७ - १-२१ - अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः ।

७ - २-२१ - न इति आह ।

७ - ३-२१ - अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

७ - ४-२१ - एवम् हि श्रूयते ॒ बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम ।

७ - ५-२१ - बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम ।

७ - ६-२१ - किम् पुनः अद्यत्वे ।

७ - ७-२१ - यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति ।

७ - ८-२१ - चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति ।

७ - ९-२१ - तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् ।

७ - १०-२१ - तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

७ - ११-२१ - कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः ।

७ - १२-२१ - किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् ।

७ - १३-२१ - किम् पुनः तत् ।

७ - १४-२१ - उत्सर्गापवादौ ।

७ - १५-२१ - कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः ।

७ - १६-२१ - कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः ।

७ - १७-२१ - सामन्येन उत्सर्गः कर्तव्यः ।

७ - १८-२१ - तत् यथा कर्मणि अण् ।

७ - १९-२१ - तस्य विशेषेण अपवादः ।

७ - २०-२१ - तत् यथा ।

७ - २१-२१ - आतः अनुपसर्गे कः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP