चतुर्थोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


४ - २ - १ तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम्।

४ - २ - २ प्रत्यक्षाऽप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते।

४ - २ - ३ गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्।

४ - २ - ४ अणुसंयोगस्त्वप्रतिषिद्धः।

४ - २ - ५ तत्र शरीरं द्विविधं योनिजमयोनिजं च।

४ - २ - ६ अनियतदिग्देशपूर्वकत्वात्।

४ - २ - ७ धर्मविशेषाच्च।

४ - २ - ८ समाख्याभावाच्च।

४ - २ - ९ संज्ञाया आदित्वात्।

४ - २ - १० सन्त्ययोनिजाः।

४ - २ - ११ वेदलिङ्गाच्च।

इति कणादसूत्रपाठे चतुर्थाऽध्यास्य द्वितीयमाह्निकम्,चतुर्थोऽध्यायश्च॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP