५ - १-८ - किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् ।

५ - २-८ - ओम् इति उक्त्वा वृत्तान्तशः शम् इति एवमादीन् शब्दान् पठन्ति ।

५ - ३-८ - पुराकल्पे एतत् आसीत् ॒ संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते ।

५ - ४-८ - तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते ।

५ - ५-८ - तत् अद्यत्वे न तथा ।

५ - ६-८ - वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति ॒ वेदात् नः वैदिकाः शब्दाः सिद्धाः लोकात् च लौकिकाः ।

५ - ७-८ - अनर्थकम् व्याकरणम् इति ।

५ - ८-८ - तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् शास्त्रम् अन्वाचष्टे ॒ इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP