२ - १-१९ - अथ गौः इति अत्र कः शब्दः ।

२ - २-१९ - किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः ।

२ - ३-१९ - न इति आह ।

२ - ४-१९ - द्रव्यम् नाम तत् ।

२ - ५-१९ - यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः ।

२ - ६-१९ - न इति आह ।

२ - ७-१९ - क्रिया नाम सा ।

२ - ८-१९ - यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः ।

२ - ९-१९ - न इति आह ।

२ - १०-१९ - गुणः नाम सः ।

२ - ११-१९ - यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः ।

२ - १२-१९ - न इति आह ।

२ - १३-१९ - आकृतिः नाम सा ।

२ - १४-१९ - कः तर्हि शब्दः ।

२ - १५-१९ - येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः ।

२ - १६-१९ - अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते ।

२ - १७-१९ - तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति ।

२ - १८-१९ - ध्वनिम् कुर्वन् एवम् उच्यते ।

२ - १९-१९ - तस्मात् ध्वनिः शब्दः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP