प्रथमोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


१ - १ - १  अथातो धर्मं व्याख्यास्यामाः।

१ - १ - २  यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।

१ - १ - ३  तद्वचनादाम्नायस्य प्रामाण्यम्।

१ - १ - ४  धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधार्म्यवैधर्मयाभ्यां तत्त्वज्ञानन् निःश्रेयसम्।

१ - १ - ५  पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि।

१ - १ - ६  रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः।

१ - १ - ७  उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि।

१ - १ - ८  सदानित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः।

१ - १ - ९  दव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्।

१ - १ - १०  द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम्।

१ - १ - ११  कर्म कर्मसाध्यं न विद्यते।

१ - १ - १२  न द्रव्यं कार्यं कारणं च भवति।

१ - १ - १३  उभयथा गुणाः।

१ - १ - १४  कार्यविरोधि कर्म।

१ - १ - १५  क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्।

१ - १ - १६  द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्।

१ - १ - १७  एकद्रव्यमगुणं संयोगविभागेष्वपेक्षकारणमिति कर्मलक्षणम्।

१ - १ - १८  द्र्यगुणर्मणां द्रव्यं कारणं सामान्यम्।

१ - १ - १९  तथा गुणः।

१ - १ - २०  संयोगविभागवेगानां कर्म समानम्।

१ - १ - २१  न द्रव्याणां कर्म।

१ - १ - २२  व्यतिरेकात्।

१ - १ - २३  द्रव्याणां द्रव्यं कार्य्यं सामान्यम्।

१ - १ - २४  गुणवैधर्मयान्न कर्मणां कर्म।

१ - १ - २५  द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च।

१ - १ - २६  असमवायात् सामान्यकार्यं कर्म न विद्यते।

१ - १ - २७  संयोगानां द्रव्यम्।

१ - १ - २८  रूपाणां रूपम् ।

१ - १ - २९  गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्।

१ - १ - ३०  संयोगविभागाश्च कर्मणाम्।

१ - १ - ३१  कारणसामान्ये द्रव्यकर्मणा कर्माकारणमुक्तम्।

इति काणादसूत्रपाठे प्रथमोऽध्यास्य प्रथममाह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP