१४ - १-५९ - अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः ।

१४ - २-५९ - सूत्रम् ।

१४ - ३-५९ - सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः ।

१४ - ४-५९ - सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति ।

१४ - ५-५९ - किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् ।

१४ - ६-५९ - शब्दाप्रतिपत्तिः ।

१४ - ७-५९ - शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति ।

१४ - ८-५९ - न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते ।

१४ - ९-५९ - किम् तर्हि ।

१४ - १०-५९ - व्याख्यानतः च ।

१४ - ११-५९ - ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति ।

१४ - १२-५९ - न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति ।

१४ - १३-५९ - किम् तर्हि ।

१४ - १४-५९ - उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति ।

१४ - १५-५९ - एवम् तर्हि शब्दः ।

१४ - १६-५९ - शब्दे ल्युडर्थः ।

१४ - १७-५९ - यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् ।

१४ - १८-५९ - न हि शब्देन किम् चित् व्याक्रियते ।

१४ - १९-५९ - केन तर्हि ।

१४ - २०-५९ - सूत्रेण ।

१४ - २१-५९ - भवे ।

१४ - २२-५९ - भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति ।

१४ - २३-५९ - न हि शब्दे भवः योगः ।

१४ - २४-५९ - क्व तर्हि ।

१४ - २५-५९ - सूत्रे ।

१४ - २६-५९ - प्रोक्तादयः च तद्धिताः ।

१४ - २७-५९ - प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति ।

१४ - २८-५९ - न हि पाणिनिना शब्दाः प्रोक्ताः ।

१४ - २९-५९ - किम् तर्हि ।

१४ - ३०-५९ - सूत्रम् ।

१४ - ३१-५९ - किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् ।

१४ - ३२-५९ - पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् ।

१४ - ३३-५९ - ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् ।

१४ - ३४-५९ - न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।

१४ - ३५-५९ - अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति ।

१४ - ३६-५९ - न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति ।

१४ - ३७-५९ - तत् यथा प्रस्कन्दनम् प्रपतनम् इति ।

१४ - ३८-५९ - अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते ।

१४ - ३९-५९ - तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति ।

१४ - ४०-५९ - अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति ।

१४ - ४१-५९ - एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् ।

१४ - ४२-५९ - लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति ।

१४ - ४३-५९ - किम् पुनः लक्ष्यम् लक्षणम् च ।

१४ - ४४-५९ - शब्दः लक्ष्यम् सूत्रम् लक्षणम् ।

१४ - ४५-५९ - एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते ।

१४ - ४६-५९ - सूत्राणि च अधीयानः इष्यते वैयाकरणः इति ।

१४ - ४७-५९ - न एषः दोषः ।

१४ - ४८-५९ - समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते ।

१४ - ४९-५९ - तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।

१४ - ५०-५९ - एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते ।

१४ - ५१-५९ - अथ वा पुनः अस्तु सूत्रम् ।

१४ - ५२-५९ - ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति ।

१४ - ५३-५९ - न एष दोषः ।

१४ - ५४-५९ - व्यपदेशिवद्भावेन भविष्यति ।

१४ - ५५-५९ - यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति ।

१४ - ५६-५९ - ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति ।

१४ - ५७-५९ - अविजानतः एतत् एवम् भवति ।

१४ - ५८-५९ - सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते ।

१४ - ५९-५९ - आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP