TransLiteral Foundation

सूर्य सिद्धांत - त्रिप्रश्नाधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


त्रिप्रश्नाधिकारः

शिलातले अम्बुसम्शुद्धे वज्रलेपे अपि वा समे ।

तत्र शङ्क्वङ्गुलैर् इष्टैः समम् मण्डलम् आलिखेत् ॥१॥

तन्मध्ये स्थापयेच् छङ्कुम् कल्पनाद्वादशाङ्गुलम् ।

तच्छायाग्रम् स्पृशेद् यत्र वृत्ते पूर्वापरार्धयोः ॥२॥

तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ ।

तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा ॥३॥

याम्योत्तरदिशोर् मध्ये तिमिना पूर्वपश्चिमा ।

दिङ्मध्यमत्स्यैः सम्साध्या विदिशस् तद्वद् एव हि ॥४॥

चतुरस्रम् बहिः कुर्यात् सूत्रैर् मध्याद् विनिर्गतैः ।

भुजसूत्राङ्गुलैस् तत्र दत्तैर् इष्टप्रभा स्मृता ॥५॥

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले ।

उनण्डले च विषुवन्मण्डले परिकीर्त्यते ॥६॥

रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा ।

इष्टच्छायाविषुवतोर् मध्यम् अग्राभिधीयते ॥७॥

शङ्कुच्छायाकृतियुतेर् मूलम् कर्णो अस्य वर्गतः ।

प्रोज्झ्य शङ्कुकृतिम् मूलम् छाया शङ्कुर् विपर्ययात् ॥८॥

त्रिम्शत्कृत्यो युगे भानाम् चक्रम् प्राक् परिलम्बते ।

तद्गुणाद् भूदिनैर् भक्ताद् द्युगणाद् यद् अवाप्यते ॥९॥

तद्दोस् त्रिघ्ना दशाप्ताम्शा विज्ञेया अयनाभिधाः ।

तत्सम्स्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम् ॥१०॥

स्फुटम् दृक्तुल्यताम् गच्छेद् अयने विषुवद्वये ।

प्राक् चक्रम् चलितम् हीने छायार्कात् करणागते ॥११॥

अन्तराम्शैर् अथावृत्य पश्चाच् छेषैस् तथाधिके ।

एवम् विषुवती छाया स्वदेशे या दिनार्धजा ॥१२॥

दक्षिणोत्तररेखायाम् सा तत्र विषुवत्प्रभा ।

शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते ॥१३॥

लम्बाक्षज्ये तयोश् चापे लम्बाक्षौ दक्षिणौ सदा ।

मध्यच्छाया भुजस् तेन गुणिता त्रिभमौर्विका ॥१४॥

स्वकर्णाप्ता धनुर्लिप्ता नतास् ता दक्षिणे भुजे ।

उत्तराश् चोत्तरे याम्यास् ताः सूर्यक्रान्तिलिप्तिकाः ॥१५॥

दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश् चाक्षलिप्तिकाः ।

ताभ्यो अक्षज्या च तद्वर्गम् प्रोज्झ्य त्रिज्याकृतेः पदम् ॥१६॥

लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया ।

स्वाक्षार्कनतभागानाम् दिक्साम्ये अन्तरम् अन्यथा ॥१७॥

दिग्भेदे अपक्रमः शेषस् तस्य ज्या त्रिज्यया हता ।

परमापक्रमज्याप्ता चापम् मेषादिगो रविः ॥१८॥

कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसम्युतात् ।

मृगादौ प्रोज्झ्य भगणान् मध्याह्ने अर्कः स्फुटो भवेत् ॥१९॥

तन्मान्दम् असकृद् वामम् फलम् मध्यो दिवाकरः ।

स्वाक्षार्कापक्रमयुतिर् दिक्साम्ये अन्तरम् अन्यथा ॥२०॥

शेषम् नताम्शाः सूर्यस्य तद्बाहुज्या च कोटिज्या ।

शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् ॥२१॥

कोटिज्यया विभज्याप्ते छायाकर्णाव् अहर्दले ।

क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया ॥२२॥

अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका ।

विषुवद्भायुतार्काग्रा याम्ये स्याद् उत्तरो भुजः ॥२३॥

विषुवत्याम् विशोध्योदग्गोले स्याद् बाहुर् उत्तरः ।

विपर्ययाद् भुजो याम्यो भवेत् प्राच्यपरान्तरे ॥२४॥

माध्याह्निको भुजो नित्यम् छाया माध्याह्निकी स्मृता ।

लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे ॥२५॥

क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ ।

सौम्याक्षोना यदा कान्तिः स्यात् तदा द्युदलश्रवः ॥२६॥

विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः ।

स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका ॥२७॥

स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका ।

त्रिज्यावर्गार्धतो अग्रज्यावर्गोनाद् द्वादशाहतात् ॥२८॥

पुनर् द्वादशनिघ्नाच् च लभ्यते यत् फलम् बुधैः ।

शङ्कुवर्गार्धसम्युक्तविषुवद्वर्गभाजितात् ॥२९॥

तदेव करणी नाम ताम् पृथक् स्थापयेद् बुधः ।

अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा ॥३०॥

भक्ता फलाख्यम् तद्वर्गसम्युक्तकरणीपदम् ।

फलेन हीनसम्युक्तम् दक्षिणोत्तरगोलयोः ॥३१॥

याम्ययोर् विदिशोः शङ्कुर् एवम् याम्योत्तरे रवौ ।

परिभ्रमति शङ्कोस् तु शङ्कुर् उत्तरयोस् तु सः ॥३२॥

तत्त्रिज्यावर्गविश्लेषान् मूलम् दृग्ज्याभिधीयते ।

स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते ॥३३॥

छायाकर्णौ तु कोणेषु यथास्वम् देशकालयोः ।

त्रिज्योदक्चरजायुक्ता याम्यायाम् तद्विवर्जिता ॥३४॥

अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा ।

त्रिज्याभक्ता भवेच् छेदो लम्बज्याघ्नो अथ भाजितः ॥३५॥

त्रिभज्यया भवेच् छङ्कुस् तद्वर्गम् परिशोधयेत् ।

त्रिज्यावर्गात् पदम् दृग्ज्या छायाकर्णौ तु पूर्ववत् ॥३६॥

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता ।

दृग्ज्या तद्वर्गसम्शुद्धात् त्रिज्यावर्गाच् च यत् पदम् ॥३७॥

शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः ।

छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः ॥३८॥

उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् ।

उत्क्रमज्याभिर् एवम् स्युः प्राक्पश्चार्धनतासवः ॥३९॥

इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता ।

क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता ॥४०॥

तच्चापम् भादिकम् क्षेत्रम् पदैस् तत्र भवो रविः ।

इष्टे अह्नि मध्ये प्राक्पश्चाद् धृते बाहुत्रयान्तरे ॥४१॥

मत्स्यद्वयान्तरयुतेस् त्रिस्पृक्सूत्रेण भाभ्रमः ।

त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ॥४२॥

क्रमाद् एकद्वित्रिभज्यास् तच्चापानि पृथक् पृथक् ।

स्वाधो अधः परिशोध्याथ मेषाल् लङ्कोदयासवः ॥४३॥

खागाष्टयो अर्थगो अगैकाः शरत्र्यङ्कहिमाम्शवः ।

स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ॥४४॥

व्यस्ता व्यस्तैर् युताः स्वैः स्वैः कर्कटाद्यास् ततस् त्रयः ।

उत्क्रमेण षडेवैते भवन्तीष्टास् तुलादयः ॥४५॥

गतभोग्यासवः कार्या भास्कराद् इष्टकालिकात् ।

स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः ॥४६॥

अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् ।

तद्वत् तदेष्यलग्नासून् एवम् यातात् तथोत्क्रमात् ॥४७॥

शेषम् चेत् त्रिम्शताभ्यस्तम् अशुद्धेन विभाजितम् ।

भागैर् युक्तम् च हीनम् च तल्लग्नम् क्षितिजे तदा ॥४८॥

प्राक्पश्चान् नतनाडीभिस् तस्माल् लङ्कोदयासुभिः ।

भानौ क्षयधने कृत्वा मध्यलग्नम् तदा भवेत् ॥४९॥

भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च ।

सम्पीण्ड्यान्तरलग्नासून् एवम् स्यात् कालसाधनम् ॥५०॥

सूर्याद् ऊने निशाशेषे लग्ने अर्काद् अधिके दिवा ।

भचक्रार्धयुताद् भानोर् अधिक्के अस्तमयात् परम् ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-18T13:47:31.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खल्लाळ

  • पु. १ पाण्याचा खळखळाट . २ खळखळणारा . प्रवाह ; लाट . ' मिळती काष्ठें लोटतां पुर । आदळें दुर होती खल्लाळी । ' - तुगा ७१३ . - नागा पृ . ५५९ . ( ध्व . खळाळ ) 
  • m  The clattering of water. 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site