३अ - अपूर्वेणेषिता वाचस् ता वदन्ति यथायथम् ।
१०,८।३३च् - वदन्तीर् यत्र गछन्ति तद् आहुर् ब्राह्मणं महत् ॥३३॥

१०,८।३४अ - यत्र देवाश् च मनुष्याश् चारा नाभाव् इव श्रिताः ।
१०,८।३४च् - अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥

१०,८।३५अ - येभिर् वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
१०,८।३५च् - य आहुतिम् अत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥

१०,८।३६अ - इमाम् एषां पृथिवीं वस्त एको 'न्तरिक्षं पर्य् एको बभूव ।
१०,८।३६च् - दिवम् एषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्य् एके ॥३६॥

१०,८।३७अ - यो विद्यात् सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
१०,८।३७च् - सूत्रं सूत्रस्य यो विद्याद् स विद्याद् ब्राह्मणं महत् ॥३७॥

१०,८।३८अ - वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
१०,८।३८च् - सूत्रं सूत्रस्याहं वेदाथो यद् ब्राह्मणं महद् ॥३८॥

१०,८।३९अ - यद् अन्तरा द्यावापृथिवी अग्निर् अइत् प्रदहन् विश्वदाव्यः ।
१०,८।३९च् - यत्रातिष्ठन्न् एकपत्नीः परस्तात् क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥

१०,८।४०अ - अप्स्व् आसीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्य् आसन्॥
१०,८।४०ब् - बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥

१०,८।४१अ - उत्तरेणेव गयत्रीम् अमृते 'धि वि चक्रमे ।
१०,८।४१च् - साम्ना ये साम संविदुर् अजस् तद् ददृशे क्व ॥४१॥

१०,८।४२अ - निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
१०,८।४२च् - इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥

१०,८।४३अ - पुण्ढरीकं नवद्वारं त्रिभिर् गुणेभिर् आवृतम् ।
१०,८।४३च् - तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ॥४३॥

१०,८।४४अ - अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश् चनोनः ।
१०,८।४४च् - तम् एव विद्वान् न बिभाय मृत्योर् आत्मानं धीरम् अजरं युवानम् ॥४४॥ (२९)


१०,९।१अ - अघायताम् अपि नह्या मुखानि सपत्नेषु वज्रम् अर्पयैतम् ।
१०,९।१च् - इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥

१०,९।२अ - वेदिष् टे चर्म भवतु बर्हिर् लोमानि यानि ते ।
१०,९।२च् - एषा त्वा रशनाग्रभीद् ग्रावा त्वैषो 'धि नृत्यतु ॥२॥

१०,९।३अ - बालास् ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।
१०,९।३च् - शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥

१०,९।४अ - यः शतौदनां पचति कामप्रेण स कल्पते ।
१०,९।४च् - प्रीता ह्य् अस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥

१०,९।५अ - स स्वर्गम् आ रोहति यत्रादस् त्रिदिवं दिवः ।
१०,९।५च् - अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
१०,९।६अ - स तांल् लोकान्त् सम् आप्नोति ये दिव्या ये च पार्थिवाः ।
१०,९।६च् - हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥

१०,९।७अ - ये ते देवि शमितारः पक्तारो ये च ते जनाः ।
१०,९।७च् - ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥

१०,९।८अ - वसवस् त्वा दक्षिणत उत्तरान् मरुतस् त्वा ।
१०,९।८च् - आदित्याः पश्चाद् गोप्स्यन्ति साग्निष्टोमम् अति द्रव ॥८॥

१०,९।९अ - देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये ।
१०,९।९च् - ते त्वा सर्वे गोप्स्यन्ति सातिरात्रम् अति द्रव ॥९॥

१०,९।१०अ - अन्तरिक्षं दिवं भूमिम् आदित्यान् मरुतो दिशः ।
१०,९।१०च् - लोकान्त् स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ (३०)

१०,९।११अ - घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।
१०,९।११च् - पक्तारम् अघ्न्ये मा हिंसीर् दिवं प्रेहि शतौदने ॥११॥

१०,९।१२अ - ये देवा दिविषदो अन्तरिक्षसदश् च ये ये चेमे भूम्याम् अधि ।
१०,९।१२च् - तेभ्यस् त्वं धुक्ष्व सर्वदा क्षीरं सर्पिर् अथो मधु ॥१२॥

१०,९।१३अ - यत् ते शिरो यत् ते मुखं यौ कर्णौ ये च ते हनू ।
१०,९।१३च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१३॥

१०,९।१४अ - यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च ते 'क्षिणी ।
१०,९।१४च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१४॥

१०,९।१५अ - यत् ते क्लोमा यद् धृदयं पुरीतत् सहकण्ठिका ।
१०,९।१५च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१५॥

१०,९।१६अ - यत् ते यकृद् ये मतस्ने यद् आन्त्रम् याश् च ते गुदाः ।
१०,९।१६च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१६॥

१०,९।१७अ - यस् ते प्लाशिर् यो वनिष्ठुर् यौ कुक्षी यच् च चर्म ते ।
१०,९।१७च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१७॥

१०,९।१८अ - यत् ते मज्जा यद् अस्थि यन् मंसं यच् च लोहितम् ।
१०,९।१८च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१८॥

१०,९।१९अ - यौ ते बाहू ये दोषणी याव् अंसौ या च ते ककुत् ।
१०,९।१९च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥१९॥

१०,९।२०अ - यास् ते ग्रीवा ये स्कन्धा याः पृष्टीर् याश् च पर्शवः ।
१०,९।२०च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥२०॥ (३१)

१०,९।२१अ - यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् ।
१०,९।२१च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥२१॥

१०,९।२२अ - यत् ते पुछं ये ते बाला यद् ऊधो ये च ते स्तनाः ।
१०,९।२२च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥२२॥

१०,९।२३अ - यास् ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः ।
१०,९।२३च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥२३॥

१०,९।२४अ - यत् ते चर्म शतौदने यानि लोमान्य् अघ्न्ये ।
१०,९।२४च् - आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥२४॥

१०,९।२५अ - क्रोढौ ते स्तां पुरोदाशाव् आज्येनाभिघारितौ ।
१०,९।२५च् - तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥

१०,९।२६अ - उलूखले मुसले यश् च चर्मणि यो वा शूर्पे तण्ढुलः कणः ।
१०,९।२६च् - यं वा वातो मातरिश्वा पवमानो ममाथाग्निष् टद् धोता सुहुतं कृणोतु ॥२६॥

१०,९।२७अ - अपो देवीर् मधुमतीर् घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
१०,९।२७च् - यत्काम इदम् अभिषिञ्चामि वो 'हं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ (३२)


१०,१०।१अ - नमस् ते जायमानायै जाताया उत ते नमः ।
१०,१०।१च् - बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥

१०,१०।२अ - यो विद्यात् सप्त प्रवतः सप्त विद्यात् परावतः ।
१०,१०।२च् - शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात् ॥२॥

१०,१०।३अ - वेदाहं सप्त प्रवतः सप्त वेद परावतः ।
१०,१०।३च् - शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥

१०,१०।४अ - यया द्यौर् यया पृथिवी ययापो गुपिता इमाः ।
१०,१०।४च् - वशां सहस्रधारां ब्रह्मणाछावदामसि ॥४॥

१०,१०।५अ - शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।
१०,१०।५च् - ये देवास् तस्यां प्राणन्ति ते वशां विदुर् एकधा ॥५॥

१०,१०।६अ - यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
१०,१०।६च् - वशा पर्जन्यपत्नी देवां अप्य् एति ब्रह्मणा ॥६॥

१०,१०।७अ - अनु त्वाग्निः प्राविशद् अनु सोमो वशे त्वा ।
१०,१०।७च् - ऊधस् ते भद्रे पर्जन्यो विद्युतस् ते स्तना वशे ॥७॥

१०,१०।८अ - अपस् त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।
१०,१०।८च् - तृतीयं राष्ट्रं धुक्षे 'न्नं क्षीरं वशे त्वम् ॥८॥

१०,१०।९अ - यद् आदित्यैर् हूयमानोपातिष्ठ ऋतवरि ।
१०,१०।९च् - इन्द्रः सहस्रं पात्रान्त् सोमं त्वापाययद् वशे ॥९॥

१०,१०।१०अ - यद् अनूचीन्द्रम् अइर् आत् त्वा ऋषभो 'ह्वयत् ।
१०,१०।१०च् - तस्मात् ते वृत्रहा पयः क्षीरं क्रुद्धो 'हरद् वशे ॥१०॥ (३३)

१०,१०।११अ - यत् ते क्रुद्धो धनपतिर् आ क्षीरम् अहरद् वशे ।
१०,१०।११च् - इदं तद् अद्य नाकस् त्रिषु पात्रेषु रक्षति ॥११॥

१०,१०।१२अ - त्रिषु पात्रेषु तं सोमम् आ देव्य् अहरद् वशा ।
१०,१०।१२च् - अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ॥१२॥

१०,१०।१३अ - सं हि सोमेनागत सम् उ सर्वेण पद्वता ।
१०,१०।१३च् - वशा समुद्रम् अध्य् अष्ठद् गन्धर्वैः कलिभिः सह ॥१३॥

१०,१०।१४अ - सं हि वातेनागत सम् उ सर्वैः पतत्रिभिः ।
१०,१०।१४च् - वशा समुद्रे प्रानृत्यद् ऋचः सामानि बिभ्रती ॥१४॥

१०,१०।१५अ - सं हि सूर्येणागत सम् उ सर्वेण चक्षुषा ।
१०,१०।१५च् - वशा समुद्रम् अत्य् अख्यद् भद्रा ज्योतींषि बिभ्रती ॥१५॥

१०,१०।१६अ - अभीवृता हिरण्येन यद् अतिष्ठ ऋतावरि ।
१०,१०।१६च् - अश्वः समुद्रो भूत्वाध्य् अस्कन्दद् वशे त्वा ॥१६॥

१०,१०।१७अ - तद् भद्राः सम् अगछन्त वशा देष्ट्र्य् अथो स्वधा ।
१०,१०।१७च् - अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ॥१७॥

१०,१०।१८अ - वशा माता राजन्यस्य वशा माता स्वधे तव ।
१०,१०।१८च् - वशाया यज्ञ आयुधं ततश् चित्तम् अजायत ॥१८॥

१०,१०।१९अ - ऊर्ध्वो बिन्दुर् उद् अचरद् ब्रह्मणः ककुदाद् अधि ।
१०,१०।१९च् - ततस् त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥

१०,१०।२०अ - आस्नस् ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।
१०,१०।२०च् - पाजस्याज् जज्ञे यज्ञ स्तनेभ्यो रश्मयस् तव ॥२०॥ (३४)

१०,१०।२१अ - ईर्माभ्याम् अयनं जातं सक्थिभ्यां च वशे तव ।
१०,१०।२१च् - आन्त्रेभ्यो जज्ञिरे अत्रा उदराद् अधि वीरुधः ॥२१॥

१०,१०।२२अ - यद् उदरं वरुणस्यानुप्राविशथा वशे ।
१०,१०।२२च् - ततस् त्वा ब्रह्मोद् अह्वयत् स हि नेत्रम् अवेत् तव ॥२२॥

१०,१०।२३अ - सर्वे गर्भाद् अवेपन्त जायमानाद् असूस्वः ।
१०,१०।२३च् - ससूव हि ताम् आहु वशेति ब्रह्मभिः कॢप्तः स ह्य् अस्या बन्धुः ॥२३॥

१०,१०।२४अ - युध एकः सं सृजति यो अस्या एक इद् वशी ।
१०,१०।२४च् - तरांसि यज्ञा अभवन् तरसां चक्षुर् अभवद् वशा ॥२४॥

१०,१०।२५अ - वशा यज्ञं प्रत्य् अगृह्णाद् वशा सूर्यम् अधारयत् ।
१०,१०।२५च् - वशायाम् अन्तर् अविशद् ओदनो ब्रह्मणा सह ॥२५॥

१०,१०।२६अ - वशाम् एवामृतम् आहुर् वशां मृत्युम् उपासते ।
१०,१०।२६च् - वशेदं सर्वम् अभवद् देवा मनुष्या असुराः पितर ऋषयः ॥२६॥

१०,१०।२७अ - य एवं विद्यात् स वशां प्रति गृह्णीयात् ।
१०,१०।२७च् - तथा हि यज्ञः सर्वपाद् दुहे दात्रे 'नपस्फुरन् ॥२७॥

१०,१०।२८अ - तिस्रो जिह्वा वरुणस्यान्तर् दीद्यत्य् आसनि ।
१०,१०।२८च् - तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥

१०,१०।२९अ - चतुर्धा रेतो अभवद् वशायाः ।
१०,१०।२९च् - आपस् तुरीयम् अमृतं तुरीयं यज्ञस् तुरीयं पशवस् तुरीयम् ॥२९॥

१०,१०।३०अ - वशा द्यौर् वशा पृथिवी वशा विष्णुः प्रजापतिः ।
१०,१०।३०च् - वशाया दुग्धम् अपिबन्त् साध्या वसवश् च ये ॥३०॥

१०,१०।३१अ - वशाया दुग्धं पीत्वा साध्या वसवश् च ये ।
१०,१०।३१च् - ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥

१०,१०।३२अ - सोमम् एनाम् एके दुह्रे घृतम् एक उपासते ।
१०,१०।३२च् - य एवं विदुषे वशां ददुस् ते गतास् त्रिदिवं दिवः ॥३२॥

१०,१०।३३अ - ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल् लोकान्त् सम् अश्नुते ।
१०,१०।३३च् - ऋतं ह्य् अस्याम् आर्पितम् अपि ब्रह्माथो तपः ॥३३॥

१०,१०।३४अ - वशां देवा उप जीवन्ति वशां मनुष्या उत ।
१०,१०।३४च् - वशेदं सर्वम् अभवद् यावत् सूर्यो विपश्यति ॥३४॥ (३५)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:09.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Maddox rod test

  • मेडोक्स दंड चाचणी 
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site