TransLiteral Foundation

घेरण्ड संहिता - प्रथमोपदेश

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


षट्कर्म्मसाधनं
घटस्थ योगकथनम्।
एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम्।
प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छति ॥१॥
श्रीचण्डकापालिरुवाच
घटस्थयोगं योगेश तत्वज्ञानस्य कारणम्।
इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो ॥२॥
घेरण्ड उवाच
साधु साधु महावोहो यन्मान्त्वं परिपृच्छसि।
कथयामि हि वत्स सावधानावधारय ॥३॥
नास्ति मायासमः पाशो नास्ति योगत्परं बलम्।
नास्तिज्ञानत्परो बन्धुर्नाहङ्कारत् परो रिपुः ॥४॥
अभ्यासात्कादिवर्णानि यथा शास्त्राणि बोधयेत्।
तथा योगं समासाद्य तत्त्वज्ञानञ्च लभ्यते ॥५॥
सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः।
घटादुत्पद्यते कर्म्म घटियन्त्रं यथा भ्रमेत् ॥६॥
ऊर्ध्वाधो भ्रमते यद्वद्घटियन्त्रं गवां वशात्।
तद्वत्कर्म्मवशाज्जीवो भ्रमते जन्ममृत्युभिः ॥७॥
आमकुम्भ इवाम्भस्थो जीर्यमाणः सदा घटः।
योगानलेन संदह्य घटशुद्धिं समाचरेत् ॥८॥
अथ सप्तसाधनम्।
शोधनं दृढता चैव स्थैर्य्यं धैर्य्यञ्च लाघवम्।
प्रत्यश्रढ्च निर्लिप्तञ्च घटस्य सप्तसाधनम् ॥९॥
अथ सप्तसाधनलक्षणम्।
षट्कर्मणां शोधनञ्च आसनेन भवेदृढम्।
मुद्रया स्थिरता चैव प्रत्याहारेण धीरता ॥१०॥
प्राणायामाल्लाघवञ्च ध्यानात्प्रत्यक्षमात्मनि।
समाधिना निर्लिप्तञ्च मुक्तिरेव न संशयः ॥११॥
अथ शोधनम्।
धैतिर्वस्तिस्तथा नेतिर्लौलिकी त्राटकं तथा।
कपालभातिश्चैतानि षट्कर्म्माणि समाचरेत् ॥१२॥
प्रथमो भागः।
अथ धौतिः।
अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम्।
धौतिं चतुर्विधां कृत्वा घटं कुर्वन्तु निर्मलम् ॥१३॥
अथ अन्तर्धौतिः।
वातसारं वारिसारं वह्निसारं बहिष्कृतम्।
घटस्य निर्म्मलार्थाय अन्तर्धौतिश्चतुर्विधा ॥१४॥
अथ वातसारः।
काकचञ्चूवदास्येन पिनेद्वायुं शनैः शनैः।
चालयेदुदरं पश्चाद्वर्त्माना रेचयेच्छनैः ॥१५॥
वातसारं परं गोप्यं देहनिर्म्म्लकारणम्।
सर्वरोगक्षयकरं देहानलविवर्द्धकम् ॥१६॥
अथ वारिसारः।
आकण्टं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः।
चालयेदुदरेणैव चोदराद्रेचयेदधः ॥१७॥
वारिसारं परं गोप्यं देहनिर्म्मलकारकम्।
साधयेत्तत्प्रयत्नेन देवदेहं प्रपद्यते ॥१८॥
वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः।
मलदेहं शोधयित्वा देवदेहं प्रपद्यते ॥१९॥
अथ अग्निसारः।
नाभिग्रन्थिं मेरूपृष्ठे शतवारञ्च कारयेत्।
अग्निसारमेषा धैतिर्योगिनां योगसिद्धिदा ॥२०॥
उदरामयजत्यक्त्वा जठराग्निंविवर्धयेत्।
एषा धौतिः परा गोप्या देवानामपि दुर्लभा।
केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥२१॥
अथ वहिष्कृतधौतिः।
काकीमुद्रं साधयित्वा पूरयेदुदरं मरुत्।
धारयेदर्द्धयामन्तु चालयेदर्धवर्तत्मना।
एषा धौतिः परागोप्या न प्रकाश्या कदाचन ॥२२॥
अथ प्रक्षालनम्।
नाभिमग्नो जले स्थित्वा शक्तिनाडीं विसर्जयेत्।
कराभ्यां क्षालयेन्नाडीं यावनमलविसर्जनम्।
तावत्प्रक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः ॥२३॥
इदं प्रक्षालनं गोप्यं देवानामापि दुर्लभम्।
केवलं धौतिमात्रेण देवदेहो भवेद्ध्रवम् ॥२४॥
अथ वहिष्कृतधौतिप्रयोगः।
यामार्धं धारणां शक्तिं यावन्न साधयेन्नरः।
बहिष्कृतं महद्धौतिस्तावच्चैव न जायते ॥२५॥
अथ दन्तधौतिः।
दन्तमलं जिह्वामूलं रन्ध्रञ्च कर्णयुग्मयोः।
कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीयते ॥२६॥
अथ दन्तमूलधौतिः।
खादिरेण रसेनाथ मृत्तिकया च शुद्धया।
मार्जयेद्दन्तमूलञ्च यावत्किल्बिषमाहरेत् ॥२७॥
दन्तमूलं परा धौतिर्योगिनां योगसाधने।
नित्यं कुर्य्यात्प्रभाते च दन्तरक्षां च योगवित्।
दन्तमूलं धावनादिकर्य्येषु योगिनां मतम् ॥२८॥
अथ ज-िह्वार्शोधनम्।
अथातः संप्रवक्ष्यामि जिह्वाशोधनकारण्।
जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका ॥२९॥
अथ जिह्वामूलधौतिप्रयोगः।
तर्जनीमध्यमानामा अङ्गुलित्रययोगतः।
वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामूलम्।
शनैः शनैः मार्जयित्वा कफदोषं निवारयेत् ॥३०॥
मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः।
तदग्रं लौहयन्त्रेण कर्षयित्वा शनैः शनैः ॥३१॥
नित्यं कुर्य्यात्प्रयत्ने न रवेरुदयके>स्तके।
एवं कृते च नित्यं सासम्बिका दीर्घतां व्रजेत् ॥३२॥
अथ कर्णधौतिप्रयोगः।
तर्जन्यनामिकायोगान्मार्जयेत् कर्णारंध्रयोः।
नित्यमभ्यासयोगेन नादान्तरं प्रकाशयेत् ॥३३॥
अथ कपालरन्ध्रप्रयोगः।
वृद्धाङ्गुष्ठेन दक्षेण मार्जयेद्भालन्ध्रकम्।
एवमभ्यासयोगेन कफदोषं निवारयेत् ॥३४॥
नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते।
निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥३५॥
अथ हृद्धौतिः।
हृद्धौतिं त्रिविधां कुर्य्याद्दण्डवमनवाससा ॥३६॥
रम्भादडं हरिद्दडं वेत्रदण्डं तथैव च।
हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः ॥३७॥
कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना।
दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् ॥३८॥
अथ वामनधौतिः।
भोजनान्ते पिबेद्वारि चाकण्ठपूरितं सुधीः।
उर्ध्वा दृष्टिं श्रणं कृत्वा तज्जलं वमयेत्पुनः ॥३९॥
अथ वासोधौतिः।
चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत्।
पुनः प्रत्याहरेतैतत्प्रोच्यते धौतिकर्म्मर्कम् ॥४०॥
गुल्मज्वरप्लीहाकुष्ठकफरित्तं विनश्यति।
आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥४१॥
अथ मूलशोधनम्।
अपानक्रूरता तावद्यावन्मूलं न शोधयेत्।
तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् ॥४२॥
पित्तमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा।
यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥४३॥
वारयेत्कोष्ठकाठिन्यमामजीर्णं निवारयेत्।
कारणं कान्तिपुष्ट्योश्च वह्निमण्डल दीपनम् ॥४४॥
द्वितोयो भागः।
अथ बस्तिप्रकरणम्।
जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद्विविधा स्म-ता।
जलबस्तिं जले कुर्याच्छुष्कबस्तिं सदा क्षितौ ॥४५॥
अथ जलबस्तिः।
नाभिमग्नजले पायुं न्यस्तवानुत्कटासनम्।
आकुञ्चनं प्रसारञ्च जलबस्तिं समाचरेत् ॥४६॥
प्रमेहञ्च उदावर्त्तं क्रूरवायुं निवारयेत्।
भवेत्स्वच्छन्ददेरश्च कामदेवसमो भवेत् ॥४७॥
बस्तिं पश्चिमोत्तानेन चालयित्वा शनैरधः।
अश्विनीमुद्रया पायुमाकुञ्चयेत् प्रसारयेत् ॥४८
एवमभ्यासयोगेन कोष्ठदोषो न विद्यते।
विवर्द्धयेज्जठराग्निमामवातं विनाशयेत् ॥४९॥
तृतीयो भागः ॥
वितस्तिमानं सूक्ष्मसूत्रं नासानले प्रवेशयेत्।
मुखान्निर्गमयेत्पश्चात् प्रोच्यते नेतिकर्मकम् ॥५०॥
साधनान्नेतिकार्यस्य खेचरीसिद्धिमाप्नुयात्।
कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥३१॥
चतुर्थो भागः ॥
अथ लौकिकीयोगः।
अमन्दवेगेन तुन्दं तु भ्रमयेदुभापार्श्वयोः।
सर्वरोगान्निहन्तीह देहानलविवर्द्धनम् ॥५२॥
पञ्चमो भागः।
अथ त्राटकम्।
निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्।
यावदश्रुन पतति त्राटकं प्रोच्यते बुधैः ॥५३॥
एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम्।
नेत्ररोगा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥५४॥।
षष्ठो भागः।
अथ कपालभातिः।
वामक्रमेणव्युत्क्रमेण शीत्क्रमेण विशेषतः।
भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत् ॥५५॥
अथ वामक्रमकपालभातिः।
ईडया पूरयेद्वायुं रेचयेत्पिङ्गलापुनः।
पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥५६॥
पूरकं रेचकं वेगेन न तु चालयेत्।
एवमभ्यासयोगेन कफदोषं निवारयेत् ॥५७॥
अथ व्युत्क्रमकपालभातिः।
नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत्।
पायं पायं व्युत्क्रमेण श्लेष्मदोषं निवारयेत् ॥५८॥
अथ शीत्क्रमकपालभातिः।
शीत्कृत्य पीत्वा वक्त्रेण नासानालैर्विरेचयेत्।
एवमभ्यासयोगेन कामदेवसमो भवेत् ॥५९॥
न जायते वार्द्धकं च ज्वरा नैव प्रजायते।
भवेत्स्वच्छन्ददेहश्च कफदोषं निवरयेत् ॥६०॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे षट्कर्म्मसाधनं नाम प्रथमोपदेशः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-03T14:48:59.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झलम

  • पु. ( व .) पडदा . ' लाल झलमाची गाडी । पाहतां कां दारीं सोडा । माह्या बांधवाचें कोणी । शेल्यावजा बैल झाडा । ' - वलो ९७ . 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site