८ - १-६ - किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् ।

८ - २-६ - उभयम् इति आह ।

८ - ३-६ - कथम् ज्ञायते ।

८ - ४-६ - उभयथा हि आचार्येण सूत्राणि पठितानि ।

८ - ५-६ - आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते ।

८ - ६-६ - द्रव्यम् पदार्थम् मत्वा सरूपाणाम् एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP