TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

घेरण्ड संहिता - तृतीयोपदेशः

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


मुद्राकथनम्
घेरण्ड उवाच
महामुद्रा नभोमुद्रा उड्डीयानं जलन्धरम्।
मूलबन्धं महाबन्धं महावेधश्च खेचरी ॥१॥
विपरीतकरणी योनि वज्रोली शक्तिचालिनी।
तडागीमाण्डवीमुद्रा शाम्भवीपञ्चधारणा ॥२॥
आश्विनी पाशिनी काकी मातंगी च भुजंगिनी।
पञ्चविंशति मुद्रावै सिद्धिदाश्चेहयोगिनाम् ॥३॥
अथ मुद्राणां फलकथनम्।
मुद्राणां पटलं देवि कथितं तव संनिधौ।
येनविज्ञातमात्रेण सरमवसिद्धिः प्रजायते ॥४॥
गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित्।
प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि ॥५॥
अथ महामुद्राकथनम्।
पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः।
याम्यपादं प्रसार्याथ करेधृत पदांगुलः ॥६॥
कण्ठ संकोचनं कृत्वा भ्रुवोर्मध्ये निरीक्षयेत्।
महामुद्राभिधामुद्रा कथ्यते चैव सूरिभिः ॥७॥
अथ महामुद्राफलकथनम्।
क्षयकांस गुदावर्त्तं प्लीहाजीर्णज्वरं तथा।
नाशयेत्सर्वरागांश्च महामुद्रा च साधनात् ॥८॥
अथ नभोमुद्राकथनम्।
यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा।
ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत् पवनं सदा।
नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी ॥९॥
अथ उड्डीयानबन्धः।
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्।
उड्डानं कुरुते यस्मादविश्रान्तं महाखगः।
उड्डीयानं त्वसो बन्धो मृत्युमातंग केशरी ॥१०॥
अथ उड्डीयानबन्धस्य फलकथनम्।
समग्राद् बन्धनाद्धयेतदुड्डीयानं विशिष्यते।
उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् ॥११॥
अथ जालन्धर बन्धकथनम्।
कण्ठ संकोचनं कृत्वा चिबुकं हृदयेन्यसेत्।
जालन्धरे कृते बन्धे षोडशाधारबन्धनम्।
जालन्धरं महामुद्रामृत्योश्चक्षय कारिणीं ॥१२॥
सिद्धं जालन्धरं बन्धं योगिनां सिद्धिदायकम्।
षण्मासमभ्यसेद्यो हि स सिद्धो नात्र संशयः ॥१३॥
अथ मूलबन्धकथनम्।
पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः।
नाभिग्रंथिमेरुदण्जे संपीड्य यत्नतः सुधीः।१४॥
मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत्।
जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥१५॥
अथ मूलबन्धस्य फलकथनम्।
संसार समुद्रं तर्तुमभिलषति यः पुमान्।
विजनेषु गुप्तो भूत्वा मुद्रामेनां समभ्यसेत् ॥१६॥
अभ्यासाद् बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम्।
साधयेद्यत्नतो तर्हि मौनी तु विजितालसः ॥१७॥
अथ महाबन्धकथनम्।
वामपादस्य गुल्फेन पायुमूलं निरोधयेत्।
दक्षापादेन तद्गुल्फं संपीड्य यत्नतः सुधीः ॥१८॥
शनैः शनैश्चालयेत् पार्ष्णिं योनिमाकुञ्चयेच्छनैः।
जालन्धरे धारयेत्प्राणं महाबन्धोनिगद्यते ॥१९॥
अथ महाबन्धस्य फलकथनम्।
महाबन्ध परोबन्धो जरामरणनाशनः।
प्रसादादस्य बन्धस्य साधयेत् सर्ववाञ्छितम् ॥२०॥
अथ महावेधकथनम्।
रूपयौवनलावण्यं नारीणां पुरुषं विना।
मूलबन्धमहाबन्धौ महावेधं विना तथा ॥२१॥
महाबन्धं समासाद्य उड्डीनकुम्भकं चरेत्।
महावेधः समाख्यातो योगिनां सिद्धिदायकः ॥२२॥
अथ महावेधस्य फलकथनम्।
महाबन्धमूलबन्धौ महावेधसमन्वितौ ।
प्रत्यहं कुरुतेयस्तु स योगीयोगवित्तमः ॥२३॥
न च मृत्यु भयं तस्य न जरा तस्य विद्यते।
गोपनीयः प्रयत्नेन वेधोऽयं योगिपुंगवैः ॥२४॥
अथ खेचरीमुद्राकथनम्।
जिह्वाधोनाडीं संछिन्नां रसनां चालयेत् सदा।
दोहयेन्नवनीतेन लोहयन्त्रेण कर्षयेत् ॥२५॥
एवं नित्यं समाभ्यासाल्लम्बिकादीर्घतां ब्रजेत्।
यावद्गच्छेद्भ्रुवोर्मध्ये तथा गच्छति खेचरी ॥२६॥
रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत्।
कपालकुहरेजिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर्मध्ये गता दृष्टिमुर्द्रा भवति खेचरी ॥२७॥
अथ खेचरीमुद्राफलकथनम्।
न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते।
न च रोगो जरामृत्युर्देवदेहं प्रपद्यते ॥२८॥
नाग्निनादह्येतेगात्रं न शोषयति मारुतः।
न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गमः ॥२९॥
लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम्।
कपाल वक्त्रसंयोगे रसना रसमाप्नुयात् ॥३०॥
नाना रससमुद्भूतमानन्दं च दिने दिने।
आदौ लवणक्षारं च ततस्तिक्त कषायकम् ॥३१॥
नवनीतं धृतं क्षीरं दधितक्रमधूनि च।
द्राक्षा रसं च पीयूषं जायते रसनोदकम् ॥३२॥
अथ विपरीतकरणीमुद्राकथनम्।
नाभिमूलेवसेत्सूर्यस्तालुमूले च चन्द्रमाः।
अमृतं ग्रसते मृत्युस्ततो मृत्युवशो नरः ॥३३॥
ऊर्ध्वं च जायते सूर्यश्चन्द्रं च अध आनयेत्।
विपरीतकरीमुद्रा सर्वतन्त्रेषुगोपिता ॥३४॥
भूमौ शिरश्च संस्थाप्य करयुग्मा समाहितः।
ऊर्ध्वपादः स्थिरोभूत्वा विपरीतकरीमता ॥३५॥
अथ विपरीतकरणीमुद्राकथनम्।
मुद्रेयं साधिता नित्यं जरा मृत्युं च नाशयेत्।
स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति ॥३६॥
अथ योनिमुद्राकथनम्।
सिद्धासनं समासाद्य कर्णचक्षुर्न सोमुखम्।
अंगुष्ठ तर्जनी मध्यानामाभिश्चैव साधयेत् ॥
काकीभिः प्राणं संकृष्य अपाने योजयेत् ततः।
षट्चक्राणि क्रमाद्ध्यात्वा हूं हंसमनुना सुधीः ॥३८॥
चैतन्यमानयेद् देवीं निद्रितां यां भुजङ्गिनीम्।
जीवेन सहितांशक्तिं समुत्थाप्यकराम्बुजे ॥३९॥
शक्तिमयः स्वयंभूत्वा परशिवेन संगमम्।
नाना सुखं विहारं च चिन्तयेत् परमं सुखम् ॥४०॥
शिव शक्ति समायोगादेकान्तेभुविभावयेत्।
आनन्दं च स्वयं भूत्वा अहं ब्रह्मेति सम्भवेत् ॥४१॥
ब्रह्महाभ्रणहाचैव सुरापीगुरुतल्पगः।
एतैपापैर्निलिप्येत योनिमुद्रानिबन्धात् ॥४२॥
यानि पापानि घोराणि उपपापानि यानि च।
तानिसर्वाणि नश्यन्ति योगनिमुद्रानिबन्धात् ॥
तस्मादभ्यासनं कुर्याद्यदि मुक्तिं समिच्छति ॥४३॥
अथ वज्रोलीमुद्राकथनम्।
धरामवष्टभ्य करयोस्तलाभ्याम् ऊर्ध्वं क्षिवेत्पादयुगंशिरः खे।
शक्तिप्रबोधाय चिरजीवनाय वज्रालिमुद्रां कलयो वदन्ति ॥४५॥
अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम्।
अयंहितप्रदोयोगो योगिनां सिद्धिदायकः ॥४६॥
एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रवम्।
सिद्धे बिन्दौ महायत्ने किं न सिद्ध्यतिभूतले ॥४७॥
भोगेन महता युक्तो यदि मुद्रां समाचरेत्।
तथापि सकला सिद्धिस्तस्य भवति निश्चितम् ॥४८॥
अथ शक्तिचालनीमुद्राकथनम्।
मूलाधारे आत्मशक्तिः कुण्डली परदेवता।
शयिता भुजगाकारा सार्द्धत्रिवलयान्विता ॥४९॥
यावत् सा निद्रिता देहे तावज्जीवः पशुर्यथा।
ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ॥५०॥
उद्याट्येत् कवाटञ्च यथा कुञ्चिकया हठात्।
कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं प्रभेदयेत् ॥५१॥
नाभिं संवेष्ट्य वस्त्रेण न च नग्नो बहिस्थितः।
गोपनीयगृहे स्थित्वा शक्ति चालनमभ्यसेत् ॥५२॥
वितस्तिप्रमितं दीर्घं विस्तारे चतुरंगुलम्।
मृदुलं धवलं सूक्ष्मं वेष्टनाम्बर लक्षणम् ॥५३॥
एवम्बरयुक्तं च कटिसूत्रेणयोजयेत्।
भस्मनागात्र संलिप्तं सिद्धासनं समाचरेत् ॥५४॥
नासाभ्यां प्राणमाकृष्य अपानेयोजयेतवलात्।
तावदाकुञ्चयेत् गुह्यं शनैरश्वनिमुद्रया ॥५५॥
यावद्गच्छेत् सुषुम्नायां वायुः प्रकाशयेत् हठात्।
तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी ॥५६॥
बद्धश्वासस्ततोभूत्वा ऊर्ध्वमार्गं प्रपद्यते।
शक्तोर्विनाचालनेन योनिमुद्रा न सिध्यति ॥५७॥
आदौ चालनमभ्यस्य योनिमुद्रं समभ्यसेत्।
इति ते कथितं चण्डकापाले शक्तिचालनम्।५८॥
गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत्।
मुद्रेयं परमागोप्याजरामरणनाशिनी ॥५९॥
तस्मादभ्यासनं कार्यं योगिभिः सिद्धिकांक्षिभिः।
नित्यं योऽभ्यसेतेयोगी सिद्धिस्तस्य करेस्थिता।
तस्यविग्रहसिद्धिः स्याद् रोगाणां संक्षयो भवेत् ॥६०॥
अथ तडागीमुद्राकथनम्।
उदरं पश्चिमोत्तानं कृत्वा च तडागाकृतिम्।
ताडागी सा परामुद्रा जरामृत्यु विनाशिनी ॥६१॥
अथ माण्डुकीमुद्राकथनम्।
मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत्।
शनैर्ग्रसेदमृतं तां माण्डूकीं मुद्रिकां विदुः ॥६२॥
वलितं पलितं वैव जायते नित्ययौवनम्।
न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम् ॥६३॥
अथ शाम्भवीमुद्राकथनम्।
नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत्।
साभवेच्छाम्भवी मुद्रा सर्वतन्त्रेषुगोपिता ॥६४॥
अथ शाम्भवीमुद्रायाः फलकथनम्।
वेदशास्त्र पुराणानि सामान्य गणिका इव।
इयन्तु शाम्भवीमुद्रा गुप्ताकुलवधूरिव ॥६५॥
स एव आदिनाथश्च न च नारायणः स्वयम्।
स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शाम्भवीम् ॥६६॥
सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वरः।
शाम्भवीं यो विजानाति स च ब्रह्म न चान्यथा ॥६७॥
अथ पञ्चधारणमुद्राकथनम्।
कथिता शाम्भवी मुद्रा शृणुष्व पञ्चधारणाम्।
धारणानि समासाद्य किं न सिध्यतिभूतले ॥६८॥
अनेन नरदेहेन स्वर्गेषुगमनागमम्।
मनोगतिर्भवेत्तस्य खेचरत्वं न चान्यथा ॥६९॥
अथ पार्थिवीधारणामुद्राकथनम्।
यत्तत्वं हरितालदेश रचितं भौमं लकालान्वितं,
वेदास्तंकमलासनेनसहितम्कृत्वादिस्थापिनम्।
प्राणांस्तत्रविनीय पंचघटिकां चिन्तान्वितां धारयेदेषास्तम्भकरीं ध्रुवंक्षितिजयं कुर्यादधोधारणाम् ॥७०॥
पार्थिवीधारणामुद्रां य करोति हि नित्यशः।
मृत्युञ्जयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि ॥७१॥
अथाम्भसीधारणामुद्रा कथनम्।
शंखेन्दु प्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं।
तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना।
प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा दुःसहतापपापाहरणी स्यादाम्भसी धारणा ॥७२॥
अथाम्भसीमुद्रायाः फलकथनम्।
आम्भसीं परमां मुद्रां यो जानाति स योगवित्।
जले च गंभीरे घोरे मरणं तस्यनोभवेत् ॥७३॥
इयं तु परमा मुद्रा गोपनीया प्रयत्नतः।
प्रकाशात् सिद्धिहानिः स्यात् सत्यं वच्मि च तत्त्वतः ॥७४॥
अथाग्नेयीधारणामुद्राकथनम्।
तन्नाभिस्थितमन्द्रगोपसदृशं बीजं त्रिकोणान्वितं तत्त्वं वह्निमयं प्रदीप्तमरुणं रुद्रेणयत्सिद्धिदम्।
प्राणांस्तत्रविनीयपञ्चघटिकां चिन्तान्वितां वैश्वानरीधारणा ॥७५॥
प्रदीप्ते ज्वलिते वह्नौ पतितो यदि साधकः।
एतन्मुद्राप्रसादेन स जीवति स मृत्युभाक् ॥७६॥
अथ वायवीयधारणमुद्राकथनम्।
यद्भिन्नाञ्जनपुञ्जसन्निभमिदं धूम्रावभासं परे तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता।
प्राणांस्तत्र विलीय पञ्चघटिकाश्चित्तान्वितां धारयेदेषा खे गमनं करोति यामिनां स्याद्वायवी धारणा ॥७७॥
अथ वायवीयधारणमुद्राफलकथनम्।
इयं तु परमा मुद्रा जरामृत्युविनाशिनी।
वायुना म्रियते नापि खे गति प्रदायिनी ॥७८॥
शठायभक्तिहीनाय न देया यस्यकस्यचित्।
दत्तेचसिद्धिहानिः स्यात् सत्यं वच्मिच चण्डते ॥७९॥
अकाशीधारणा
यत्सिद्धौवर शुद्धवारिसदृशं व्योमं परंभासितं तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम्।
प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा मोक्षकावाटभेदनकरी कुर्यान्नभोधारणम् ॥८०॥
अथाकाशीधारणामुद्रायाः फलकथनम्।
आकाशीधारणां मुद्रां यो वेत्ति स च योगवित्।
न मृत्युर्जायते तस्य प्रलये नावसीदति ॥८१॥
अथ अश्वनीमुद्राकथनम्।
आकुञ्चयेद्गुदद्वारं प्रकाशयेत् पुनः पुनः।
सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी ॥८२॥
अश्विनीमुद्रायाः फलकथनम्।
अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी।
बलपुष्टिकरी चैव अकालमरणं हरेत् ॥८३॥
अथ पाशिनीमुद्राकथनम्।
कण्ठपृष्ठे क्षिपेत्पादौ पाशवद्दृढबन्धनम्।
सा एव पाशिनी मुद्रा शक्ति प्रबोधकारिणी ॥८४॥
अथ पाशिनीमुद्रायाः फलकथनम्।
पाशिनी महती मुद्रा बलपुष्टिविधायिनी।
साधनीया प्रयत्नेन साधकैः सिद्धिकाङक्षिभिः ॥८५॥
अथ काकीमुद्राकथनम्।
काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः।
काकीमुद्रा भवेदेषा सर्वरोगविनाशिनी ॥८६॥
अथ काकीमुद्रायाः फलकथनम्।
काकीमुद्र परा मुद्रा सर्वतन्त्रेषु गोपिता।
अस्याः प्रसादमात्रेण न रोगी काकवद् भवेत् ॥८७॥
अथ मातङ्गिनीमुद्राकथनम्।
कण्ठमग्रे जले स्थित्वा नासाभ्यां जलमाहरेत्।
मुखान्निर्गमयेत् पश्चात् पुनर्वक्त्रेण चाहरेत् ॥८८॥
नासाभ्यां रेचयेत् पश्चात् कुर्यादेवं पुनः पुनः।
मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी ॥८९॥
अथ मातङ्गिनीमुद्राफलकथनम्।
विरले निर्जने देशे स्थित्वा चैकाग्रमानसः।
कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते ॥९०॥
यत्र यत्र स्थितोयोगी सुखमत्यन्तमश्नुते।
तस्मात् सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् ॥९१॥
अथ भुजङ्गिनीमुद्राकथनम्।
वक्त्रं किञ्चित् सुप्रसार्य चानिलं गलया पिबेत्।
सा भवेद् भुजगी मुद्रा जरामृत्युविनाशिनी ॥९२॥
अथ भुजङ्गनीमुद्रायाः फलकथनम्।
यावच्च उदरे रोगा अजीर्णादि विशेषतः।
तत् सर्वं नाशयेदाशु यत्र मुद्रा भुजङ्गिनी ॥९३॥
अथ मुद्राणां फलकथनम्।
इदं तु मुद्रापटलं कथितं चण्ड ते शुभम्।
वल्लभं सर्वसिद्धानां जरामरणनाशनम् ॥९४॥
शठाय भक्तिहीनाय न देयं यस्य कस्यचित्।
गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि ॥९५॥
ऋजवे शान्तचिताय गुरुभक्तिपराय च।
कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ॥९६॥
मुद्राणां पटलं ह्येतत् सर्वव्याधिविनाशनम्।
नित्यमभ्यासशीलस्य जठराग्निविविर्धनम् ॥९७॥
न तस्य जायते मृत्युर्नास्य जरादिकं तथा ।
नाग्निजलभयं तस्य वायोरपि कुतो भयम् ॥९८॥
कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः।
मुद्राणां साधनाच्चेव विनश्यन्ति न संशयः ॥९९॥
बहुना मिमिहोक्तेन सारं वच्मि च चण्ड ते।
नास्ति मुद्रासमं किञ्चित् सिद्धिदं क्षितिमण्डले ॥१००॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-03T14:53:15.3600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुर्मुख III.

  • n. सुहोत्र नामक शिवावतार का शिष्य । 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.