TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

घेरण्ड संहिता - पञ्चमोपदेशः

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


स्थाननिर्णयः
घेरण्ड उवाच-
अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम्।
यस्य साधनमात्रेण देवतुल्यो भवेन्नरः ॥१॥
आदौ स्थानं तथा कालं मिताहारं तथापरम्।
नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत् ॥२॥
अथ स्थाननिर्णयः।
दूरदेशे तथारण्ये राजधान्यां जनान्तिके।
योगरम्भं न कुर्वीत कृतनिश्चत् सिद्धिहा भवेत् ॥३॥
अविश्वासं दूरदेशे अरण्ये रक्षिविविर्जितम्।
लोकारण्ये प्रकाश्च तस्मात् त्रीणि विविर्जयेत् ॥४॥
सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे।
तत्रैकं कुटीरं कृत्वा प्राचीरैः परिवेष्टितम् ॥५॥
लापीकूपतडागं च प्रचीर मध्यवर्ति च।
तात्युच्चं नातिनीचं कुटीरं कीटवर्जितम् ॥६॥
सम्यग्गोमया लिप्तं च कुटीरं तत्रनिर्मितम्।
एवं स्थानेषु गुप्तेषु प्राणायामं समभ्यसेत् ॥७॥
अथ कालनिर्णयः।
हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा।
योगारम्भं न कुर्वीत कृते योगो हि रोगदः ॥८॥
वसन्ते शरदि प्रोक्तं योगरम्भं समाचरेत्।
तथायोगी भवेत्सिद्धो रोगान्मुक्तो भवेद्ध्रुवम् ॥९॥
चैत्रादि फाल्गुनान्ते माघादि फाल्गुनान्तिके।
द्वौ द्वौ मासौ ऋतुभागौ अनुभावश्चतुश्चतुः ॥१०॥
वसन्तश्चैत्र वैशाखौ ज्येष्ठाषाढां च ग्रीष्मकौ।
वर्षा श्रावणभाद्राभ्यां शरदाश्वनकार्तिकौ।
मार्गपौषौ च हेमन्तः शिशिरो माघफल्गुनौ ॥११॥
अनुभावं प्रवक्ष्यामि ऋतुनां च यथोदितम्।
माघादिमाधवान्तेषु वसन्तानुभवस्तथा१२॥
चैत्रादिचाषाढान्तं च निदाघानुभवं विदुः।
आषाढादि चाश्विनान्तं प्रावृषानुभवं विदुः ॥१३॥
भाद्रादिमार्गशीर्षान्तं शरदोऽनुभवं विदुः।
कार्तिकादिमाघमासान्तं हेमन्तानुभवं विदुः ॥१४॥
वसन्ते वापि योगारम्भं समाचरेत्।
तदा योगो भवेत् सिद्धोविनायासेन कथ्यते ॥१५॥
अथ मिताहारः।
मिताहारं विना यस्तु योगरम्भं तु कारयेत्।
नानारोगो भवेत्तस्य किञ्चिद्योगो न सिध्यति ॥१६॥
शाल्यन्नं यवपिष्ठं वा गोधूमपिष्टकं तथा ।
मुद्गगंमाषचणकादि शुभ्रं च तुषवर्जितम् ॥१७॥
पटोलं पनसं मानं कक्कोलं च शुकाशकम्।
द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् ॥१८॥
अमरम्भां भालरम्भां रम्भादण्डं च मूलकम्।
वार्ताकीं मूलकं ऋद्धिंयोगी भक्षणमाचरेत् ॥१९॥
वालशाकं कालशाकं तथा पटोलपत्रकम्।
पंचशाकं प्रशंसीयात् वास्तुकं हिलमोचिकाम् ॥२०॥
शुद्धं सुमधुरं स्निग्धं उदरार्धविवर्जितम्।
भुज्यते सुरसं प्रीत्या मिताहरमिमं विदुः ॥२१॥
अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम्।
उदरस्य तृतीयाशं संरक्षेद् वायुचारणे ॥२२॥
निषिद्धाहारः
कट्वम्ले लवणं तिक्तं भृष्टं च दधितक्रकम्।
शाकोत्कटं तथामद्यं तालं च पनसंतथा ॥२३॥
कुलत्थं मसूरं पाण्टुं कूष्माण्डं शाकदण्डकम्।
तुम्बीकोल कपित्थं च कण्टविल्वपलाशकम् ॥२४॥
कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम्।
कामरङ्गं पियालं च हिंगुशालम्लीकेमुकम् ॥२५॥
योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम्।
नवनीतंघृतक्षीरं गुडशक्रादिचैक्षवम् ॥२६॥
पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम्।
द्राक्षाङ्गुलवनीं धात्रीं रसमाम्लाववर्जितम् ॥२७॥
एलाजातिलवङ्गं च पौरुणं जम्बु जाम्बलम्।
हरीतकीं खर्जूरं च योगी भक्षणमाचरेत् ॥२८॥
लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम्।
मनोऽभिलषितं योग्यं योगी भोजनमाचरेत् ॥२९॥
काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा।
अतिशीतं चातिचोष्णं भक्ष्यं योगी विवर्जयेत् ॥३०॥
प्रतःस्नानोपवासादि कायक्लेशविधिं तथा.
एकाहारं निराहारं यामान्ते च न कारयेत् ॥३१॥
एवं विधिविधानेन प्राणायामं समाचरेत्।
आरम्भे प्रथमे कुर्यात् क्षीराज्यं नित्यभोजनम्।
मध्याह्ने चैव सायाह्ने भोजनद्वयमाचरेत् ॥३२॥
इति मिताहारः ॥
अथ नाडीशुद्धिः।
कुशासने मृगाजिने व्याघ्रजिने च कम्बले।
स्थलासने समासीनः प्राङमुखो वाप्युद्ङ्मुखः।
नाडीशुद्धिं समासाद्य प्राणायाम समभ्यसेत् ॥३३॥
चण्डकापालिरुवाच।
नाडीशुद्धिं कथं कुर्यान्न्डीशुद्धिस्तु कीदृशी।
तत् सर्वं श्रोतुमिच्छामि तद्वदस्व दयानिधे ॥३४॥
घेरण्ड उवाच-
मलाकुलासु नाडीषु मारुतो नैव गच्छति।
प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवेत्।
तस्मादादौ नाडीशुद्धिं प्राणायामं ततोऽभ्यसेत् ॥३५॥
नाडीशुद्धिर्द्विधा पोक्ता समनुर्निर्मनस्तथा।
बीजेन समनुं कुर्यान्निर्मनुं धौतकर्मणा ॥३६॥
धौतकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा।
शृणुस्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत् ॥३७॥
उपनिश्यासने योगी पद्मासनं समाचरेत्।
गुर्वादिन्यासनं कुर्याद् यथैव गुरुभाषितम्।
नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥३८॥
वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम्।
चन्द्रेणं पूरयेद्वायुं बीजं षोडशकैः सुधीः ॥३९॥
चतुःष्ट्या मात्रया च कुम्भकेनैव धारयेत्।
द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् ॥४०॥
नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम्।
वह्निबीजषोडशेन सूर्य नाड्या च पूरयेत् ॥४१॥
चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्।
द्वात्रिंशन्मात्रया वायु शशिनाड्या च रेचयेत् ॥४२॥
नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम्।
ठं बीजंशोडशेनैव इडया पूरयेन्मरूत ॥४३॥
चतुःषष्ट्या मात्रया च वं बीजेनैव धारयेत्।
अमृतं प्लावितं ध्यात्वा नाडीधौतं विभावयेत् ॥४४॥
एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत्।
दृढौ भूत्वासनं कृत्वा प्राणायामं समाचरेत् ॥४५॥
सहितः सूर्यभेदश्च उज्जायी शीतली तथा।
भस्त्रिका भ्रामरी मूर्छा केवली चाष्टकुम्भिकाः ॥४६॥
सहितो द्विविधः पोक्तः सगर्भश्चनिगर्भकः।
सगर्भो बूजनुच्चार्य निगर्भो बीजवर्जितः ॥४७॥
प्राणायामं सगर्भं च प्रथमं कथयामि ते।
सुखासने चोपविश्य प्राङ्मुखो वाप्युदङ्मुखः।
ध्यायेद्विधिं रजोगुणं रक्तवर्णमवर्णकम् ॥४८॥
इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः।
पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डीयानकः ॥४९॥
सत्त्वमयं हरिंध्यात्वा उकारं ककृष्णवर्णकम्।
चतुःषष्ट्या च मात्रया कुम्भकेनैव धारयेत् ॥५०॥
पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत्।
इजया रेचयेत् पश्चाद् तद्बीजेन क्रमेण तु ॥५२॥
अनुलोमविलोमेन वारंवारं च साधयेत्।
पूरकान्ते कुम्भकान्तं धृतनासापुटद्वयम्।
कनिष्ठानामिकाङ्गुष्टैः तर्जनीमध्यमे विना ॥५३॥
प्राणायामो निगर्भस्तु विना बीजेन जायते।
वामजानूपरिन्यस्तवामपाणितलं भ्रमेत्।
एकादिशतपर्यन्तं पूरकुम्भकरेचनम् ॥५४॥
उत्तमा विंशतिर्मात्रा षोडशी मात्रा मध्यमा।
अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृताः ॥५५॥
अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात्।
उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् ॥५६॥
प्राणायामात् खेचरत्त्वं प्राणायामाद् रोगनाशनम्।
प्राणायामद्बोधयेच्छक्तिं प्राणायामान्मनोन्मनी।
आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् ॥५७॥
अथ सूर्यभेदकुम्भकः
घेरण्ड उवाच-
कथितं सहितं कुम्भं सूर्यभदनकं शृणु।
पूरयेत् सूर्यनाड्या च यथा शक्ति बहिर्मरुत् ॥५८॥
धारयेद्बहुयत्नेन कुम्भकेन जलन्धरैः।
यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम् ॥५९॥
प्राणोऽपानः समानश्चोदानव्यानौ तथैव च।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥६०॥
हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले।
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥६१॥
व्योनो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः।
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥६२॥
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम्।
उदगारे नाग आख्यातः कूर्मस्तून्मूलने स्मृतः ॥६३॥
कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे।
न जहाति सृते क्वापि सर्वव्यापि धनञ्जयः ॥६४॥
नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम्।
क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु।
भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न निःसरेत् ॥६५॥
सर्वे ते सूर्यसंभिन्ना नाभिमूलात् समुद्धरेत्।
ईडया रेचयेत् पश्चाद् धैर्येणाखण्डवेगतः ॥६६॥
पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि।
रेचयित्वा साधयेत्तु क्रमेण च पुनः पुनः ॥६७॥
कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः।
बोधयेत् कुंजलीं शक्तिं देहानलं विवर्धयेत्।
इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् ॥६८॥
अथ उज्जायी कुम्भकः।
नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत्।
हृद्गलाभ्यां समाकृष्य वायुं वक्त्रे च धारयेत् ॥६९॥
मुखं प्रक्षाल्य संवन्द्य कुर्याज्जालन्धरं ततः।
आशक्ति कुम्भकं कृत्वा धारयेदविरोधतः ॥७०॥
उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत्।
न बवेत् कफरोगश्च क्रूरवायुरजीर्णकम् ॥७१॥
आमवातः क्षयः कासो ज्वरप्लीहा न विद्यते।
जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः ॥७२॥
अथ शीतलीकुम्भकः।
जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः।
क्षणं च कुम्भक कृत्वा नासाभ्यां रेचयेत् पुनः ॥७३॥
सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम्।
अजीर्णं कफपित्तञ्च नैव तस्य प्रजायते ॥७४॥
अथ भस्त्रिकाकुम्भकः।
भस्त्रैव लोहकाराणां यथाक्रमेण संभ्रमेत्।
तथा वायुं च नासाभ्यामुभाभ्यां चालयेच्छनैः ॥७५॥
एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम्।
तदन्ते चारयेद्वायुं पूर्वोक्तं च यथाविधि ॥७६॥
त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः।
न च रोगो न च क्लेश आरोग्यं च दिने दिने ॥७७॥
अथ भ्रामरीकुम्भकः।
अर्धरात्रे गते योगी जन्तूनां शब्धवर्जिते।
कर्णौ पिधाय हस्ताभ्यां कुर्यात पूरककुम्भकम् ॥७८॥
शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं शुभम्।
प्रथमं झिञ्झिनादं च वंशीनादं ततः परम् ॥७९॥
मेघझर्झरभ्रमरी घण्टाकांस्यं ततः परम्।
तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभिः ॥८०॥
एवं नानाविधो नादो जायते नित्यमभ्यासात्।
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥८१॥
ध्वनेरन्तर्गतं ज्योति ज्योतिन्तर्गतं मनः।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्।
एवं भ्रामरीसंसिद्धिः समाधिसिद्धिमाप्नुयात् ॥८२॥
अथ मूर्छाकुम्भकः।
सुखेन कुम्भकं कृत्वा मनश्च भ्रुवोरन्तरम्।
संत्यज्य विषयान् सर्वान् मनोमूर्च्छा सुखप्रदा।
आत्मनि मनसो योगादानन्दो जायते ध्रुवम् ॥८३॥
अथ केवलीकुम्भकः।
हंकारेण बहिर्याति सःकारेण विशेत् पुनः।
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः।
अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥८४॥
मूलाधारे यथा हंसस्तथा हि हृदि पङ्कजे।
तथा नासापुटद्वन्द्वे त्रिभिर्हंससमागमः ॥८५॥
षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम्।
देहाद्बहिर्गतो वायुः स्वभावाद् द्वादशाङ्गुलिः ॥८६॥
गायने षोडशाङ्गुल्यो भोजने विंशतिस्तथा।
चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशशदङ्गुलिः।
मैथुने षट्त्रिंशदुक्तं व्यायामे च ततोधिकम् ॥८७॥
स्वभावेऽस्य गतेर्न्यूने परमायुः प्रवर्धते।
आयुःक्षयोऽधिके प्रोक्तो मारुते चान्तराद्गते ॥८८॥
तस्मात् प्राणे स्थिते देहे मरणं नैव जायते।
वायुना घटसम्बन्धे भवेत् केवलकुम्भकम् ॥८९॥
यावज्जीवं जपेन्मन्त्रमजपासंख्यकेवलम्।
अद्यावधि धृतं संख्याविभ्रमं केवलीकृते ॥९०॥
एव एव हि कर्तव्यः केवलीकुम्भको नरैः।
केवली चाजपासंख्या द्विगुणा च मनोन्मनी ॥९१॥
नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत्।
एकादिकचतुः षष्टिं धारयेत् प्रथमे दिने ॥९२॥
केवलीमष्टधां कुर्याद् यामे यामे दिने दिने।
अथवा पञ्चधा कुर्याद् यथा तत् कथयामि।
प्रातर्मध्याह्नसायाह्ने मध्ये रात्रिचतुर्थके।
त्रिसन्ध्यमथवा कुर्यात् सममाने दिने दिने ॥९४॥
पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा।
अजपापरिमाणं च यावत् सिद्धिः प्रजायते ॥९५॥
प्राणायामं केवलीं च तदा वदति योगवित्।
केवली कुम्भके सिद्धे किन्न सिद्ध्यतिभूतले ॥९६॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-03T14:57:26.0300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

nutrient leak

  • Zool. पोषद्रव्य गळती 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site