दशमोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


१० - १ - १ इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः।

१० - १ - २ संशयनिर्णयान्तराभावाश्च ज्ञानान्तरत्वे हेतुः।

१० - १ - ३ तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम्।

१० - १ - ४ अभूदित्यपि।

१० - १ - ५ सति च कार्यादर्शनात्।

१० - १ - ६ एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्।

१० - १ - ७ एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषभ्यः।

इति कणादसूत्रपाठे दशमोऽध्यायस्य प्रथममाह्निकम्॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP