वास्तुशांतिः - वास्तुशांतियागोपकरणानि

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


कुंकुमकेशरचंदनानि ।

पुष्पाणिविचित्राणि ।

पुष्पमालाः ।

वस्त्राणि नानाप्रकाराणि ।

पीतकौशेयवस्त्रम ।

पंचरजांसि ।

तंडुलाः ।

धूपदीपाः ।

नैवेद्यम ।

पूगीफलानि ।

यज्ञोपवीतानि ।

आचार्यादिवरणोपकरणानि स्वर्णमुद्रिकासनकमंडलुप्रभृतीनि ।

ग्रहहोमार्थम अर्कसमिधः ८ पलाशसमिधः ८ खादर्यःस० ८ अपामार्गस० ८ पिप्पलमय्यः० ८ उदुंबरस० ८ शमीसमिधः ८ दूर्वाः ८ कुशाः ८ एताः सर्वा प्रादेशमात्राः वास्तुहोमार्थप्रादेशमात्रा अष्टोत्तरशतसंख्या औदुंबर्यः समिधः ।

अधिदेवप्रत्यधिदेवलोकपालदिक्पालहोमार्थंप्रत्येकमष्टौसंख्यकाः पालाश्यः समिधः प्रादेशमात्राः ।

सर्वहोमार्थं तिलाःयवाःतंडुलाः घृतंगव्यम ।

शर्करागुग्गुल्वादिस्त्रुक्स्त्रुवादीनि यागोपकरणानि ।

पूर्णपात्रम ।

ग्रहबल्यर्थंगुडौदनादि ।

वास्तुदेवताबल्यर्थंपायसादि ।

अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधसंभवाः पंचपल्लवाः ।

मुरामांसीवचाकुष्ठशैलेयरजनीद्वयम ।

शुंठीचंपकमुस्तेतिसर्वौषधिगणःस्मृतः ।

अश्वस्थानात गजस्थानातवल्मीकात नदीसागरसंगमात शुष्कह्नदात राजद्वारात गोकुलाच्च सप्तमृदः ।

यवगोधूमतंडुलतिलकंगुश्यामाकचणकेति सप्तधान्यानि ।

दुग्धं , दधि , मधु , पंचामृतं , पंचगव्यम , श्वेतसर्षपाःलाजाः ।

ताम्रकलशः १ मृन्मयकलशाः वास्तुप्रतिमा सुवर्णमयी १ स्वर्णशलाका , स्वर्णशकलानि ५ त्रिगुणितरक्तसूत्रं कर्पूरं सिंदूरं गुडं गंगोदकं गोरोचनं कस्तूरिका हरिद्रा तैलं आम्रपल्लवाःमाला विल्वफलानि५तद्बीजानि वा विल्वपत्राणि मुद्गाः माषाः कार्पासवर्तिकाः५० श्वेतरक्तवस्त्रम अगरु एला ( इलायची ) शैवालं कदलीस्तंभाः चत्वारो लोहकीलाः ४ छायापात्रं श्वेतरक्त्पुष्पाणि रक्तचंदनं अपक्वमृन्मयकुंभः १ काष्ठपेटिका १ पत्रावली कार्पासः आसनानिगुलालं अभ्रकं प्रणीता प्रोक्षणी आज्यस्थाली चरुस्थाली कांस्यकटोरिका पंचरत्नानि।

द्राक्षा आमलकानि आचार्यादिदक्षिणा ।

ब्राह्मणभोजनं भूयसी दक्षिणा ।

इति ॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP