TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

घेरण्ड संहिता - द्वितीयोपदेशः

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


आसनानि
घेरण्ड उवाच
आसनानि समस्तानि यावन्तो जीवजन्तवः।
चतुरशीतिलक्षाणि शिवेन कथितानि च ॥१॥
तेषां मध्ये विशिष्टानि षोडशोनंशतं कृतम्।
तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥२॥
अथ आसनानां भेदाः।
सिद्धं पद्मं तथा भद्रं मुक्तं वज्रञ्च स्वस्तिकम्।
सिंहञ्च गोमुखं वीरं धनुरासनमेव च ॥३॥
मृतं गुप्तं तथा मात्स्यं मत्येन्द्रासनमेव च।
गोरक्षं पश्चिमोत्तानं उत्कटं सङ्कटं तथा ॥४॥
मयूरं कुक्कुटं कूर्म्मं तथाचोत्तानकूर्म्मकम्।
उत्तानमण्डुकं वृक्षं मण्डुकं गरुडं वृषम् ॥५॥
शलभं मकरं चोष्टं भुजङ्गढ्चयोगासनम्।
द्वात्रिंशदासनानितु मर्त्त्यलोकेहि सिद्धिदम् ॥६॥
अथ आसनानां प्रयोगाः
अथ सिद्धासनम्।
योनिस्थानकमङ्घ्रिमूलघटितंसंपीड्य गुल्फेतरं मेढ्रोपर्यथ सन्निधाथ चिबुकं कृत्वा हृदि स्थापितम्।
स्थाणुः संयमितेन्द्रियो>चलदृशा पश्यन् भ्रुवोरन्तरमेवंमोक्षविधायतेफलकरं सिद्धासनं प्रोच्यते ॥७॥
अथ पद्मासनम् ॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्वायाधिविनाशनाशनकरं पद्मासनं प्रोच्यते ॥८॥
अथ भद्रासनम् ॥
गुल्फौ च वृषणस्याधो यत्क्रमेण समाहितः।
पादाङ्गुष्ठौ कराभ्याढ्च धृत्वा च पृष्ठदेशतः ॥९॥
जालन्धरं समासाद्य नासाग्रमवलोकयेत्।
भद्रसनं भवेदेतत्सर्वव्याधिविनाशकम् ॥१०॥
अथ मुक्तासनम्।
पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि।
समकायशिरोग्रीवं मुक्तासनन्तु सिद्धिदम् ॥११॥
अथ वज्रासनम्।
जङ्घाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ।
वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् ॥१२॥
अथ स्वास्तिकासनम्।
जानूर्वोरन्तरे कृत्वा योगी पदतले उभे।
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥१३॥
अथ सिंहासनम्।
गुल्फौ च वृषणस्याधो व्युत्क्रेणोर्ध्वतां गतौ।
चितिमूलौ भूमिसंस्थौ कृत्वा च जानुनोपरि ॥१४॥
व्यक्तवक्त्त्रो जलंध्रञ्च नासाग्रमवलोकयेत्।
सिंहासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥१५॥
अथ गोमुखासनम्।
पादौ च भूमो संस्थाप्य पृष्ठपार्श्वो निवेशयेत्।
स्थिरकायं समासाद्य गोमुखं गोमुखाकृति ॥१६॥
अथ वीरासनम्।
एकपादमथैकस्मिन्विन्यसेदरूसंस्थितम्।
इतरस्मिंस्तथा पश्चाद्वीरसनमितीरितम् ॥१७॥
अथ धनुरासनम्।
प्रसार्य्य पादौ भुवि दण्डरूपौ करौ च पृष्ठे धृतपादयुग्मम्।
कृत्वा धनुस्तुल्यपरिवर्त्तिताङ्गं निगद्य योगी धनुरासनं तत् ॥१८॥
अथ मृतासनम् ॥
उत्तानं शववद्भूमौ शयानन्तु शनासनम्।
शवासनं श्रमहरं चित्तविश्रान्तिकारणम् ॥१९॥
अथ गुप्तासनम्।
जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् ॥
पादोपरि च संस्थाप्य गुदं गुप्तासनं ॥२०॥
अथ मत्सासनम्।
मुक्तपद्मासनं कृत्वा उत्तानशयनञ्चरेत्।
कूर्पराभ्यां शिरो वेष्ट्यं मत्स्यानन्तु रोगहा ॥२१॥
अथ मत्स्येन्द्रासनम्।
उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः।
नम्राङ्गं वामपादं हि दक्षजानूपरि न्यसेत् ॥२२॥
तत्र याम्यं कूर्परञ्च याम्यकरे च वक्त्रकम्।
भ्रुवोर्मध्ये गता दृष्टिः पीठं मात्स्येन्द्रमुच्यते ॥२३॥
अथ पश्चिमोत्तानासनम्।
प्रसार्य पादौ भुवि दण्डरूपौ संन्यस्तभालं चितियुग्ममध्ये।
यत्नेन पादौ च धृतौ कराभ्यां योगीन्द्रपीठं पश्चिमोत्तानमाहुः ॥२४॥
अथ गोरक्षानम्।
जानूर्व्वोन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ।
गुल्फौ चाच्छाद्या हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥
कण्ठसंकोचनं कृत्वा नासाग्रमवलोकयेत्।
गोरक्षासनमित्याह योगिनां सिद्धिकारणम् ॥
अथ उत्कटासनम्।
अङ्गुष्ठाभ्यावष्टभ्य धरां गुल्फौ च खे गतौ।
तत्रौपरि गुदं न्यस्य विज्ञेयमुत्कटानम् ॥२७॥
अथ संङ्कटासनम्।
वामपादं चितेर्मूलं संन्यस्य धरणीतले।
पाददण्डेन योगेन वेष्टयेद् वामपादकम्।
जानुयुग्मेकरौ युग्मकेतत्तु संकटासनम् ॥२४॥
अथ मयूरासनम्।
धरामवष्टभ्य करयोस्तसाभ्यां तत्कूर्परे स्थापित नाभिपार्श्वम्।
उच्चासनो दण्डवदुत्थिः खे मायूरमेतं प्रवदन्ति पीठम् ॥२५॥
कुक्कुटासनम्।
पद्मासनं समासाद्य जानूर्वोरन्तरे करो।
कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् ॥२६॥
अथ कूर्मासनम्।
गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ।
ऋजुकाय शिरोग्रीवं कूर्मासनमितीरतम् ॥२७॥
अथ उत्तानकूर्मासनम्।
कुक्कुटासन बन्धस्थं कराभ्यां धृतकन्धरम्।
पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मम् ॥२८॥
अथ उत्तानमण्डूकासनम्।
मण्डूकसनमध्यस्थं कूर्पराभ्यां धृतं शिरः।
एतद्भेकवदुत्तानमेतदुत्तानमण्डूकम् ॥२९॥
अथ वृक्षासनम्।
वामोरुमूलदेशे च याम्यापादं निधायतु।
तिष्ठेत्तु वृक्षवद् भूमौ वृक्षासनमिदं विदुः ॥३०॥
अथ मण्डूकासनम्।
पादतलौ पृष्ठदेशे अंगुष्ठे द्वे च संस्पृशेत्।
जानुयुग्मं पुरस्कृत्य साधयेन्मण्डूकासनम् ॥३१॥
अथ गरूड़ासनम्।
जंघोरूभ्यां धरां पीड्य स्थिरकायो द्विजानुना।
जानूपरिकरं युग्मं गरुडानमुच्यते ॥३२॥
अथ वृषासानम्।
याम्यगुल्फे पादमूले वामभागे पदेतरम्।
विपरीतंस्पृशेद् भूमिं वृषासनमिदं भवेद् ॥३३॥
अथ शलभासनम्।
अध्यास्यः शेते कर युग्मं वक्षे भूमिमवष्टभ्यकरयोस्तलाभ्याम्।
पादौ च शून्ये च वितस्तिचार्ध्यं वदन्ति पीठंशलभं मुनीन्द्राः ॥३४॥
अथ मकरासनम्।
अध्यास्य शेते हृदयं निधाय, भूमौ च पादौ च प्रसार्यमाणौ।
शिरश्च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत् ॥३५॥
अथ उष्ट्रानम्।
अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम्।
आकुञ्चयेत्सम्यगुदरास्यगाढ-मौष्ट्रञ्च पीठं योगिनो वदन्ति ॥३६॥
अथ भुजङ्गानम्।
अंगुष्ठनाभिपर्यन्तमधोभूमौविनिन्यसेत्।
करतलाभ्यांधरां धृत्वा उर्ध्वंशीर्ष फणीवहि ॥
देहाग्निवर्धते नित्यं सर्वरोग विनाशनम्।
जागर्ति भुजगी देवी भुजगासन साधनात् ॥३७॥
अथ योगसनम्।
उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि।
आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥
पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत्।
योगासनं भवेदेतद् योगिनां योगसाधनम् ॥३८॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे आसनप्रयोगो नाम द्वितीयोपदेशः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-03T14:50:54.6100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bad security

  • स्त्री. दुष्प्रतिभूति 
  • स्त्री. वाईट प्रतिभूति 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.