TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूर्य सिद्धांत - भूगोलाध्यायः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


भूगोलाध्यायः

अथार्काम्शसमुद्भूतम् प्रणिपत्य कृताञ्जलिः ।

भक्त्या परमयाभ्यर्च्य पप्रच्छेदम् मयासुरः ॥१॥

भगवन् किम्प्रमाणा भूः किम् आकारा किम् आश्रया ।

किम्विभागा कथम् चात्र सप्तपातालभूमयः ॥२॥

अहोरात्रव्यवस्थाम् च विदधाति कथम् रविः ।

कथम् पर्येति वसुधाम् भुवनानि विभावयन् ॥३॥

देवासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् ।

किम् अथ तत् कथम् वा स्याद् भानोर् भगणपूरणात् ॥४॥

पित्र्यम् मासेन भवति नाडीषष्ट्या तु मानुषम् ।

तद् एव किल सर्वत्र न भवेत् केन हेतुना ॥५॥

दिनाब्दमासहोराणाम् अधिपा न समाः कुतः ।

कथम् पर्येति भगणः सग्रहो अयम् किम् आश्रयः ॥६॥

भूमेर् उपर्युपर्यूर्ध्वाः किम् उत्सेधाः किम् अन्तराः ।

ग्रहर्क्षकक्षाः किम्मात्राः स्थिताः केन क्रमेण ताः ॥७॥

ग्रीष्मे तीव्रकरो भानुर् न हेमन्ते तथाविधः ।

कियती तत्करप्राप्तिर् मानानि कति किम् च तैः ॥८॥

एवम् मे सम्शयम् छिन्धि भगवन् भूतभावन ।

अन्यो न त्वाम् ऋते छेत्ता विद्यते सर्वदर्शिवान् ॥९॥

इति भक्त्योदितम् श्रुत्वा मयोक्तम् वाक्यम् अस्य हि ।

रहस्यम् परम् अध्यायम् ततः प्राह पुनः स तम् ॥१०॥

शृणुष्वैकमना भूत्वा गुह्यम् अध्यात्म सम्ज्ञितम् ।

प्रवक्ष्याम्य् अतिभक्तानाम् नादेयम् विद्यते मम ॥११॥

वासुदेवः परम् ब्रह्म तन्मूर्तिः पुरुषः परः ।

अव्यक्तो निर्गुणः शान्तः पञ्चविम्शात् परो अव्ययः ॥१२॥

प्रकृत्यन्तर्गतो देवो बहिर् अन्तश् च सर्वगः ।

सङ्कर्षणो अपः सृष्ट्वादौ तासु वीर्यम् अवासृजत् ॥१३॥

तदण्डम् अभवद् धैमम् सर्वत्र तमसावृतम् ।

तत्रानिरुद्धः प्रथमम् व्यक्तीभूतः सनातनः ॥१४॥

हिरण्यगर्भो भगवान् एष छन्दसि पठ्यते ।

आदित्यो ह्य् आदिभूतत्वात् प्रसूत्या सूर्य उच्यते ॥१५॥

परम् ज्योतिस् तमः पारे सूर्यो अयम् सवितेति च ।

पर्येति भुवनान् एष भावयन् भूतभावनः ॥१६॥

प्रकाशात्मा तमोहन्ता महान् इत्य् एष विश्रुतः ।

ऋचो अस्य मण्डलम् सामान्युस्त्रामूर्तिर् यजूम्षि च ॥१७॥

त्रयीमहो अयम् भगवाण् कालात्मा कालकृद् विभुः ।

सर्वात्मा सर्वगः सूक्ष्मः सर्वम् अस्मिन् प्रतिष्ठितम् ॥१८॥

रथे विश्वमये चक्रम् कृत्वा सम्वत्सरात्मकम् ।

छन्दाम्स्य् अश्वाः सप्त युक्ताः पर्यटत्य् एष सर्वदा ॥१९॥

त्रिपादम् अमृतम् गुह्यम् पादो अयम् प्रकटो अभवत् ।

सो अहङ्कारम् जगत्सृष्ट्यै ब्रह्माणम् असृजत् प्रभुः ॥२०॥

तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम् ।

प्रतिष्ठाप्याण्डमध्ये अथ स्वयम् पर्येति भावयन् ॥२१॥

अथ सृष्ट्याम् मनश् चक्रे ब्रह्माहङ्कारमूर्तिभृत् ।

मनसश् चन्द्रमा जज्ञे सूर्यो अक्ष्णोस् तेजसाम् निधिः ॥२२॥

मनसः खम् ततो वायुर् अग्निर् आपो धरा क्रमात् ।

गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥२३॥

अग्नीषोमौ भानुचन्द्रौ ततस् त्व् अङ्गारकादयः ।

तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ॥२४॥

पुनर् द्वादशधात्मानम् व्यभजद् राशिसञ्ज्ञकम् ।

नक्षत्ररूपिणम् भूयः सप्तविम्शात्मकम् वशी ॥२५॥

ततश् चराचरम् विश्वम् निर्ममे देवपूर्वकम् ।

ऊर्ध्वमध्याधरेभ्यो अथ स्रोतोभ्यः प्रकृतीः सृजन् ॥२६॥

गुणकर्मविभागेन सृष्ट्वा प्राग्वद् अनुक्रमात् ।

विभागम् कल्पयामास यथास्वम् वेददर्शनात् ॥२७॥

ग्रहनक्षत्रतारानाम् भूमेर् विश्वस्य वा विभुः ।

देवासुरमनुष्याणाम् सिद्धानाम् च यथाक्रमम् ॥२८॥

ब्रह्माण्डम् एतत् सुषिरम् तत्रेदम् भूर्भुवादिकम् ।

कटाहद्वितयस्येव सम्पुटम् गोलकाकृति ॥२९॥

ब्रह्माण्डमध्ये परिधिर् व्योमकक्षाभिधीयते ।

तन्मध्ये भ्रमणम् भानाम् अधो अधः क्रमशस् तथा ॥३०॥

मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः ।

परिभ्रमन्त्य् अधोअधःस्थाः सिद्ध्हविद्याधरा घनाः ॥३१॥

मध्ये समन्ताद् अण्डस्य भूगोलो व्योम्नि तिष्ठति ।

बिभ्रानः परमाम् शक्तिम् ब्रह्मणो धारणात्मकाम् ॥३२॥

तदन्तरपुटाः सप्त नागासुरसमाश्रयाः ।

दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥३३॥

अनेकरत्ननिचयो जाम्बूनदमयो गिरिः ।

भूगोलमध्यगो मेरुर् उभयत्र विनिर्गतः ॥३४॥

उपरिष्टात् स्थितास् तस्य सेन्द्रा देवा महर्षयः ।

अधस्ताद् असुरास् तद्वद् द्विषन्तो अन्योन्यम् आश्रिताः ॥३५॥

ततः समन्तात् परिधिः क्रमेणायम् महार्णवः ।

मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥३६॥

समन्तान् मेरुमध्यात् तु तुल्यभागेषु तोयधेः ।

द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः ॥३७॥

भूवृत्तपादे पूर्वस्याम् यमकोटीति विश्रुता ।

भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥३८॥

याम्यायाम् भारते वर्षे लङ्का तद्वन् महापुरी ।

पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥३९॥

उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ।

तस्याम् सिद्धा महात्मानो निवसन्ति गतव्यथाः ॥४०॥

भूवृत्तपादविवरास् ताश् चान्योन्यम् प्रतिष्ठिताः ।

ताभ्यश् चोत्तरगो मेरुस् तावान् एव सुराश्रयः ॥४१॥

तासाम् उपरिगो याति विषुवस्थो दिवाकरः ।

न तासु विषुवच्छाया नाक्षस्योन्नतिर् इष्यते ॥४२॥

मेरोर् उभयतो मध्ये ध्रुवतारे नभः स्थिते ।

निरक्षदेशसम्स्थानाम् उभये क्षितिजाश्रये ॥४३॥

अतो नाक्षत्रोच्छ्रयस् तासु ध्रुवयोः क्षितिजस्थयोः ।

नवतिर् लम्बकाम्शास् तु मेरावक्षाम्शकास् तथा ॥४४॥

मेषादौ देवभागस्थे देवानाम् याति दर्शनम् ।

असुराणाम् तुलादौ तु सूर्यस् तद्भागसञ्चरः ॥४५॥

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः ।

देवभागे सुराणाम् तु हेमन्ते मन्दतान्यथा ॥४६॥

देवासुरा विषुवति क्षितिजस्थम् दिवाकरम् ।

पश्यन्त्य् अन्योन्यम् एतेषाम् वामसव्ये दिनक्षपे ॥४७॥

मेषादाव् उदितः सूर्यस् त्रीन् राशीन् उदगुत्तरम् ।

सञ्चरन् प्रागहर्मध्यम् पूरयेन् मेरुवासिनाम् ॥४८॥

कर्क्यादीन् सञ्चरम्श् तद्वद् अह्नः पश्चार्धम् एव सः ।

तुलादीम्स् त्रीन् मृगादीम्श् च तद्वद् एव सुरद्विषाम् ॥४९॥

अतो दिनक्षपे तेषाम् अन्योन्यम् हि विपर्ययात् ।

अहोरात्रप्रमाणम् च भानोर् भगणपूरणात् ॥५०॥

दिनक्षपार्धम् एतेषाम् अयनान्ते विपर्ययात् ।

उपर्यात्मानम् अन्योन्यम् कल्पयन्ति सुरासुराः ॥५१॥

अन्ये अपि समसूत्रस्था मन्यन्ते अधः परस्परम् ।

भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ॥५२॥

सर्वत्रैव महीगोले स्वस्थानम् उपरि स्थितम् ।

मन्यन्ते खे यतो गोलस् तस्य क्वोर्धवम् क्व वाधः ॥५३॥

अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम् ।

पश्यन्ति वृत्ताम् अप्य् एताम् चक्राकाराम् वसुन्धराम् ॥५४॥

सव्यम् भ्रमति देवानाम् अपसव्यम् सुरद्विषाम् ।

उपरिष्टाद् भगोलो अयम् व्यक्षे पश्चान् मुखः सदा ॥५५॥

अतस् तत्र दिनम् त्रिम्शन्नाडिकम् शर्वदी तथा ।

हानिवृद्धी सदा वामम् सुरासुरविभागयोः ॥५६॥

मेषादौ तु सदा वृद्धिर् उदगुत्तरतो अधिका ।

देवाम्शे च क्षपाहानिर् विपरीतम् तथासुरे ॥५७॥

तुलादौ द्युनिशोर् वामम् क्षयवृद्धी तयोर् उभे ।

देशक्रान्तिवशान् नित्यम् तद्विज्ञानम् पुरोदितम् ॥५८॥

भूवृत्तम् क्रान्तिभागघ्नम् भगणाम्शविभाजितम् ।

अवाप्तयोजनैर् अर्को व्यक्षाद् यात्य् उपरिस्थितः ॥५९॥

परमापक्रमाद् एवम् योजनानि विशोधयेत् ।

भूवृत्तपादाच् छेषाणि यानि स्युर् योजनानि तैः ॥६०॥

अयनान्ते विलोमेन देवासुरविभागयोः ।

नाडीषष्ट्या सकृद् अहर्निशाप्य् अस्मिन् सकृत् तथा ॥६१॥

तदन्तरे अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः ।

परतो विपरीतो अयम् भगोलः परिवर्तते ॥६२॥

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः ।

धनुर् मृगस्थः सविता देवभागे न दृश्यते ॥६३॥

तथा चासुरभागे तु मिथुने कर्कटे स्थितः ।

नष्टच्छाया महीवृत्तपादे दर्शनम् आदिशेत् ॥६४॥

एकज्यापक्रमानीतैर् योजनैः परिवर्जिते ।

भूमिकक्षाचतुर्थाम्शे व्यक्षाच् छेषैस् तु योजनैः ॥६५॥

धनुर् मृगालिकुम्भेषु सम्स्थितो अर्को न दृश्यते ।

देवभागे असुराणाम् तु वृषाद्ये भचतुष्टये ॥६६॥

मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् ।

सकृद् एवोदितम् तद्वद् असुराश् च तुलादिगम् ॥६७॥

भूमण्डलात् पञ्चदशे भागे देवे अथ वासुरे ।

उपरिष्टाद् व्रजत्य् अर्कः सौम्ययाम्यायनान्तगः ॥६८॥

तदन्तरालयोश् च्छाया याम्योदक् सम्भवत्य् अपि ।

मेरोर् अभिमुखम् याति परतः स्वविभागयोः ॥६९॥

भद्राश्वोपरिगः कुर्याद् भारते तूदयम् रविः ।

रात्र्यर्धम् केतुमाले तु कुराव् अस्तमयम् तदा ॥७०॥

भारतादिषु वर्षेषु तद्वद् एव परिभ्रमन् ।

मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम् ॥७१॥

ध्रुवोन्नतिर् भचक्रस्य नतिर् मेरुम् प्रयास्यतः ।

निरक्षाभिमुखम् यातुर् विपरीते नतोन्नते ॥७२॥

भचक्रम् ध्रुवयोर् बद्धम् आक्षिप्तम् प्रवहानिलैः ।

पर्येत्य् अजस्रम् तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥७३॥

सकृद् उद्गतम् अब्दार्धम् पश्यन्त्य् अर्कम् सुरासुराः ।

पितरः शशिगाः पक्षम् स्वदिनम् च नरा भुवि ॥७४॥

उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च ।

महत्या कक्षया भागा महान्तो अल्पास् तथाल्पया ॥७५॥

कालेनाल्पेन भगणम् भुङ्क्ते अल्पभ्रमणाश्रितः ।

ग्रहः कालेन महता मण्डले महति भ्रमन् ॥७६॥

स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः ।

महत्या कक्षया गच्छन् ततः स्वल्पम् शनैश्चरः ॥७७॥

मन्दाद् अधः क्रमेण स्युश् चतुर्था दिवसाधिपाः ।

वर्षाधिपतयस् तद्वत् तृतीयाश् च प्रकीर्तिताः ॥७८॥

ऊर्ध्वक्रमेण शशिनो मासानाम् अधिपाः स्मृताः ।

होरेशाः सूर्यतनयाद् अधोअधः क्रमशस् तथा ॥७९॥

भवेद् भकक्षा तीक्ष्णाम्शोर् भ्रमणम् षष्टिताडितम् ।

सर्वोपरिष्टाद् भ्रमति योजनैस् तैर् भमण्डलम् ॥८०॥

कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया ।

आकाशकक्षा सा ज्ञेया करव्याप्तिस् तथा रवेः ॥८१॥

सैव यत्कल्पभगणैर् भक्ता तद्भ्रमणम् भवेत् ।

कुवासरैर् विभज्याह्नः सर्वेषाम् प्राग्गतिः स्मृता ॥८२॥

भुक्तियोजनजा सङ्ख्या सेन्दोर् भ्रमणसङ्गुणा ।

स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका ॥८३॥

कक्षा भूकर्णगुणिता महीमण्डलभाजिता ।

तत्कर्णा भूमिकर्णोना ग्रहोच्च्यम् स्वम् दलीकृताः ॥८४॥

खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः ।

ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस् तथा ॥८५॥

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः ।

ततो अर्कबुधशुक्राणाम् खखार्थैकसुरार्णवाः ॥८६॥

कुजस्याप्य् अङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः ।

चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः ॥८७॥

कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः ।

स्वर्भानोर् वेदतर्काष्टद्विशैलार्थखकुञ्जराः ॥८८॥

पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस् ततः ।

भानाम् रविखशून्याङ्कवसुरन्ध्रशराश्विनः ॥८९॥

खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः ।

ब्रह्माण्डसम्पुटपरिभ्रमणम् समन्ताद् अभ्यन्तरे दिनकरस्य करप्रसारः ॥९०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-18T14:04:46.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आत्मलिंग

  • n  The लिंग of कैलास, the embodied essence of Shiva. 
RANDOM WORD

Did you know?

मृत माणसाचा पिंड भाताचा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.