अष्टमोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


८ - १ - १ द्रव्येषु ज्ञानं व्याख्यातम्।

८ - १ - २ तत्रात्मा मनश्चाप्रत्यक्षे।

८ - १ - ३ ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः।

८ - १ - ४ गुषकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम्।

८ - १ - ५ सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम्।

८ - १ - ६ सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु।

८ - १ - ७ द्रव्ये द्रव्यगुणकर्मापेक्षम्।

८ - १ - ८ गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते।

८ - १ - ९ समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्ते एते कार्यकारणभूते।

८ - १ - १० द्रव्यष्वनितरेतरकारणाः।

८ - १ - ११ कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात्।

इति कणादसूत्रपाठे अष्टमोऽध्यायस्य प्रथममाह्निकम्॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP