TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूर्य सिद्धांत - स्पष्टाधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


स्पष्टाधिकारः

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ।

शीघ्रमन्दोच्चपाताख्या ग्रहाणाम् गतिहेतवः ॥१॥

तद्वातरश्मिभिर् बद्धास् तैस् सव्येतरपाणिभिः ।

प्राक् पश्चाद् अपकृष्यन्ते यथासन्नम् स्वदिङ्मुखम् ॥२॥

प्रवहाख्यो मरुत् ताम्स् तु स्वोच्चाभिमुखम् ईरयेत् ।

पूर्वापराकृष्टास् ते गतिम् यान्ति पृथग्विधाः ॥३॥

ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखम् कर्षति ग्रहम् ।

उच्चसम्ज्ञो अपरार्धस्थस् तद्वत् पश्चान्मुखम् ग्रहम् ॥४॥

स्वोच्चापकृष्टा भगणैः प्राङ्मुखम् यान्ति यद् ग्रहाः ।

तत् तेषु धनम् इत्य् उक्तम् ऋणम् पश्चान्मुखेषु च ॥५॥

दक्षिणोत्तरतो अप्य् एवम् पातो राहुः स्वरम्हसा ।

विक्षिपत्य् एष विक्षेपम् चन्द्रादीनाम् अपक्रमात् ॥६॥

उत्तराभिमुखम् पातो विक्षिपत्य् अपरार्धगः ।

ग्रहम् प्राग्भगणार्धस्थो याम्यायाम् अपकर्षति ॥७॥

बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः ।

तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ॥८॥

महत्वान् मण्डलस्यार्कः स्वल्पम् एवापकृष्यते ।

मण्डलाल्पतया चन्द्रस् ततो बह्व् अपकृष्यते ॥९॥

भौमादयो अल्पमूर्तित्वाच् छीघ्रमन्दोच्चसञ्ज्ञकैः ।

दैवतैर् अपकृष्यन्ते सुदूरम् अतिवेगिताः ॥१०॥

अतो धनर्णम् सुमहत् तेषाम् गतिवशाद् भवेत् ।

आकृष्यमाणास् तैर् एवम् व्योम्नि यान्त्य् अनिलाहताः ॥११॥

वक्रातिवक्रा विकला मन्दा मन्दतरा समा ।

तथा शीघ्रतरा शीघ्रा ग्रहाणाम् अष्टधा गतिः ॥१२॥

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ।

ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा ॥१३॥

तत्तद्गतिवशान् नित्यम् यथा दृक्तुल्यताम् ग्रहाः ।

प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणम् आदरात् ॥१४॥

राशिलिप्ताष्टमो भागः प्रथमम् ज्यार्धम् उच्यते ।

तत् तद्विभक्तलब्धोनमिश्रितम् तद् द्वितीयकम् ॥१५॥

आद्येनैवम् क्रमात् पिण्डान् भक्त्वा लब्धोनसम्युताः ।

खण्डकाः स्युश् चतुर्विम्शज्यार्धपिण्डाः क्रमाद् अमी ॥१६॥

तत्त्वाश्विनो अङ्काब्धिकृता रूपभूमिधरर्तवः ।

खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः ॥१७॥

शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवः ।

वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः ॥१८॥

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः ।

पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः ॥१९॥

रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास् तथा ।

कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः ॥२०॥

षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयः ।

यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः ॥२१॥

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः ।

प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाः ॥२२॥

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः ।

द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः ॥२३॥

खर्तुवेदा नवाद्र्यर्था दिङ्नागास् त्र्यर्थकुञ्जराः ।

नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः ॥२४॥

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः ।

नवरूपमहीध्रैका गजैकाङ्कनिशाकराः ॥२५॥

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः ।

वस्वर्णवार्थयमलास् तुरङ्गर्तुनगाश्विनः ॥२६॥

नवाष्टनवनेत्राणि पावकैकयमाग्नयः ।

गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ॥२७॥

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ।

तद्गुणा ज्या त्रिजीवाप्ता तच्चापम् क्रान्तिर् उच्यते ॥२८॥

ग्रहम् सम्शोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च ।

शेषम् केन्द्रपदम् तस्माद् भुजज्या कोटिर् एव च ॥२९॥

गताद् भुजज्या विषमे गम्यात् कोटिः पदे भवेत् ।

युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत् ॥३०॥

लिप्तास् तत्त्वयमैर् भक्ता लब्धम् ज्यापिण्डिकम् गताम् ।

गतगम्यान्तराभ्यस्तम् विभजेत् तत्त्वलोचनैः ॥३१॥

तदवाप्तफलम् योज्यम् ज्यापिण्डे गतसम्ज्ञके ।

स्यात् क्रमज्याविधिर् अयम् उत्क्रमज्यास्व् अपि स्मृतः ॥३२॥

ज्याम् प्रोज्झ्य शेषम् तत्त्वाश्विहतम् तद्विवरोद्धृतम् ।

सम्ख्यातत्त्वाश्विसम्वर्गे सम्योज्य धनुर् उच्यते ॥३३॥

रवेर् मन्दपरिध्यम्शा मनवः शीतगो रदाः ।

युग्मान्ते विषमान्ते तु नखलिप्तोनितास् तयोः ॥३४॥

युग्मान्ते अर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः ।

ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः ॥३५॥

कुजादीनाम् अतः शीघ्रा युग्मान्ते अर्थाग्निदस्रकाः ।

गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोअग्नयः ॥३६॥

ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः ।

खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः ॥३७॥

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता ।

युग्मे वृत्ते धनर्णम् स्याद् ओजाद् ऊनाधिके स्फुटम् ॥३८॥

तद्गुणे भुजकोटिज्ये भगणाम्शविभाजिते ।

तद्भुजज्याफलधनुर् मान्दम् लिप्तादिकम् फलम् ॥३९॥

शैघ्र्यम् कोटिफलम् केन्द्रे मकरादौ धनम् स्मृतम् ।

सम्शोध्यम् तु त्रिजीवायाम् कर्क्यादौ कोटिजम् फलम् ॥४०॥

तद्बाहुफलवर्गैक्यान् मूलम् कर्णश् चलाभिधः ।

त्रिज्याभ्यस्तम् भुजफलम् चलकर्णविभाजितम् ॥४१॥

लब्धस्य चापम् लिप्तादिफलम् शैघ्र्यम् इदम् स्मृतम् ।

एतद् आद्ये कुजादीनाम् चतुर्थे चैव कर्मणि ॥४२॥

मान्दम् कर्मैकम् अर्केन्दोर् भौमादीनाम् अथोच्यते ।

शैघ्र्यम् मान्दम् पुनर् मान्दम् शैघ्र्यम् चत्वार्य् अनुक्रमात् ॥४३॥

मध्ये शीघ्रफलस्यार्धम् मान्दम् अर्धफलम् तथा ।

मध्यग्रहे मन्दफलम् सकलम् शैघ्र्यम् एव च ॥४४॥

अजादिकेन्द्रे सर्वेषाम् शैघ्र्ये मान्दे च कर्मणि ।

धनम् ग्रहाणाम् लिप्तादि तुलादाव् र्णम् एव च ॥४५॥

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर् विभाजिता ।

भचक्रकलिकाभिस् तु लिप्ताः कर्या ग्रहे अर्कवत् ॥४६॥

स्वमन्दभुक्तिसम्शुद्धा मध्यभुक्तिर् निशापतेः ।

दोर्ज्यान्तरादिकम् कृत्वा भुक्ताव् ऋणधनम् भवेत् ॥४७॥

ग्रहभुक्तेः फलम् कार्यम् ग्रहवन् मन्दकर्मणि ।

दोर्ज्यान्तरगुणा भुक्तिस् तत्त्वनेत्रोद्धृता पुनः ॥४८॥

स्वमन्दपरिधिक्षुण्णा भगणाम्शोद्धृता कलाः ।

कर्क्यादौ तु धनम् तत्र मकरादाव् ऋणम् स्मृतम् ॥४९॥

मन्दस्फुटीकृताम् भुक्तिम् प्रोज्झ्य शीघ्रोच्चभुक्तितः ।

तच्छेशम् विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः ॥५०॥

चलकर्णहृतम् भुक्तौ कर्णे त्रिज्याधिके धनम् ।

ऋणम् ऊने अधिके प्रोज्झ्य शेषम् वक्रगतिर् भवेत् ॥५१॥

दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः ।

सव्येतराकृष्ततनुर् भवेत् वक्रगतिस् तदा ॥५२॥

कृतर्तुचन्द्रैर् वेदेन्द्रैः शून्यत्र्येकैर् गुणाष्टभिः ।

शररुद्रैश् चतुर्थेषु केन्द्राम्शैर् भूसुतादयः ॥५३॥

भवन्ति वक्रिणस् तैस् तु स्वैः स्वैश् चक्राद् विशोधितैः ।

अवशिष्टाम्शतुल्यैः स्वैः केन्द्रैर् उज्झन्ति वक्रताम् ॥५४॥

महत्त्वाच् छीघ्रपरिधेः सप्तमे भृगुभूसुतौ ।

अष्टमे जीवशशैजौ नवमे तु शनैश्चरः ॥५५॥

कुजार्किगुरुपातानाम् ग्रहवच् छीघ्रजम् फलम् ।

वामम् तृतीयकम् मान्दम् बुधभार्गवयोः फलम् ॥५६॥

स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौम्ययोः ।

विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस् त्रिज्यया विधोः ॥५७॥

विक्षेपापक्रमैकत्वे क्रान्तिर् विक्षेपसम्युता ।

दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता ॥५८॥

ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः ।

चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः ॥५९॥

क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया ।

हीना त्रिज्या दिनव्यासदलम् तद्दक्षिणोत्तरम् ॥६०॥

क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ।

त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः ॥६१॥

तत्कार्मुकम् उदक्क्रान्तौ धनशनी पृथक्स्थिते ।

स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ॥६२॥

याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे ।

विक्षेपयुक्तोनितया क्रान्त्या भानाम् अपि स्वके ॥६३॥

भभोगो अष्टशतीलिप्ताः खाश्विशैलास् तथा तिथेः ।

ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम् ॥६४॥

रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः ।

गता गम्याश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः ॥६५॥

अर्कोनचन्द्रलिप्ताभ्यस् तिथयो भोगभाजिताः ।

गता गम्याश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः ॥६६॥

ध्रुवाणि शकुनिर् नागम् तृतीयम् तु चतुष्पदम् ।

किम्स्तुघ्नम् तु चतुर्दश्याः कृष्णायाश् चापरार्धतः ॥६७॥

बवादीनि ततः सप्त चराख्यकरणानि च ।

मासे अष्टकृत्व एकैकम् करणानाम् प्रवर्तते ॥६८॥

तिथ्यर्धभोगम् सर्वेषाम् करणानाम् प्रकल्पयेत् ।

एषा स्फुतगतिः प्रोक्ता सूर्यादीनाम् खचारिणाम् ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-18T13:46:02.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Heterophragma quadriloculare (Roxb.) Schum.

  • पुलुंगा, वरस 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.