सप्तमोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


७ - २ - १ रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्।

७ - २ - २ तथा पृथक्त्वम्।

७ - २ - ३ एतत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्याताः।

७ - २ - ४ निःसंख्यात्वात् कर्मगुणानां सर्वैकत्वं न विद्यते।

७ - २ - ५ भ्रान्तं तत्।

७ - २ - ६ एकत्वाभावाद्भक्तिस्तु न विद्यते।

७ - २ - ७ कार्य्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते।

७ - २ - ८ एतदनित्ययोर्व्याख्यातम्।

७ - २ - ९ अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः।

७ - २ - १० एतेन विभागो व्याख्यातः।

७ - २ - ११ सयोगविभागयोः संयोगविभागाभावोऽणुमहत्त्वाभ्यां व्याख्याताः।

७ - २ - १२ कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति।

७ - २ - १३ युतसिद्ध्यभावात् कार्य्यकारणयोः संयोगविभागौ न विद्यते।

७ - २ - १४ गुणत्वात्।

७ - २ - १५ गुणोऽपि विभाव्यते।

७ - २ - १६ निष्क्रियत्वात्।

७ - २ - १७ असति नास्तीति च प्रयोगात्।

७ - २ - १८ शब्दार्थावसम्बन्धौ।

७ - २ - १९ संयोगिनो दण्डात् समवायिनो विशेषाच्च।

७ - २ - २० सामायिकः शब्दादर्थप्रत्ययः।

७ - २ - २१ एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परनपरं च।

७ - २ - २२ कारणपरत्वात् कारणापरत्वाच्च।

७ - २ - २३ परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः।

७ - २ - २४ कर्मभिः कर्माणि।

७ - २ - २५ गुणैर्गुणाः।

७ - २ - २६ इहेदमिति यतः कार्य्यकरणयोः स समवायः।

७ - २ - २७ द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः।

७ - २ - २८ तत्त्वमभावेन।

इति कणादसूत्रपाठे सप्तमोऽध्यायस्य द्वितीयोऽह्निकम्, सप्तमोऽध्यायश्च।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP