वास्तुशांतिः - अध्याय २

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


तद्यथावेद्याः पश्चिमतौपविश्य । आचम्य प्राणानायम्य । अद्येत्यादिदेशकालौसंकीर्त्य । अस्यवास्तोःशुभतासिध्दये वास्तुदेवतास्थापनंपूजनंचकरिष्ये । इतिसंकल्प्य । मंडलचतुष्कोणेषु लोहशंकुचतुष्टयम ईशानादिप्रदक्षिणक्रमेणरोपयेत । तत्र मंत्रः । विशंतुभूतलेनागालोकपालाश्चसर्वतः॥ अस्मिन्गृहेऽवतिष्ठंतुह्यायुर्बलकराःसदा ॥१॥

इतिमंत्रेणप्रतिदिशंनिखनेत् ‍ । प्रतिकीलमंत्रावृत्तिः ॥ ततःशंकूनांपार्श्वे रोपणक्रमेणमाषभक्तदध्योदनेनबलिदानम् ‍ । तत्रमंत्राः । ईशान्याम् ‍ । रुद्रेभ्यश्चैवसर्पेभ्योयेचान्येतत्समाश्रिताः । बलिंतेभ्यः प्रयच्छामिगृह्नंतुसततोत्सुकाः ॥१॥

आग्नेये । अग्निभ्योऽप्यथसर्पेभ्योयेचान्येतत्समाश्रिताः । तेभ्योबलिं प्रयच्छामिपुण्यमोदनमुत्तमम ॥२॥

नौऋत्ये । नैऋत्याधिपतिश्चैवनैऋत्यांयेच राक्षसाः । बलिंतेभ्यःप्रयच्छामिसर्वेगृह्नंतुमंत्रितम ॥३॥

वायव्ये । वायव्याधिपतिश्चैव वायव्यायेचराक्षसाः । बलिंतेभ्यः प्रयच्छामिपुण्यमोदनमुत्तमम् ‍ ॥४॥

ततोवास्तुपीठोपरि कुंकुमादिना हेमरूपशलाकयावा पश्चादारंभाः प्रगताःउदक्संस्थाद्वयंगुलांतराः समाः प्रणवादिनमोंतैर्दशनामभिर्दशरेखाःकुर्यात् ‍ ॥

ॐ शांतायैनमः १ ॐ यशोवत्यैनमः २ ॐ कांतायै० ३ ॐ विशालायै० ४ ॐ प्राणवाहिन्यै० ५ ॐ सत्यै० ६ ॐ सुमनायौ० ७ ॐ नंदायै० ८ ॐ सुभद्रायै० ९ ॐ सुरथायैनमः १० इतिदशरेखाः कृत्वा। पुनः दक्षिणारंभाउदगंताः प्राक्संस्था दशरेखाः कुर्यात ॐ हिरण्यायैनमः १ ॐ सुव्रतायै० २ ॐ लक्ष्म्यै० ३ ॐ विभूत्यै० ४ ॐ विमलायै० ५ ॐ प्रियायै० ६ ॐ जनायै० ७ ॐ ज्वालायै० ८ ॐ विशोकायै० ९ ॐ विशदायैनमः १० एवम एकाशीतिपदंवास्तुमंडलंभवति ।

ततस्तारेखागंधादिभिः संपूज्य ॐ सर्वज्ञानक्रियाव्यक्तकमलासनाययोग पीठायनमः इतिपीठोपरिपुष्पाक्षतचंदनंप्रक्षिपेत ॥

ततः ईशानकोणपदादारभ्य प्रदक्षिणक्रमेणतंडुलपुंजेषुशिख्यादिपंचचत्वारिंशद्देवताः स्वस्वपदेषु प्रणवव्याहृतिभिस्तत्तन्नाम्नाआवाह्यस्थापयेत तद्यथा तत्र ईशानकोणपदे वास्तोः शिरःस्थानेरक्तवर्णं शिखिनमेकपदं० ॐ तमीशानंजगतस्तस्थुषस्पतिं धियञ्जिन्वमवसेहूमहेवयम ॥

पूषानोयथावेदसामसहॄधेरक्षितापायुरदब्धः स्वस्तये ॥ ॐ भूर्भुवःस्वःभोःशिखिन इहागच्छ इहतिष्ठ ॐ शिखिनेनमः शिखिनमावाहयामि इतिस्थापनम ॥१॥ इद्दक्षिणपदेदक्षिणनेत्रेपर्ज्जन्यंपीतवर्णं० ॥२॥

ॐ महाऽइंद्रोवज्रहस्तः षोडशीशर्म्मयच्छतु हन्तुपाप्मानंयोस्मान्द्वेष्टि। उपयामगृहीतोसिमहेंद्रायत्वैषतेयोनिर्महेंद्रात्वा । ॐ भूर्भुवःस्वः भोः पर्जन्यइहागच्छइहतिष्ठ ॐ पर्जन्यायनमः ॥२॥

तद्दक्षिणपदे तदधःपदे च दक्षिणश्रोत्रे द्विपदंपीतवर्णंजयंतं० ।

ॐ धन्वनागा धन्वनाजिंजयेमधन्वनातीव्राः समदोजयेम ॥

धनुःशत्रोरपकामं कृणोतिधन्वनासर्वाः प्रदिशोजयेम । ॐ भूर्भुवः स्वः भोः जयन्त इहागच्छ इह० ॥३॥

तद्दक्षिणपदद्वयेदक्षिणांसेपीतवर्णंकुलिशायुधम ।

ॐ महाऽइंद्रोवज्रहस्त० ॐ भूर्भुवः स्वः भोः कुलिशायुधइहागच्छइहतिष्ठ॥

ॐ कुलिशायुधायनमः ॥४॥

तद्दक्षिणपदद्वयेदक्षिणबाहौरक्तवर्णंसूर्यम ॐरश्मिर्हरिकेशः पुरस्तात सविताज्योतिरुदयाँ ॥२॥

ऽअजस्त्रम । तस्यपूषाप्रसवेयातिविद्वान सम्पश्यन विश्वाभुवानिगोपाः ॥ ॐ भूर्भुवः स्वः भोः सूर्य इहागच्छ० ॐ सूर्यायनमः ॥५॥

तद्दक्षिणपदद्वये दक्षिणप्रबाहौ शुक्लवर्णं सत्यं० ।

ॐ व्रतेनदीक्षामाप्नोति दीक्षयाप्नोतिदक्षिणाम ।

दक्षिणाश्रध्दामाप्नोतिश्रध्दयासत्यमाप्यते ।

ॐ भूर्भुवःस्वःभोसत्यैहा० ॐ सत्यायनमः ॥६॥

तद्दक्षिणपदद्वये दक्षिणकूर्परे कृष्णवर्णंभृशम० ॐ भद्रं कर्णेभिःश्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहिदेवहितंयदायुः । ॐ भूर्भुवःस्वः भो भृश इहागच्छ० ॐ भृशायनमः ॥७॥

तद्दक्षिणोपरिस्थितैकपदेक्षिणप्रबाहौ कृष्णवर्णमाकाशम० ॐ वयंसोमव्रतेतवमनस्तनूषुबिभ्रतः ।

प्रजा वन्तःसचेमहि ।

ॐ भूर्भुवःस्वः भोआकाशइहागच्छ० ॐ आकाशायनमः ॥८॥

दक्षिणाग्नेयकोणपदे दक्षिणप्रबाहौ धूम्रवर्णंवायुं० ।

आवायो भूषशुचिपाऽउपनःसहस्त्रं ते नियुतोविश्ववार ।

उहोतेअन्धो मद्यमयामि यस्यदेवदधिषेपूर्वपेयम वायवेत्वा ।

ॐ भूर्भुवःस्वःभोवायो इहागच्छइहतिष्ठ ।

ॐ वायवे नमः ॥९॥

तत्पश्चिमैकपदेदक्षिणमणिबंधेरक्तवर्णंपूषाणं० ।

ॐ पूषन्तवव्रतेवयं नरिष्येमकदाचन ।

स्तोतारस्तऽइहस्मसि ।

ॐ भूर्भुवःस्वः भो पूषन्निहागच्छइहतिष्ठ ।

ॐ पूष्णेनमः ॥१०॥

तदधः द्विपदेदक्षिणपार्श्वे शुक्लवर्णंवितथम ।

ॐ सविताप्रथमेऽहन्नग्निर्द्दितीयेवायुस्तृतीयऽआदित्यश्चतुर्थे चन्द्रमाः पश्चम ऋतुः षष्ठेमरुतः सप्तमेबृहस्पतिरष्टमे ।

मित्रोनवमेवरुणोदशम इन्द्रएकादशे विश्वेदेवाद्वादशे ॐ भूर्भुवःस्वः भो वितथइहा० ।

ॐ वितथायनमः ॥११॥ तत्पश्चिमपदद्वये दक्षिणपार्श्वे पीतवर्णंगृहक्षतम० । सवितात्वासना सुवतामग्निर्गृहपतीना सोमोवनस्पतीनाम । बृहस्पतिर्वाचऽइन्द्रोज्यैष्ठयायरुद्रः पशुभ्यो मित्रःसत्योवरुणोधर्मपतीनाम । ॐ भूर्भुवःस्वः भोगृहक्षतइहा० ॥

ॐ गृहक्षतायनमः ॥१२॥

तत्पश्चिमपदद्वयेदक्षिणोरौ कृष्णवर्णंयमम० ।

ॐ यमायत्वामखा यत्वासूर्यस्यत्वातपसेदेवस्त्वासवितामघ्वानक्तुपृथिव्याः संस्पृशस्पाहि ।

अर्चिरसिशोचिरसितपोसि ।

ॐ भूर्भुवःस्वः भोयमइहा० ॐ यमायनमः ॥१३॥

तत्पश्चिमपदद्वये दक्षिणजानुप्रदेशेरक्तवर्णंगंधर्वम० ।

ॐ प्रतद्वोचेदमृतंनुविद्वान्गन्धर्वो धामबिभृतंगुहासत । त्रीणिपदानिनिहितागुहास्य यस्तानिवेदसपितुः पितासत।

ॐ भूर्भुवःस्वः भोगंधर्वइहा० ॐ गंधर्वायनमः ॥१४॥

तत्पश्चिमपदद्वयेदक्षिणजंघायां कृष्णवर्णंभृंगराजं० ।

ॐ सुपर्णःपार्जन्य आर्तिर्वाहसोदर्विदाते वायवेबृहस्पतये वाचस्पतये पैङ्गराजोऽलजः आन्तरिक्षप्लवोमद्गर्मत्स्यस्ते नदीपतयेद्यावापृथिवीयःकूर्मः ।

ॐ भुर्भूवःस्वः भोः भृंगराजइहा० ॐ भृंगराजायनमः ॥१५॥

तत्पश्चिमोपरिस्थैकपदे दक्षिणस्फिचि पीतवर्णंमृगं० ।

ॐ तद्विष्णोः परमंपदर्ठसदापश्यन्ति सूरयः ॥

दिवीवचक्षुराततम।

ॐ भूर्भुवःस्वर्भोमृगइहा० ॐ मृगायनमः ॥१६॥

तत्पश्चिमेनैऋत्यकोणपदेपाददयोः रक्तवर्णान्पितृन ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः ॥

अक्षन्पितरोमीमदन्तपितरोतीतृपन्तपितरः पितरः शुन्धध्वम ।

ॐ भूर्भुवः स्वर्भोः पितरइहागच्छतइहतिष्ठत ॐ पितृभ्योनमः ॥१७॥

तदुत्तरैकपदेवामस्फिचिरक्तवर्णं दौवारिकं० ॐ द्रविणोदाः पिपीषतिजुहोत प्रचतिष्ठत। नेष्ट्रादृतुभिरिष्यतः ॥

ॐ भू० दौवारिकइहा० ॐ दौवारिकायनमः ॥१८॥

तदुत्तरपदेतत्प्राक्पदेचवामजंघायां शुक्लवर्णंसुग्रीवम।

ॐसुषुम्णाः सूर्य्यरश्मिश्चन्द्रमागंधर्वस्तस्यनक्षत्राण्यप्सरसोभेकुरयो नाम । सनऽइदंब्रह्मक्षत्रंपातु तस्मैस्वाहावाटताभ्यः स्वाहा ।

ॐ भूर्भुवः स्वर्भो सुग्रीव इ० ॐ सुग्रीवावायनमः ॥१९॥

तदुत्तरपदद्वये वामजानौ रक्तवर्णंपुष्पदंतं० ।

ॐ नक्षत्रेभ्यःस्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहामासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सरायस्वाहा द्यावापृथिवीभ्या स्वाहा चंद्रायस्वाहा सूर्यायस्वाहा रश्मिभ्यः स्वाहा वसुभ्यःस्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुभ्दयः स्वाहा विश्वेभ्योदेवेभ्यः स्वाहामूलेभ्यः स्वाहा शाखाभ्यःस्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॐ भू० पुष्पदंतइहा० ॐ पुष्पदंतायनमः ॥२०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP