TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूर्य सिद्धांत - पाताध्यायः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


पाताध्यायः

एकायनगतौ स्याताम् सूर्यचन्द्रमसौ यदा ।

तद्युतौ मण्डले क्रान्त्योस् तुल्यत्वे वैधृताभिधः ॥१॥

विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका ।

समास् तदा व्यतीपातो भगणार्धे तयोर् युतौ ॥२॥

तुल्याम्शुजालसम्पर्कात् तयोस् तु प्रवहाहतः ।

तद्दृक्क्रोधभवो वह्निर् लोकाभावाय जायते ॥३॥

विनाशयति पातो अस्मिन् लोकानाम् असकृद् यतः ।

व्यतीपातः प्रसिद्धो अयम् सञ्ज्ञाभेदेन वैधृतः ॥४॥

स कृष्णो दारुणवपुर् लोहिताक्षो महोदरः ।

सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते ॥५॥

भास्करेन्द्वोर् भचक्रान्तश् चक्रार्धावधिसम्स्थयोः ।

दृक्तुल्यसाधिताम्शादियुक्तयोः स्वाव् अपक्रमौ ॥६॥

अथौजपदगस्येन्दोः क्रान्तिर् विक्षेपसम्स्कृता ।

यदि स्याद् अधिका भानोः क्रान्तेः पातो गतस् तदा ॥७॥

ऊना चेत् स्यात् तदा भावी वामम् युग्मपदस्य च ।

पदान्यत्वम् विधोः क्रान्तिविक्षेपाच् चेद् विशुध्यति ॥८॥

क्रान्त्योर् ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते ।

तच्चापान्तरम् अर्धम् वा योज्यम् भाविनि शीतगौ ॥९॥

शोध्यम् चन्द्राद् गते पाते तत्सूर्यगतिताडितम् ।

चन्द्रभुक्त्या हृतम् भानौ लिप्तादि शशिवत् फलम् ॥१०॥

तद्वच्छशाङ्कपातस्य फलम् देयम् विपर्ययात् ।

कर्मैतद् असकृत् तावद् यावद् क्रान्ती समे तयोः ॥११॥

क्रान्त्योः समत्वे पातो अथ प्रक्षिप्ताम्शोनिते विधौ ।

हीने अर्धरात्रिकाद् यातो भावी तात्कालिके अधिके ॥१२॥

स्थिरीकृतार्धरात्रेन्द्वोर् द्वयोर् विवरलिप्तिकाः ।

षष्टिघ्न्यश् चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः ॥१३॥

रवीन्दुमानयोगार्धम् षष्ट्या सङ्गुण्य भाजयेत् ।

तयोर् भुक्त्यन्तरेणाप्तम् स्थित्यर्धम् नाडिकादि तत् ॥१४॥

पातकालः स्फुटो मध्यः सो अपि स्थित्यर्धवर्जितः ।

तस्य सम्भवकालः स्यात् तत् सम्युक्तो अन्त्यसाम्ज्ञितः ॥१५॥

आद्यन्तकालयोर् मध्यः कालो ज्ञेयो अतिदारुणः ।

प्रज्वलज् ज्वलनाकारः सर्वकर्मसु गर्हितः ॥१६॥

एकायनगतम् यावद् अर्केन्द्वोर् मण्डलान्तरम् ।

सम्भवस् तावद् एवास्य सर्वकर्मविनाशकृत् ॥१७॥

स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः ।

प्राप्यत सुमहच्छ्रेयस् तत्कालज्ञानतस् तथा ॥१८॥

रवीन्द्वोस् तुल्यता क्रान्त्योर् विषुवत्सन्निधौ यदा ।

द्विर् भवेद् धि तदा पातः स्याद् अभावो विपर्ययात् ॥१९॥

शसाङ्कार्कयुतेर् लिप्ता भभोगेन विभाजिताः ।

लब्धम् सप्तदशान्तो अन्यो व्यतीपातस् तृतीयकः ॥२०॥

सार्पेन्द्रपौष्ण्यधिष्ण्यानाम् अन्त्याः पादा भसन्धयः ।

तदग्रभेष्व् आद्यपादो गण्डान्तम् नाम कीर्त्यते ॥२१॥

व्यतीपातत्रयम् घोरम् गण्डान्तत्रितयम् तथा ।

एतद् भसन्धित्रितयम् सर्वकर्मसु वर्जयेत् ॥२२॥

इत्य् एतत् परमम् पुण्यम् ज्योतिषाम् चरितम् हितम् ।

र्हस्यम् महद् आख्यातम् किम् अन्यच्छ्रोतुम् इच्छसि ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-18T13:57:57.2600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कठिण नारळाचें अंग बाहेर, भीतरीचें चांग

  • नारळाचे बाहेरचे अंग म्‍हणजे करटी ही कठिण असते पण आंतील खोबरे गोड असते. यावरून बाहेरून दिसावयास उग्र पण आंतून चांगला, किंवा बाहेरून दिसावयास निष्‍ठुर व कडक पण आंतून दयाळु, अशास ही म्‍हण योजितात. 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site