TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

घेरण्ड संहिता - सप्तमोपदेशः

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


समाधियोगः
घेरण्ड उवाच-
समाधिश्च परो योगो बहुभाग्येन लभ्यते।
गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः ॥१॥
विद्याप्रतीतिः स्वगुरुप्रतीतिरात्मप्रतीतिर्मनसः प्रबोधः।
दिने दिने यस्य भवेत् स योगी सुशोभनाभ्यासमुपैति सद्यः ॥२॥
घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात् परात्मनि।
समाधिं तं विजानीयान्मुक्तसंज्ञो दशादिभिः ॥३॥
अहं ब्रह्म न चान्योऽस्मि ब्रह्मैवाहं न शोभवाक्।
सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् ॥४॥
शाम्भव्या चैव खेचर्या भ्रामर्या योनिर्मुद्रया।
ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा ॥५॥
पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा।
षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत् ॥६॥
अथ ध्यानयोगसमाधिः।
शाम्भवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षमानयेत्।
बिन्दुब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत् ॥७॥
खमध्ये कुरु चात्मानं आत्ममध्ये च खं कुरु।
आत्मानं खमयं दृष्ट्वा न किञ्चिदपि बाधते।
सदानन्दमयो भूत्वो समाधिस्थो भवेन्नरः ॥८॥
अथ नादयोगसमाधिः।
साधनात् खेचरीमुद्रा रसनोर्ध्वगता यदा।
तदा समाधिसिद्धिः स्याद्धित्वा साधारणक्रियाम् ॥९॥
अथ रसनान्दयोगसमाधिः।
अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत्।
मन्दं मन्दं रेचयेद्वायुं भृङ्गनादं ततो भवेत् ॥१०॥
अन्तस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत्।
समाधिर्जायते तत्र आनन्दः सोऽहमित्यतः ॥११॥
अथ लयसिद्धियोगसमाधिः।
योनिमुद्रा समासाद्य स्वयं शक्तमयो भवेत्।
सुश्रंगाररसेनैव विहरेत् परमात्मनि ॥१२॥
आनन्दमयः सम्भूय ऐक्यं ब्रह्मणि संभवेत्।
अहं ब्रह्मेति वाद्वैतं समाधिस्तेनजायते ॥१३॥
अथ भक्तियोगसमाधिः।
स्वकीयहृदये ध्यायेदिष्टदेवस्वरूपकम्।
चिन्तयेद् भक्तियोगेन परमाह्लादपूर्वकम् ॥१४॥
आनन्दाश्रुपुलकेन दशाभावः प्रजायते।
समाधिः सम्भवेत्तेन सम्भवेच्च मनोन्मनी ॥१५॥
अथ राजयोगसमाधिः।
मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत्।
परात्मनः समायोगात् समाधिं समवाप्नुयात् ॥१६॥
अथ समाधियोगमहात्म्यम्।
इति कथितश्चण्ड समाधिर्मुक्तिलक्षणम्।
राजयोगसमाधिः स्यदेकात्मन्येव साधनम्।
उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः ॥१७॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥१८॥
भूचराः खेचराश्चामी यावन्तो जीवजन्तवः।
वृक्षगुल्मलतावल्लीतृणाद्या वारि पर्वताः।
सर्वं ब्रह्म विजानीयात् सर्वं पश्यति चात्मनि ॥१९॥
आत्मा घटस्थचैतन्यमद्वैतं शाश्वतं परम्।
घटाद्विभन्नतो ज्ञात्वा वीतरागं विवासनम् ॥२०॥
एवं मिथः समाधिः स्यात् सर्वसङ्कल्पवर्जितः।
स्वदेहे पुत्रदारादिबान्धवेषु धनादिषु।
सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात् ॥२१॥
तत्त्वं लयामृतं गोप्यं शिवोक्तं विविधानि च।
तेषां संक्षेपमादाय कथितं मुक्तिलक्षणम् ॥२२॥
इति ते कथितश्चण्ड समाधिर्दुर्लभः परः।                      ०॥
यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले ॥२३॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः ॥
इति श्रीघेरण्डसंहिता समाप्ता ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-03T15:00:06.4830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adjustable spallner

  • अनुयोज्य पाना 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site