वास्तुशांतिः - अध्याय ९

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ॐ अग्निमिन्द्रंबृहस्पतिं विश्वान्देवानुपह्वये सरस्वतींवाजिनंचवास्तुमेदत्तवाजिनः स्वाहाइदमग्नयेइन्द्रायबृहस्पतये विश्वेभ्यो देवेभ्यः सरस्वत्यै वाजिनेचनमम १ ॐ सर्प्पदेवजनान्त्सर्वान हिमवंतर्ठ सुदर्शनम ॥

वसूंश्चरुद्रानादित्यानीशानंजगदैः सह ॥

एतानसर्वान्प्रपद्येऽहं वास्तु मेदत्तवजिनः स्वाहा ॥

इदं सर्प्पदेवजनेभ्योहिमवतेसुदर्शनायवसुभ्यो रुद्रेभ्य आदित्येभ्यः ईशानायजगदेभ्यश्चनमम ॥२॥

ॐ पूर्वाह्नमपराह्नञ्चोभौमध्यंदिना सह॥ प्रदोषमर्ध्दरात्रञ्चव्युष्टांदेवीं महापथाम ।

एतान्सर्वान्प्रपद्येऽहं वास्तुमेदत्तवाजिनः स्वाहा । इदं पूर्वाह्नायापराह्नायप्रदोषायार्धरात्रायव्युष्टा यैदेव्यैमहापथायैच नमम३ॐ कर्त्तारञ्चविकर्त्तारंविश्वकर्माणमोषधीश्चवनस्पतीन ॥

एतान्सर्वान्प्रपद्येऽहंवास्तुमेदत्तवाजिनः स्वाहा ।

इदंकर्त्रे विकर्त्रे विश्वकर्मणेओषधीभ्योबनस्पतिभ्योनमम ४ ॐ धातारंचविधातारं निधीनांचपतिर्ठसह ॥

एतान्सर्वान्प्रपद्येऽहं वास्तुमेदत्तवाजिनः स्वाहा ॥

इदं धात्रेविधात्रेनिधीनांपतयेचनमम ५ ॐ स्योनर्ठशिवमिदं वास्तुदत्तं ब्रह्मप्रजातीसर्वाश्चदेवताः स्वाहा ॥

इदंब्रह्मणेप्रजापतये सर्वाभ्यो देवताभ्यश्चनमम६ ततोवास्तोष्पतेइत्युक्तैश्चतुर्भि र्मंत्रैरेकेनवक्ष्यमाणेन च प्रतिमंत्रमेकैकंबिल्वंतद्वीजंवाजुहुयात ॥

अथपंचमंघृताक्तंबिल्वंगृहीत्वा ।

वास्तोष्पतेध्रुवास्थूणामितिमंत्रस्यवसिष्ठऋषिर्वास्तोष्पतिदें वताबृहतीछंदोहोमेविनियोगः ।

ॐ वास्तोष्पतेध्रुवास्थूणार्ठसत्रर्ठ सोम्यानाम ।

द्रप्सोभेत्तापुरांशश्वतीनामिंद्रोमुनीनांसखाशन्नोभवद्विपदेशंचतुष्पदेस्वाहा ॥

इदंवास्तोष्पतये ५ इतिहस्तेनजुहुयात। ततः पुनः शिख्यादिभ्योयथाशक्तंयाज्याहुतीर्जुहुयात ।

अनेनहोमेनवास्तुदेवताः प्रीयंतामितिजलमुत्सृजेत ।

इतिवास्तुदेवानांहोमः ।

अथअघोरमंत्रेणवास्तुमर्मसंधानाय तिलयवैर्मधुघृताक्ताभि रष्टोत्तरशतमष्टाविंशतिंवाजुहुयात ।

ॐ अघोरेभ्योऽथघोरेभ्योघोरघोरतरेभ्यः ॥

सर्वोभ्यः सर्वशर्वेभ्योनमस्तेअस्तुरुद्ररूपेभ्यः स्वाहा १०८ पश्चात श्रीसूक्तेनफलहोमः गुग्गुलुहोमः ।

एवंहोमंसमाप्याग्नेः स्थापितदेवतानांचोत्तरपूजनंकार्यम ॥

ततः स्थालीपाकेनस्विष्टकृध्दोमंकृत्वा ततोमहाव्याहृत्यादिप्रा जापत्यांतानवाज्याहुतीर्हुत्वावास्तुमंडलाग्रेवक्ष्यमाणवलीनदद्यात ।

तद्यथा पायसादिद्रव्यंगृहीत्वा ।

ॐ शिखिनेएपायसबलिर्नमम १ पर्ज्जन्यायएषपायसबलिर्नमम २ ॐ जयंतायएषपायसबलिर्नमम ३ ॐ कुलिशायुधायएषपायसबलिर्नमम ४ ॐ सूर्य्यायएषपायसबलिर्नमम ५ इत्येवंप्रयोगेणशिख्या दिमंडलस्थापितदेवताभ्योबलीनदत्त्वा ।

अग्न्ययनस्यसमंताद्दिक्षुविदिक्षुच दशदिक्पालानांदधिमाषक्तबलयोदेयाः। ततोग्रहवेदिसमीपे ग्रहाणां बलीनदत्त्वा पश्चादेकस्मिन्पात्रेदध्योदनदीपरक्तचंदनरक्तपुष्पाक्षताज्यगुडकुल्मा षयावकापूपबालक्रीडनकदाडिमफलरूप्यसुवर्णानि कृत्वा ।

स्वर्गपातालमर्त्येषुयेदेवावास्तुसंभवाः ॥

गृह्नंत्विमंबलिंह्रुद्यंतुष्टायांतुस्वमंदिरम १ मातरोभूतवेताला येचान्येबलिकांक्षिणः ।

बिष्णोः पारिषदायेचतेपिगृह्नंत्विमंबलिम २ पितृभ्यः क्षेत्रपालेभ्योयेचान्येभैरवादयः ।

तेसर्वेतृप्तिमायांतुवास्तुदोषः प्रणश्यतु ३ इतिपठित्वावास्तुवेदिसमीपेबलिंदद्यात ।

ततः पूर्ववत क्षेत्रपालायचतुष्पथेचबलिदानंकृत्वा हस्तौपादौप्रक्षाल्याचामेत ।

ततः पूर्णाहुतिहोमः त्र्यायुषकरणम ।

संस्त्रवप्राशनम ।

पवित्राभ्यांमार्जनम ।

अग्नौपवित्रप्रतिपत्तिः ।

ब्रह्मणेपूर्णपात्रदानम ।

प्रणीताविमोकंचपूर्ववत्कृत्वाहोमंसमापयेत ।

ततः कांस्यपात्रे अनुपहते उदुंबरपत्राणिसक्षीराणि शाङ्लंदूर्वांगोमयंदधिमधुघृतकुशयवांश्चसमभागानकृत्वा आसनोपरिस्थानेपुप्रोक्षणंकुर्यात ।

ततः पूर्वेसंधौ ॐ श्रीश्चत्वायश्चपूर्वे संधौगोपायेतां इतिमंत्रेणाभिमर्शनंकरोति ।

ततोदक्षिणेसंधौ ॐ यज्ञश्चत्वादक्षिणाचदक्षिणेसंधौ गोपायेताम इति अनंतरं पश्चिमेसंधौ अन्नंचत्वा ब्राह्मणश्चपाश्चिमेसंधौगोपायेताम ।

अथोत्तरेसंधावभिमृशति ।

ॐ उर्कचत्वासूनृताचोत्तरेसंधौगोपायेताम ४ इतिचतुर्दिक्षुप्रोक्षयेत ।

अथगृहान्निष्क्रम्यपूर्वदिशिउपतिष्ठते तत्रमंत्रः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP