TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथर्ववेदः - काण्डं २०

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


काण्डं २०
२०,१।१अ - इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
२०,१।१च् - स पाहि मध्वो अन्धसः ॥१॥

२०,१।२अ - मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
२०,१।२च् - स सुगोपातमो जनः ॥२॥

२०,१।३अ - उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
२०,१।३च् - स्तोमैर् विधेमाग्नये ॥३॥


२०,२।१अ - मरुतः पोत्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबन्तु ॥१॥

२०,२।२अ - अग्निर् आग्नीध्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥२॥

२०,२।३अ - इन्द्रो ब्रह्मा ब्राह्मणात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥३॥

२०,२।४अ - देवो द्रविणोदाः पोत्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥४॥


२०,३।१अ - आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
२०,३।१च् - एदं बर्हिः सदो मम ॥१॥

२०,३।२अ - आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
२०,३।२च् - उप ब्रह्माणि नः शृणु ॥२॥

२०,३।३अ - ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
२०,३।३च् - सुतावन्तो हवामहे ॥३॥


२०,४।१अ - आ नो याहि सुतावतो 'स्माकं सुष्टुतीर् उप ।
२०,४।१च् - पिबा सु शिप्रिन्न् अन्धसः ॥१॥

२०,४।२अ - आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु ।
२०,४।२च् - गृभाय जिह्वया मधु ॥२॥

२०,४।३अ - स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव ।
२०,४।३च् - सोमः शम् अस्तु ते हृदे ॥३॥


२०,५।१अ - अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः ।
२०,५।१च् - प्र सोम इन्द्र सर्पतु ॥१॥

२०,५।२अ - तुविग्रीवो वपोदरः सुबाहुर् अन्धसो सदे ।
२०,५।२च् - इन्द्रो वृत्राणि जिघ्नते ॥२॥

२०,५।३अ - इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा ।
२०,५।३च् - वृत्राणि वृत्रहं जहि ॥३॥

२०,५।४अ - दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयछसि ।
२०,५।४च् - यजमानाय सुन्वते ॥४॥

२०,५।५अ - अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
२०,५।५च् - एहीम् अस्य द्रवा पिब ॥५॥

२०,५।६अ - शाचिगो शाचिपूजनायं रणाय ते सुतः ।
२०,५।६च् - आखण्ढल प्र हूयसे ॥६॥

२०,५।७अ - यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्ढपाय्यः ।
२०,५।७च् - न्य् अस्मिन् दध्र आ मनः ॥७॥


२०,६।१अ - इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
२०,६।१च् - स पाहि मध्वो अन्धसः ॥१॥

२०,६।२अ - इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
२०,६।२च् - पिबा वृषस्व तातृपिम् ॥२॥

२०,६।३अ - इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिर् ।
२०,६।३च् - तिर स्तवान विश्पते ॥३॥

२०,६।४अ - इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
२०,६।४च् - क्षयं चन्द्रास इन्दवः ॥४॥

२०,६।५अ - दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् ।
२०,६।५च् - तव द्युक्षास इन्दवः ॥५॥

२०,६।६अ - गिर्वणः पाहि नः सुतं मधोर् धाराभिर् अज्यसे ।
२०,६।६च् - इन्द्र त्वादातम् इद् यशः ॥६॥

२०,६।७अ - अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
२०,६।७च् - पीत्वी सोमस्य वावृधे ॥७॥

२०,६।८अ - अर्वावतो न आ गहि परावतश् च वृत्रहन् ।
२०,६।८च् - इमा जुषस्व नो गिरः ॥८॥

२०,६।९अ - यद् अन्तरा परावतम् अर्वावतं च हूयसे ।
२०,६।९च् - इन्द्रेह तत आ गहि ॥९॥


२०,७।१अ - उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् ।
२०,७।१च् - अस्तारम् एषि सूर्य ॥१॥

२०,७।२अ - नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
२०,७।२च् - अहिं च वृत्रहावधीत् ॥२॥

२०,७।३अ - स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् ।
२०,७।३च् - उरुधारेव दोहते ॥३॥

२०,७।४अ - इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
२०,७।४च् - पिबा वृषस्व तातृपिम् ॥४॥


२०,८।१अ - एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
२०,८।१च् - आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥१॥

२०,८।२अ - अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय ।
२०,८।२च् - उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥

२०,८।३अ - आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै ।
२०,८।३च् - सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥३॥


२०,९।१अ - तं वो दस्मम् ऋतीषहम् वसोर् मन्दानम् अन्धसः ।
२०,९।१च् - अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥१॥

२०,९।२अ - द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् ।
२०,९।२च् - क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तम् ईमहे ॥२॥

२०,९।३अ - तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये ।
२०,९।३च् - येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥३॥

२०,९।४अ - येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः ।
२०,९।४च् - सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥४॥


२०,१०।१अ - उद् उ ते मधुमत्तमा गिर स्तोमास ईरते ।
२०,१०।१च् - सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥

२०,१०।२अ - कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः ।
२०,१०।२च् - इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥


२०,११।१अ - इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् ।
२०,११।१च् - ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥१॥

२०,११।२अ - मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् ।
२०,११।२च् - इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥२॥

२०,११।३अ - इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।
२०,११।३च् - अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥३॥

२०,११।४अ - इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
२०,११।४च् - प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥४॥

२०,११।५अ - इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि ।
२०,११।५च् - अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥५॥

२०,११।६अ - महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि ।
२०,११।६च् - वृजनेन वृजिनान्त् सं पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥६॥

२०,११।७अ - युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः ।
२०,११।७च् - विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥

२०,११।८अ - सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः ।
२०,११।८च् - ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रं मदन्त्य् अनु धीरणासः ॥८॥

२०,११।९अ - ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
२०,११।९च् - हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥९॥

२०,११।१०अ - इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् ।
२०,११।१०च् - बिभेद बलं नुनुदे विवाचो 'थाभवद् दमिताभिक्रतूनाम् ॥१०॥

२०,११।११अ - शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
२०,११।११च् - शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥


२०,१२।१अ - उद् उ ब्रह्माण्य् अइरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
२०,१२।१च् - आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥

२०,१२।२अ - अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि ।
२०,१२।२च् - नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥२॥

२०,१२।३अ - युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः ।
२०,१२।३च् - वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥३॥

२०,१२।४अ - आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र ।
२०,१२।४च् - याहि वायुर् न नियुतो नो अछा त्वं हि धीभिर् दयसे वि वाजान् ॥४॥

२०,१२।५अ - ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
२०,१२।५च् - एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥

२०,१२।६अ - एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः ।
२०,१२।६च् - स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥६॥

२०,१२।७अ - ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा ।
२०,१२।७च् - युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यंदिने सवने मत्सद् इन्द्रः ॥७॥


२०,१३।१अ - इन्द्रश् च सोमं पिबतं बृहस्पते 'स्मिन् यज्ञे मन्दसाना वृषण्वसू ।
२०,१३।१च् - आ वां विशन्त्व् इन्दवः स्वाभुवो 'स्मे रयिं सर्ववीरं नि यछतम् ॥१॥

२०,१३।२अ - आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
२०,१३।२च् - सीदता बर्हिर् उरु वः सदस् कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥

२०,१३।३अ - इमं स्तोमम् अर्हते जातवेदसे रथम् इव सं महेमा मनीषया ।
२०,१३।३च् - भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥३॥

२०,१३।४अ - अइभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः ।
२०,१३।४च् - पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥४॥


२०,१४।१अ - वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो 'वस्यवः ।
२०,१४।१च् - वाजे चित्रं हवामहे ॥१॥

२०,१४।२अ - उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् ।
२०,१४।२च् - त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥

२०,१४।३अ - यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे ।
२०,१४।३च् - सखाय इन्द्रम् ऊतये ॥३॥

२०,१४।४अ - हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
२०,१४।४च् - आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥


२०,१५।१अ - प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
२०,१५।१च् - अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥

२०,१५।२अ - अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः ।
२०,१५।२च् - यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥

२०,१५।३अ - अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे ।
२०,१५।३च् - यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥३॥

२०,१५।४अ - इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
२०,१५।४च् - नहि त्वद् अन्यो गिर्वणो गिरः सधत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥४॥

२०,१५।५अ - भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण ।
२०,१५।५च् - अनु ते द्यौर् बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥

२०,१५।६अ - त्वं तम् इन्द्र पर्वतं महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ ।
२०,१५।६च् - अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥


२०,१६।१अ - उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
२०,१६।१च् - गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥१॥

२०,१६।२अ - सं गोभिर् अङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय ।
२०,१६।२च् - जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥२॥

२०,१६।३अ - साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
२०,१६।३च् - बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥३॥

२०,१६।४अ - आप्रुषायन् मधुना ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः ।
२०,१६।४च् - बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥

२०,१६।५अ - अप ज्योतिषा तमो अन्तरिक्षद् उद्नः शीपालम् इव वात आजत् ।
२०,१६।५च् - बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥५॥

२०,१६।६अ - यदा वलस्य पीयतो जसुं भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः ।
२०,१६।६च् - दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥६॥

२०,१६।७अ - बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् ।
२०,१६।७च् - आण्ढेव भित्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥७॥

२०,१६।८अ - अश्नापिनद्धं मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।
२०,१६।८च् - निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥८॥

२०,१६।९अ - सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
२०,१६।९च् - बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥९॥

२०,१६।१०अ - हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः ।
२०,१६।१०च् - अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥१०॥

२०,१६।११अ - अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् ।
२०,१६।११च् - रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥११॥

२०,१६।१२अ - इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति ।
२०,१६।१२च् - बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥१२॥


२०,१७।१अ - अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत ।
२०,१७।१च् - परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानम् ऊतये ॥१॥

२०,१७।२अ - न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामं पुरुहूत शिश्रय ।
२०,१७।२च् - राजेव दस्म नि षदो 'धि बर्हिष्य् अस्मिन्त् सु सोमे 'वपानम् अस्तु ते ॥२॥

२०,१७।३अ - विषूवृद् इन्द्रो अमुतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते ।
२०,१७।३च् - तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥

२०,१७।४अ - वयो न वृक्षं सुपलाशम् आसदन्त् सोमास इन्द्रं मन्दिनश् चमूषदः ।
२०,१७।४च् - प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥४॥

२०,१७।५अ - कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् ।
२०,१७।५च् - न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥

२०,१७।६अ - विशंविशं मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा ।
२०,१७।६च् - यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥

२०,१७।७अ - आपो न सिन्धुम् अभि यत् समक्षरन्त् सोमास इन्द्रं कुल्या इव ह्रदम् ।
२०,१७।७च् - वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥७॥

२०,१७।८अ - वृषा न क्रुद्धः पतयद् रजःस्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः ।
२०,१७।८च् - स सुन्वते मघवा जीरदानवे 'विन्दज् ज्योतिर् मनवे हविष्मते ॥८॥

२०,१७।९अ - उज् जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।
२०,१७।९च् - वि रोचताम् अरुषो भानुना शुचिः स्वर् न शुक्रं शुशुचीत सत्पतिः ॥९॥

२०,१७।१०अ - गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
२०,१७।१०च् - वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥१०॥

२०,१७।११अ - बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः ।
२०,१७।११च् - इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥

२०,१७।१२अ - बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
२०,१७।१२च् - धत्तं रयिं स्तुवते कीरये चिद् यूयं पात स्वस्तिभिः सदा नः ॥१२॥


२०,१८।१अ - वयम् उ त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
२०,१८।१च् - कण्वा उक्थेभिर् जरन्ते ॥१॥

२०,१८।२अ - न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ ।
२०,१८।२च् - तवेद् उ स्तोमं चिकेत ॥२॥

२०,१८।३अ - इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
२०,१८।३च् - यन्ति प्रमादम् अतन्द्राः ॥३॥

२०,१८।४अ - वयम् इन्द्र त्वायवो 'भि प्र णोनुमो वृषन् ।
२०,१८।४च् - विद्धि त्व् अस्य नो वसो ॥४॥

२०,१८।५अ - मा नो निदे च वक्तवे 'र्यो रन्धीर् अराव्ने ।
२०,१८।५च् - त्वे अपि क्रतुर् मम ॥५॥

२०,१८।६अ - त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् ।
२०,१८।६च् - त्वया प्रति ब्रुवे युजा ॥६॥


२०,१९।१अ - वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
२०,१९।१च् - इन्द्र त्वा वर्तयामसि ॥१॥

२०,१९।२अ - अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
२०,१९।२च् - इन्द्र कृण्वन्तु वाघतः ॥२॥

२०,१९।३अ - नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।
२०,१९।३च् - इन्द्राभिमातिषाह्ये ॥३॥

२०,१९।४अ - पुरुष्टुतस्य धामभिः शतेन महयामसि ।
२०,१९।४च् - इन्द्रस्य चर्षणीधृतः ॥४॥

२०,१९।५अ - इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे ।
२०,१९।५च् - भरेषु वाजसातये ॥५॥

२०,१९।६अ - वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो ।
२०,१९।६च् - इन्द्र वृत्राय हन्तवे ॥६॥

२०,१९।७अ - द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।
२०,१९।७च् - इन्द्र साक्ष्वाभिमातिषु ॥७॥


२०,२०।१अ - शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
२०,२०।१च् - इन्द्र सोमं शतक्रतो ॥१॥

२०,२०।२अ - इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
२०,२०।२च् - इन्द्र तानि त आ वृणे ॥२॥

२०,२०।३अ - अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् ।
२०,२०।३च् - उत् ते शुष्मं तिरामसि ॥३॥

२०,२०।४अ - अर्वावतो न आ गह्य् अथो शक्र परावतः ।
२०,२०।४च् - उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥४॥

२०,२०।५अ - इन्द्रो अङ्गं महद् भयम् अभि षद् अप चुच्यवत् ।
२०,२०।५च् - स हि स्थिरो विचर्षणिः ॥५॥

२०,२०।६अ - इन्द्रश् च मृलयाति नो न नः पश्चाद् अघं नशत् ।
२०,२०।६च् - भद्रं भवाति नः पुरः ॥६॥

२०,२०।७अ - इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् ।
२०,२०।७च् - जेता शत्रून् विचर्षणिः ॥७॥


२०,२१।१अ - न्य् ऊ षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
२०,२१।१च् - नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥१॥

२०,२१।२अ - दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः ।
२०,२१।२च् - शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥२॥

२०,२१।३अ - शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु ।
२०,२१।३च् - अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥३॥

२०,२१।४अ - एभिर् द्युभिर् सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना ।
२०,२१।४च् - इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥४॥

२०,२१।५अ - सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः ।
२०,२१।५च् - सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥

२०,२१।६अ - ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
२०,२१।६च् - यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥

२०,२१।७अ - युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा ।
२०,२१।७च् - नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥

२०,२१।८अ - त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी ।
२०,२१।८च् - त्वं शता वङ्गृदस्याभिनत् पुरो 'नानुदः परिषूता ऋजिश्वना ॥८॥
२०,२१।९अ - त्वम् एतां जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः ।
२०,२१।९च् - षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥९॥

२०,२१।१०अ - त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् ।
२०,२१।१०च् - त्व अस्मै कुत्सम् अतिथिग्वम् आयुं महे राज्ञे यूने अरन्धनायः ॥१०॥

२०,२१।११अ - य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम ।
२०,२१।११च् - त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥


२०,२२।१अ - अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
२०,२२।१च् - तृम्पा व्य् अश्नुही मदम् ॥१॥

२०,२२।२अ - मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
२०,२२।२च् - माकीं ब्रह्मद्विषो वनः ॥२॥

२०,२२।३अ - इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
२०,२२।३च् - सरो गौरो यथा पिब ॥३॥

२०,२२।४अ - अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे ।
२०,२२।४च् - सूनुं सत्यस्य सत्पतिम् ॥४॥

२०,२२।५अ - आ हरयः ससृज्रिरे 'रुषीर् अधि बर्हिषि ।
२०,२२।५च् - यत्राभि संनवामहे ॥५॥

२०,२२।६अ - इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
२०,२२।६च् - यत् सीम् उपह्वरे विदत् ॥६॥


२०,२३।१अ - आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये ।
२०,२३।१च् - हरिभ्यां याह्य् अद्रिवः ॥१॥

२०,२३।२अ - सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् ।
२०,२३।२च् - अयुज्रन् प्रातर् अद्रयः ॥२॥

२०,२३।३अ - इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
२०,२३।३च् - वीहि शूर पुरोलाशम् ॥३॥

२०,२३।४अ - रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
२०,२३।४च् - उक्थेष्व् इन्द्र गिर्वणः ॥४॥

२०,२३।५अ - मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् ।
२०,२३।५च् - इन्द्रं वत्सं न मातरः ॥५॥

२०,२३।६अ - स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे ।
२०,२३।६च् - न स्तोतारं निदे करः ॥६॥

२०,२३।७अ - वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे ।
२०,२३।७च् - उत त्वम् अस्मयुर् वसो ॥७॥

२०,२३।८अ - मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि ।
२०,२३।८च् - इन्द्र स्वधावो मत्स्वेह ॥८॥

२०,२३।९अ - अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना ।
२०,२३।९च् - घृतस्नू बर्हिर् आसदे ॥९॥


२०,२४।१अ - उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् ।
२०,२४।१च् - हरिभ्यां यस् ते अस्मयुः ॥१॥

२०,२४।२अ - तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् ।
२०,२४।२च् - कुविन् न्व् अस्य तृप्णवः ॥२॥

२०,२४।३अ - इन्द्रम् इत्था गिरो ममाछागुर् इषिता इतः ।
२०,२४।३च् - आवृते सोमपीतये ॥३॥

२०,२४।४अ - इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे ।
२०,२४।४च् - उक्थेभिः कुविद् आगमत् ॥४॥

२०,२४।५अ - इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
२०,२४।५च् - जथरे वाजिनीवसो ॥५॥

२०,२४।६अ - विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
२०,२४।६च् - अधा ते सुम्नम् ईमहे ॥६॥

२०,२४।७अ - इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब ।
२०,२४।७च् - आगत्या वृषभिः सुतम् ॥७॥

२०,२४।८अ - तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
२०,२४।८च् - एष रारन्तु ते हृदि ॥८॥

२०,२४।९अ - त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे ।
२०,२४।९च् - कुशिकासो अवस्यवः ॥९॥


२०,२५।१अ - अश्वावति प्रथमो गोषु गछति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः ।
२०,२५।१च् - तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥१॥

२०,२५।२अ - आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः ।
२०,२५।२च् - प्राचैर् देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥

२०,२५।३अ - अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
२०,२५।३च् - असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥३॥

२०,२५।४अ - आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
२०,२५।४च् - सर्वं पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥४॥

२०,२५।५अ - यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि ।
२०,२५।५च् - आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥५॥

२०,२५।६अ - बर्हिर् वा यत् स्वपत्याय वृज्यते 'र्को वा श्लोकम् आघोषते दिवि ।
२०,२५।६च् - ग्रावा यत्र वदति करुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥६॥

२०,२५।७अ - प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
२०,२५।७च् - इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥७॥


२०,२६।१अ - योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
२०,२६।१च् - सखाय इन्द्रम् ऊतये ॥१॥

२०,२६।२अ - आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः ।
२०,२६।२च् - वाजेभिर् उप नो हवम् ॥२॥

२०,२६।३अ - अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
२०,२६।३च् - यं ते पूर्वं पिता हुवे ॥३॥

२०,२६।४अ - युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
२०,२६।४च् - रोचन्ते रोचना दिवि ॥४॥

२०,२६।५अ - युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।
२०,२६।५च् - शोणा धृष्णू नृवाहसा ॥५॥

२०,२६।६अ - केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
२०,२६।६च् - सम् उषद्भिर् अजायथाः ॥६॥


२०,२७।१अ - यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् ।
२०,२७।१च् - स्तोता मे गोषखा स्यात् ॥१॥

२०,२७।२अ - शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे ।
२०,२७।२च् - यद् अहं गोपतिः स्याम् ॥२॥

२०,२७।३अ - धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते ।
२०,२७।३च् - गाम् अश्वं पिप्युषी दुहे ॥३॥

२०,२७।४अ - न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
२०,२७।४च् - यद् दित्ससि स्तुतो मघम् ॥४॥

२०,२७।५अ - यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् ।
२०,२७।५च् - चक्राण ओपशं दिवि ॥५॥

२०,२७।६अ - वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
२०,२७।६च् - ऊतिम् इन्द्रा वृणीमहे ॥६॥


२०,२८।१अ - व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना ।
२०,२८।१च् - इन्द्रो यद् अभिनद् वलम् ॥१॥

२०,२८।२अ - उद् गा आजद् अङ्गिरोभ्य आविष् क्र्ण्वन् गुहा सतीः ।
२०,२८।२च् - अर्वाञ्चं नुनुदे वलम् ॥२॥

२०,२८।३अ - इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
२०,२८।३च् - स्थिराणि न पराणुदे ॥३॥

२०,२८।४अ - अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते ।
२०,२८।४च् - वि ते मदा अराजिषुः ॥४॥


२०,२९।१अ - त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः ।
२०,२९।१च् - स्तोतॄणाम् उत भद्रकृत् ॥१॥

२०,२९।२अ - इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः ।
२०,२९।२च् - उप यज्ञं सुराधसम् ॥२॥

२०,२९।३अ - अपां फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः ।
२०,२९।३च् - विश्वा यद् अजय स्पृधः ॥३॥

२०,२९।४अ - मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः ।
२०,२९।४च् - अव दस्यूंर् अधूनुथाः ॥४॥

२०,२९।५अ - असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः ।
२०,२९।५च् - सोमपा उत्तरो भवन् ॥५॥


२०,३०।१अ - प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
२०,३०।१च् - घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥

२०,३०।२अ - हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।
२०,३०।२च् - आ यं पृणन्ति हरिभिर् न धेनव इन्द्राय शूशं हरिवन्तम् अर्चत ॥२॥

२०,३०।३अ - सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः ।
२०,३०।३च् - द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥

२०,३०।४अ - दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या ।
२०,३०।४च् - तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥४॥

२०,३०।५अ - त्वंत्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः ।
२०,३०।५च् - त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥५॥


२०,३१।१अ - ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
२०,३१।१च् - पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥

२०,३१।२अ - अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा ।
२०,३१।२च् - अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥२॥

२०,३१।३अ - हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत ।
२०,३१।३च् - अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥३॥

२०,३१।४अ - श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
२०,३१।४च् - प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥

२०,३१।५अ - उत स्म सद्न हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् ।
२०,३१।५च् - मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतस् चिद् आ ॥५॥


२०,३२।१अ - आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
२०,३२।१च् - प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥१॥

२०,३२।२अ - आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र ।
२०,३२।२च् - पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥

२०,३२।३अ - अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते ।
२०,३२।३च् - ममद्धि सोमं मधुमन्तम् इन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥


२०,३३।१अ - अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
२०,३३।१च् - मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥१॥

२०,३३।२अ - प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
२०,३३।२च् - इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥२॥

२०,३३।३अ - ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
२०,३३।३च् - प्रजावद् इन्द्र मंसो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥३॥


२०,३४।१अ - यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत् ।
२०,३४।१च् - यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥

२०,३४।२अ - यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् ।
२०,३४।२च् - यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥२॥

२०,३४।३अ - यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य ।
२०,३४।३च् - यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥३॥

२०,३४।४अ - येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः ।
२०,३४।४च् - श्वघ्नीव यो जिगीवां लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥४॥

२०,३४।५अ - यं स्मा पृछन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् ।
२०,३४।५च् - सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥५॥

२०,३४।६अ - यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
२०,३४।६च् - युक्तग्राव्णो यो 'विता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥

२०,३४।७अ - यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
२०,३४।७च् - यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥

२०,३४।८अ - यं क्रन्दसी संयती विह्वयेते परे 'वरे उभया अमित्राः ।
२०,३४।८च् - समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥

२०,३४।९अ - यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
२०,३४।९च् - यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥९॥
२०,३४।१०अ - यः शस्वतो मह्य् एनो दधानान् अमन्यमानां छर्वा जघान ।
२०,३४।१०च् - यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥१०॥

२०,३४।११अ - यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् ।
२०,३४।११च् - ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥

२०,३४।१२अ - यः शम्भरं पर्यतरत् कसीभिर् यो 'चारुकास्नापिबत् सुतस्य ।
२०,३४।१२च् - अन्तर् गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत् स जनास इन्द्रः ॥१२॥

२०,३४।१३अ - यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् ।
२०,३४।१३च् - यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥१३॥

२०,३४।१४अ - द्यावा चिद् अस्मै पृथिवी ममेते शुष्माच् चिद् अस्य पर्वता भयन्ते ।
२०,३४।१४च् - यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥१४॥

२०,३४।१५अ - यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती ।
२०,३४।१५च् - यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥

२०,३४।१६अ - जातो व्य् अख्यत् पित्रोर् उपस्थे भुवो न वेद जनितुः परस्य ।
२०,३४।१६च् - स्तविष्यमाणो नो यो अस्मद् व्रता देवानां स जनास इन्द्रः ॥१६॥

२०,३४।१७अ - यः सोमकामो हर्यश्वः सूरिर् यस्माद् रेजन्ते भुवनानि विश्वा ।
२०,३४।१७च् - यो जघान शम्बरं यश् च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥

२०,३४।१८अ - यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः ।
२०,३४।१८च् - वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥१८॥


२०,३५।१अ - अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
२०,३५।१च् - ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥१॥

२०,३५।२अ - अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आन्गूषं बाधे सुवृक्ति ।
२०,३५।२च् - इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥

२०,३५।३अ - अस्मा इद् उ त्यम् उपमं स्वर्षां भराम्य् आङ्गूषम् आस्येन ।
२०,३५।३च् - मंहिष्ठम् अछोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥

२०,३५।४अ - अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
२०,३५।४च् - गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥

२०,३५।५अ - अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे ।
२०,३५।५च् - वीरम् दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥

२०,३५।६अ - अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय ।
२०,३५।६च् - वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥६॥

२०,३५।७अ - अस्येद् उ मातुः सवनेषु सद्यो महः पितुं पपिवां चार्व् अन्ना ।
२०,३५।७च् - मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥७॥

२०,३५।८अ - अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः ।
२०,३५।८च् - परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥

२०,३५।९अ - अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् ।
२०,३५।९च् - स्वराल् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥९॥

२०,३५।१०अ - अस्येद् एव शवसा शुशन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः ।
२०,३५।१०च् - गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥१०॥

२०,३५।११अ - अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयछत् ।
२०,३५।११च् - ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥

२०,३५।१२अ - अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः ।
२०,३५।१२च् - गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥१२॥

२०,३५।१३अ - अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
२०,३५।१३च् - युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥१३॥

२०,३५।१४अ - अस्येद् उ भिया गिरयश् च दृल्हा द्यावा च भूमा जनुषस् तुजेते ।
२०,३५।१४च् - उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥१४॥

२०,३५।१५अ - अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः ।
२०,३५।१५च् - प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥१५॥

२०,३५।१६अ - एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
२०,३५।१६च् - अइषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥१६॥


२०,३६।१अ - य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः ।
२०,३६।१च् - यः पत्यते वृषभो वृष्ण्यावान्त् सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥

२०,३६।२अ - तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
२०,३६।२च् - नक्षद्दाभं ततुरिं पर्वतेष्ठाम् अद्रोघवाचं मतिभिः शविष्ठम् ॥२॥

२०,३६।३अ - तम् ईमहे इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
२०,३६।३च् - यो अष्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥३॥

२०,३६।४अ - तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र ।
२०,३६।४च् - कस् ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसो 'सुरघ्नः ॥४॥

२०,३६।५अ - तं पृछन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः ।
२०,३६।५च् - तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अछ ॥५॥

२०,३६।६अ - अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
२०,३६।६च् - अच्युता चिद् वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥

२०,३६।७अ - तम् वो धिया नव्यस्या शविष्ठम् प्रत्नं प्रत्नवत् परितंसयध्यै ।
२०,३६।७च् - स नो वक्षद् अनिमानः सुवह्नेन्द्रो विश्वान्य् अति दुर्गहाणि ॥७॥

२०,३६।८अ - आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो 'न्तरिक्षा ।
२०,३६।८च् - तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥८॥

२०,३६।९अ - भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् ।
२०,३६।९च् - धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥

२०,३६।१०अ - आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् ।
२०,३६।१०च् - यया दासान्य् आर्याणि वृत्रा करो वज्रिन्त् सुतुका नाहुषाणि ॥१०॥

२०,३६।११अ - स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो ।
२०,३६।११च् - न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥११॥


२०,३७।१अ - यस् तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश् च्यवयति प्र विश्वाः ।
२०,३७।१च् - यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥

२०,३७।२अ - त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये ।
२०,३७।२च् - दासं यच् शुष्णम् कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥

२०,३७।३अ - त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिर् ऊतिभिः सुदासम् ।
२०,३७।३च् - प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥

२०,३७।४अ - त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
२०,३७।४च् - त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥

२०,३७।५अ - तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः ।
२०,३७।५च् - निवेशने शततमाविवेषीर् अहं च वृत्रं नमुचिम् उताहन् ॥५॥

२०,३७।६अ - सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
२०,३७।६च् - वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥

२०,३७।७अ - मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादौ ।
२०,३७।७च् - त्रायस्व नो 'वृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥७॥

२०,३७।८अ - प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।
२०,३७।८च् - नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥८॥

२०,३७।९अ - सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था ।
२०,३७।९च् - ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥

२०,३७।१०अ - एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि ।
२०,३७।१०च् - तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो 'विता च नृणाम् ॥१०॥

२०,३७।११अ - नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व ।
२०,३७।११च् - उप नो वाजान् मिमीह्य् उप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥


२०,३८।१अ - आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
२०,३८।१च् - एदं बर्हिः सदो मम ॥१॥

२०,३८।२अ - आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
२०,३८।२च् - उप ब्रह्माणि नः शृणु ॥२॥

२०,३८।३अ - ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
२०,३८।३च् - सुतावन्तो हवामहे ॥३॥

२०,३८।४अ - इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
२०,३८।४च् - इन्द्रं वाणीर् अनूषत ॥४॥

२०,३८।५अ - इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा ।
२०,३८।५च् - इन्द्रो वज्री हिरण्ययः ॥५॥

२०,३८।६अ - इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि ।
२०,३८।६च् - वि गोभिर् अद्रिम् अइरयत् ॥६॥


२०,३९।१अ - इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।
२०,३९।१च् - अस्माकम् अस्तु केवलः ॥१॥

२०,३९।२अ - व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना ।
२०,३९।२च् - इन्द्रो यद् अभिनद् वलम् ॥२॥

२०,३९।३अ - उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः ।
२०,३९।३च् - अर्वाञ्चं नुनुदे वलम् ॥३॥

२०,३९।४अ - इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
२०,३९।४च् - स्थिराणि न पराणुदे ॥४॥

२०,३९।५अ - अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते ।
२०,३९।५च् - वि ते मदा अराजिषुः ॥५॥


२०,४०।१अ - इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
२०,४०।१च् - मन्दू समानवर्चसा ॥१॥

२०,४०।२अ - अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति ।
२०,४०।२च् - गणैर् इन्द्रस्य काम्यैः ॥२॥

२०,४०।३अ - आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे ।
२०,४०।३च् - दधाना नाम यज्ञियम् ॥३॥


२०,४१।१अ - इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।
२०,४१।१च् - जघान नवतीर् नव ॥१॥

२०,४१।२अ - इछन् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् ।
२०,४१।२च् - तद् विदच् छर्यणावति ॥२॥

२०,४१।३अ - अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।
२०,४१।३च् - इत्था चन्द्रमसो गृहे ॥३॥


२०,४२।१अ - वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् ।
२०,४२।१च् - इन्द्रात् परि तन्वम् ममे ॥१॥

२०,४२।२अ - अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् ।
२०,४२।२च् - इन्द्र यद् दस्युहाभवः ॥२॥

२०,४२।३अ - उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
२०,४२।३च् - सोमम् इन्द्र चमू सुतम् ॥३॥


२०,४३।१अ - भिन्धि विश्वा अप द्विषः बाधो जही मृधः ।
२०,४३।१च् - वसु स्पार्हं तद् आ भर ॥१॥

२०,४३।२अ - यद् वीलाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् ।
२०,४३।२च् - वसु स्पार्हं तद् आ भर ॥२॥

२०,४३।३अ - यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति ।
२०,४३।३च् - वसु स्पार्हं तद् आ भर ॥३॥


२०,४४।१अ - प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः ।
२०,४४।१च् - नरं नृषाहं मंहिष्ठम् ॥१॥

२०,४४।२अ - यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।
२०,४४।२च् - अपाम् अवो न समुद्रे ॥२॥

२०,४४।३अ - तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
२०,४४।३च् - महो वाजिनं सनिभ्यः ॥३॥


२०,४५।१अ - अयम् उ ते सम् अतसि कपोत इव गर्भधिम् ।
२०,४५।१च् - वचस् तच् चिन् न ओहसे ॥१॥

२०,४५।२अ - स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
२०,४५।२च् - विभूतिर् अस्तु सूनृता ॥२॥

२०,४५।३अ - ऊर्ध्वस् तिष्ठा न ऊतये 'स्मिन् वाजे शतक्रतो ।
२०,४५।३च् - सम् अन्येषु ब्रवावहै ॥३॥


२०,४६।१अ - प्रणेतारम् वस्यो अछा कर्तारं ज्योतिः समत्सु ।
२०,४६।१च् - सासह्वांसम् युधामित्रान् ॥१॥

२०,४६।२अ - स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
२०,४६।२च् - इन्द्रो विश्वा अति द्विषः ॥२॥

२०,४६।३अ - स त्वं न इन्द्र वाजोभिर् दशस्या च गातुया च ।
२०,४६।३च् - अछा च नः सुम्नं नेषि ॥३॥


२०,४७।१अ - तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
२०,४७।१च् - स वृषा वृषभो भुवत् ॥१॥

२०,४७।२अ - इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
२०,४७।२च् - द्युम्नी श्लोकी स सोम्यः ॥२॥

२०,४७।३अ - गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
२०,४७।३च् - ववक्ष ऋष्वो अस्तृतः ॥३॥

२०,४७।४अ - इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
२०,४७।४च् - इन्द्रं वाणीर् अनूषत ॥४॥

२०,४७।५अ - इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा ।
२०,४७।५च् - इन्द्रो वज्री हिरण्ययः ॥५॥

२०,४७।६अ - इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि ।
२०,४७।६च् - वि गोभिर् अद्रिम् अइरयत् ॥६॥

२०,४७।७अ - आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
२०,४७।७च् - एदं बर्हिः सदो मम ॥७॥

२०,४७।८अ - आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
२०,४७।८च् - उप ब्रह्माणि नः शृणु ॥८॥

२०,४७।९अ - ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
२०,४७।९च् - सुतावन्तो हवामहे ॥९॥

२०,४७।१०अ - युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
२०,४७।१०च् - रोचन्ते रोचना दिवि ॥१०॥

२०,४७।११अ - युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
२०,४७।११च् - शोणा धृष्णू नृवाहसा ॥११॥

२०,४७।१२अ - केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
२०,४७।१२च् - सम् उषद्भिर् अजायथाः ॥१२॥
२०,४७।१३अ - उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
२०,४७।१३च् - दृशे विश्वाय सूर्यम् ॥१३॥

२०,४७।१४अ - अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः ।
२०,४७।१४च् - सूराय विश्वचक्षसे ॥१४॥

२०,४७।१५अ - अदृश्रन्न् अस्य केतवो वि रश्मयो जनां अनु ।
२०,४७।१५च् - भ्राजन्तो अग्नयो यथा ॥१५॥

२०,४७।१६अ - तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
२०,४७।१६च् - विश्वम् आ भासि रोचन ॥१६॥

२०,४७।१७अ - प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषीः ।
२०,४७।१७च् - प्रत्यङ् विश्वं स्वर् दृशे ॥१७॥

२०,४७।१८अ - येना पावक चक्षसा भुरण्यन्तं जनां अनु ।
२०,४७।१८च् - त्वं वरुण पश्यसि ॥१८॥

२०,४७।१९अ - वि द्याम् एषि रजस् पृथ्व् अहर् मिमानो अक्तुभिः ।
२०,४७।१९च् - पश्यं जन्मानि सूर्य ॥१९॥

२०,४७।२०अ - सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
२०,४७।२०च् - शोचिष्केशम् विचक्षणम् ॥२०॥

२०,४७।२१अ - अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
२०,४७।२१च् - ताभिर् याति स्वयुक्तिभिः ॥२१॥


२०,४८।१अ - अभि त्वा वर्चसा गिरः सिञ्चन्त्य् आ चरण्युवः ।
२०,४८।१च् - अभि वत्सं न धेनवः ॥१॥

२०,४८।२अ - ता अर्षन्ति शुभ्रियः पृञ्चतीर् वर्चसा पयः ।
२०,४८।२च् - जातं जनिर् यथा हृदा ॥२॥

२०,४८।३अ - वज्रापवसाध्यः कीर्तिर् म्रियमाणम् आवहन् ।
२०,४८।३च् - मह्यम् आयुर् घृतं पयः ॥३॥

२०,४८।४अ - आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
२०,४८।४च् - पितरं च प्रयन्त् स्वः ॥४॥

२०,४८।५अ - अन्तश् चरति रोचना अस्य प्राणाद् अपानतः ।
२०,४८।५च् - व्य् अख्यन् महिषः स्वः ॥५॥

२०,४८।६अ - त्रिंशद् धामा वि राजति वाक् पतङ्गो अशिश्रियत् ।
२०,४८।६च् - प्रति वस्तोर् अहर् द्युभिः ॥६॥


२०,४९।१अ - यच् छक्रा वाचम् आरुहन्न् अन्तरिक्षं सिषासथः ।
२०,४९।१च् - सं देवा अमदन् वृषा ॥१॥

२०,४९।२अ - शक्रो वाचम् अधृष्टायोर् उवाचो अधृष्णुहि ।
२०,४९।२च् - मंहिष्ठ आ मदर्दिवि ॥२॥

२०,४९।३अ - शक्रो वाचम् अधृष्णुहि धामधर्मन् वि राजति ।
२०,४९।३च् - विमदन् बर्हिर् आसरन् ॥३॥

२०,४९।४अ - तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
२०,४९।४च् - अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥४॥

२०,४९।५अ - द्युक्षं सुदानुं तविषीभिर् आवृतम् गिरिं न पुरुभोजसम् ।
२०,४९।५च् - क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तम् ईमहे ॥५॥

२०,४९।६अ - तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये ।
२०,४९।६च् - येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥६॥

२०,४९।७अ - येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः ।
२०,४९।७च् - सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥७॥


२०,५०।१अ - कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
२०,५०।१च् - नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥१॥

२०,५०।२अ - कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
२०,५०।२च् - कदा हवं मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥२॥


२०,५१।१अ - अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे ।
२०,५१।१च् - यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥

२०,५१।२अ - शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
२०,५१।२च् - गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥

२०,५१।३अ - प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये ।
२०,५१।३च् - यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥

२०,५१।४अ - शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
२०,५१।४च् - गिरिर् न भुज्मा मघत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥४॥


२०,५२।१अ - वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
२०,५२।१च् - पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥

२०,५२।२अ - स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
२०,५२।२च् - कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥

२०,५२।३अ - कण्वेभिर् धृष्णव् आ धृसद् वाजं दर्षि सहस्रिणम् ।
२०,५२।३च् - पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥३॥


२०,५३।१अ - क ईं वेद सुते सचा पिबन्तं कद् वयो दधे ।
२०,५३।१च् - अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥१॥

२०,५३।२अ - दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
२०,५३।२च् - नकिष् ट्वा नि यमद् आ सुते गमो महाश् चरस्य् ओजसा ॥२॥

२०,५३।३अ - य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
२०,५३।३च् - यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥३॥


२०,५४।१अ - विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे ।
२०,५४।१च् - क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥१॥

२०,५४।२अ - सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
२०,५४।२च् - स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥२॥

२०,५४।३अ - नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
२०,५४।३च् - सुदीतयो वो अद्रुहो 'पि कर्णे तरस्विनः सम् ऋक्वभिः ॥३॥


२०,५५।१अ - तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि ।
२०,५५।१च् - मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥

२०,५५।२अ - या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।
२०,५५।२च् - स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥

२०,५५।३अ - यम् इन्द्र दधिषे त्वम् अश्वं गां भागम् अव्ययम् ।
२०,५५।३च् - यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥


२०,५६।१अ - इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
२०,५६।१च् - तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो 'विषत् ॥१॥

२०,५६।२अ - असि हि वीर सेन्यो 'सि भूरि पराददिः ।
२०,५६।२च् - असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥

२०,५६।३अ - यद् उदीरत आजयो धृष्णवे धीयते धना ।
२०,५६।३च् - युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो 'स्मां इन्द्र वसौ दधः ॥३॥

२०,५६।४अ - मदेमदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः ।
२०,५६।४च् - सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥

२०,५६।५अ - मादयस्व सुते सचा शवसे शूर राधसे ।
२०,५६।५च् - विद्मा हि त्वा पुरूवसुम् उप कामान्त् ससृज्महे 'था नो 'विता भव ॥५॥

२०,५६।६अ - एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
२०,५६।६च् - अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥


२०,५७।१अ - सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे ।
२०,५७।१च् - जुहूमसि द्यविद्यवि ॥१॥

२०,५७।२अ - उप नः सवना गहि सोमस्य सोमपाः पिब ।
२०,५७।२च् - गोदा इद् रेवतो मदः ॥२॥

२०,५७।३अ - अथा ते अन्तमानां विद्याम सुमतीनाम् ।
२०,५७।३च् - मा नो अति ख्य आ गहि ॥३॥

२०,५७।४अ - शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
२०,५७।४च् - इन्द्र सोमं शतक्रतो ॥४॥

२०,५७।५अ - इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
२०,५७।५च् - इन्द्र तानि त आ वृणे ॥५॥

२०,५७।६अ - अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् ।
२०,५७।६च् - उत् ते शुष्मं तिरामसि ॥६॥

२०,५७।७अ - अर्वावतो न आ गह्य् अथो शक्र परावतः ।
२०,५७।७च् - उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥७॥

२०,५७।८अ - इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् ।
२०,५७।८च् - स हि स्थिरो विचर्षनिः ॥८॥

२०,५७।९अ - इन्द्रश् च मृलयाति नो न नः पश्चाद् अघं नशत् ।
२०,५७।९च् - भद्रं भवाति नः पुरः ॥९॥

२०,५७।१०अ - इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् ।
२०,५७।१०च् - जेता शत्रून् विचर्षणिः ॥१०॥

२०,५७।११अ - क ईं वेद सुते सचा पिबन्तं कद् वयो दधे ।
२०,५७।११च् - अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥११॥

२०,५७।१२अ - दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
२०,५७।१२च् - नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥१२॥

२०,५७।१३अ - य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
२०,५७।१३च् - यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥१३॥

२०,५७।१४अ - वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
२०,५७।१४च् - पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥

२०,५७।१५अ - स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
२०,५७।१५च् - कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥

२०,५७।१६अ - कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् ।
२०,५७।१६च् - पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥१६॥


२०,५८।१अ - श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
२०,५८।१च् - वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥

२०,५८।२अ - अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः ।
२०,५८।२च् - सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥

२०,५८।३अ - बण् महां असि सूर्य बढ् आदित्य महां असि ।
२०,५८।३च् - महस् ते सतो महिमा पनस्यते 'द्धा देव महां असि ॥३॥

२०,५८।४अ - बट् सूर्य श्रवसा महां असि सत्रा देव महां असि ।
२०,५८।४च् - मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥४॥


२०,५९।१अ - उद् उ त्ये मधु मत्तमा गिर स्तोमास ईरते ।
२०,५९।१च् - सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥

२०,५९।२अ - कण्वा इव भृगवः सूर्य इव विश्वम् इद् धीतम् आनशुः ।
२०,५९।२च् - इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥

२०,५९।३अ - उद् इन् न्व् अस्य रिच्यते 'ंशो धनं न जिग्युसः ।
२०,५९।३च् - य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥

२०,५९।४अ - मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ ।
२०,५९।४च् - पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥४॥


२०,६०।१अ - एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः ।
२०,६०।१च् - एवा ते राध्यं मनः ॥१॥

२०,६०।२अ - एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः ।
२०,६०।२च् - अघा चिद् इन्द्र मे सचा ॥२॥

२०,६०।३अ - मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानां पते ।
२०,६०।३च् - मत्स्वा सुतस्य गोमतः ॥३॥

२०,६०।४अ - एवा ह्य् अस्य सूनृता विरप्शी गोमती मही ।
२०,६०।४च् - पक्वा शाखा न दाशुषे ॥४॥

२०,६०।५अ - एवा हि ते विभूतय ऊतय इन्द्र मावते ।
२०,६०।५च् - सद्यश् चित् सन्ति दाशुषे ॥५॥

२०,६०।६अ - एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या ।
२०,६०।६च् - इन्द्राय सोमपीतये ॥६॥


२०,६१।१अ - तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
२०,६१।१च् - उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥१॥

२०,६१।२अ - येन ज्योतीम्ष्य् आयवे मनवे च विवेदिथ ।
२०,६१।२च् - मन्दानो अस्य बर्हिषो वि राजसि ॥२॥

२०,६१।३अ - तद् अद्या चित् त उक्थिनो 'नु ष्टुवन्ति पूर्वथा ।
२०,६१।३च् - वृषपत्नीर् अपो जया दिवेदिवे ॥३॥

२०,६१।४अ - तम् व् अभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
२०,६१।४च् - इन्द्रं गीर्भिस् तविषम् आ विवासत ॥४॥
२०,६१।५अ - यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी ।
२०,६१।५च् - गिरींर् अज्रां अपः स्वर् वृषत्वना ॥५॥

२०,६१।६अ - स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे ।
२०,६१।६च् - इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥


२०,६२।१अ - वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो 'वस्यवः ।
२०,६२।१च् - वाजे चित्रं हवामहे ॥१॥

२०,६२।२अ - उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् ।
२०,६२।२च् - त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥

२०,६२।३अ - यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे ।
२०,६२।३च् - सखाय इन्द्रम् ऊतये ॥३॥

२०,६२।४अ - हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
२०,६२।४च् - आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
२०,६२।५अ - इन्द्राय साम गायत विप्राय बृहते बृहत् ।
२०,६२।५च् - धर्मकृते विपश्चिते पनस्यवे ॥५॥

२०,६२।६अ - त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः ।
२०,६२।६च् - विश्वकर्मा विश्वदेवो महां असि ॥६॥

२०,६२।७अ - विभ्राजं ज्योतिषा स्वर् अगछो रोचनं दिवः ।
२०,६२।७च् - देवास् त इन्द्र सख्याय येमिरे ॥७॥

२०,६२।८अ - तम् व् अभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
२०,६२।८च् - इन्द्रं गीर्भिस् तविषम् आ विवासत ॥८॥

२०,६२।९अ - यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी ।
२०,६२।९च् - गिरींर् अज्रां अपः स्वर् वृषत्वना ॥९॥
२०,६२।१०अ - स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे ।
२०,६२।१०च् - इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥


२०,६३।१अ - इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः ।
२०,६३।१च् - यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥१॥

२०,६३।२अ - आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकं भूत्व् अविता तनूनाम् ।
२०,६३।२च् - हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥२॥

२०,६३।३अ - प्रत्यञ्चम् अर्कम् अनयं छचीभिर् आद् इत् स्वधाम् इषिरां पर्य् अपश्यन् ।
२०,६३।३च् - अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥

२०,६३।४अ - य एक इद् विदयते वसु मर्ताय दाशुषे ।
२०,६३।४च् - ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥

२०,६३।५अ - कदा मर्तम् अराधसं पदा क्षुम्पम् इव स्फुरत् ।
२०,६३।५च् - कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥५॥

२०,६३।६अ - यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति ।
२०,६३।६च् - उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥६॥

२०,६३।७अ - य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
२०,६३।७च् - येना हंसि न्य् अत्त्रिणं तम् ईमहे ॥७॥

२०,६३।८अ - येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् ।
२०,६३।८च् - येना समुद्रम् आविथा तम् ईमहे ॥८॥

२०,६३।९अ - येन सिन्धुं महीर् अपो रथां इव प्रचोदयः ।
२०,६३।९च् - पन्थाम् ऋतस्य यातवे तम् ईमहे ॥९॥


२०,६४।१अ - एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः ।
२०,६४।१च् - गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥१॥

२०,६४।२अ - अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
२०,६४।२च् - इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥२॥

२०,६४।३अ - त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि ।
२०,६४।३च् - हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥३॥

२०,६४।४अ - एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
२०,६४।४च् - एवा हि वीर स्तवते सदावृधः ॥४॥

२०,६४।५अ - इन्द्र स्थातर् हरीणां नकिष् ते पूर्व्यस्तुतिम् ।
२०,६४।५च् - उद् आनंश शवसा न भन्दना ॥५॥

२०,६४।६अ - तं वो वाजानां पतिम् अहूमहि श्रवस्यवः ।
२०,६४।६च् - अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥६॥


२०,६५।१अ - एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
२०,६५।१च् - कुष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥१॥

२०,६५।२अ - अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
२०,६५।२च् - घृतात् स्वादीयो मधुनश् च वोचत ॥२॥

२०,६५।३अ - यस्यामितानि वीर्या न राधः पर्येतवे ।
२०,६५।३च् - ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥३॥


२०,६६।१अ - स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् ।
२०,६६।१च् - अर्यो गयं मंहमानं वि दाशुषे ॥१॥

२०,६६।२अ - एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् ।
२०,६६।२च् - सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥

२०,६६।३अ - वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
२०,६६।३च् - अहरहः शुन्ध्युः परिपदाम् इव ॥३॥


२०,६७।१अ - वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः ।
२०,६७।१च् - सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः ।
२०,६७।१ए - सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥१॥

२०,६७।२अ - मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः ।
२०,६७।२च् - यद् वश् चित्रं युगेयुगे नव्यं घोषाद् अमर्त्यम् ।
२०,६७।२ए - अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥२॥

२०,६७।३अ - अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
२०,६७।३च् - य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
२०,६७।३ए - घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥

२०,६७।४अ - यज्ञैः संमिश्लाः पृषतीभिर् ऋष्टिभिर् यामं छुभ्रासो अञ्जिषु प्रिया उत ।
२०,६७।४च् - आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमं पिबता दिवो नरः ॥४॥

२०,६७।५अ - आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु ।
२०,६७।५च् - प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात् तव भागस्य तृस्णुहि ॥५॥

२०,६७।६अ - एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः ।
२०,६७।६च् - तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥६॥

२०,६७।७अ - यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते ।
२०,६७।७च् - अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥७॥


२०,६८।१अ - सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे ।
२०,६८।१च् - जुहूमसि द्यविद्यवि ॥१॥

२०,६८।२अ - उप नः सवना गहि सोमस्य सोमपाः पिब ।
२०,६८।२च् - गोदा इद् रेवतो मदः ॥२॥

२०,६८।३अ - अथा ते अन्तमानां विद्याम सुमतीनाम् ।
२०,६८।३च् - मा नो अति ख्य आ गहि ॥३॥

२०,६८।४अ - परेहि विग्रम् अस्तृतम् इन्द्रं पृछा विपश्चितम् ।
२०,६८।४च् - यस् ते सखिभ्य आ वरम् ॥४॥

२०,६८।५अ - उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत ।
२०,६८।५च् - दधाना इन्द्र इद् दुवः ॥५॥

२०,६८।६अ - उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः ।
२०,६८।६च् - स्यामेद् इन्द्रस्य शर्मणि ॥६॥

२०,६८।७अ - एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् ।
२०,६८।७च् - पतयन् मन्दयत्सखम् ॥७॥

२०,६८।८अ - अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः ।
२०,६८।८च् - प्रावो वाजेषु वाजिनम् ॥८॥

२०,६८।९अ - तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
२०,६८।९च् - धनानाम् इन्द्र सातये ॥९॥

२०,६८।१०अ - यो रायो 'वनिर् महान्त् सुपारः सुन्वतः सखा ।
२०,६८।१०च् - तस्मा इन्द्राय गायत ॥१०॥

२०,६८।११अ - आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत ।
२०,६८।११च् - सखाय स्तोमवाहसः ॥११॥

२०,६८।१२अ - पुरूतमं पुरूणाम् ईशानं वार्याणाम् ।
२०,६८।१२च् - इन्द्रं सोमे सचा सुते ॥१२॥


२०,६९।१अ - स घा नो योग आ भुवत् स राये स पुरंध्याम् ।
२०,६९।१च् - गमद् वाजेभिर् आ स नः ॥१॥

२०,६९।२अ - यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
२०,६९।२च् - तस्मा इन्द्राय गायत ॥२॥

२०,६९।३अ - सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
२०,६९।३च् - सोमासो दध्याशिरः ॥३॥

२०,६९।४अ - त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
२०,६९।४च् - इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥

२०,६९।५अ - आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः ।
२०,६९।५च् - शं ते सन्तु प्रचेतसे ॥५॥

२०,६९।६अ - त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो ।
२०,६९।६च् - त्वां वर्धन्तु नो गिरः ॥६॥

२०,६९।७अ - अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् ।
२०,६९।७च् - यस्मिन् विश्वानि पौंस्या ॥७॥

२०,६९।८अ - मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः ।
२०,६९।८च् - ईशानो यवया वधम् ॥८॥

२०,६९।९अ - युञ्जन्ति ब्रध्नम् अरुषम् चरन्तं परि तस्थुषः ।
२०,६९।९च् - रोचन्ते रोचना दिवि ॥९॥

२०,६९।१०अ - युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
२०,६९।१०च् - शोणा धृष्णू नृवाहसा ॥१०॥

२०,६९।११अ - केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
२०,६९।११च् - सम् उषद्भिर् अजायथाः ॥११॥

२०,६९।१२अ - आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे ।
२०,६९।१२च् - दधाना नाम यज्ञियम् ॥१२॥


२०,७०।१अ - वीलु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः ।
२०,७०।१च् - अविन्द उस्रिया अनु ॥१॥

२०,७०।२अ - देवयन्तो यथा मतिम् अछा विदद्वसुं गिरः ।
२०,७०।२च् - महाम् अनूषत श्रुतम् ॥२॥

२०,७०।३अ - इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
२०,७०।३च् - मन्दू समानवर्चसा ॥३॥

२०,७०।४अ - अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति ।
२०,७०।४च् - गणैर् इन्द्रस्य काम्यैः ॥४॥

२०,७०।५अ - अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि ।
२०,७०।५च् - सम् अस्मिन्न् ऋञ्जते गिरः ॥५॥

२०,७०।६अ - इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि ।
२०,७०।६च् - इन्द्रं महो वा रजसः ॥६॥

२०,७०।७अ - इन्द्रम् इद् गथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
२०,७०।७च् - इन्द्रं वाणीर् अनूषत ॥७॥

२०,७०।८अ - इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा ।
२०,७०।८च् - इन्द्रो वज्री हिरण्ययः ॥८॥

२०,७०।९अ - इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि ।
२०,७०।९च् - वि गोभिर् इन्द्रम् अइरयत् ॥९॥

२०,७०।१०अ - इन्द्र वाजेषु नो 'व सहस्रप्रधनेषु च ।
२०,७०।१०च् - उग्र उग्राभिर् ऊतिभिः ॥१०॥

२०,७०।११अ - इन्द्रं वयं महाधन इन्द्रम् अर्भे हवामहे ।
२०,७०।११च् - युजं वृत्रेषु वज्रिणम् ॥११॥

२०,७०।१२अ - स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
२०,७०।१२च् - अस्मभ्यम् अप्रतिष्कुतः ॥१२॥

२०,७०।१३अ - तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
२०,७०।१३च् - न विन्धे अस्य सुष्टुतिम् ॥१३॥

२०,७०।१४अ - वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा ।
२०,७०।१४च् - ईशानो अप्रतिष्कुतः ॥१४॥

२०,७०।१५अ - य एकश् चर्षणीनां वसूनाम् इरज्यति ।
२०,७०।१५च् - इन्द्रः पञ्च क्षितीनाम् ॥१५॥

२०,७०।१६अ - इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।
२०,७०।१६च् - अस्माकम् अस्तु केवलः ॥१६॥

२०,७०।१७अ - एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
२०,७०।१७च् - वर्षिष्ठम् ऊतये भर ॥१७॥

२०,७०।१८अ - नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
२०,७०।१८च् - त्वोतासो न्य् अर्वता ॥१८॥

२०,७०।१९अ - इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
२०,७०।१९च् - जयेम सं युधि स्पृधः ॥१९॥

२०,७०।२०अ - वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् ।
२०,७०।२०च् - सासह्याम पृतन्यतः ॥२०॥


२०,७१।१अ - महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे ।
२०,७१।१च् - द्यौर् न प्रथिना शवः ॥१॥

२०,७१।२अ - समोहे वा य आशत नरस् तोकस्य सनितौ ।
२०,७१।२च् - विप्रासो वा धियायवः ॥२॥

२०,७१।३अ - यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
२०,७१।३च् - उर्वीर् आपो न काकुदः ॥३॥

२०,७१।४अ - एवा ह्य् अस्य सूनृता विरप्शी गोमती मही ।
२०,७१।४च् - पक्वा शाखा न दाशुषे ॥४॥

२०,७१।५अ - एवा हि ते विभूतय ऊतय इन्द्र मावते ।
२०,७१।५च् - सद्यश् चित् सन्ति दाशुषे ॥५॥

२०,७१।६अ - एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या ।
२०,७१।६च् - इन्द्राय सोमपीतये ॥६॥

२०,७१।७अ - इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
२०,७१।७च् - महां अभिष्टिर् ओजसा ॥७॥

२०,७१।८अ - एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने ।
२०,७१।८च् - चक्रिं विश्वानि चक्रये ॥८॥

२०,७१।९अ - मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे ।
२०,७१।९च् - सचैषु सवनेष्व् आ ॥९॥

२०,७१।१०अ - असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत ।
२०,७१।१०च् - अजोषा वृषभं पतिम् ॥१०॥

२०,७१।११अ - सम् चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् ।
२०,७१।११च् - असद् इत् ते विभु प्रभु ॥११॥

२०,७१।१२अ - अस्मान्त् सु तत्र चोदयेन्द्र राये रभस्वतः ।
२०,७१।१२च् - तुविद्युम्न यशस्वतः ॥१२॥

२०,७१।१३अ - सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् ।
२०,७१।१३च् - विश्वायुर् धेह्य् अक्षितम् ॥१३॥

२०,७१।१४अ - अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् ।
२०,७१।१४च् - इन्द्र ता रथिनीर् इषः ॥१४॥

२०,७१।१५अ - वसोर् इन्द्रम् वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् ।
२०,७१।१५च् - होम गन्तारम् ऊतये ॥१५॥

२०,७१।१६अ - सुतेसुते न्योकसे बृहद् बृहत एद् अरिः ।
२०,७१।१६च् - इन्द्राय शूषम् अर्चति ॥१६॥


२०,७२।१अ - विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् ।
२०,७२।१च् - तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
२०,७२।१ए - इन्द्रं न यज्ञैश् चतयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥१॥

२०,७२।२अ - वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
२०,७२।२च् - यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि ।
२०,७२।२ए - आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥२॥

२०,७२।३अ - उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
२०,७२।३च् - यद् इन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।
२०,७२।३ए - आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥


२०,७३।१अ - तुभ्येद् इमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
२०,७३।१च् - त्वं नृभिर् हव्यो विश्वधासि ॥१॥

२०,७३।२अ - नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र ।
२०,७३।२च् - न वीर्यम् इन्द्र ते न राधः ॥२॥

२०,७३।३अ - प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
२०,७३।३च् - विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥

२०,७३।४अ - यदा वज्रं हिरण्यम् इद् अथा रथं हरी यमस्य वहतो वि सूरिभिः ।
२०,७३।४च् - आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥४॥

२०,७३।५अ - सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
२०,७३।५च् - अव वेति सुक्षयं सुते मधूद् इद् धूणोति वातो यथा वनम् ॥५॥

२०,७३।६अ - यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
२०,७३।६च् - तत्तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥६॥


२०,७४।१अ - यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि ।
२०,७४।१च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥

२०,७४।२अ - शिप्रिन् वाजानां पते शचीवस् तव दंसना ।
२०,७४।२च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥

२०,७४।३अ - नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने ।
२०,७४।३च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥

२०,७४।४अ - ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
२०,७४।४च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥

२०,७४।५अ - सम् इन्द्र गर्दभं मृण नुवन्तं पपयामुया ।
२०,७४।५च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥

२०,७४।६अ - पताति कुण्ढृणाच्या दूरं वातो वनाद् अधि ।
२०,७४।६च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥

२०,७४।७अ - सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
२०,७४।७च् - आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥


२०,७५।१अ - वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
२०,७५।१च् - यद् गव्यन्त द्वा जना स्वर् यन्ता समूहसि ।
२०,७५।१ए - आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥१॥

२०,७५।२अ - विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः ।
२०,७५।२च् - शासस् तम् इन्द्र मर्त्यम् अयजुं शवसस् पते ।
२०,७५।२ए - महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥२॥

२०,७५।३अ - आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ ।
२०,७५।३च् - चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे ।
२०,७५।३ए - ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥


२०,७६।१अ - वने न वा यो न्य् अधायि चाक्रं छुचिर् वां स्तोमो भुरणाव् अजीगः ।
२०,७६।१च् - यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥

२०,७६।२अ - प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतम् अस्य नृणाम् ।
२०,७६।२च् - अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥२॥

२०,७६।३अ - कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव ।
२०,७६।३च् - कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमम् राधो अन्नैः ॥३॥

२०,७६।४अ - कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
२०,७६।४च् - मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥४॥

२०,७६।५अ - प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
२०,७६।५च् - गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥५॥

२०,७६।६अ - मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन ।
२०,७६।६च् - वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥

२०,७६।७अ - आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः ।
२०,७६।७च् - स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् च ॥७॥

२०,७६।८अ - व्य् आनऌ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
२०,७६।८च् - आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥


२०,७७।१अ - आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः ।
२०,७७।१च् - तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥१॥

२०,७७।२अ - अव स्य शूराध्वनो नान्ते 'स्मिन् नो अद्य सवने मन्दध्यै ।
२०,७७।२च् - शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥२॥

२०,७७।३अ - कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् ।
२०,७७।३च् - दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥३॥

२०,७७।४अ - स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः ।
२०,७७।४च् - अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥४॥

२०,७७।५अ - ववक्ष इन्द्रो अमितम् ऋजिष्य् उभे आ पप्रौ रोदसी महित्वा ।
२०,७७।५च् - अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥५॥

२०,७७।६अ - विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः ।
२०,७७।६च् - अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजम् गोमन्तम् उशिजो वि वव्रुः ॥६॥

२०,७७।७अ - अपो वृत्रं वव्रिवांसं पराहन् प्रावत् ते वज्रं पृथिवी सचेताः ।
२०,७७।७च् - प्रार्णांसि समुद्रियाण्य् अइनोः पतिर् भवं छवसा शूर धृष्णो ॥७॥

२०,७७।८अ - अपो यद् अद्रिं पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते ।
२०,७७।८च् - स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥८॥


२०,७८।१अ - तद् वो गाय सुते सचा पुरुहूताय सत्वने ।
२०,७८।१च् - शं यद् गवे न शाकिने ॥१॥

२०,७८।२अ - न घा वसुर् नि यमते दानं वाजस्य गोमतः ।
२०,७८।२च् - यत् सीम् उप श्रवद् गिरः ॥२॥

२०,७८।३अ - कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
२०,७८।३च् - शचीभिर् अप नो वरत् ॥३॥


२०,७९।१अ - इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
२०,७९।१च् - शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥१॥

२०,७९।२अ - मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
२०,७९।२च् - त्वया वयं प्रवतः शश्वतीर् अपो 'ति शूर तरामसि ॥२॥


२०,८०।१अ - इन्द्र ज्येष्ठं न आ भरं ओजिष्ठं पपुरि श्रवः ।
२०,८०।१च् - येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥

२०,८०।२अ - त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे ।
२०,८०।२च् - विश्वा सु नो विथुरा पिब्दना वसो 'मित्रान् सुषहान् कृधि ॥२॥


२०,८१।१अ - यद् द्याव इन्द्र ते शतं शतं भूमिर् उत स्युः ।
२०,८१।१च् - न त्वा वज्रिन्त् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥१॥

२०,८१।२अ - आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
२०,८१।२च् - अस्मां अव मघवन् गोमति व्रजे वज्रिम् चित्राभिर् ऊतिभिः ॥२॥


२०,८२।१अ - यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय ।
२०,८२।१च् - स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥

२०,८२।२अ - शिक्षेयम् इन् महयते दिवेदिवे राय आ कुहचिद्विदे ।
२०,८२।२च् - नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥


२०,८३।१अ - इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
२०,८३।१च् - छर्दिर् यछ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥१॥

२०,८३।२अ - ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया ।
२०,८३।२च् - अघ स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥२॥


२०,८४।१अ - इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
२०,८४।१च् - अण्वीभिस् तना पूतासः ॥१॥

२०,८४।२अ - इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।
२०,८४।२च् - उप ब्रह्माणि वाघतः ॥२॥

२०,८४।३अ - इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
२०,८४।३च् - सुते दधिष्व नश् चनः ॥३॥


२०,८५।१अ - मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत ।
२०,८५।१च् - इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥१॥
२०,८५।२अ - अवक्रक्षिणं वृषभं यथाजुरम् गां न चर्षणीसहम् ।
२०,८५।२च् - विद्वेषणं संवननोभयंकरं मंहिष्ठम् उभयाविनम् ॥२॥

२०,८५।३अ - यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये ।
२०,८५।३च् - अस्माकं ब्रह्मेदम् इन्द्र भूतु ते 'हा विश्वा च वर्धनम् ॥३॥

२०,८५।४अ - वि तर्तूर्यन्ते मघवन् विपश्चितो 'र्यो विपो जनानाम् ।
२०,८५।४च् - उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥४॥


२०,८६।१अ - ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
२०,८६।१च् - स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥१॥


२०,८७।१अ - अध्वर्यवो 'रुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् ।
२०,८७।१च् - गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इछन् ॥१॥

२०,८७।२अ - यद् दधिषे प्रदिवि चार्व् अन्नं दिवेदिवे पीतिम् इद् अस्य वक्षि ।
२०,८७।२च् - उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥

२०,८७।३अ - जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच ।
२०,८७।३च् - एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥३॥

२०,८७।४अ - यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।
२०,८७।४च् - यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥४॥

२०,८७।५अ - प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
२०,८७।५च् - यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥५॥

२०,८७।६अ - तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य ।
२०,८७।६च् - गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥

२०,८७।७अ - बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
२०,८७।७च् - धत्तं रयिं स्तुवते कीरये चिद् यूयं पात स्वस्तिभिः सदा नः ॥७॥


२०,८८।१अ - यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण ।
२०,८८।१च् - तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥

२०,८८।२अ - धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस् ततस्रे ।
२०,८८।२च् - पृषन्तं सृप्रम् अदब्धम् ऊर्वं बृहस्पते रक्षताद् अस्य योनिम् ॥२॥

२०,८८।३अ - बृहस्पते या परमा परावद् अत आ ते ऋतस्पृशो नि षेदुः ।
२०,८८।३च् - तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥३॥

२०,८८।४अ - बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
२०,८८।४च् - सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥४॥

२०,८८।५अ - स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन ।
२०,८८।५च् - बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥५॥

२०,८८।६अ - एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः ।
२०,८८।६च् - बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥


२०,८९।१अ - अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै ।
२०,८९।१च् - वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥

२०,८९।२अ - दोहेन गाम् उप शिक्षा सखायं प्र बोधय जरितर् जारम् इन्द्रम् ।
२०,८९।२च् - कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥२॥

२०,८९।३अ - किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा शृणोमि ।
२०,८९।३च् - अप्नस्वती मम धीर् अस्तु शक्र वसुविदं भगम् इन्द्रा भरा नः ॥३॥

२०,८९।४अ - त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके ।
२०,८९।४च् - अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥

२०,८९।५अ - धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त् सोमां आसुनोति प्रयस्वान् ।
२०,८९।५च् - तस्मै शत्रून्त् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥

२०,८९।६अ - यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे ।
२०,८९।६च् - आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥६॥

२०,८९।७अ - आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन ।
२०,८९।७च् - अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥

२०,८९।८अ - प्र यम् अन्तर् वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।
२०,८९।८च् - नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥

२०,८९।९अ - उत प्रहाम् अतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले ।
२०,८९।९च् - यो देवकामो न धनं रुणद्धि सम् इत् तं रायः सृजति स्वधाभिः ॥९॥

२०,८९।१०अ - गोभिष् टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
२०,८९।१०च् - वयं राजसु प्रथमा धनान्य् अरिष्टासो वृजनीभिर् जयेम ॥१०॥

२०,८९।११अ - बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः ।
२०,८९।११च् - इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥


२०,९०।१अ - यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् ।
२०,९०।१च् - द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥१॥

२०,९०।२अ - जनाय चिद् य ईवते उ लोकं बृहस्पतिर् देवहूतौ चकार ।
२०,९०।२च् - घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंर् अमित्रान् पृत्सु साहन् ॥२॥

२०,९०।३अ - बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमते देव एषः ।
२०,९०।३च् - अपः सिषासन्त् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥३॥


२०,९१।१अ - इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीम् अविन्दत् ।
२०,९१।१च् - तुरीयं स्विज् जनयद् विश्वजन्यो 'यास्य उक्थम् इन्द्राय शंसन् ॥१॥

२०,९१।२अ - ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः ।
२०,९१।२च् - विप्रं पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥

२०,९१।३अ - हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् ।
२०,९१।३च् - बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥३॥

२०,९१।४अ - अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ ।
२०,९१।४च् - बृहस्पतिस् तमसि ज्योतिर् इछन् उद् उस्रा आकर् वि हि तिस्र आवः ॥४॥

२०,९१।५अ - विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् ।
२०,९१।५च् - बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥

२०,९१।६अ - इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
२०,९१।६च् - स्वेदाञ्जिभिर् आशिरम् इछमानो 'रोदयत् पणिम् आ गा अमुष्णात् ॥६॥

२०,९१।७अ - स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः ।
२०,९१।७च् - ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आनट् ॥७॥

२०,९१।८अ - ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
२०,९१।८च् - बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥८॥

२०,९१।९अ - तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे ।
२०,९१।९च् - बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥

२०,९१।१०अ - यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म ।
२०,९१।१०च् - बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥१०॥

२०,९१।११अ - सत्यम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः ।
२०,९१।११च् - पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥११॥

२०,९१।१२अ - इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य ।
२०,९१।१२च् - अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥१२॥


२०,९२।१अ - अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे ।
२०,९२।१च् - सूतुं सत्यस्य सत्पतिम् ॥१॥

२०,९२।२अ - आ हरयः ससृज्रिरे 'रुषीर् अधि बर्हिषि ।
२०,९२।२च् - यत्राभि संनवामहे ॥२॥

२०,९२।३अ - इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
२०,९२।३च् - यत् सीम् उपह्वरे विदत् ॥३॥

२०,९२।४अ - उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि ।
२०,९२।४च् - मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥

२०,९२।५अ - अर्चत प्रार्चत प्रियमेधासो अर्चत ।
२०,९२।५च् - अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥५॥

२०,९२।६अ - अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
२०,९२।६च् - पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥६॥

२०,९२।७अ - आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः ।
२०,९२।७च् - अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥७॥

२०,९२।८अ - अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत ।
२०,९२।८च् - वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥८॥

२०,९२।९अ - सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
२०,९२।९च् - अनुक्षरन्ति काकुदं सूर्यं सुषिराम् इव ॥९॥

२०,९२।१०अ - यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे ।
२०,९२।१०च् - तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥१०॥

२०,९२।११अ - अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
२०,९२।११च् - भिनत् कनीन ओदनं पच्यमानं परो गिरा ॥११॥

२०,९२।१२अ - अर्भको न कुमारको 'धि तिष्ठन्न् अवं रथम् ।
२०,९२।१२च् - स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥

२०,९२।१३अ - आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।
२०,९२।१३च् - अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥१३॥

२०,९२।१४अ - तम् घेम् इत्था नमस्विन उप स्वराजम् आसते ।
२०,९२।१४च् - अर्थं चिद् अस्य सुधितं यद् एतवे आवर्तयन्ति दावने ॥१४॥

२०,९२।१५अ - अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
२०,९२।१५च् - पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥

२०,९२।१६अ - यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः ।
२०,९२।१६च् - विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥

२०,९२।१७अ - इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
२०,९२।१७च् - हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥

२०,९२।१८अ - नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् ।
२०,९२।१८च् - इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥१८॥

२०,९२।१९अ - अषाल्हम् उग्रं पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः ।
२०,९२।१९च् - सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥१९॥

२०,९२।२०अ - यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः ।
२०,९२।२०च् - न त्वा वज्रिन्त् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥२०॥

२०,९२।२१अ - आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
२०,९२।२१च् - अस्मां अव मघवन् गोमति व्रजे वज्रिं चित्राभिर् ऊतिभिः ॥२१॥


२०,९३।१अ - उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
२०,९३।१च् - अव ब्रह्मद्विषो जहि ॥१॥

२०,९३।२अ - पदा पणींर् अराधसो नि बाधस्व महां असि ।
२०,९३।२च् - नहि त्वा कश् चन प्रति ॥२॥

२०,९३।३अ - त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् ।
२०,९३।३च् - त्वं राजा जनानाम् ॥३॥

२०,९३।४अ - ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते ।
२०,९३।४च् - भेजानासः सुवीर्यम् ॥४॥

२०,९३।५अ - त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः ।
२०,९३।५च् - त्वं वृषन् वृषेद् असि ॥५॥

२०,९३।६अ - त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः ।
२०,९३।६च् - उद् द्याम् अस्तभ्ना ओजसा ॥६॥

२०,९३।७अ - त्वम् इन्द्र सजोषसम् अर्कं बिभर्षि बाह्वोः ।
२०,९३।७च् - वज्रं शिशान ओजसा ॥७॥

२०,९३।८अ - त्वम् इन्द्राभिभुर् असि विश्वा जातान्य् ओजसा ।
२०,९३।८च् - स विश्वा भुव आभवः ॥८॥


२०,९४।१अ - आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् ।
२०,९४।१च् - प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥१॥

२०,९४।२अ - सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
२०,९४।२च् - शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुसो वृष्ण्यानि ॥२॥

२०,९४।३अ - एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् ।
२०,९४।३च् - प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥३॥

२०,९४।४अ - एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे ।
२०,९४।४च् - ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥४॥

२०,९४।५अ - गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषं भरम् आ याहि सोमिनः ।
२०,९४।५च् - त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥५॥

२०,९४।६अ - पृथक् प्रायन् प्रथमा देवहूतयो 'कृण्वत श्रवस्यानि दुष्टरा ।
२०,९४।६च् - न ये शेकुर् यज्ञियां नावम् आरुहम् इर्मैव ते न्य् अविशन्त केपयः ॥६॥

२०,९४।७अ - एवैवापाग् अपरे सन्तु दूध्यो 'श्वा येषां दुर्युग आयुयुज्रे ।
२०,९४।७च् - इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
२०,९४।८अ - गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् ।
२०,९४।८च् - समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥

२०,९४।९अ - इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।
२०,९४।९च् - अस्मिन्त् सु ते सवने अस्त्व् ओक्त्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥९॥

२०,९४।१०अ - गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
२०,९४।१०च् - वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥१०॥

२०,९४।११अ - बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः ।
२०,९४।११च् - इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥


२०,९५।१अ - त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् ।
२०,९५।१च् - स ईं ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥१॥

२०,९५।२अ - प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।
२०,९५।२च् - अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥२॥

२०,९५।३अ - त्वं सिन्धूंर् अवासृजो 'धराचो अहन्न् अहिम् ।
२०,९५।३च् - अशत्रुर् इन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥३॥

२०,९५।४अ - वि षु विश्वा अरातयो 'र्यो नशन्त नो धियः ।
२०,९५।४च् - अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु ।
२०,९५।४ए - नभन्ताम् अन्यकेषां ज्यका अधि धन्वसु ॥४॥


२०,९६।१अ - तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
२०,९६।१च् - इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥१॥

२०,९६।२अ - तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
२०,९६।२च् - इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥२॥

२०,९६।३अ - य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति ।
२०,९६।३च् - न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥३॥
२०,९६।४अ - अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।
२०,९६।४च् - निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥४॥

२०,९६।५अ - अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
२०,९६।५च् - आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥५॥

२०,९६।६अ - मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् ।
२०,९६।६च् - ग्राहिर् जग्राह यद्य् एतद् तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥६॥

२०,९६।७अ - यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव ।
२०,९६।७च् - तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्शम् एनं शतशारदाय ॥७॥

२०,९६।८अ - सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षम् एनम् ।
२०,९६।८च् - इन्द्रो यथैनं शरदो नयात्य् अति विश्वस्य दुरितस्य पारम् ॥८॥

२०,९६।९अ - शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतम् उ वसन्तान् ।
२०,९६।९च् - शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षम् एनम् ॥९॥

२०,९६।१०अ - आहार्षम् अविदं त्वा पुनर् आगाः पुनर्णवः ।
२०,९६।१०च् - सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते 'विदम् ॥१०॥
२०,९६।११अ - ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधताम् इतः ।
२०,९६।११च् - अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥११॥

२०,९६।१२अ - यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये ।
२०,९६।१२च् - अग्निष् टं ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥१२॥

२०,९६।१३अ - यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
२०,९६।१३च् - जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥१३॥

२०,९६।१४अ - यस् त ऊरू विहरत्य् अन्तरा दम्पती शये ।
२०,९६।१४च् - योनिं यो अन्तर् आरेल्हि तम् इतो नाशयामसि ॥१४॥

२०,९६।१५अ - यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते ।
२०,९६।१५च् - प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥१५॥

२०,९६।१६अ - यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
२०,९६।१६च् - प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥१६॥

२०,९६।१७अ - अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि ।
२०,९६।१७च् - यक्ष्मं शीर्षण्यं मस्तिष्काज् जिह्वाया वि वृहामि ते ॥१७॥

२०,९६।१८अ - ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
२०,९६।१८च् - यक्ष्मं दोषण्यम् अंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥

२०,९६।१९अ - हृदयात् ते परि क्लोम्नो हलीक्ष्णात् पार्श्वाभ्याम् ।
२०,९६।१९च् - यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि ॥१९॥

२०,९६।२०अ - आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् अधि ।
२०,९६।२०च् - यक्ष्मं कुक्षिभ्यां प्लाशेर् नाभ्या वि वृहामि ते ॥२०॥

२०,९६।२१अ - ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
२०,९६।२१च् - यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥

२०,९६।२२[-]अ - मेहनाद् वनंकरणाल् लोमभ्यस् ते नखेभ्यः ।
२०,९६।२२[-]च् - यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥२२॥

२०,९६।[-]२२अ - अस्थिभ्यस् ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
२०,९६।[-]२२ब् - यक्ष्मं पाणिभ्याम् अङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥

२०,९६।२३अ - अङ्गेअङ्गे लोम्निलोम्नि यस् ते पर्वणिपर्वणि ।
२०,९६।२३च् - यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥

२०,९६।२४अ - अपेहि मनसस् पते 'प काम परश् चर ।
२०,९६।२४च् - परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥


२०,९७।१अ - वयम् एनम् इदा ह्योपीपेमेह वज्रिणम् ।
२०,९७।१च् - तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥

२०,९७।२अ - वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति ।
२०,९७।२च् - सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥

२०,९७।३अ - कद् उ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् ।
२०,९७।३च् - केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥


२०,९८।१अ - त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।
२०,९८।१च् - त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥१॥

२०,९८।२अ - स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
२०,९८।२च् - गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥


२०,९९।१अ - अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः ।
२०,९९।१च् - समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥

२०,९९।२अ - अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
२०,९९।२च् - अद्या तम् अस्य महिमानम् आयवो 'नु ष्टुवन्ति पूर्वथा ॥२॥


२०,१००।१अ - अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
२०,१००।१च् - उदेव यन्त उदभिः ॥१॥

२०,१००।२अ - वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि ।
२०,१००।२च् - वावृध्वांसं चिद् अद्रिवो दिवेदिवे ॥२॥

२०,१००।३अ - युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
२०,१००।३च् - इन्द्रवाहा वचोयुजा ॥३॥


२०,१०१।१अ - अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
२०,१०१।१च् - अस्य यज्ञस्य सुक्रतुम् ॥१॥

२०,१०१।२अ - अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
२०,१०१।२च् - हव्यवाहं पुरुप्रियम् ॥२॥

२०,१०१।३अ - अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
२०,१०१।३च् - असि होता न ईढ्यः ॥३॥


२०,१०२।१अ - ईलेन्यो नमस्यस् तिरस् तमांसि दर्शतः ।
२०,१०२।१च् - सम् अग्निर् इध्यते वृषा ॥१॥

२०,१०२।२अ - वृषो अग्निः सम् इध्यते 'श्वो न देववाहनः ।
२०,१०२।२च् - तं हविष्मन्तः ईलते ॥२॥

२०,१०२।३अ - वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि ।
२०,१०२।३च् - अग्ने दीद्यतं बृहत् ॥३॥


२०,१०३।१अ - अग्निम् ईलिष्वावसे गाथाभिः शीरशोचिषम् ।
२०,१०३।१च् - अग्निं राये पुरुमील्ह श्रुतं नरो 'ग्निं सुदीतये छर्दिः ॥१॥

२०,१०३।२अ - अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे ।
२०,१०३।२च् - आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठं बर्हिर् आसदे ॥२॥

२०,१०३।३अ - अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे ।
२०,१०३।३च् - ऊर्जो नपातं घृतकेशम् ईमहे 'ग्निं यज्ञेषु पूर्व्यम् ॥३॥


२०,१०४।१अ - इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
२०,१०४।१च् - पावकवर्णाः शुचयो विपश्चितो 'भि स्तोमैर् अनूषत ॥१॥

२०,१०४।२अ - अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे ।
२०,१०४।२च् - सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥

२०,१०४।३अ - आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
२०,१०४।३च् - उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥

२०,१०४।४अ - त्वं दाता प्रथमो राघसाम् अस्य् असि सत्य ईशानकृत् ।
२०,१०४।४च् - तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥


२०,१०५।१अ - त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः ।
२०,१०५।१च् - अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥१॥

२०,१०५।२अ - अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।
२०,१०५।२च् - विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥२॥

२०,१०५।३अ - इत ऊती वो अजरं प्रहेतारम् अप्रहितम् ।
२०,१०५।३च् - आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥३॥

२०,१०५।४अ - यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः ।
२०,१०५।४च् - विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥

२०,१०५।५अ - इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
२०,१०५।५च् - हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥


२०,१०६।१अ - तव त्यद् इन्द्रियं बृहत् तव शुष्मम् उत क्रतुम् ।
२०,१०६।१च् - वज्रं शिशाति धिषणा वरेण्यम् ॥१॥

२०,१०६।२अ - तव द्यौर् इन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
२०,१०६।२च् - त्वाम् आपः पर्वतासश् च हिन्विरे ॥२॥

२०,१०६।३अ - त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः ।
२०,१०६।३च् - त्वां शर्धो मदत्य् अनु मारुतम् ॥३॥


२०,१०७।१अ - सम् अस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।
२०,१०७।१च् - समुद्रायेव सिन्धवः ॥१॥

२०,१०७।२अ - ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् ।
२०,१०७।२च् - इन्द्रश् चर्मेव रोदसी ॥२॥

२०,१०७।३अ - वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
२०,१०७।३च् - शिरो बिभेद् वृष्णिना ॥३॥

२०,१०७।४अ - तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः ।
२०,१०७।४च् - सद्यो जज्ञानो नि रिणाति शत्रून् अनु यद् एनं मदन्ति विश्व ऊमाः ॥४॥

२०,१०७।५अ - वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति ।
२०,१०७।५च् - अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥

२०,१०७।६अ - त्वे क्रतुम् अपि पृञ्चन्ति भूरि द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः ।
२०,१०७।६च् - स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥६॥

२०,१०७।७अ - यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
२०,१०७।७च् - ओजीयः शुष्मिन्त् स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥

२०,१०७।८अ - त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
२०,१०७।८च् - चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥

२०,१०७।९अ - नि तद् दधिषे 'वरे परे च यस्मिन्न् आविथावसा दुरोणे ।
२०,१०७।९च् - आ स्थापयत मातरं जिगत्नुम् अत इन्वत कर्वराणि भूरि ॥९॥

२०,१०७।१०अ - स्तुष्व वर्ष्मन् पुरुवर्त्मानं सम् ऋभ्वाणम् इनतमम् आप्तम् आप्त्यानाम् ।
२०,१०७।१०च् - आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥

२०,१०७।११अ - इमा ब्रह्म बृहद्दिवः कृणवद् इन्द्राय शूषम् अग्नियः स्वर्षाः ।
२०,१०७।११च् - महो गोत्रस्य क्षयति स्वराजा तुरश् चिद् विश्वम् अर्णवत् तपस्वान् ॥११॥

२०,१०७।१२अ - एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव ।
२०,१०७।१२च् - स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥

२०,१०७।१३अ - चित्रं देवानां केतुर् अनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
२०,१०७।१३च् - दिवाकरो 'ति द्युम्नैस् तमांसि विश्वातारीद् दुरितानि शुक्रः ॥१३॥

२०,१०७।१४अ - चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
२०,१०७।१४च् - आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥१४॥

२०,१०७।१५अ - सूर्यो देवीम् उषसं रोचमानां मर्यो न योषाम् अभ्य् एति पश्चात् ।
२०,१०७।१५च् - यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥


२०,१०८।१अ - त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे ।
२०,१०८।१च् - आ वीरं पृतनाषहम् ॥१॥
२०,१०८।२अ - त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
२०,१०८।२च् - अधा ते सुम्नम् ईमहे ॥२॥

२०,१०८।३अ - त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो ।
२०,१०८।३च् - स नो रास्व सुवीर्यम् ॥३॥


२०,१०९।१अ - स्वादोर् इत्था विषुवतो मध्वः पिबन्ति गौर्यः ।
२०,१०९।१च् - या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥१॥

२०,१०९।२अ - ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
२०,१०९।२च् - प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥२॥

२०,१०९।३अ - ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
२०,१०९।३च् - व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥३॥


२०,११०।१अ - इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।
२०,११०।१च् - अर्कम् अर्चन्तु कारवः ॥१॥

२०,११०।२अ - यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
२०,११०।२च् - इन्द्रं सुते हवामहे ॥२॥

२०,११०।३अ - त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत ।
२०,११०।३च् - तम् इद् वर्धन्तु नो गिरः ॥३॥


२०,१११।१अ - यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये ।
२०,१११।१च् - यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥१॥

२०,१११।२अ - यद् वा शक्र परावति समुद्रे अधि मन्दसे ।
२०,१११।२च् - अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥२॥

२०,१११।३अ - यद् वासि सुन्वतो वृधो यजमानस्य सत्पते ।
२०,१११।३च् - उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥३॥


२०,११२।१अ - यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य ।
२०,११२।१च् - सर्वं तद् इन्द्र ते वशे ॥१॥

२०,११२।२अ - यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
२०,११२।२च् - उतो तत् सत्यम् इत् तव ॥२॥

२०,११२।३अ - ये सोमासः परावति ये अर्वावति सुन्विरे ।
२०,११२।३च् - सर्वांस् तां इन्द्र गछसि ॥३॥


२०,११३।१अ - उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः ।
२०,११३।१च् - सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥१॥
२०,११३।२अ - तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः ।
२०,११३।२च् - उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥


२०,११४।१अ - अभ्रातृव्यो'अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि ।
२०,११४।१च् - युधेद् आपित्वम् इछसे ॥१॥

२०,११४।२अ - नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
२०,११४।२च् - यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥२॥


२०,११५।१अ - अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ ।
२०,११५।१च् - अहं सूर्य इवाजनि ॥१॥

२०,११५।२अ - अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
२०,११५।२च् - येनेन्द्रः शुष्मम् इद् दधे ॥२॥

२०,११५।३अ - ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः ।
२०,११५।३च् - ममेद् वर्धस्व सुष्टुतः ॥३॥


२०,११६।१अ - मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव ।
२०,११६।१च् - वनानि नि प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥१॥

२०,११६।२अ - अमन्महीद् अनाशवो 'नुग्रासश् च वृत्रहन् ।
२०,११६।२च् - सुकृत् सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥


२०,११७।१अ - पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
२०,११७।१च् - सोतुर् बाहुभ्यां सुयतो नार्वा ॥१॥

२०,११७।२अ - यस् ते मदो युजस् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि ।
२०,११७।२च् - स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥२॥

२०,११७।३अ - बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
२०,११७।३च् - इमा ब्रह्म सधमादे जुषस्व ॥३॥


२०,११८।१अ - शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
२०,११८।१च् - भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥१॥

२०,११८।२अ - पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः ।
२०,११८।२च् - नकिर् हि दानं परिमर्धिषत् त्वे यद्यद् यामि तद् आ भर ॥२॥

२०,११८।३अ - इन्द्रम् इद् देवतातये इन्द्रं प्रयत्य् अध्वरे ।
२०,११८।३च् - इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥

२०,११८।४अ - इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् ।
२०,११८।४च् - इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥


२०,११९।१अ - अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
२०,११९।१च् - पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेघा असृक्षत ॥१॥

२०,११९।२अ - तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः ।
२०,११९।२च् - अस्मे रयिः पप्रथे वृष्ण्यं शवो 'स्मे सुवानास इन्दवः ॥२॥


२०,१२०।१अ - यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः ।
२०,१२०।१च् - सिमा पुरू नृषूतो अस्य् आनवे 'सि प्रशर्ध तुर्वशे ॥१॥

२०,१२०।२अ - यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
२०,१२०।२च् - कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्य् आ गहि ॥२॥


२०,१२१।१अ - अभि त्वा शूर नोनुमो 'दुग्धा इव धेनवः ।
२०,१२१।१च् - ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥१॥

२०,१२१।२अ - न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
२०,१२१।२च् - अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥२॥


२०,१२२।१अ - रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
२०,१२२।१च् - क्षुमन्तो याभिर् मदेम ॥१॥

२०,१२२।२अ - आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः ।
२०,१२२।२च् - ऋणोर् अक्षं न चक्रयोः ॥२॥

२०,१२२।३अ - आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् ।
२०,१२२।३च् - ऋणोर् अक्षं न शचीभिः ॥३॥


२०,१२३।१अ - तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततं सं जभार ।
२०,१२३।१च् - यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥१॥

२०,१२३।२अ - तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।
२०,१२३।२च् - अनन्तम् अन्यद् रुशद् अस्य प्राजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥२॥


२०,१२४।१अ - कया नश् चित्र आ भुवद् ऊती सदावृधः सखा ।
२०,१२४।१च् - कया शचिष्ठया वृता ॥१॥

२०,१२४।२अ - कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।
२०,१२४।२च् - दृल्हा चिद् आरुजे वसु ॥२॥

२०,१२४।३अ - अभी षु नः सखीनाम् अविता जरितॄणाम् ।
२०,१२४।३च् - शतं भवास्य् ऊतिभिः ॥३॥

२०,१२४।४अ - इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः ।
२०,१२४।४च् - यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥४॥

२०,१२४।५अ - आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकं भूत्व् अविता तनूनाम् ।
२०,१२४।५च् - हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥५॥

२०,१२४।६अ - प्रत्यञ्चम् अर्कम् अनयं छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ।
२०,१२४।६च् - अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥


२०,१२५।१अ - अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।
२०,१२५।१च् - अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥

२०,१२५।२अ - कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
२०,१२५।२च् - इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥

२०,१२५।३अ - नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु ।
२०,१२५।३च् - गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥

२०,१२५।४अ - युवं सुरामम् अश्विना नमुचाव् आसुरे सचा ।
२०,१२५।४च् - विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥४॥

२०,१२५।५अ - पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।
२०,१२५।५च् - यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥५॥

२०,१२५।६अ - इन्द्रः सुत्रामा स्ववां अवोभिः सुमृढीको भवतु विश्ववेदाः ।
२०,१२५।६च् - बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥

२०,१२५।७अ - स सुत्रामा स्ववां इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु ।
२०,१२५।७च् - तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥


२०,१२६।१अ - वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत ।
२०,१२६।१च् - यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥१॥

२०,१२६।२अ - परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः ।
२०,१२६।२च् - नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥२॥

२०,१२६।३अ - किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः ।
२०,१२६।३च् - यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥३॥

२०,१२६।४अ - यम् इमं त्वं वृषाकपिं प्रियम् इन्द्राभिरक्षसि ।
२०,१२६।४च् - श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥४॥

२०,१२६।५अ - प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् ।
२०,१२६।५च् - शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥५॥

२०,१२६।६अ - न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
२०,१२६।६च् - न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥६॥

२०,१२६।७अ - उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।
२०,१२६।७च् - भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥७॥

२०,१२६।८अ - किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
२०,१२६।८च् - किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥८॥

२०,१२६।९अ - अवीराम् इव माम् अयं शरारुर् अभि मन्यते ।
२०,१२६।९च् - उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥९॥

२०,१२६।१०अ - संहोत्रं स्म पुरा नारी समनं वाव गछति ।
२०,१२६।१०च् - वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥१०॥

२०,१२६।११अ - इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् ।
२०,१२६।११च् - नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥११॥

२०,१२६।१२अ - नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते ।
२०,१२६।१२च् - यस्येदम् अप्यं हविः प्रियं देवेषु गछति विश्वस्माद् इन्द्र उत्तरः ॥१२॥

२०,१२६।१३अ - वृसाकपायि रेवति सुपुत्र आद् उ सुस्नुषे ।
२०,१२६।१३च् - घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥१३॥

२०,१२६।१४अ - उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।
२०,१२६।१४च् - उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥१४॥

२०,१२६।१५अ - वृषभो न तिग्मशृङ्गो 'न्तर् यूथेषु रोरुवत् ।
२०,१२६।१५च् - मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥१५॥

२०,१२६।१६अ - न सेशे यस्य रम्बते 'न्तरा सक्थ्या कपृत् ।
२०,१२६।१६च् - सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥१६॥

२०,१२६।१७अ - न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
२०,१२६।१७च् - सेदीशे यस्य रम्बते 'न्तरा सक्थ्या कपृत् विश्वस्माद् इन्द्र उत्तरः ॥१७॥

२०,१२६।१८अ - अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
२०,१२६।१८च् - असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥१८॥

२०,१२६।१९अ - अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् ।
२०,१२६।१९च् - पिबामि पाकसुत्वनो 'भि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥१९॥

२०,१२६।२०अ - धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना ।
२०,१२६।२०च् - नेदीयसो वृषाकपे 'स्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥२०॥

२०,१२६।२१अ - पुनर् एहि वृषाकपे सुविता कल्पयावहै ।
२०,१२६।२१च् - य एष स्वप्ननंशनो 'स्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥२१॥

२०,१२६।२२अ - यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन ।
२०,१२६।२२च् - क्व स्य पुल्वघो मृगः कम् अगं जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥२२॥

२०,१२६।२३अ - पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् ।
२०,१२६।२३च् - भद्रं भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥२३॥


२०,१२७।१अ - इदं जना उप श्रुत नराशंस स्तविष्यते ।
२०,१२७।१च् - षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥

२०,१२७।२अ - उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
२०,१२७।२च् - वर्ष्मा रथस्य नि जिहीढते दिव ईषमाणा उपस्पृशः ॥२॥

२०,१२७।३अ - एष इषाय मामहे शतं निष्कान् दश स्रजः ।
२०,१२७।३च् - त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥

२०,१२७।४अ - वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
२०,१२७।४च् - नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥

२०,१२७।५अ - प्र रेभासो मनीषा वृषा गाव इवेरते ।
२०,१२७।५च् - अमोतपुत्रका एषाममोत गा इवासते ॥५॥

२०,१२७।६अ - प्र रेभ धीम् भरस्व गोविदं वसुविदम् ।
२०,१२७।६च् - देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥

२०,१२७।७अ - राज्ञो विश्वजनीनस्य यो देवोमर्त्यां अति ।
२०,१२७।७च् - वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥

२०,१२७।८अ - परिछिन्नः क्षेमम् अकरोत् तम आसनमाचरन् ।
२०,१२७।८च् - कुलायन् कृण्वन् कौरव्यः पतिर् वदति जायया ॥८॥

२०,१२७।९अ - कतरत् त आ हराणि दधि मन्थां परि श्रुतम् ।
२०,१२७।९च् - जायाः पतिं वि पृछति राष्ट्रे राज्ञः परिक्षितः ॥९॥

२०,१२७।१०अ - अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।
२०,१२७।१०च् - जनः स भद्रम् एधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥

२०,१२७।११अ - इन्द्रः कारुम् अबूबुधद् उत्तिष्ठ वि चरा जनम् ।
२०,१२७।११च् - ममेदुग्रस्य चर्कृधि सर्व इत् ते पृणादरिः ॥११॥

२०,१२७।१२अ - इह गावः प्र जायध्वम् इहाश्वा इह पूरुषाः ।
२०,१२७।१२च् - इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥

२०,१२७।१३अ - नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत् ।
२०,१२७।१३च् - मासाम् अमित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥

२०,१२७।१४अ - उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।
२०,१२७।१४च् - वनाद् अधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥


२०,१२८।१अ - यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
२०,१२८।१च् - सूर्यं चामू रिशादसस् तद् देवाः प्राग् अकल्पयन् ॥१॥

२०,१२८।२अ - यो जाम्या अप्रथयस् तद् यत् सखायं दुधूर्षति ।
२०,१२८।२च् - ज्येष्ठो यद् अप्रचेतास् तद् आहुर् अधराग् इति ॥२॥

२०,१२८।३अ - यद् भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
२०,१२८।३च् - तद् विप्रो अब्रवीद् उ तद् गन्धर्वः काम्यं वचः ॥३॥

२०,१२८।४अ - यश्च पणि रघुजिष्ठ्यो यश्च देवां अदाशुरिः ।
२०,१२८।४च् - धीराणां शश्वताम् अहं तद् अपाग् इति शुश्रुम ॥४॥

२०,१२८।५अ - ये च देवा अयजन्ताथो ये च पराददिः ।
२०,१२८।५च् - सूर्यो दिवम् इव गत्वाय मघवा नो वि रप्शते ॥५॥

२०,१२८।६अ - यो'नाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
२०,१२८।६च् - अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
२०,१२८।७अ - य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
२०,१२८।७च् - सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥

२०,१२८।८अ - अप्रपाणा च वेशन्ता रेवां अप्रतिदिश्ययः ।
२०,१२८।८च् - अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥

२०,१२८।९अ - सुप्रपाणा च वेशन्ता रेवान्त् सुप्रतिदिश्ययः ।
२०,१२८।९च् - सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥

२०,१२८।१०अ - परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
२०,१२८।१०च् - अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥

२०,१२८।११अ - वावाता च महिषी स्वस्त्या च युधिं गमः ।
२०,१२८।११च् - श्वाशुरश् चायामी तोता कल्पेषु संमिता ॥११॥

२०,१२८।१२अ - यद् इन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
२०,१२८।१२च् - विरूपः सर्वस्मा आसीत् सह यक्षाय कल्पते ॥१२॥
२०,१२८।१३अ - त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
२०,१२८।१३च् - त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच् छिरः ॥१३॥

२०,१२८।१४अ - यः पर्वतान् व्यदधाद् यो अपो व्यगाहथाः ।
२०,१२८।१४च् - इन्द्रो यो वृत्रहान्महं तस्माद् इन्द्र नमो 'स्तु ते ॥१४॥

२०,१२८।१५अ - पृष्ठं धावन्तं हर्योर् अउच्चैः श्रवसम् अब्रुवन् ।
२०,१२८।१५च् - स्वस्त्यश्व जैत्रायेन्द्रम् आ वह सुस्रजम् ॥१५॥

२०,१२८।१६अ - ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
२०,१२८।१६च् - पूर्वा नमस्य देवानां बिभ्रद् इन्द्र महीयते ॥१६॥


२०,१२९।१अ - एता अश्वा आ प्लवन्ते ॥१॥

२०,१२९।२अ - प्रतीपं प्राति सुत्वनम् ॥२॥

२०,१२९।३अ - तासाम् एका हरिक्निका ॥३॥

२०,१२९।४अ - हरिक्निके किम् इछासि ॥४॥

२०,१२९।५अ - साधुं पुत्रं हिरण्ययम् ॥५॥

२०,१२९।६अ - क्वाहतं परास्यः ॥६॥

२०,१२९।७अ - यत्रामूस् तिस्रः शिंशपाः ॥७॥

२०,१२९।८अ - परि त्रयः ॥८॥

२०,१२९।९अ - पृदाकवः ॥९॥

२०,१२९।१०अ - शृङ्गं धमन्त आसते ॥१०॥

२०,१२९।११अ - अयन्महा ते अर्वाहः ॥११॥

२०,१२९।१२अ - स इछकं सघाघते ॥१२॥

२०,१२९।१३अ - सघाघते गोमीद्या गोगतीर् इति ॥१३॥

२०,१२९।१४अ - पुमां कुस्ते निमिछसि ॥१४॥

२०,१२९।१५अ - पल्प बद्ध वयो इति ॥१५॥

२०,१२९।१६अ - बद्ध वो अघा इति ॥१६॥

२०,१२९।१७अ - अजागार केविका ॥१७॥

२०,१२९।१८अ - अश्वस्य वारो गोशपद्यके ॥१८॥

२०,१२९।१९अ - श्येनीपती सा ॥१९॥

२०,१२९।२०अ - अनामयोपजिह्विका ॥२०॥


२०,१३०।१अ - को अर्य बहुलिमा इषूनि ॥१॥

२०,१३०।२अ - को असिद्याः पयः ॥२॥

२०,१३०।३अ - को अर्जुन्याः पयः ॥३॥

२०,१३०।४अ - कः कार्ष्ण्याः पयः ॥४॥

२०,१३०।५अ - एतं पृछ कुहं पृछ ॥५॥

२०,१३०।६अ - कुहाकं पक्वकं पृछ ॥६॥

२०,१३०।७अ - यवानो यतिष्वभिः कुभिः ॥७॥
२०,१३०।८अ - अकुप्यन्तः कुपायकुः ॥८॥

२०,१३०।९अ - आमणको मणत्सकः ॥९॥

२०,१३०।१०अ - देव त्वप्रतिसूर्य ॥१०॥

२०,१३०।११अ - एनश्चिपङ्क्तिका हविः ॥११॥

२०,१३०।१२अ - प्रदुद्रुदो मघाप्रति ॥१२॥

२०,१३०।१३अ - शृङ्ग उत्पन्न ॥१३॥

२०,१३०।१४अ - मा त्वाभि सखा नो विदन् ॥१४॥

२०,१३०।१५अ - वशायाः पुत्रम् आ यन्ति ॥१५॥

२०,१३०।१६अ - इरावेदुमयं दत ॥१६॥

२०,१३०।१७अ - अथो इयन्नियन्न् इति ॥१७॥

२०,१३०।१८अ - अथो इयन्निति ॥१८॥

२०,१३०।१९अ - अथो श्वा अस्थिरो भवन् ॥१९॥

२०,१३०।२०अ - उयं यकांशलोकका ॥२०॥


२०,१३१।१अ - आमिनोनिति भद्यते ॥१॥

२०,१३१।२अ - तस्य अनु निभञ्जनम् ॥२॥

२०,१३१।३अ - वरुणो याति वस्वभिः ॥३॥

२०,१३१।४अ - शतं वा भारती शवः ॥४॥

२०,१३१।५अ - शतमाश्वा हिरण्ययाः ।
२०,१३१।५च् - शतं रथ्या हिरण्ययाः ।
२०,१३१।५ए - शतं कुथा हिरण्ययाः ।

२०,१३१।६अ - अहुल कुश वर्त्तक ॥६॥

२०,१३१।७अ - शफेन इव ओहते ॥७॥

२०,१३१।८अ - आय वनेनती जनी ॥८॥

२०,१३१।९अ - वनिष्ठा नाव गृह्यन्ति ॥९॥

२०,१३१।१०अ - इदं मह्यं मदूरिति ॥१०॥

२०,१३१।११अ - ते वृक्षाः सह तिष्ठति ॥११॥

२०,१३१।१२अ - पाक बलिः ॥१२॥

२०,१३१।१३अ - शक बलिः ॥१३॥

२०,१३१।१४अ - अश्वत्थ खदिरो धवः ॥१४॥

२०,१३१।१५अ - अरदुपरम ॥१५॥

२०,१३१।१६अ - शयो हत इव ॥१६॥

२०,१३१।१७अ - व्याप पूरुषः ॥१७॥

२०,१३१।१८अ - अदूहमित्यां पूषकम् ॥१८॥

२०,१३१।१९अ - अत्यर्धर्च परस्वतः ॥१९॥

२०,१३१।२०अ - दौव हस्तिनो दृती ॥२०॥


२०,१३२।१अ - आदलाबुकमेककम् ॥१॥

२०,१३२।२अ - अलाबुकम् निखातकम् ॥२॥

२०,१३२।३अ - कर्करिको निखातकः ॥३॥

२०,१३२।४अ - तद् वात उन्मथायति ॥४॥

२०,१३२।५अ - कुलायं कृणवादिति ॥५॥

२०,१३२।६अ - उग्रं वनिषदाततम् ॥६॥

२०,१३२।७अ - न वनिषदनाततम् ॥७॥

२०,१३२।८अ - क एषां कर्करी लिखत् ॥८॥

२०,१३२।९अ - क एषां दुन्दुभिं हनत् ॥९॥

२०,१३२।१०अ - यदीयं हनत् कथं हनत् ॥१०॥

२०,१३२।११अ - देवी हनत् कुहनत् ॥११॥

२०,१३२।१२अ - पर्यागारं पुनःपुनः ॥१२॥

२०,१३२।१३अ - त्रीण्युष्ट्रस्य नामानि ॥१३॥

२०,१३२।१४अ - हिरण्य इत्येके अब्रवीत् ॥१४॥

२०,१३२।१५अ - द्वौ वा ये शिशवः ॥१५॥

२०,१३२।१६अ - नीलशिखण्ढवाहनः ॥१६॥


२०,१३३।१अ - विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।
२०,१३३।१च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥१॥

२०,१३३।२अ - मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।
२०,१३३।२च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥२॥

२०,१३३।३अ - निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे ।
२०,१३३।३च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥३॥

२०,१३३।४अ - उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।
२०,१३३।४च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥४॥
२०,१३३।५अ - श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।
२०,१३३।५च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥५॥

२०,१३३।६अ - अवश्लक्ष्णमिव भ्रंशद् अन्तर्लोममति ह्रदे ।
२०,१३३।६च् - न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥६॥


२०,१३४।१अ - इहेत्थ प्रागपागुदगधराग् अरालागुदभर्त्सथ ॥१॥

२०,१३४।२अ - इहेत्थ प्रागपागुदगधराग् वत्साः पुरुषन्त आसते ॥२॥

२०,१३४।३अ - इहेत्थ प्रागपागुदगधराक् स्थालीपाको वि लीयते ॥३॥

२०,१३४।४अ - इहेत्थ प्रागपागुदगधराक् स वै पृथु लीयते ॥४॥

२०,१३४।५अ - इहेत्थ प्रागपागुदगधराग् आस्ते लाहणि लीशाथी ॥५॥

२०,१३४।६अ - इहेत्थ प्रागपागुदगधराग् अक्ष्लिली पुछिलीयते ॥६॥


२०,१३५।१अ - भुग् इत्य् अभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।
२०,१३५।१च् - दुन्दुभिम् आहननाभ्यां जरितरोथामो दैव ॥१॥

२०,१३५।२अ - कोशबिले रजनि ग्रन्थेर् धानम् उपानहि पादम् ।
२०,१३५।२च् - उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात् ॥२॥

२०,१३५।३अ - अलाबूनि पृषातकान्यश्वत्थपलाशम् ।
२०,१३५।३च् - पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥

२०,१३५।४अ - वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।
२०,१३५।४च् - सुसत्यम् इद् गवाम् अस्यसि प्रखुदसि ॥४॥

२०,१३५।५अ - पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।
२०,१३५।५च् - होता विष्टीमेन जरितर् ओथामो दैव ॥५॥

२०,१३५।६अ - आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयन् ।
२०,१३५।६च् - तां ह जरितः प्रत्यायंस् ताम् उ ह जरितः प्रत्यायन् ॥६॥

२०,१३५।७अ - तां ह जरितर् नः प्रत्यगृभ्णंस् ताम् उ ह जरितर् नः प्रत्यगृभ्णः ।
२०,१३५।७च् - अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥

२०,१३५।८अ - उत श्वेत आशुपत्वा उतो पद्याभिर् यविष्ठः ।
२०,१३५।८च् - उतेम् आशु मानं पिपर्ति ॥८॥

२०,१३५।९अ - आदित्या रुद्रा वसवस् त्वेनु त इदं राधः प्रति गृभ्णीह्य् अङ्गिरः ।
२०,१३५।९च् - इदं राधो विभु प्रभु इदं राधो बृहत् पृथु ॥९॥

२०,१३५।१०अ - देवा ददत्वासुरं तद् वो अस्तु सुचेतनम् ।
२०,१३५।१०च् - युष्मां अस्तु दिवेदिवे प्रत्येव गृभायत् ॥१०॥

२०,१३५।११अ - त्वम् इन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।
२०,१३५।११च् - विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥

२०,१३५।१२अ - त्वम् इन्द्र कपोताय छिन्नपक्षाय वञ्चते ।
२०,१३५।१२च् - श्यामाकं पक्वं पीलु च वारस्मा अकृणोर् बहुः ॥१२॥

२०,१३५।१३अ - अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।
२०,१३५।१३च् - इरामह प्रशंसत्य् अनिराम् अप सेधति ॥१३॥


२०,१३६।१अ - यद् अस्या अंहुभेद्याः कृधु स्थूलम् उपातसत् ।
२०,१३६।१च् - मुष्काविदस्या एजतो गोशफे शकुलाव् इव ॥१॥

२०,१३६।२अ - यदा स्थूलेन पससाणौ मुष्का उपावधीत् ।
२०,१३६।२च् - विष्वञ्चा वस्या वर्धतः सिकतास्व् एव गर्दभौ ॥२॥

२०,१३६।३अ - यद् अल्पिकास्वल्पिका कर्कधूकेवषद्यते ।
२०,१३६।३च् - वासन्तिकम् इव तेजनं यन्त्य् अवाताय वित्पति ॥३॥

२०,१३६।४अ - यद् देवासो ललामगुं प्रविष्टीमिनम् आविषुः ।
२०,१३६।४च् - सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥

२०,१३६।५अ - महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।
२०,१३६।५च् - शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥

२०,१३६।६अ - महानग्न्युलूखलम् अतिक्रामन्त्य् अब्रवीत् ।
२०,१३६।६च् - यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥

२०,१३६।७अ - महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
२०,१३६।७च् - यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥

२०,१३६।८अ - महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
२०,१३६।८च् - यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥

२०,१३६।९अ - महानग्न्युप ब्रूते स्वसावेशितं पसः ।
२०,१३६।९च् - इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥

२०,१३६।१०अ - महानग्नी कृकवाकं शम्यया परि धावति ।
२०,१३६।१०च् - अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥

२०,१३६।११अ - महानग्नी महानग्नं धावन्तम् अनु धावति ।
२०,१३६।११च् - इमास् तद् अस्य गा रक्ष यभ माम् अद्ध्यौदनम् ॥११॥

२०,१३६।१२अ - सुदेवस् त्वा महानग्नीर् बबाधते महतः साधु खोदनम् ।
२०,१३६।१२च् - कुसं पीवरो नवत् ॥१२॥

२०,१३६।१३अ - वशा दग्धाम् इमाङ्गुरिं प्रसृजतोग्रतं परे ।
२०,१३६।१३च् - महान् वै भद्रो यभ माम् अद्ध्यौदनम् ॥१३॥

२०,१३६।१४अ - विदेवस् त्वा महानग्नीर् विबाधते महतः साधु खोदनम् ।
२०,१३६।१४च् - कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥

२०,१३६।१५अ - महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।
२०,१३६।१५च् - महां अभिक्त बाधते महतः साधु खोदनम् ॥१५॥

२०,१३६।१६अ - यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत् ।
२०,१३६।१६च् - तैलकुण्ढमिमाङ्गुष्ठं रोदन्तं शुदम् उद्धरेत् ॥१६॥


२०,१३७।१अ - यद् ध प्राचीर् अजगन्तोरो मण्ढूरधाणिकीः ।
२०,१३७।१च् - हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥

२०,१३७।२अ - कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये ।
२०,१३७।२च् - निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥

२०,१३७।३अ - दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
२०,१३७।३च् - सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥३॥

२०,१३७।४अ - सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
२०,१३७।४च् - पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥४॥

२०,१३७।५अ - इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् ।
२०,१३७।५च् - वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥५॥

२०,१३७।६अ - सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
२०,१३७।६च् - सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥

२०,१३७।७अ - अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः ।
२०,१३७।७च् - आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥७॥

२०,१३७।८अ - द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः ।
२०,१३७।८च् - नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥८॥

२०,१३७।९अ - अध द्रप्सो अंशुमत्या उपस्थे 'धारयत् तन्वं तित्विषाणः ।
२०,१३७।९च् - विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥९॥

२०,१३७।१०अ - त्वं ह त्यत् सप्तभ्यो जायमानो 'शत्रुभ्यो अभवः शत्रुर् इन्द्र ।
२०,१३७।१०च् - गूल्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥

२०,१३७।११अ - त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ ।
२०,१३७।११च् - त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥११॥

२०,१३७।१२अ - तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
२०,१३७।१२च् - स वृषा वृषभो भुवत् ॥१२॥

२०,१३७।१३अ - इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
२०,१३७।१३च् - द्युम्नी श्लोकी स सोम्यः ॥१३॥

२०,१३७।१४अ - गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
२०,१३७।१४च् - ववक्ष ऋष्वो अस्तृतः ॥१४॥


२०,१३८।१अ - महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
२०,१३८।१च् - स्तोमैर् वत्सस्य वावृधे ॥१॥

२०,१३८।२अ - प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः ।
२०,१३८।२च् - विप्रा ऋतस्य वाहसा ॥२॥

२०,१३८।३अ - कण्वाः इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् ।
२०,१३८।३च् - जामि ब्रुवत आयुधम् ॥३॥


२०,१३९।१अ - आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे ।
२०,१३९।१च् - प्रास्मै यछतम् अवृकम् पृथु छर्दिर् युयुतं या अरातयः ॥१॥

२०,१३९।२अ - यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु ।
२०,१३९।२च् - नृम्नं तद् धत्तम् अश्विना ॥२॥

२०,१३९।३अ - ये वाम् दंसांस्य् अश्विना विप्रासः परिमामृशुः ।
२०,१३९।३च् - एवेत् काण्वस्य बोधतम् ॥३॥

२०,१३९।४अ - अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
२०,१३९।४च् - अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥

२०,१३९।५अ - यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् ।
२०,१३९।५च् - तेन माविष्टम् अश्विना ॥५॥


२०,१४०।१अ - यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः ।
२०,१४०।१च् - अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गछथः ॥१॥

२०,१४०।२अ - आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया ।
२०,१४०।२च् - आ सोमं मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥२॥

२०,१४०।३अ - आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
२०,१४०।३च् - आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥

२०,१४०।४अ - यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि ।
२०,१४०।४च् - यद् वा वाणीभिर् अश्विनेवेत् कण्वस्य बोधतम् ॥४॥

२०,१४०।५अ - यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव ।
२०,१४०।५च् - पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥५॥


२०,१४१।१अ - यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस् तनूपा ।
२०,१४१।१च् - वर्तिस् तोकाय तनयाय यातम् ॥१॥

२०,१४१।२अ - यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा ।
२०,१४१।२च् - यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥२॥

२०,१४१।३अ - यद् अद्याश्विनाव् अहं हुवेय वाजसातये ।
२०,१४१।३च् - यत् पृत्सु तुर्वणे सनस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥३॥

२०,१४१।४अ - आ नूनं यातम् अश्विनेमा हव्यानि वां हिता ।
२०,१४१।४च् - इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥४॥

२०,१४१।५अ - यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
२०,१४१।५च् - तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यछतम् ॥५॥


२०,१४२।१अ - अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः ।
२०,१४२।१च् - व्य् आवर् देव्य् आ मतिं वि रातिं मर्त्येभ्यः ॥१॥

२०,१४२।२अ - प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
२०,१४२।२च् - प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥२॥

२०,१४२।३अ - यद् उषो यासि भानुना सं सूर्येण रोचसे ।
२०,१४२।३च् - आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥३॥

२०,१४२।४अ - यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः ।
२०,१४२।४च् - यद् वा वाणीर् अनुषत प्र देवयन्तो अश्विना ॥४॥

२०,१४२।५अ - प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
२०,१४२।५च् - प्र दक्षाय प्रचेतसा ॥५॥

२०,१४२।६अ - यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः ।
२०,१४२।६च् - यद् वा सुम्नेभिर् उक्थ्या ॥६॥


२०,१४३।१अ - तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः ।
२०,१४३।१च् - यः सूर्यां वहति वन्धुरायुर् गिर्वाहसं पुरुतमं वसूयुम् ॥१॥

२०,१४३।२अ - युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
२०,१४३।२च् - युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥२॥

२०,१४३।३अ - को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
२०,१४३।३च् - ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥३॥

२०,१४३।४अ - हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
२०,१४३।४च् - पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥

२०,१४३।५अ - आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन ।
२०,१४३।५च् - मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥५॥

२०,१४३।६अ - नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे ।
२०,१४३।६च् - नरो यद् वाम् अश्विना स्तोमम् आवन्त् सधस्तुतिम् आजमील्हासो अग्मन् ॥६॥

२०,१४३।७अ - इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना ।
२०,१४३।७च् - उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥

२०,१४३।८अ - मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् ।
२०,१४३।८च् - क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥८॥

२०,१४३।९अ - पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
२०,१४३।९च् - सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:09.9370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

multipal role-playing

  • बहुविध बूमिका अभिनय 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.