तृतीयोऽध्यायः - प्रथमामह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


३ - १ - १ प्रसिद्धा इन्द्रियार्थाः।

३ - १ - २ प्रसिद्धिरिन्द्रियर्थेभ्योऽर्थान्तरस्य हेतुः।

३ - १ - ३ सोऽनपदेशः।

३ - १ - ४ कारणाज्ञानात्।

३ - १ - ५ कार्येषु ज्ञानात्।

३ - १ - ६ अज्ञानाच्च।

३ - १ - ७ अन्यदेव हेतुरित्यनपदेशः।

३ - १ - ८ अर्थान्तरं ह्यर्थान्तरस्यानपदेशः।

३ - १ - ९ संयोगि समवाय्येकार्थसमवायि विरोधि च।

३ - १ - १० कार्यं कार्यन्तरस्य।

३ - १ - ११ विरोध्यभूतं भूतस्य।

३ - १ - १२ भूतमभूतस्य।

३ - १ - १३ भूतो भूतस्य।

३ - १ - १४ प्रसिद्धपूर्वकत्वादपदेशस्य।

३ - १ - १५ अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः।

३ - १ - १६ यस्माद्विषाणी तस्मादश्वः।

३ - १ - १७ यस्मीद्विषाणी तस्माद् गौरिति चानैकान्तिकस्योदाहरणम्।

३ - १ - १८ आत्मेन्द्रियार्थसन्नकर्षाद् यन्नष्पद्यते तदन्यत्।

३ - १ - १९ प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि द्वष्टे परत्र लिङ्गम्।

इति काणादसूत्रपाठे तृतीयोऽध्यास्य प्रथमामह्निकम्॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP