६ - १-२० - उक्तः शब्दः ।

६ - २-२० - स्वरूपम् अपि उक्तम् ।

६ - ३-२० - प्रयोजनानि अपि उक्तानि ।

६ - ४-२० - शब्दानुशासनम् इदानीम् कर्तव्यम् ।

६ - ५-२० - तत् कथम् कर्तव्यम् ।

६ - ६-२० - किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति ।

६ - ७-२० - अन्यतरोपदेशेन कृतम् स्यात् ।

६ - ८-२० - तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते ।

६ - ९-२० - पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् ॒ अतः अन्ये अभक्ष्याः इति ।

६ - १०-२० - अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः ।

६ - ११-२० - तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् ॒ आरण्यः भक्ष्यः इति ।

६ - १२-२० - एवम् इह अपि ॒ यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् ॒ गाव्यादयः अपशब्दाः इति ।

६ - १३-२० - अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् ॒ गौः इति एषः शब्दः इति ।

६ - १४-२० - किम् पुनः अत्र ज्यायः ।

६ - १५-२० - लघुत्वात् शब्दोपदेशः ।

६ - १६-२० - लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः ।

६ - १७-२० - एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।

६ - १८-२० - तत् यथा ।

६ - १९-२० - गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः ।

६ - २०-२० - इष्टान्वाख्यानम् खलु अपि भवति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP