अथर्ववेदः - काण्डं १९

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१९,१।१अ - संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।
१९,१।१च् - यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥

१९,१।२अ - इमं होमा यज्ञम् अवतेमं संस्रावणा उत यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥

१९,१।३अ - रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।
१९,१।३च् - यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥


१९,२।१अ - शं त आपो हैमवतीः शम् उ ते सन्तूत्स्याः ।
१९,२।१च् - शं ते सनिष्यदा आपः शम् उ ते सन्तु वर्ष्याः ॥१॥

१९,२।२अ - शं त आपो धन्वन्याः शं ते सन्त्व् अनूप्याः ।
१९,२।२च् - शं ते खनित्रिमा आपः शं याः कुम्भेभिर् आभृताः ॥२॥

१९,२।३अ - अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।
१९,२।३च् - भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
१९,२।४अ - अपाम् अह दिव्यानाम् अपां स्रोतस्यानाम् ।
१९,२।४च् - अपाम् अह प्रणेजने 'श्वा भवथ वाजिनः ॥४॥

१९,२।५अ - ता अपः शिवा अपो 'यक्ष्मंकरणीर् अपः ।
१९,२।५च् - यथैव तृप्यते मयस् तास् त आ दत्त भेसजीः ॥५॥


१९,३।१अ - दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यो अध्य् ओषधीभ्यः ।
१९,३।१च् - यत्रयत्र विभृतो जातवेदास् तत स्तुतो जुषमाणो न एहि ॥१॥

१९,३।२अ - यस् ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्व् अप्स्व् अन्तः ।
१९,३।२च् - अग्ने सर्वास् तन्वः सं रभस्व ताभिर् न एहि द्रविणोदा अजस्रः ॥२॥

१९,३।३अ - यस् ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्व् आविवेश ।
१९,३।३च् - पुष्टिर् या ते मनुष्येषु पप्रथे 'ग्ने तया रयिम् अस्मासु धेहि ॥३॥

१९,३।४अ - श्रुत्कर्णाय कवये वेद्याय वचोभिर् वाकैर् उप यामि रातिम् ।
१९,३।४च् - यतो भयम् अभयं तन् नो अस्त्व् अव देवानां यज हेढो अग्ने ॥४॥


१९,४।१अ - याम् आहुतिं प्रथमाम् अथर्वा या जाता या हव्यम् अकृणोज् जातवेदाः ।
१९,४।१च् - तां त एतां प्रथमो जोहवीमि ताभिष् टुप्तो वहतु हव्यम् अग्निर् अग्नये स्वाह ॥१॥

१९,४।२अ - आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
१९,४।२च् - याम् आशाम् एमि केवली सा मे अस्तु विदेयम् एनां मनसि प्रविष्टाम् ॥२॥

१९,४।३अ - आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
१९,४।३च् - अथो भगस्य नो धेह्य् अथो नः सुहवो भव ॥३॥

१९,४।४अ - बृहस्पतिर् म आकूतिम् आङ्गिरसः प्रति जानातु वाचम् एताम् ।
१९,४।४च् - यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्व् एत्व् अस्मान् ॥४॥


१९,५।१अ - इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति ।
१९,५।१च् - ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥१॥


१९,६।१अ - सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् ।
१९,६।१च् - स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥१॥

१९,६।२अ - त्रिभिः पद्भिर् द्याम् अरोहत् पाद् अस्येहाभवत् पुनः ।
१९,६।२च् - तथा व्य् अक्रामद् विष्वङ् अशनानशने अनु ॥२॥

१९,६।३अ - तावन्तो अस्य महिमानस् ततो ज्यायांश् च पूरुषः ।
१९,६।३च् - पादो 'स्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥३॥

१९,६।४अ - पुरुष एवेदं सर्वं यद् भूतं यच् च भाव्यम् ।
१९,६।४च् - उतामृतत्वस्येश्वरो यद् अन्येनाभवत् सह ॥४॥

१९,६।५अ - यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् ।
१९,६।५च् - मुखं किम् अस्य किम् बाहू किम् ऊरू पादा उच्यते ॥५॥

१९,६।६अ - ब्राह्मणो 'स्य मुखम् आसीद् बाहू राजन्यो 'भवत् ।
१९,६।६च् - मध्यं तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥

१९,६।७अ - चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत ।
१९,६।७च् - मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥७॥

१९,६।८अ - नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत ।
१९,६।८च् - पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥८॥

१९,६।९अ - विराढ् अग्रे सम् अभवद् विराजो अधि पूरुषः ।
१९,६।९च् - स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥९॥

१९,६।१०अ - यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
१९,६।१०च् - वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥१०॥

१९,६।११अ - तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातम् अग्रशः ।
१९,६।११च् - तेन देवा अयजन्त साध्या वसवश् च ये ॥११॥

१९,६।१२अ - तस्माद् अश्वा अजायन्त ये च के चोभयादतः ।
१९,६।१२च् - गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥१२॥

१९,६।१३अ - तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
१९,६।१३च् - छन्दो ह जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥१३॥

१९,६।१४अ - तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् ।
१९,६।१४च् - पशूंस् तांश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥१४॥

१९,६।१५अ - सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
१९,६।१५च् - देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥

१९,६।१६अ - मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।
१९,६।१६च् - राज्ञः सोमस्याजायन्त जातस्य पुरुषाद् अधि ॥१६॥


१९,७।१अ - चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।
१९,७।१च् - तुर्मिशं सुमतिम् इछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥

१९,७।२अ - सुहवम् अग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शम् आर्द्रा ।
१९,७।२च् - पुनर्वसू सूनृता चारु पुष्यो भानुर् आश्लेषा अयनं मघा मे ॥२॥

१९,७।३अ - पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश् चित्रा शिवा स्वाति सुखो मे अस्तु ।
१९,७।३च् - राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रम् अरिष्ट मूलम् ॥३॥

१९,७।४अ - अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्य् उत्तरा आ वहन्तु ।
१९,७।४च् - अभिजिन् मे रासतां पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥

१९,७।५अ - आ मे महच् छतभिषग् वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।
१९,७।५च् - आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥


१९,८।१अ - यानि नक्षत्राणि दिव्य् अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।
१९,८।१च् - प्रकल्पयंश् चन्द्रमा यान्य् एति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥

१९,८।२अ - अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।
१९,८।२च् - योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमो 'होरात्राभ्याम् अस्तु ॥२॥

१९,८।३अ - स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।
१९,८।३च् - सुहवम् अग्ने स्वस्त्य् अमर्त्यं गत्वा पुनर् आयाभिनन्दन् ॥३॥

१९,८।४अ - अनुहवं परिहवं परिवादं परिक्षवम् ।
१९,८।४च् - सर्वैर् मे रिक्तकुम्भान् परा तान्त् सवितः सुव ॥४॥

१९,८।५अ - अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।
१९,८।५च् - शिवा ते पाप नासिकां पुण्यगश् चाभि मेहताम् ॥५॥

१९,८।६अ - इमा या ब्रह्मणस् पते विषुचीर् वात ईरते ।
१९,८।६च् - सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमास् कृधि ॥६॥

१९,८।७अ - स्वस्ति नो अस्त्व् अभयं नो अस्तु नमो 'होरत्राभ्याम् अस्तु ॥७॥


१९,९।१अ - शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् ।
१९,९।१च् - शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ॥१॥

१९,९।२अ - शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
१९,९।२च् - शान्तं भूतं च भव्यं च सर्वम् एव शम् अस्तु नः ॥२॥

१९,९।३अ - इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता ।
१९,९।३च् - ययैव ससृजे घोरं तयैव शान्तिर् अस्तु नः ॥३॥

१९,९।४अ - इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
१९,९।४च् - येनैव ससृजे घोरं तेनैव शान्तिर् अस्तु नः ॥४॥

१९,९।५अ - इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
१९,९।५च् - यैर् एव ससृजे घोरं तैर् एव शान्तिर् अस्तु नः ॥५॥

१९,९।६अ - शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
१९,९।६च् - शं न इन्द्रो बृहस्पतिः शं नो भवत्व् अर्यमा ॥६॥

१९,९।७अ - शं नो मित्रः शं वरुणः शं विवस्वां छम् अन्तकः ।
१९,९।७च् - उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥

१९,९।८अ - शं नो भूमिर् वेप्यमाना शम् उल्का निर्हतं च यत् ।
१९,९।८च् - शं गावो लोहितक्षीराः शं भूमिर् अव तीर्यतीः ॥८॥

१९,९।९अ - नक्षत्रम् उल्काभिहतं शम् अस्तु नः शं नो 'भिचाराः शम् उ सन्तु कृत्याः ।
१९,९।९च् - शं नो निखाता वल्गाः शम् उल्का देशोपसर्गाः शम् उ नो भवन्तु ॥९॥

१९,९।१०अ - शं नो ग्रहाश् चान्द्रमसाः शम् आदित्यश् च राहुणा ।
१९,९।१०च् - शं नो मृत्युर् धूमकेतुः शं रुद्रास् तिग्मतेजसः ॥१०॥

१९,९।११अ - शं रुद्राः शं वसवः शम् आदित्याः शम् अग्नयः ।
१९,९।११च् - शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥

१९,९।१२अ - ब्रह्म प्रजापतिर् धाता लोका वेदाः सप्तऋषयो 'ग्नयः ।
१९,९।१२च् - तैर् मे कृतं स्वस्त्ययनम् इन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु ।
१९,९।१२ए - विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥

१९,९।१३अ - यानि कानि चिच् छान्तानि लोके सप्तऋषयो विदुः ।
१९,९।१३च् - सर्वाणि शं भवन्तु मे शं मे अस्त्व् अभयं मे अस्तु ॥१३॥

१९,९।१४अ - पृथिवी शान्तिर् अन्तरिक्षं शान्तिर् द्यौः शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
१९,९।१४च् - यद् इह घोरं यद् इह क्रूरं यद् इह पापं तच् छान्तं तच् छिवं सर्वम् एव शम् अस्तु नः ॥१४॥


१९,१०।१अ - शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या ।
१९,१०।१च् - शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥

१९,१०।२अ - शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरंधिः शम् उ सन्तु रायः ।
१९,१०।२च् - शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥

१९,१०।३अ - शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
१९,१०।३च् - शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥

१९,१०।४अ - शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् ।
१९,१०।४च् - शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥

१९,१०।५अ - शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु ।
१९,१०।५च् - शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥५॥

१९,१०।६अ - शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः ।
१९,१०।६च् - शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥६॥

१९,१०।७अ - शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः ।
१९,१०।७च् - शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शम् व् अस्तु वेदिः ॥७॥

१९,१०।८अ - शं नः सूर्य उरुचक्षा उद् एतु शं नो भवन्तु प्रदिशश् चतस्रः ।
१९,१०।८च् - शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥८॥

१९,१०।९अ - शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
१९,१०।९च् - शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् व् अस्तु वायुः ॥९॥

१९,१०।१०अ - शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
१९,१०।१०च् - शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शंभुः ॥१०॥


१९,११।१अ - शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः ।
१९,११।१च् - शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥

१९,११।२अ - शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु ।
१९,११।२च् - शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥

१९,११।३अ - शं नो अज एकपाद् देवो अस्तु शम् अहिर् बुध्न्यः शं समुद्रः ।
१९,११।३च् - शं नो अपां नपात् पेरुर् अस्तु शं नः पृष्णिर् भवतु देवगोपा ॥३॥

१९,११।४अ - आदित्या रुद्रा वसवो जुषन्ताम् इदं ब्रह्म क्रियमाणं नवीयः ।
१९,११।४च् - सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥

१९,११।५अ - ये देवानाम् ऋत्विजो यज्ञियासो मनोर् यजत्रा अमृता ऋतज्ञाः ।
१९,११।५च् - ते नो रासन्ताम् उरुगायम् अद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥

१९,११।६अ - तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् ।
१९,११।६च् - अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥


१९,१२।१अ - उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ।
१९,१२।१च् - अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥


१९,१३।१अ - इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
१९,१३।१च् - तौ योक्षे प्रथमो योग आगते याभ्यां जितम् असुराणां स्वर् यत् ॥१॥

१९,१३।२अ - आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।
१९,१३।२च् - संक्रन्दनो 'निमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥२॥

१९,१३।३अ - संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
१९,१३।३च् - तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥

१९,१३।४अ - स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन ।
१९,१३।४च् - संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥४॥
१९,१३।५अ - बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
१९,१३।५च् - अभिवीरो अभिषत्वा सहोजिज् जैत्रम् इन्द्र रथम् आ तिष्ठ गोविदम् ॥५॥

१९,१३।६अ - इमं वीरम् अनु हर्षध्वम् उग्रम् इन्द्रं सखायो अनु सं रभध्वम् ।
१९,१३।६च् - ग्रामजितं गोजितं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥६॥

१९,१३।७अ - अभि गोत्राणि सहसा गाहमानो 'दाय उग्रः शतमन्युर् इन्द्रः ।
१९,१३।७च् - दुश्च्यवनः पृतनाषाढ् अयोध्यो 'स्माकं सेना अवतु प्र युत्सु ॥७॥

१९,१३।८अ - बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः ।
१९,१३।८च् - प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकम् एध्य् अविता तनूनाम् ॥८॥

१९,१३।९अ - इन्द्र एषां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः ।
१९,१३।९च् - देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥

१९,१३।१०अ - इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
१९,१३।१०च् - महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥१०॥

१९,१३।११अ - अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ।
१९,१३।११च् - अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् देवासो 'वता हवेषु ॥११॥


१९,१४।१अ - इदम् उच्छ्रेयो 'वसानम् आगां शिवे मे द्यावापृथिवी अभूताम् ।
१९,१४।१च् - असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥


१९,१५।१अ - यत इन्द्र भयामहे ततो नो अभयं कृधि ।
१९,१५।१च् - मघवं छग्धि तव त्वं न ऊतिभिर् वि द्विषो वि मृधो जहि ॥१॥

१९,१५।२अ - इन्द्रं वयम् अनूराधं हवामहे 'नु राध्यास्म द्विपदा चतुष्पदा ।
१९,१५।२च् - मा नः सेना अररुषीर् उप गुर् विषूचिर् इन्द्र द्रुहो वि नाशय ॥२॥

१९,१५।३अ - इन्द्रस् त्रातोत वृत्रहा परस्फानो वरेण्यः ।
१९,१५।३च् - स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान् नो अस्तु ॥३॥

१९,१५।४अ - उरुं नो लोकम् अनु नेषि विद्वान्त् स्वर् यज् ज्योतिर् अभयं स्वस्ति ।
१९,१५।४च् - उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥

१९,१५।५अ - अभयं नः करत्य् अन्तरिक्षम् अभयं द्यावापृथिवी उभे इमे ।
१९,१५।५च् - अभयं पश्चाद् अभयं पुरस्ताद् उत्तराद् अधराद् अभयं नो अस्तु ॥५॥

१९,१५।६अ - अभयं मित्राद् अभयम् अमित्राद् अभयं ज्ञाताद् अभयं पुरो यः ।
१९,१५।६च् - अभयं नक्तम् अभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥


१९,१६।१अ - असपत्नं पुरस्तात् पश्चान् नो अभयं कृतम् ।
१९,१६।१च् - सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥

१९,१६।२अ - दिवो मादित्या रक्षतु भूम्या रक्षन्त्व् अग्नयः ।
१९,१६।२च् - इन्द्राग्नी रक्षतां मा पुरस्ताद् अश्विनाव् अभितः शर्म यछताम् ।
१९,१६।२ए - तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥


१९,१७।१अ - अग्निर् मा पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।१च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥

१९,१७।२अ - वायुर् मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।२च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥

१९,१७।३अ - सोमो मा रुद्रैर् दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।३च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥

१९,१७।४अ - वरुणो मादित्यैर् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।४च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानम् परि ददे स्वाहा ॥४॥

१९,१७।५अ - सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।५च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥

१९,१७।६अ - आपो मौषधीमतीर् एतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।
१९,१७।६च् - ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥

१९,१७।७अ - विश्वकर्मा मा सप्तऋषिभिर् उदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।७च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥

१९,१७।८अ - इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।८च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥

१९,१७।९अ - प्रजापतिर् मा प्रजननवान्त् सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।९च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥
१९,१७।१०अ - बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
१९,१७।१०च् - स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥


१९,१८।१अ - अग्निं ते वसुवन्तम् ऋछन्तु ।
१९,१८।१च् - ये माघायवः प्राच्या दिशो 'भिदासान् ॥१॥

१९,१८।२अ - वायुं ते 'न्तरिक्षवन्तम् ऋछन्तु ।
१९,१८।२च् - ये माघायव एतस्या दिशो 'भिदासान् ॥२॥

१९,१८।३अ - सोमं ते रुद्रवन्तम् ऋछन्तु ।
१९,१८।३च् - ये माघायवो दक्षिणाया दिशो 'भिदासान् ॥३॥

१९,१८।४अ - वरुणं त आदित्यवन्तम् ऋछन्तु ।
१९,१८।४च् - ये माघायव एतस्या दिशो 'भिदासान् ॥४॥

१९,१८।५अ - सूर्यं ते द्यावापृथिवीवन्तम् ऋछन्तु ।
१९,१८।५च् - ये माघायव प्रतीच्या दिशो 'भिदासान् ॥५॥

१९,१८।६अ - अपस् त ओषधीमतीर् ऋछन्तु ।
१९,१८।६च् - ये माघायव एतस्या दिशो 'भिदासान् ॥६॥

१९,१८।७अ - विश्वकर्माणं ते सप्तऋषिवन्तम् ऋछन्तु ।
१९,१८।७च् - ये माघायव उदीच्या दिशो 'भिदासान् ॥७॥

१९,१८।८अ - इन्द्रं ते मरुत्वन्तम् ऋछन्तु ।
१९,१८।८च् - ये माघायव एतस्या दिशो 'भिदासान् ॥८॥

१९,१८।९अ - प्रजापतिं ते प्रजननवन्तम् ऋछन्तु ।
१९,१८।९च् - ये माघायवो ध्रुवाया दिशो 'भिदासान् ॥९॥

१९,१८।१०अ - बृहस्पतिं ते विश्वदेववन्तम् ऋछन्तु ।
१९,१८।१०च् - ये माघायव ऊर्ध्वाया दिशो 'भिदासान् ॥१०॥


१९,१९।१अ - मित्रः पृथिव्योद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।१च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१॥

१९,१९।२अ - वायुर् अन्तरिक्षेणोद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।२च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥२॥

१९,१९।३अ - सूर्यो दिवोद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।३च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥३॥

१९,१९।४अ - चन्द्रमा नक्षत्रैर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।४च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥४॥

१९,१९।५अ - सोम ओषधीभिर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।५च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥५॥

१९,१९।६अ - यज्ञो दक्षिणाभिर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।६च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥६॥

१९,१९।७अ - समुद्रो नदीभिर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।७च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥७॥

१९,१९।८अ - ब्रह्म ब्रह्मचारिभिर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।८च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥८॥

१९,१९।९अ - इन्द्रो वीर्येणोद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।९च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥९॥

१९,१९।१०अ - देवा अमृतेनोद् अक्रामंस् तां पुरं प्र णयामि वः ।
१९,१९।१०च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१०॥

१९,१९।११अ - प्रजापतिः प्रजाभिर् उद् अक्रामत् तां पुरं प्र णयामि वः ।
१९,१९।११च् - ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥११॥


१९,२०।१अ - अप न्यधुः पौरुषेयं वधं यम् इन्द्राग्नी धाता सविता बृहस्पतिः ।
१९,२०।१च् - सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥

१९,२०।२अ - यानि चकार भुवनस्य यस् पतिः प्रजापतिर् मातरिश्वा प्रजाभ्यः ।
१९,२०।२च् - प्रदिशो यानि वसते दिशश् च तानि मे वर्माणि बहुलानि सन्तु ॥२॥

१९,२०।३अ - यत् ते तनूष्व् अनह्यन्त देवा द्युराजयो देहिनः ।
१९,२०।३च् - इन्द्रो यच् चक्रे वर्म तद् अस्मान् पातु विश्वतः ॥३॥

१९,२०।४अ - वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः ।
१९,२०।४च् - वर्म मे विश्वे देवाः क्रन् मा मा प्रापत् प्रतीचिका ॥४॥


१९,२१।१अ - गायत्र्य् उष्णिग् अनुष्टुब् बृहती पङ्क्तिस् त्रिष्टुब् जगत्यै ॥१॥


१९,२२।१अ - आङ्गिरसानाम् आद्यैः पञ्चानुवाकैः स्वाहा ॥१॥

१९,२२।२अ - षष्ठाय स्वाहा ॥२॥

१९,२२।३अ - सप्तमाष्टमाभ्यां स्वाहा ॥३॥

१९,२२।४अ - नीलनखेभ्यः स्वाहा ॥४॥

१९,२२।५अ - हरितेभ्यः स्वाहा ॥५॥

१९,२२।६अ - क्षुद्रेभ्यः स्वाहा ॥६॥

१९,२२।७अ - पर्यायिकेभ्यः स्वाहा ॥७॥

१९,२२।८अ - प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥

१९,२२।९अ - द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥

१९,२२।१०अ - तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥

१९,२२।११अ - उपोत्तमेभ्यः स्वाहा ॥११॥

१९,२२।१२अ - उत्तमेभ्यः स्वाहा ॥१२॥

१९,२२।१३अ - उत्तरेभ्यः स्वाहा ॥१३॥

१९,२२।१४अ - ऋषिभ्यः स्वाहा ॥१४॥

१९,२२।१५अ - शिखिभ्यः स्वाहा ॥१५॥

१९,२२।१६अ - गणेभ्यः स्वाहा ॥१६॥

१९,२२।१७अ - महागणेभ्यः स्वाहा ॥१७॥

१९,२२।१८अ - सर्वेभ्यो 'ङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥

१९,२२।१९अ - पृथक्सहस्राभ्यां स्वाहा ॥१९॥

१९,२२।२०अ - ब्रह्मणे स्वाहा ॥२०॥

१९,२२।२१अ - ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान ।
१९,२२।२१च् - भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥


१९,२३।१अ - आथर्वणानां चतुरृचेभ्यः स्वाहा ॥१॥

१९,२३।२अ - पञ्चर्चेभ्यः स्वाहा ॥२॥

१९,२३।३अ - षऌऋचेभ्यः स्वाहा ॥३॥

१९,२३।४अ - सप्तर्चेभ्यः स्वाहा ॥४॥

१९,२३।५अ - अष्टर्चेभ्यः स्वाहा ॥५॥

१९,२३।६अ - नवर्चेभ्यः स्वाहा ॥६॥

१९,२३।७अ - दशर्चेभ्यः स्वाहा ॥७॥

१९,२३।८अ - एकादशर्चेभ्यः स्वाहा ॥८॥

१९,२३।९अ - द्वादशर्चेभ्यः स्वाहा ॥९॥

१९,२३।१०अ - त्रयोदशर्चेभ्यः स्वाहा ॥१०॥

१९,२३।११अ - चतुर्दशर्चेभ्यः स्वाहा ॥११॥

१९,२३।१२अ - पञ्चदशर्चेभ्यः स्वाहा ॥१२॥

१९,२३।१३अ - षोढशर्चेभ्यः स्वाहा ॥१३॥

१९,२३।१४अ - सप्तदशर्चेभ्यः स्वाहा ॥१४॥

१९,२३।१५अ - अष्टादशर्चेभ्यः स्वाहा ॥१५॥

१९,२३।१६अ - एकोनविंशतिः स्वाहा ॥१६॥

१९,२३।१७अ - विंशतिः स्वाहा ॥१७॥

१९,२३।१८अ - महत्काण्ढाय स्वाहा ॥१८॥

१९,२३।१९अ - तृचेभ्यः स्वाहा ॥१९॥

१९,२३।२०अ - एकर्चेभ्यः स्वाहा ॥२०॥

१९,२३।२१अ - क्षुद्रेभ्यः स्वाहा ॥२१॥

१९,२३।२२अ - एकानृचेभ्यः स्वाहा ॥२२॥

१९,२३।२३अ - रोहितेभ्यः स्वाहा ॥२३॥

१९,२३।२४अ - सूर्याभ्यां स्वाहा ॥२४॥
१९,२३।२५अ - व्रात्याभ्यां स्वाहा ॥२५॥

१९,२३।२६अ - प्राजापत्याभ्यां स्वाहा ॥२६॥

१९,२३।२७अ - विषासह्यै स्वाहा ॥२७॥

१९,२३।२८अ - मङ्गलिकेभ्यः स्वाहा ॥२८॥

१९,२३।२९अ - ब्रह्मणे स्वाहा ॥२९॥
१९,२३।३०अ - ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान ।
१९,२३।३०च् - भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥


१९,२४।१अ - येन देवं सवितारं परि देवा अधारयन् ।
१९,२४।१च् - तेनेमं ब्रह्मणस् पते परि राष्ट्राय धत्तन ॥१॥

१९,२४।२अ - परीमम् इन्द्रम् आयुषे महे क्षत्राय धत्तन ।
१९,२४।२च् - यथैनं जरसे नयाज् ज्योक् क्षत्रे 'धि जागरत् ॥२॥

१९,२४।३अ - परीमम् इन्द्रम् आयुषे महे श्रोत्राय धत्तन ।
१९,२४।३च् - यथैनं जरसे नयाज् ज्योक् श्रोत्रे 'धि जागरत् ॥३॥

१९,२४।४अ - परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घम् आयुः ।
१९,२४।४च् - बृहस्पतिः प्रायछद् वास एतत् सोमाय राज्ञे परिधातवा उ ॥४॥
१९,२४।५अ - जरां सु गछ परि धत्स्व वासो भवा गृष्टीनाम् अभिशस्तिपा उ ।
१९,२४।५च् - शतं च जीव शरदः पुरूची रायश् च पोषम् उपसंव्ययस्व ॥५॥

१९,२४।६अ - परीदं वासो अधिथाः स्वस्तये 'भूर् वापीनाम् अभिशस्तिपा उ ।
१९,२४।६च् - शतं च जीव शरदः पुरूचीर् वसूनि चारुर् वि भजासि जीवन् ॥६॥

१९,२४।७अ - योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
१९,२४।७च् - सखाय इन्द्रम् ऊतये ॥७॥

१९,२४।८अ - हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
१९,२४।८च् - तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः ॥८॥


१९,२५।१अ - अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ।
१९,२५।१च् - उत्कूलम् उद्वहो भवोदुह्य प्रति धावतात् ॥१॥


१९,२६।१अ - अग्नेः प्रजातं परि यद् धिरण्यम् अमृतं दध्रे अधि मर्त्येषु ।
१९,२६।१च् - य एनद् वेद स इद् एनम् अर्हति जरामृत्युर् भवति यो बिभर्ति ॥१॥

१९,२६।२अ - यद् धिरण्यं सूर्येण सुवर्णम् प्रजावन्तो मनवः पूर्व ईषिरे ।
१९,२६।२च् - तत् त्वा चन्द्रं वर्चसा सं सृजत्य् आयुष्मान् भवति यो बिभर्ति ॥२॥

१९,२६।३अ - आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
१९,२६।३च् - यथा हिरण्यतेजसा विभासासि जनां अनु ॥३॥

१९,२६।४अ - यद् वेद राजा वरुणो वेद देवो बृहस्पतिः ।
१९,२६।४च् - इन्द्रो यद् वृत्रहा वेद तत् त आयुष्यं भुवत् तत् ते वर्चस्यं भुवत् ॥४॥


१९,२७।१अ - गोभिष् ट्वा पात्व् ऋषभो वृषा त्वा पातु वाजिभिः ।
१९,२७।१च् - वायुष् ट्वा ब्रह्मणा पात्व् इन्द्रस् त्वा पात्व् इन्द्रियैः ॥१॥

१९,२७।२अ - सोमस् त्वा पात्व् ओषधीभिर् नक्षत्रैः पातु सूर्यः ।
१९,२७।२च् - माद्भ्यस् त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥

१९,२७।३अ - तिस्रो दिवस् तिस्रः पृथिवीस् त्रीण्य् अन्तरिक्षाणि चतुरः समुद्रान् ।
१९,२७।३च् - त्रिवृतं स्तोमं त्रिवृत आप आहुस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥

१९,२७।४अ - त्रीन् नाकांस् त्रीन् समुद्रांस् त्रीन् ब्रध्नांस् त्रीन् वैष्टपान् ।
१९,२७।४च् - त्रीन् मातरिश्वनस् त्रीन्त् सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥

१९,२७।५अ - घृतेन त्वा सम् उक्षाम्य् अग्ने आज्येन वर्धयन् ।
१९,२७।५च् - अग्नेश् चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥

१९,२७।६अ - मा वः प्राणं मा वो 'पानं मा हरो मायिनो दभन् ।
१९,२७।६च् - भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥

१९,२७।७अ - प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।
१९,२७।७च् - प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥

१९,२७।८अ - आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।
१९,२७।८च् - प्राणेनात्मन्वताम् जीव मा मृत्योर् उद् अगा वशम् ॥८॥

१९,२७।९अ - देवानां निहितं निधिं यम् इन्द्रो 'न्वविन्दत् पथिभिर् देवयानैः ।
१९,२७।९च् - आपो हिरण्यं जुगुपुस् त्रिवृद्भिस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥

१९,२७।१०अ - त्रयस्त्रिंशद् देवतास् त्रीणि च वीर्याणि प्रियायमाणा जुगुपुर् अप्स्व् अन्तः ।
१९,२७।१०च् - अस्मिंश् चन्द्रे अधि यद् धिरण्यं तेनायं कृणवद् वीर्याणि ॥१०॥

१९,२७।११अ - ये देवा दिव्य् एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥११॥

१९,२७।१२अ - ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥१२॥

१९,२७।१३अ - ये देवा पृथिव्याम् एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥१३॥

१९,२७।१४अ - असपत्नं पुरस्तात् पश्चान् नो अभयं कृतम् ।
१९,२७।१४च् - सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥

१९,२७।१५अ - दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्व् अग्नयः ।
१९,२७।१५च् - इन्द्राग्नी रक्षतां मा पुरस्ताद् अश्विनाव् अभितः शर्म यछताम् ।
१९,२७।१५ए - तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥


१९,२८।१अ - इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
१९,२८।१च् - दर्भं सपत्नदम्भनं द्विषतस् तपनं हृदः ॥१॥

१९,२८।२अ - द्विषतस् तापयन् हृदः शत्रूणां तापयन् मनः ।
१९,२८।२च् - दुर्हार्दः सर्वांस् त्वं दर्भ घर्म इवाभीन्त् संतापयन् ॥२॥

१९,२८।३अ - घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
१९,२८।३च् - हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥

१९,२८।४अ - भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
१९,२८।४च् - उद्यन् त्वचम् इव भूम्याः शिर एषां वि पातय ॥४॥

१९,२८।५अ - भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।
१९,२८।५च् - भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥

१९,२८।६अ - छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।
१९,२८।६च् - छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥

१९,२८।७अ - वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।
१९,२८।७च् - वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥

१९,२८।८अ - कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।
१९,२८।८च् - कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥

१९,२८।९अ - पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।
१९,२८।९च् - पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥

१९,२८।१०अ - विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।
१९,२८।१०च् - विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥


१९,२९।१अ - निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।
१९,२९।१च् - निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥

१९,२९।२अ - तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।
१९,२९।२च् - तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥

१९,२९।३अ - रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।
१९,२९।३च् - रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥

१९,२९।४अ - मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।
१९,२९।४च् - मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥

१९,२९।५अ - मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।
१९,२९।५च् - मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥

१९,२९।६अ - पिण्ढ्डि दर्भ सपत्नान् मे पिण्ढ्डि मे पृतनायतः ।
१९,२९।६च् - पिण्ढ्डि मे सर्वान् दुर्हार्दो पिण्ढ्डि मे द्विषतो मणे ॥६॥

१९,२९।७अ - ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।
१९,२९।७च् - ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥

१९,२९।८अ - दह दर्भ सपत्नान् मे दह मे पृतनायतः ।
१९,२९।८च् - दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥

१९,२९।९अ - जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।
१९,२९।९च् - जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥


१९,३०।१अ - यत् ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।
१९,३०।१च् - तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥

१९,३०।२अ - शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।
१९,३०।२च् - तम् अस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥

१९,३०।३अ - त्वाम् आहुर् देववर्म त्वां दर्भ ब्रह्मणस् पतिम् ।
१९,३०।३च् - त्वाम् इन्द्रस्याहुर् वर्म त्वं राष्ट्राणि रक्षसि ॥३॥

१९,३०।४अ - सपत्नक्षयणं दर्भ द्विषतस् तपनं हृदः ।
१९,३०।४च् - मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥

१९,३०।५अ - यत् समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युता सह ।
१९,३०।५च् - ततो हिरन्ययो बिन्दुस् ततो दर्भो अजायत ॥५॥


१९,३१।१अ - अउदुम्बरेण मणिना पुष्टिकामाय वेधसा ।
१९,३१।१च् - पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥१॥

१९,३१।२अ - यो नो अग्निर् गार्हपत्यः पशूनाम् अधिपा असत् ।
१९,३१।२च् - अउदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥

१९,३१।३अ - करीषिणीं फलवतीं स्वधाम् इरां च नो गृहे ।
१९,३१।३च् - अउदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥

१९,३१।४अ - यद् द्विपाच् च चतुष्पाच् च यान्य् अन्नानि ये रसाः ।
१९,३१।४च् - गृह्णे 'हं त्व् एषां भूमानं बिभ्रद् अउदुम्बरं मणिम् ॥४॥
१९,३१।५अ - पुष्टिं पशूनाम् परि जग्रभाहं चतुष्पदां द्विपदां यच् च धान्यम् ।
१९,३१।५च् - पयः पशूनां रसम् ओषधीनां बृहस्पतिः सविता मे नि यछात् ॥५॥

१९,३१।६अ - अहं पशूनाम् अधिपा असानि मयि पुष्टं पुष्टपतिर् दधातु ।
१९,३१।६च् - मह्यम् अउदुम्बरो मणिर् द्रविणानि नि यछतु ॥६॥

१९,३१।७अ - उप मौदुम्बरो मणिः प्रजया च धनेन च ।
१९,३१।७च् - इन्द्रेण जिन्वितो मणिर् आ मागन्त् सह वर्चसा ॥७॥

१९,३१।८अ - देवो मणिः सपत्नहा धनसा धनसातये ।
१९,३१।८च् - पशोर् अन्नस्य भूमानं गवां स्फातिं नि यछतु ॥८॥

१९,३१।९अ - यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।
१९,३१।९च् - एवा धनस्य मे स्फातिम् आ दधातु सरस्वती ॥९॥

१९,३१।१०अ - आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।
१९,३१।१०च् - सिनीवाल्य् उपा वहाद् अयं चौदुम्बरो मणिः ॥१०॥

१९,३१।११अ - त्वं मणीणाम् अधिपा वृषासि त्वयि पुष्टं पुष्टपतिर् जजान ।
१९,३१।११च् - त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वम् अस्मत् सहस्वाराद् आराद् अरातिम् अमतिं क्षुधं च ॥११॥

१९,३१।१२अ - ग्रामणीर् असि ग्रामणीर् उत्थाय अभिषिक्तो 'भि मा सिञ्च वर्चसा ।
१९,३१।१२च् - तेजो 'सि तेजो मयि धारयाधि रयिर् असि रयिं मे धेहि ॥१२॥

१९,३१।१३अ - पुष्टिर् असि पुष्ट्या मा सम् अङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।
१९,३१।१३च् - अउदुम्बरः स त्वम् अस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस् पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥

१९,३१।१४अ - अयम् अउदुम्बरो मणिर् वीरो वीराय बध्यते ।
१९,३१।१४च् - स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरम् नि यछात् ॥१४॥


१९,३२।१अ - शतकाण्ढो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।
१९,३२।१च् - दर्भो य उग्र ओषधिस् तं ते बध्नाम्य् आयुषे ॥१॥

१९,३२।२अ - नास्य केशान् प्र वपन्ति नोरसि ताढम् आ घ्नते ।
१९,३२।२च् - यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥२॥

१९,३२।३अ - दिवि ते तूलम् ओषधे पृथिव्याम् असि निष्ठितः ।
१९,३२।३च् - त्वया सहस्रकाण्ढेनायुः प्र वर्धयामहे ॥३॥

१९,३२।४अ - तिस्रो दिवो अत्य् अतृणत् तिस्र इमाः पृथिवीर् उत ।
१९,३२।४च् - त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥

१९,३२।५अ - त्वम् असि सहमानो 'हम् अस्मि सहस्वान् ।
१९,३२।५च् - उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥

१९,३२।६अ - सहस्व नो अभिमातिं सहस्व पृतनायतः ।
१९,३२।६च् - सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥

१९,३२।७अ - दर्भेण देवजातेन दिवि ष्टम्भेन शश्वद् इत् ।
१९,३२।७च् - तेनाहं शश्वतो जनां असनं सनवानि च ॥७॥

१९,३२।८अ - प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्याम् शूद्राय चार्याय च ।
१९,३२।८च् - यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥

१९,३२।९अ - यो जायमानः पृथिवीम् अदृंहद् यो अस्तभ्नाद् अन्तरिक्षं दिवं च ।
१९,३२।९च् - यं बिभ्रतं ननु पाप्मा विवेद स नो 'यं दर्भो वरुणो दिवा कः ॥९॥

१९,३२।१०अ - सपत्नहा शतकाण्ढः सहस्वान् ओषधीनां प्रथमः सं बभूव ।
१९,३२।१०च् - स नो 'यं दर्भः परि पातु विश्वतस् तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥


१९,३३।१अ - सहस्रार्घः शतकाण्ढः पयस्वान् अपाम् अग्निर् वीरुधां राजसूयम् ।
१९,३३।१च् - स नो 'यं दर्भः परि पातु विश्वतो देवो मणिर् आयुषा सं सृजाति नः ॥१॥

१९,३३।२अ - घृताद् उल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो 'च्युतश् च्यावयिष्णुः ।
१९,३३।२च् - नुदन्त् सपत्नान् अधरांश् च कृण्वन् दर्भा रोह महताम् इन्द्रियेण ॥२॥

१९,३३।३अ - त्वं भूमिम् अत्य् एष्य् ओजसा त्वं वेद्यां सीदसि चारुर् अध्वरे ।
१९,३३।३च् - त्वां पवित्रम् ऋषयो 'भरन्त त्वं पुनीहि दुरितान्य् अस्मत् ॥३॥
१९,३३।४अ - तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।
१९,३३।४च् - ओजो देवानां बलम् उग्रम् एतत् तं ते बध्नामि जरसे स्वस्तये ॥४॥

१९,३३।५अ - दर्भेण त्वं कृणवद् वीर्याणि दर्भं बिभ्रद् आत्मना मा व्यथिष्ठाः ।
१९,३३।५च् - अतिष्ठाय वर्चसाधान्यान्त् सूर्य इवा भाहि प्रदिशश् चतस्रः ॥५॥


१९,३४।१अ - जाङ्गिढो 'सि जङ्गिढो रक्षितासि जङ्गिदः ।
१९,३४।१च् - द्विपाच् चतुष्पाद् अस्माकं सर्वं रक्षतु जङ्गिदः ॥१॥
१९,३४।२अ - या गृत्स्यस् त्रिपञ्चाशीः शतं कृत्याकृतश् च ये ।
१९,३४।२च् - सर्वान् विनक्तु तेजसो 'रसां जङ्गिदस् करत् ॥२॥

१९,३४।३अ - अरसं कृत्रिमं नादम् अरसाः सप्त विस्रसः ।
१९,३४।३च् - अपेतो जङ्गिढामतिम् इषुम् अस्तेव शातय ॥३॥
१९,३४।४अ - कृत्यादूषण एवायम् अथो अरातिदूषणः ।
१९,३४।४च् - अथो सहस्वाञ् जङ्गिढः प्र न आयुम्षि तारिषत् ॥४॥

१९,३४।५अ - स जङ्गिढस्य महिमा परि णः पातु विश्वतः ।
१९,३४।५च् - विष्कन्धं येन सासह संस्कन्धम् ओज ओजसा ॥५॥

१९,३४।६अ - त्रिष् ट्वा देवा अजनयन् निष्ठितं भूम्याम् अधि ।
१९,३४।६च् - तम् उ त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥

१९,३४।७अ - न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।
१९,३४।७च् - विबाध उग्रो जङ्गिढः परिपाणः सुमङ्गलः ॥७॥

१९,३४।८अ - अथोपदान भगवो जाङ्गिढामितवीर्य ।
१९,३४।८च् - पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥

१९,३४।९अ - उग्र इत् ते वनस्पत इन्द्र ओज्मानम् आ दधौ ।
१९,३४।९च् - अमीवाः सर्वाश् चातयं जहि रक्षांस्य् ओषधे ॥९॥

१९,३४।१०अ - आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
१९,३४।१०च् - तक्मानं विश्वशारदम् अरसां जङ्गिढस् करत् ॥१०॥


१९,३५।१अ - इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः ।
१९,३५।१च् - देवा यं चक्रुर् भेषजम् अग्रे विष्कन्धदूषणम् ॥१॥

१९,३५।२अ - स नो रक्षतु जङ्गिढो धनपालो धनेव ।
१९,३५।२च् - देवा यं चक्रुर् ब्राह्मणाः परिपाणम् अरातिहम् ॥२॥

१९,३५।३अ - दुर्हार्दः संघोरं चक्षुः पापकृत्वानम् आगमम् ।
१९,३५।३च् - तांस् त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणो 'सि जङ्गिढः ॥३॥

१९,३५।४अ - परि मा दिवः परि मा पृथिव्याः पर्य् अन्तरिक्षात् परि मा वीरुद्भ्यः ।
१९,३५।४च् - परि मा भूतात् परि मोत भव्याद् दिशोदिशो जङ्गिढः पात्व् अस्मान् ॥४॥

१९,३५।५अ - य ऋष्णवो देवकृता य उतो ववृते 'न्यः ।
१९,३५।५च् - सर्वां स्तान् विश्वभेषजो 'रसां जङ्गिढस् करत् ॥५॥


१९,३६।१अ - शतवारो अनीनशद् यक्ष्मान् रक्षांसि तेजसा ।
१९,३६।१च् - आरोहन् वर्चसा सह मणिर् दुर्णामचातनः ॥१॥

१९,३६।२अ - शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
१९,३६।२च् - मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥

१९,३६।३अ - ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
१९,३६।३च् - सर्वां दुर्णामहा मणिः शतवारो अनीनशत् ॥३॥

१९,३६।४अ - शतं वीरान् अजनयच् छतं यक्ष्मान् अपावपत् ।
१९,३६।४च् - दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥

१९,३६।५अ - हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
१९,३६।५च् - दुर्णाम्नः सर्वांस् तृध्वाव रक्षांस्य् अक्रमीत् ॥५॥

१९,३६।६अ - शतम् अहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
१९,३६।६च् - शतम् शश्वन्वतीनां शतवारेण वारये ॥६॥


१९,३७।१अ - इदं वर्चो अग्निना दत्तम् आगन् भर्गो यशः सह ओजो वयो बलम् ।
१९,३७।१च् - त्रयस्त्रिंशद् यानि च वीर्याणि तान्य् अग्निः प्र ददातु मे ॥१॥

१९,३७।२अ - वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।
१९,३७।२च् - इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥

१९,३७।३अ - ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।
१९,३७।३च् - अभिभूयाय त्वा राष्ट्रभृत्याय पर्य् ऊहामि शतशारदाय ॥३॥

१९,३७।४अ - ऋतुभ्यष् ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
१९,३७।४च् - धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥


१९,३८।१अ - न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
१९,३८।१च् - यं भेषजस्य गुल्गुलोः सुरभिर् गन्धो अश्नुते ॥१॥

१९,३८।२अ - विष्वञ्चस् तस्माद् यक्ष्मा मृगा अश्वा इवेरते ।
१९,३८।२च् - यद् गुल्गुलु सैन्धवं यद् वाप्य् असि समुद्रियम् ॥२॥

१९,३८।३अ - उभयोर् अग्रभं नामास्मा अरिष्टतातये ॥३॥


१९,३९।१अ - अइतु देवस् त्रायमाणः कुष्ठो हिमवतस् परि ।
१९,३९।१च् - तक्मानं सर्वं नाशय सर्वाश् च यातुधान्यः ॥१॥

१९,३९।२अ - त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।
१९,३९।२च् - नद्यायं पुरुषो रिषत् ।
१९,३९।२ए - यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥२॥

१९,३९।३अ - जीवला नाम ते माता जीवन्तो नाम ते पिता ।
१९,३९।३च् - नद्यायं पुरुषो रिषत् ।
१९,३९।३ए - यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥३॥

१९,३९।४अ - उत्तमो अस्य् ओषधीनाम् अनढ्वान् जगताम् इव व्याघ्रः श्वपदाम् इव ।
१९,३९।४च् - नद्यायं पुरुषो रिषत् ।
१९,३९।४ए - यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥४॥

१९,३९।५अ - त्रिः शाम्बुभ्यो अङ्गिरेभ्यस् त्रिर् आदित्येभ्यस् परि ।
१९,३९।५च् - त्रिर् जातो विश्वदेवेभ्यः ।
१९,३९।५ए - स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

१९,३९।६अ - अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि ।
१९,३९।६च् - तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
१९,३९।६ए - स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

१९,३९।७अ - हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि ।
१९,३९।७च् - तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
१९,३९।७ए - स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

१९,३९।८अ - यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।
१९,३९।८च् - तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
१९,३९।८ए - स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

१९,३९।९अ - यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।
१९,३९।९च् - यं वा वसो यम् आत्स्यस् तेनासि विश्वभेषजः ॥९॥

१९,३९।१०अ - शीर्षशोकं तृतीयकं सदंदिर् यश् च हायनः ।
१९,३९।१०च् - तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥


१९,४०।१अ - यन् मे छिद्रं मनसो यच् च वाचः सरस्वती मन्युमन्तं जगाम ।
१९,४०।१च् - विश्वैस् तद् देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥

१९,४०।२अ - मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।
१९,४०।२च् - सुष्यदा यूयं स्यन्दध्वम् उपहूतो 'हं सुमेधा वर्चस्वी ॥२॥

१९,४०।३अ - मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत् तपः ।
१९,४०।३च् - शिवा नः शं सन्त्व् आयुषे शिवा भवन्तु मातरः ॥३॥

१९,४०।४अ - या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः ।
१९,४०।४च् - ताम् अस्मे रासताम् इषम् ॥४॥


१९,४१।१अ - भद्रम् इछन्त ऋषयः स्वर्विदस् तपो दीक्षाम् उपनिषेदुर् अग्रे ।
१९,४१।१च् - ततो राष्ट्रं बलम् ओजश् च जातं तद् अस्मै देवा उपसंनमन्तु ॥१॥


१९,४२।१अ - ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।
१९,४२।१च् - अध्वर्युर् ब्रह्मणो जातो ब्रह्मणो 'न्तर्हितं हविः ॥१॥

१९,४२।२अ - ब्रह्म स्रुचो घृतवतीर् ब्रह्मणा वेदिर् उद्धिता ।
१९,४२।२च् - ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।
१९,४२।२ए - शमिताय स्वाहा ॥२॥

१९,४२।३अ - अंहोमुचे प्र भरे मनीषाम् आ सुत्राव्णे सुमतिम् आवृणानः ।
१९,४२।३च् - इमम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥

१९,४२।४अ - अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथमम् अध्वराणम् ।
१९,४२।४च् - अपां नपातम् अश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तम् ओजः ॥४॥


१९,४३।१अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।१च् - अग्निर् मा तत्र नयत्व् अग्निर् मेधा दधातु मे ।
१९,४३।१ए - अग्नये स्वाहा ॥१॥

१९,४३।२अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।२च् - वायुर् मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥

१९,४३।३अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।३च् - सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।
१९,४३।३ए - सूर्याय स्वाहा ॥३॥

१९,४३।४अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।४च् - चन्द्रो मा तत्र नयतु मनश् चन्द्रो दधातु मे ।
१९,४३।४ए - चन्द्राय स्वाहा ॥४॥

१९,४३।५अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।५च् - सोमो मा तत्र नयतु पयः सोमो दधातु मे ।
१९,४३।५ए - सोमाय स्वाहा ॥५॥

१९,४३।६अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।६च् - इन्द्रो मा तत्र नयतु बलम् इन्द्रो दधातु मे ।
१९,४३।६ए - इन्द्राय स्वाहा ॥६॥

१९,४३।७अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।७च् - आपो मा तत्र नयत्व् अमृतम् मोप तिष्ठतु ।
१९,४३।७ए - अद्भ्यः स्वाहा ॥७॥

१९,४३।८अ - यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
१९,४३।८च् - ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।
१९,४३।८ए - ब्रह्मणे स्वाहा ॥८॥


१९,४४।१अ - आयुषो 'सि प्रतरणं विप्रं भेषजम् उच्यसे ।
१९,४४।१च् - तद् आञ्जन त्वं शंताते शम् आपो अभयं कृतम् ॥१॥

१९,४४।२अ - यो हरिमा जायान्यो 'ङ्गभेदो विषल्पकः ।
१९,४४।२च् - सर्वं ते यक्ष्मम् अङ्गेभ्यो बहिर् निर् हन्त्व् आञ्जनम् ॥२॥

१९,४४।३अ - आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
१९,४४।३च् - कृणोत्व् अप्रमायुकं रथजूतिम् अनागसम् ॥३॥

१९,४४।४अ - प्राण प्राणं त्रायस्वासो असवे मृढ ।
१९,४४।४च् - निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥४॥

१९,४४।५अ - सिन्धोर् गर्भो 'सि विद्युतां पुष्पम् ।
१९,४४।५च् - वातः प्राणः सूर्यश् चक्षुर् दिवस् पयः ॥५॥

१९,४४।६अ - देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
१९,४४।६च् - न त्वा तरन्त्य् ओषधयो बाह्याः पर्वतीया उत ॥६॥

१९,४४।७अ - वीदं मध्यम् अवासृपद् रक्षोहामीवचातनः ।
१९,४४।७च् - अमीवाः सर्वाश् चातयन् नाशयद् अभिभा इतः ॥७॥

१९,४४।८अ - बह्व् इदं राजन् वरुणानृतम् आह पूरुषः ।
१९,४४।८च् - तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः ॥८॥

१९,४४।९अ - यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम ।
१९,४४।९च् - तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः ॥९॥

१९,४४।१०अ - मित्रश् च त्वा वरुणश् चानुप्रेयतुर् आञ्जन ।
१९,४४।१०च् - तौ त्वानुगत्य दूरं भोगाय पुनर् ओहतुः ॥१०॥


१९,४५।१अ - ऋणाद् ऋणम् इव सं नय कृत्यां कृत्याकृतो गृहम् ।
१९,४५।१च् - चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि शृणाञ्जन ॥१॥

१९,४५।२अ - यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे ।
१९,४५।२च् - अनामगस् तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥

१९,४५।३अ - अपाम् ऊर्ज ओजसो वावृधानम् अग्नेर् जातम् अधि जातवेदसः ।
१९,४५।३च् - चतुर्वीरं पर्वतीयं यद् आञ्जनं दिशः प्रदिशः करद् इच् छिवास् ते ॥३॥

१९,४५।४अ - चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास् ते भवन्तु ।
१९,४५।४च् - ध्रुवस् तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥

१९,४५।५अ - आक्ष्वैकं मणिम् एकं क्र्णुष्व स्नाह्य् एकेना पिबैकम् एषाम् ।
१९,४५।५च् - चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥५॥

१९,४५।६अ - अग्निर् माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
१९,४५।६च् - तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥

१९,४५।७अ - इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
१९,४५।७च् - तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥

१९,४५।८अ - सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
१९,४५।८च् - तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥

१९,४५।९अ - भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
१९,४५।९च् - तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥

१९,४५।१०अ - मरुतो मा गणैर् अवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
१९,४५।१०च् - स्वस्तये सुभूतये स्वाहा ॥१०॥


१९,४६।१अ - प्रजापतिष् ट्वा बध्नात् प्रथमम् अस्तृतं वीर्याय कम् ।
१९,४६।१च् - तत् ते बध्नाम्य् आयुषे वर्चस ओजसे च बलाय चास्तृतस् त्वाभि रक्षतु ॥१॥

१९,४६।२अ - ऊर्ध्वस् तिष्ठतु रक्षन्न् अप्रमादम् अस्तृतेमम् मा त्वा दभन् पणयो यातुधानाः ।
१९,४६।२च् - इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस् त्वाभि रक्षतु ॥२॥

१९,४६।३अ - शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।
१९,४६।३च् - तस्मिन्न् इन्द्रः पर्य् अदत्त चक्षुः प्राणम् अथो बलम् अस्तृतस् त्वाभि रक्षतु ॥३॥

१९,४६।४अ - इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानाम् अधिराजो बभूव ।
१९,४६।४च् - पुनस् त्वा देवाः प्र णयन्तु सर्वे 'स्तृतस् त्वाभि रक्षतु ॥४॥

१९,४६।५अ - अस्मिन् मणाव् एकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।
१९,४६।५च् - व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस् त्वा पृतन्याद् अधरः सो अस्त्व् अस्तृतस् त्वाभि रक्षतु ॥५॥

१९,४६।६अ - घृताद् उल्लुप्तो मधुमान् पयस्वान्त् सहस्रप्राणः शतयोनिर् वयोधाः ।
१९,४६।६च् - शम्भूश् च मयोभूश् चोर्जस्वांश् च पयस्वांश् चास्तृतस् त्वाभि रक्षतु ॥६॥

१९,४६।७अ - यथा त्वम् उत्तरो 'सो असपत्नः सपत्नहा ।
१९,४६।७च् - सजातानाम् असद् वशी तथा त्वा सविता करद् अस्तृतस् त्वाभि रक्षतु ॥७॥


१९,४७।१अ - आ रात्रि पार्थिवं रजः पितुर् अप्रायि धामभिः ।
१९,४७।१च् - दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥

१९,४७।२अ - न यस्याः पारं ददृशे न योयुवद् विश्वम् अस्यां नि विशते यद् एजति ।
१९,४७।२च् - अरिष्टासस् त उर्वि तमस्वति रात्रि पारम् अशीमहि भद्रे पारम् अशीमहि ॥२॥

१९,४७।३अ - ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर् नव ।
१९,४७।३च् - अशीतिः सन्त्य् अष्टा उतो ते सप्त सप्ततिः ॥३॥

१९,४७।४अ - षष्टिश् च षट् च रेवति पञ्चाशत् पञ्च सुम्नयि ।
१९,४७।४च् - चत्वारश् चत्वारिंशच् च त्रयस् त्रिंशच् च वाजिनि ॥४॥

१९,४७।५अ - द्वौ च ते विंशतिश् च ते रात्र्य् एकादशावमाः ।
१९,४७।५च् - तेभिर् नो अद्य पायुभिर् नु पाहि दुहितर् दिवः ॥५॥

१९,४७।६अ - रक्षा माकिर् नो अघशंस ईशत मा नो दुःशंस ईशत ।
१९,४७।६च् - मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥

१९,४७।७अ - माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।
१९,४७।७च् - परमेभिः पथिभि स्तेनो धावतु तस्करः ।
१९,४७।७ए - परेण दत्वती रज्जुः परेणाघायुर् अर्षतु ॥७॥

१९,४७।८अ - अध रात्रि तृष्टधूमम् अशीर्षाणम् अहिं कृणु ।
१९,४७।८च् - हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥

१९,४७।९अ - त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
१९,४७।९च् - गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥


१९,४८।१अ - अथो यानि च यस्मा ह यानि चान्तः परीणहि ।
१९,४८।१च् - तानि ते परि दद्मसि ॥१॥

१९,४८।२अ - रात्रि मातर् उषसे नः परि देहि ।
१९,४८।२च् - उषा नो अह्ने परि ददात्व् अहस् तुभ्यं विभावरि ॥२॥
१९,४८।३अ - यत् किं चेदं पतयति यत् किं चेदं सरीसृपम् ।
१९,४८।३च् - यत् किं च पर्वतायासत्वं तस्मात् त्वं रात्रि पाहि नः ॥३॥

१९,४८।४अ - सा पश्चात् पाहि सा पुरः सोत्तराद् अधराद् उत ।
१९,४८।४च् - गोपाय नो विभावरि स्तोतारस् त इह स्मसि ॥४॥

१९,४८।५अ - ये रात्रिम् अनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
१९,४८।५च् - पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥

१९,४८।६अ - वेद वै रात्रि ते नाम घृताची नाम वा असि ।
१९,४८।६च् - तां त्वां भरद्वाजो वेद सा नो वित्ते 'धि जाग्रति ॥६॥


१९,४९।१अ - इषिरा योषा युवतिर् दमूना रात्री देवस्य सवितुर् भगस्य ।
१९,४९।१च् - अश्वक्षभा सुहवा संभृतश्रीर् आ पप्रौ द्यावापृथिवी महित्वा ॥१॥

१९,४९।२अ - अति विश्वान्य् अरुहद् गम्भिरो वर्षिष्ठम् अरुहन्त श्रविष्ठाः ।
१९,४९।२च् - उशती रात्र्य् अनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥

१९,४९।३अ - वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।
१९,४९।३च् - अस्मांस् त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥

१९,४९।४अ - सिंहस्य रात्र्य् उशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
१९,४९।४च् - अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥

१९,४९।५अ - शिवां रात्रिम् अनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।
१९,४९।५च् - अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥

१९,४९।६अ - स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।
१९,४९।६च् - असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीर् अनूषसः ॥६॥

१९,४९।७अ - शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।
१९,४९।७च् - रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत् पुनर् न विद्यते ॥७॥

१९,४९।८अ - भद्रासि रात्रि चमसो न विष्टो विष्वङ् गोरूपं युवतिर् बिभर्षि ।
१९,४९।८च् - चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाम् अमुक्थाः ॥८॥

१९,४९।९अ - यो अद्य स्तेन आयत्य् अघायुर् मर्त्यो रिपुः ।
१९,४९।९च् - रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत् ॥९॥

१९,४९।१०अ - प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् ।
१९,४९।१०च् - यो मलिम्लुर् उपायति स संपिष्टो अपायति ।
१९,४९।१०ए - अपायति स्वपायति शुष्के स्थाणाव् अपायति ॥१०॥


१९,५०।१अ - अध रात्रि तृष्टधूमम् अशीर्षाणम् अहिं कृणु ।
१९,५०।१च् - अक्षौ वृकस्य निर् जह्यास् तेन तं द्रुपदे जहि ॥१॥

१९,५०।२अ - ये ते रात्र्य् अनढ्वाहस् तीक्ष्णशृङ्गाः स्वाशवः ।
१९,५०।२च् - तेभिर् नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥

१९,५०।३अ - रात्रिंरात्रिम् अरिष्यन्तस् तरेम तन्वा वयम् ।
१९,५०।३च् - गम्भीरम् अप्लवा इव न तरेयुर् अरातयः ॥३॥

१९,५०।४अ - यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।
१९,५०।४च् - एवा रात्रि प्र पातय यो अस्मां अभ्यघायति ॥४॥

१९,५०।५अ - अप स्तेनं वासयो गोअजम् उत तस्करम् ।
१९,५०।५च् - अथो यो अर्वतः शिरो 'भिधाय निनीषति ॥५॥

१९,५०।६अ - यद् अद्य रात्रि सुभगे विभजन्त्य् अयो वसु ।
१९,५०।६च् - यद् एतद् अस्मान् भोजय यथेद् अन्यान् उपायसि ॥६॥

१९,५०।७अ - उषसे नः परि देहि सर्वान् रात्र्य् अनागसः ।
१९,५०।७च् - उषा नो अह्ने आ भजाद् अहस् तुभ्यं विभावरि ॥७॥


१९,५१।१अ - अयुतो 'हम् अयुतो म आत्मायुतं मे चक्षुर् अयुतं मे श्रोत्रम् ।
१९,५१।१च् - अयुतो मे प्राणो 'युतो मे 'पानो 'युतो मे व्यानो 'युतो 'हं सर्वः ॥१॥

१९,५१।२अ - देवस्य त्वा सवितुः प्रसवे 'श्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥


१९,५२।१अ - कामस् तद् अग्रे सम् अवर्तत मनसो रेतः प्रथमं यद् आसीत् ।
१९,५२।१च् - स काम कामेन बृहता सयोनी रायस् पोषं यजमानाय धेहि ॥१॥

१९,५२।२अ - त्वं काम सहसासि प्रतिष्ठितो विभुर् विभावा सख आ सखीयते ।
१९,५२।२च् - त्वम् उग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥

१९,५२।३अ - दूराच् चकमानाय प्रतिपाणायाक्षये ।
१९,५२।३च् - आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त् स्वः ॥३॥

१९,५२।४अ - कामेन मा काम आगन् हृदयाद् धृदयं परि ।
१९,५२।४च् - यद् अमीषाम् अदो मनस् तद् अइतूप माम् इह ॥४॥

१९,५२।५अ - यत् काम कामयमाना इदं कृण्मसि ते हविः ।
१९,५२।५च् - तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा ॥५॥


१९,५३।१अ - कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
१९,५३।१च् - तम् आ रोहन्ति कवयो विपश्चितस् तस्य चक्रा भुवनानि विश्वा ॥१॥

१९,५३।२अ - सप्त चक्रान् वहति काल एष सप्तास्य नाभीर् अमृतं न्व् अक्षः ।
१९,५३।२च् - स इमा विश्वा भुवनान्य् अञ्जत् कालः स ईयते प्रथमो नु देवः ॥२॥

१९,५३।३अ - पूर्णः कुम्भो 'धि काल आहितस् तं वै पश्यामो बहुधा नु सन्तम् ।
१९,५३।३च् - स इमा विश्वा भुवनानि प्रत्यङ् कालं तम् आहुः परमे व्योमन् ॥३॥

१९,५३।४अ - स एव सं भुवनान्य् आभरत् स एव सं भुवनानि पर्य् अइत् ।
१९,५३।४च् - पिता सन्न् अभवत् पुत्र एषां तस्माद् वै नान्यत् परम् अस्ति तेजः ॥४॥

१९,५३।५अ - कालो 'मूं दिवम् अजनयत् काल इमाः पृथिवीर् उत ।
१९,५३।५च् - काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥

१९,५३।६अ - कालो भूतिम् असृजत काले तपति सूर्यः ।
१९,५३।६च् - काले ह विश्वा भूतानि काले चक्षुर् वि पश्यति ॥६॥

१९,५३।७अ - काले मनः काले प्राणः काले नाम समाहितम् ।
१९,५३।७च् - कालेन सर्वा नन्दन्त्य् आगतेन प्रजा इमाः ॥७॥

१९,५३।८अ - काले तपः काले ज्येष्ठम् काले ब्रह्म समाहितम् ।
१९,५३।८च् - कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ॥८॥

१९,५३।९अ - तेनेषितं तेन जातं तद् उ तस्मिन् प्रतिष्ठितम् ।
१९,५३।९च् - कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥

१९,५३।१०अ - कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।
१९,५३।१०च् - स्वयंभूः कश्यपः कालात् तपः कालाद् अजायत ॥१०॥


१९,५४।१अ - कालाद् आपः सम् अभवन् कालाद् ब्रह्म तपो दिशः ।
१९,५४।१च् - कालेनोद् एति सूर्यः काले नि विशते पुनः ॥१॥

१९,५४।२अ - कालेन वातः पवते कालेन पृथिवी मही ।
१९,५४।२च् - द्यौर् मही काल आहिता ॥२॥

१९,५४।३अ - कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरा ।
१९,५४।३च् - कालाद् ऋचः सम् अभवन् यजुः कालाद् अजायत ॥३॥

१९,५४।४अ - कालो यज्ञं सम् अइरयद् देवेभ्यो भागम् अक्षितम् ।
१९,५४।४च् - काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥

१९,५४।५अ - काले 'यम् अङ्गिरा देवो 'थर्वा चाधि तिष्ठतः ।
१९,५४।५च् - इमं च लोकं परमं च लोकं पुण्यांश् च लोकान् विधृतीश् च पुण्याः ।
१९,५४।५ए - सर्वांल् लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥


१९,५५।१अ - रात्रिंरात्रिम् अप्रयातं भरन्तो 'श्वायेव तिष्ठते घासम् अस्मै ।
१९,५५।१च् - रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥

१९,५५।२अ - या ते वसोर् वात इषुः सा त एषा तया नो मृढ ।
१९,५५।२च् - रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥

१९,५५।३अ - सायंसायं गृहपतिर् नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।
१९,५५।३च् - वसोर्वसोर् वसुदान एधि वयं त्वेन्धानास् तन्वं पुषेम ॥३॥

१९,५५।४अ - प्रातःप्रातर् गृहपतिर् नो अग्निः सायंसायं सौमनसस्य दाता ।
१९,५५।४च् - वसोर्वसोर् वसुदान एधीन्धानास् त्वा शतंहिमा ऋधेम ॥४॥

१९,५५।५अ - अपश्चा दग्धान्नस्य भूयासम् ।
१९,५५।५च् - अन्नादायान्नपतये रुद्राय नमो अग्नये ।
१९,५५।५ए - सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥

१९,५५।६अ - त्वाम् इन्द्रा पुरुहूत विश्वम् आयुर् व्य् अश्नवन् ।
१९,५५।६च् - अहरहर् बलिम् इत् ते हरन्तो 'श्वायेव तिष्ठते घासम् अग्ने ॥६॥


१९,५६।१अ - यमस्य लोकाद् अध्य् आ बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।
१९,५६।१च् - एकाकिना सरथं यासि विद्वान्त् स्वप्नं मिमानो असुरस्य योनौ ॥१॥

१९,५६।२अ - बन्धस् त्वाग्रे विश्वचया अपश्यत् पुरा रात्र्या जनितोर् एके अह्नि ।
१९,५६।२च् - ततः स्वप्नेदम् अध्य् आ बभूविथ भिषग्भ्यो रूपम् अपगूहमानः ॥२॥

१९,५६।३अ - बृहद्गावासुरेभ्यो 'धि देवान् उपावर्तत महिमानम् इछन् ।
१९,५६।३च् - तस्मै स्वप्नाय दधुर् आधिपत्यं त्रयस्त्रिंशासः स्वर् आनशानाः ॥३॥

१९,५६।४अ - नैतां विदुः पितरो नोत देवा येषां जल्पिश् चरत्य् अन्तरेदम् ।
१९,५६।४च् - त्रिते स्वप्नम् अदधुर् आप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥

१९,५६।५अ - यस्य क्रूरम् अभजन्त दुष्कृतो 'स्वप्नेन सुकृतः पुण्यम् आयुः ।
१९,५६।५च् - स्वर् मदसि परमेण बन्धुना तप्यमानस्य मनसो 'धि जज्ञिषे ॥५॥

१९,५६।६अ - विद्म ते सर्वाः परिजाः पुरस्ताद् विद्म स्वप्न यो अधिपा इहा ते ।
१९,५६।६च् - यशश्विनो नो यशसेह पाह्य् आराद् द्विषेभिर् अप याहि दूरम् ॥६॥


१९,५७।१अ - यथा कलां यथा शफं यथा र्णं सम्नयन्ति ।
१९,५७।१च् - एवा दुष्वप्न्यं सर्वम् अप्रिये सं नयामसि ॥१॥

१९,५७।२अ - सं राजानो अगुः सम् ऋणाम्य् अगुः सं कुष्ठा अगुः सं कला अगुः ।
१९,५७।२च् - सम् अस्मासु यद् दुष्वप्न्यं निर् द्विषते दुष्वप्न्यं सुवाम ॥२॥

१९,५७।३अ - देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
१९,५७।३च् - स मम यः पापस् तद् द्विषते प्र हिण्मः ।
१९,५७।३ए - मा तृष्टानाम् असि कृष्णशकुनेर् मुखम् ॥३॥

१९,५७।४अ - तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायम् अश्व इव नीनाहम् ।
१९,५७।४च् - अनास्माकं देवपीयुं पियारुं वप यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे ॥४॥

१९,५७।५अ - अनास्माकस् तद् देवपीयुः पियारुर् निष्कम् इव प्रति मुञ्चताम् ।
१९,५७।५च् - नवारत्नीन् अपमया अस्माकं ततः परि ।
१९,५७।५ए - दुष्वप्न्यं सर्वं द्विषते निर् दयामसि ॥५॥


१९,५८।१अ - घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।
१९,५८।१च् - श्रोत्रं चक्षुः प्राणो 'छिन्नो नो अस्त्व् अछिन्ना वयम् आयुषो वर्चसः ॥१॥
१९,५८।२अ - उपास्मान् प्राणो ह्वयताम् उप प्राणं हवामहे ।
१९,५८।२च् - वर्चो जग्राह पृथिव्य् अन्तरिक्षं वर्चः सोमो बृहस्पतिर् विधत्ता ॥२॥

१९,५८।३अ - वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर् वर्चो गृहीत्वा पृथिवीम् अनु सं चरेम ।
१९,५८।३च् - यशसम् गावो गोपतिम् उप तिष्ठन्त्य् आयतीर् यशो गृहीत्वा पृथिवीम् अनु सं चरेम ॥३॥

१९,५८।४अ - व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
१९,५८।४च् - पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहत तम् ॥४॥

१९,५८।५अ - यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
१९,५८।५च् - इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
१९,५८।६अ - ये देवानाम् ऋत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।
१९,५८।६च् - इमं यज्ञं सह पत्नीभिर् एत्य यावन्तो देवास् तविषा मादयन्ताम् ॥६॥


१९,५९।१अ - त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ ।
१९,५९।१च् - त्वं यज्ञेष्व् ईढ्यः ॥१॥

१९,५९।२अ - यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
१९,५९।२च् - अग्निष् टद् विश्वाद् आ पृणातु विद्वान्त् सोमस्य यो ब्राह्मणां आविवेश ॥२॥

१९,५९।३अ - आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनुप्रवोडुम् ।
१९,५९।३च् - अग्निर् विद्वान्त् स यजात् स इद् धोता सो 'ध्वरान्त् स ऋतून् कल्पयाति ॥३॥


१९,६०।१अ - वाङ् म आसन् नसोः प्राणश् चक्षुर् अक्ष्णोः श्रोत्रं कर्णयोः ।
१९,६०।१च् - अपलिताः केशा अशोणा दन्ता बहु बाह्वोर् बलम् ॥१॥
१९,६०।२अ - ऊर्वोर् ओजो जङ्घयोर् जवः पादयोः ।
१९,६०।२च् - प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥


१९,६१।१अ - तनूस् तन्वा मे सहे दतः सर्वम् आयुर् अशीय ।
१९,६१।१च् - स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥


१९,६२।१अ - प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।
१९,६२।१च् - प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥


१९,६३।१अ - उत् तिष्ठ ब्रह्मणस् पते देवान् यज्ञेन बोधय ।
१९,६३।१च् - आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥


१९,६४।१अ - अग्ने समिधम् आहार्षं बृहते जातवेदसे ।
१९,६४।१च् - स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥१॥

१९,६४।२अ - इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।
१९,६४।२च् - तथा त्वम् अस्मान् वर्धय प्रजया च धनेन च ॥२॥

१९,६४।३अ - यद् अग्ने यानि कानि चिद् आ ते दारूणि दध्मसि ।
१९,६४।३च् - सर्वं तद् अस्तु मे शिवं तज् जुषस्व यविष्ठ्य ॥३॥

१९,६४।४अ - एतास् ते अग्ने समिधस् त्वम् इद्धः समिद् भव ।
१९,६४।४च् - आयुर् अस्मासु धेह्य् अमृतत्वम् आचार्याय ॥४॥


१९,६५।१अ - हरिः सुपर्णो दिवम् आरुहो 'र्चिषा ये त्वा दिप्सन्ति दिवम् उत्पतन्तम् ।
१९,६५।१च् - अव तां जहि हरसा जातवेदो 'बिभ्यद् उग्रो 'र्चिषा दिवम् आ रोह सूर्य ॥१॥


१९,६६।१अ - अयोजाला असुरा मायिनो 'यस्मयैः पाशैर् अङ्किनो ये चरन्ति ।
१९,६६।१च् - तांस् ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥


१९,६७।१अ - पश्येम शरदः शतम् ॥१॥

१९,६७।२अ - जीवेम शरदः शतम् ॥२॥

१९,६७।३अ - बुध्येम शरदः शतम् ॥३॥

१९,६७।४अ - रोहेम शरदः शतम् ॥४॥

१९,६७।५अ - पूषेम शरदः शतम् ॥५॥

१९,६७।६अ - भवेम शरदः शतम् ॥६॥

१९,६७।७अ - भूषेम शरदः शतम् ॥७॥

१९,६७।८अ - भूयसीः शरदः शतम् ॥८॥


१९,६८।१अ - अव्यसश् च व्यचसश् च बिलं वि ष्यामि मायया ।
१९,६८।१च् - ताभ्याम् उद्धृत्य वेदम् अथ कर्माणि कृण्महे ॥१॥


१९,६९।१अ - जीवा स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥१॥

१९,६९।२अ - उपजीवा स्थोप जीव्यासं सर्वम् आयुर् जीव्यासम् ॥२॥

१९,६९।३अ - संजीवा स्थ सं जीव्यासं सर्वम् आयुर् जीव्यासम् ॥३॥

१९,६९।४अ - जीवला स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥४॥


१९,७०।१अ - इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासम् अहम् ।
१९,७०।१च् - सर्वम् आयुर् जीव्यासम् ॥१॥


१९,७१।१अ - स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
१९,७१।१च् - आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
१९,७१।१ए - मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥


१९,७२।१अ - यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् ।
१९,७२।१च् - कृतम् इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP