श्रीराधा सप्तशती अध्याय-७-२

श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे.


रोषं करोषि हृदये यदि कौतिकन्ये धन्योऽस्तु सोऽपि मम नात्र विचारणान्या ।
संश्लेषमर्पय मयापितमेव पूर्व मह्यं समर्पय मर्पितचुम्बनं च ॥६१॥
स्नेहमाधुर्यसारेण राधे त्वं रचिता यतः तवाश्लेबेऽपि कामाग्निरेभ्योऽभिवर्धते ॥ ६२ ॥
अनङ्गसंजीवनमङ्गसङ्ग पुनः पुनर्वाञ्छति ते प्रियोऽयम् ।
प्रिये न तृप्यत्यधरामृतेन प्रशामय व्याधिमनन्यसाध्यम् ॥ ६३॥
माधुर्य लावण्यत्रपूरितानि सौन्दर्यसाराणि मनोहराणि ।
अन्योन्यमङ्गानि सर्मापतानि श्रीश्यामयोः सन्तु रसप्रदानि ॥ ६४ ॥
यस्याःपदाब्जमकरन्दरसानुभूतेःसभवं किमपि घोषवधूषु दृष्टम् ।
तस्या अपार करुणाजलधेः सदैवदासीगणेऽस्तु गणना मम राधिकायाः ॥ ६५ ॥
जिनके श्रीचरणारविन्दोके मकरन्दके रसका आस्वादन करनेसे व्रजवघुत्रोंको
मनसि वचसि नित्यं यस्य कारुण्यरूपा अहह वसति राधा बाधिताशेषबाधा ।
यजनभजन विद्यायोगतीर्थव्रतानिचरणरजति तस्य द्वारदेशे लुठन्ति ॥६६॥
रे चित्त चिन्तय चिरं वृषभानुपुत्रीं नो विस्मर क्षणमपीति ममाभिलाषः ।
राधेति नाम जप भो रसने ममाङ्ग राधावने वस तदप्रिरजोऽभिलिप्तम् ॥६७॥
अहो भाग्यं श्या शरणमपयातोऽस्मि भवर्ती भ्रमन् संसारेऽस्मिन्नशरणशरण्ये||
अहो वाञ्छत्यस्याश्चरणरसपीयूषमनिशं स्वयं श्रीगोविन्दो विधिहरसुरेशंरसुगमः ॥ ६८ ॥
राधे ते चरणौ विहाय शरणं नाहं लभे कुत्रचिद् विश्वासः सुदृढो ममास्ति भवती सेवकयोग्या भुवि ।
अक्रूरं प्रियसङ्गसंविघटकं नादूषयज्जातुचित् दृष्टा देवि दया तवैव विमला दोषा न ते दृक्पथे ॥ ६६ ॥
राधे निरङकुशमतिः कुटिलस्त्वदीयःकृष्णो जनेषु गुणदोषदृशिः सदेव ।
त्वां प्रार्थये स्वशरणागतजीवजातंश्यामे दुगकुशवशो तब नैव जह्यात् ॥७०॥
मार्गे व्रजन् व्रजपुरे सखिभिः प्रदोषेनित्यं विवृक्षितमना व्रजमोहनोऽपि ।
यस्यादृगञ्चलचमत्कृतिमोहितोऽभूत् तां राधिकां स्मर मनो मम हम्यसंस्थाम् ॥७१॥
जिनके मनमें श्रीराधाके दर्शनकी अभिलाषा नित्य बनी रहती है, वे व्रजमोहन
धर्मार्थकाममोक्षेषु हरिभक्तौ च मे मनः ।
नैव तुष्यति सत्यं श्रीराधे दास्यमृते तव ॥ ७२ ॥
सम्भारैरभिसारकर्मविहितैर्दास्या मयालंकृता जित्वा सौरतसंगरे मधुपत संकेतरङ्गस्थले ।
राधे कुङ्कुमरञ्जितां परिमलप्रस्वेदयुक्तां त्रजंदत्तां ते करतो निधाय हृदये धन्या कदा स्यामहम् ॥७३॥
ललितवदनकंजे कुचयुगल कोकेकेलिकल्लोलपुजे रम्यलोलाक्षिमीने
व्रजयुवतिनदीभिः संयुते दिव्यगङ्गप्रविश सह मया त्वं राधिके श्यामसिन्धौ ॥७४॥
॥७४॥
अङ्काङ्गितशालिनि प्रियतमे हा प्रेष्ठ हा मोहनेत्याक्रोशन्त्यतिकातरा तिमधुरं श्यामातुरगोत्मदव्यामोहादतिविह्वलं निजजनं कुर्वन्त्यकस्मादहो काचित्कुञ्जविहारिणी विजयते श्यामामणिर्मोहिनी ॥७५॥
नरकादपि बीभत्सं नित्यं विषयचिन्तनम् ।
वृथा वेदकथा राधे तव दास्यरतात्मनाम् ॥७६॥
राधाया अधरामृतेन सरसं तद्भुक्तमुक्तं सदाभोज्यं मेऽस्तु परप्रमोदजनकं तत्पीतशेषं पयः ।
पेयं स्याद्वसनं तदङ्गसुरभिप्रस्वेदसंवासितंभोज्यं मंऽस्तु परप्रमदिजनक तत्प तिशेष पयः ।
पेयं स्याद्वसनं तदङ्गसुरभिप्रस्वेदसंवासितंध्याने मे परिधेयमस्तु कृपया दत्तं स्वयं राधया ॥७७॥
धृत्वा शाटीमथ कुचतटे कञ्चुकीं चारुमालां श्रीस्वामिन्यास्तव निजकरादेव लब्धं प्रसादम् ।
पार्श्वस्यां ते सततमुचिताशेषसेवैकदक्षां स्वात्मानं किं प्रणयिनि कदा भावयेऽहं किशोरीम् ॥७६॥
जपन्ती तव नामानि भ्रमन्ती श्रीवने तव ।
स्मरन्ती राधिके लीलां कालं नेष्ये कदा मुदा ॥८०॥
ज्ञात्वा प्रियाया यदि प्रीतिभाजनंमां चुम्बनालिङ्गनसौरतैः प्रियः ।
स्नेहद्धिमाष्योन्मदयेत्तथापि मेराधे, ननस्तेऽस्ति रसे पदाब्जयोः ॥८१॥
गुरवः सुहृदो दासादूरे तिष्ठन्तु प्रेयसः ।
रत्युन्मदायास्ते दासी श्रोष्येऽहं मेखलाध्वनिम् ॥ ८२ ॥
त्वत्पादाङ्कितवक्षसं हरिमहो निश्चित्य तत्वं परं राधे तत्वविचारकष्टरहितास्तिष्ठन्ति वेदान्तिनः ।
किमिति नो जल्पन्ति मोहागिरं लब्ध्वा दास्यरसोत्सवं रसनिधेः सेवैकनिष्ठास्तव ॥८३॥
देंगी कि 'हे धूर्तराज ! तेरे डरसे वह आज रातमें अकेली कदम्बवनमें नहीं जायगी' 115811
यस्या ब्रह्मशिवादयोऽपि शिरसा स्प्रष्टुं न चैकं कणं रेणोः श्रीपदकंजयोरधिकृति नापू रसाम्भोनिधेः ।
सा प्रेमामृतमू तिरद्भुततमा गोप्येकभावाश्रया दास्यति में कदा नु कृपया राधा निकुञ्जेश्वरी ॥ ६५ ॥
शृङ्गारलोलावे चित्रीपरमावधिरीशता ।
ईश्वरस्य परा शक्ति: राधा सेव्यास्तु सैव मे ॥ ८६॥
कालिन्दीकूलकल्पद्रुमतलनिलये यत्पदाम्भोजभर्गो ध्यायप्रेमाश्रुपूर्णो जपति हरिरहो यां सदा भावमग्नः । स्वान्तःस्थप्रौढप्रेमाद्भुतरसरतिजानन्दसम्मोहिता यासा राधा कहिचिन्मे स्फुरतु हृदि परा द्वचक्षरा कापि विद्या ॥ ८७ ॥
नागो न सम्भ्रमो यत्र न तुतिविरतिर्न वा ।
राधामाधवयोः पातु कोऽपि प्रेमरसोत्सवः ॥ ८॥
यस्याःस्फुरत्पदनखेन्दुततिच्छाया माधुर्यसाररसकोटिमहाब्धिसृष्टिः ।
सा चेत् कदापि कमपि स्वदृशापि पश्येत् धन्यः स तस्य विरसे खलु भुक्तिमुक्ती ॥१०॥
राधानामास्ति जिह्वाग्रे किं सुसाधनकोटिभिः ।
राधारससुधारवादो यदि किं साध्यकोटिभिः ॥ ६१ ॥
कल्पद्रुमकामधेनुनिकरं श्चिन्तामणीनांगणैःकिं वा ब्रह्मशिवादिभिः किमु हरेः प्राप्तिप्रयत्नेन च ।
किं लोकागमवंशसाधुचरितैः राधारसोन्मादिनांतत्कर्य रतात्मनां गतवतामाश्चर्य रूपांगतिम् ॥६२॥
विस्मृत्या खिलपापराशिमपि ते राधेऽनुरागी हरिः fक देयं गुणतो महाभृतरसं राधेति नामाक्षरम् ।
मुह्यत्येव न चोपलभ्य विमृशंस्तत्तादृशं स्वात्मनि त्वद्दास्यापितचेतसां स्पृशति कः सीमां महिम्नः सताम् ॥६३॥
रासस्थलों गिरिद्रोणीं कुञ्जान् वीक्षे त्वया विना ।
तदा राधे हृदयं शतधा मम ॥ ६४ ॥
माधुर्य नास्ति वैकुण्ठधानि तच्चान्यत्र स्यात्कथं तस्य धाराः ।
कृष्णत्यः समन्तान्नित्यं वृन्दारण्यमेवाश्रयन्ति ॥ ६५ ॥
कि धूर्त यासि निकटं मम प्राणसख्याः स्पर्शाय तत्कुचयुगस्य सुकोमलेयम् ।
स्पृष्ठेक्षुयष्टिरिव ते करिणः करेण स्यान्नीरसेत्युपहसामि युवां किमित्थम् ॥१६॥
यस्यां नामसहस्रमुल्लिखति सल्लाक्षाङ्कनव्याजतः कृष्णो यां कुसुमं समर्प्य रमणीवृन्दाग्रतो वन्दते ।
या गुप्ता श्रुतिमानसेऽपि नितरां लास्येकलीलामयीसा राधाचरणद्वयी मम गतिर्वृन्दाबनोज्जीदिनी १७॥
गोवर्धनाद्रिमधिरुह्य कटाक्षवाणान् कर्णोल्लसन्मणिशिलोपरि तेजयन्ती ।
भ्रूचापकम्पनसुसूचितलुञ्चना त्वंव्यग्रीकरिष्यसि कदा व्रजराजसूनुम् ॥६८॥
त्वद्विम्बाधरमेव कुञ्चितदृशा दूरात् स्पृशन्तं प्रियं वल्ल्या : कोमलपल्लवं रविसुतारण्ये द शन्तं हरिम् ।
दृष्ट्वे स्फुटदन्तरां नववधूं व्यामोहितां त्वां प्रिये प्रेमोल्लासभरेण तेन दयितेनायोजयिष्ये कदा ॥ ६६ ॥
चित्रं मुरादिश शान्तिदं करे त्वं गर्ववत्या मम मानशिक्षिके ।
इत्याकुलां त्वां दयितेन राधिके संयोज्य लप्स्ये मुदमुत्तमां कदा ॥१००॥
साप्रवाहे न लोचने ते गोपाल गोधूलिभिरेव जाते ।
सम्प्रत्यलं स्मेरमुखानित्वामुक्त्वेति तिर्यग्भ्रुकुट किमि ॥१०१
तीव्रार्कसंतप्तकरालकोणभास्वन्मणीनामुपरि स्थितापि प्रमोदमाना प्रियमेक्ष्य राधा स्यादक्षिलक्ष्याद्रतटे कदापि ॥ १०२ ॥
१०२ ॥
शुभे सेवाकुजे कुसुमशरसेवा समुचित रजन्यां रासान्ते खगमृगसमाजे गतखे ।
पयः फेनाभे त्वां सरसशयने श्रान्तचरणांसदा मां याचित्वा परिचरतु राधे मधुपतिः ॥ १०३॥
न यत्र विमला, कि तैः सुशास्त्रैरपि किं वा तत्प्रतिपादितः शुभपर्थः सद्भिर्गृहीतंरपि ।
कि वैकुण्ठविभूतिभूरिनिवहैः राधागृहीतात्मनां सर्वस्वात्मनिवेदनां गतवतामाश्चर्यरूपां गतिम् ॥ १०४ ॥
शस्त्रवद्घातकं शास्त्र -- कीनाशमिव मानुषम् ।
गुणाढयमपि जानीहि येन राधा न कीर्तिता ॥ १०५॥
रसाब्धिरूपा श्रीराधा नाभिरावर्तरूपिणी ।
मोहनस्य मनोमोनो यत्रोन्मज्जति मज्जति ॥ १०६॥
धन्यासि धन्यासि किशोरी राधे त्वं त्वक्षिसंचालनवश्यप्रेष्ठा ।
पृष्ठे तवैवाधरपानकामी चमत्यसौवक्ति प्रिये प्रिये त्वाम् ॥१०७॥
यो ब्रह्मरुद्राद्यनुगीतकोतिः कीतिं मुदा गायति ते मुरल्याम् ।
राधे श्रियासेव्यपदारविन्दः पादारविन्दं तव सेक्तेऽसौ ॥१०॥
माला बालागलस्थां स्पृशति गणयितुं तत्र भुक्ताफलानि नव्यं भव्यं तवेदं वसनमुपहृतं केन ते कंजनेत्रे ।
घ्रात्वा कर्णस्थपुष्पं सखि परिचिनुयामित्थमेवातिशाठ्यं कुर्वन् राधे परं ते लुठति चरणयोः कुञ्जवीभ्यां मुरारिः॥१०॥
कस्याश्चिन्मणिकञ्चुकीं मधुपतिर्धम्मिल्लमल्लीस्रजं स्पृष्ट्वा कर्षति वेणुनान्यरमणीकण्ठे कर न्यस्य वै।
धृत्वा तच्चिबुकं ब्रवीति मधुरं हे सुन्दरीत्यादिकं राधे दण्डय प्रोद्धतं कुचयुगाघातैग हीत्वा भुजैः ॥११०॥
त्यक्ता सर्गादि वार्ता स्मरति न च गुरूनापि भृत्यादिवर्गान् राधामकामनन्यो मधुररससुधासारसर्वस्वसीमाम् । आराध्यां प्राणकोट्या स्मितसरसमुखी चारकंजायताक्षी , द्रष्टुं कुञ्जप्रतोल्यां भ्रमति हरिरहो राधिकाभावमग्नः ॥१११॥
तयश्चरन्त्या अपि बिल्वकानने श्रियोऽपि नाद्यावधि योऽक्षिगोचरः।
स राधिकामाधवयो रसोत्सवोममास्तु तद्दास्यरतानुगायाः ॥११२॥
वैमुख्य मानवत्याः प्रियतमशयने चुम्बनाश्लेषहेतोः पृष्ठं श्रीराधिकाया मृदुलकरतलेनामृशन्तं मुकुन्दम् ।
ऊचे पृष्ठं न मे त्वं स्पृश कितव करात्सेव्यते देविनोचेद् दत्तं मे पृष्ठभागं त्वमपनय वचो हासयत्पातु राधाम् ॥११३॥
श्रुतिभिम ग्यमेवेदं राधालीलारसामतम।
धन्यास्ता शबराङ्गना मधुपतेः पादाब्जरागश्रिया लिप्त्वा कुङकुमकर्दमेन हृदयं कान्तास्तनपशिना ।
तेनाहो तुणरूषितेन विजहुस्तापं शरण्ये क्वचिद् राधे मादनभावरूपिणि कदा श्रोष्ये तवेत्थं वचः॥११५॥
कृष्णोपमतमालाडू स्वाश्लिष्टां वीक्ष्य मालतीम्।
श्लाघमानाक्षिलक्ष्या में किं स्याद्राधाधुलोचना ॥११६॥
प्रेमोल्लासमदोच्छलद्रसभरे रासे । सखीमण्डले नृत्यन्ती नवनृत्यचित्रकलया कान्तेन प्रोल्लासतः। काञ्चीनपुरकिङ्किणीकलरवां भाजत्कटाक्षच्छवि ताम्बूलव्यजनादिभिः परिचरामि त्वां कदा राधिके ॥११७॥
मधुकण्ठ उवाच एवं बहुविधानान्तलीलामतरसं पिबन । सिद्धार्थो विप्रो
श्रीमद्वन्दावने नित्यं भावनावेशतो निजम् ।
निकुकिंकरीरूपं भावयन्प्रकृतेः परम् ॥११॥
श्रीप्रियाप्रेयसोः स्वात्मप्राणकोट्यधिप्रेष्ठयोः ।
साक्षाल्लीलानिकुञ्ज तद् वृन्दावनमवाप ह ॥१२०॥
स्वानुभूमिदं सर्व पूर्वाचार्यसुसम्मतम् ।
सोपपत्तिकमत्रोक्तं सुकण्ठ तव प्रीतये ॥१२॥
इयं वृन्दावनेश्वर्याः करुणापाङ्गपंक्तिभिः।
वागीशाचार्यहृदये बृहत्सानौ प्रकाशिता ॥१२२॥
राधासप्तशती. वृन्दावनवासफलप्रदा।
भवत्या स्वाराधिता भूयाद्रसिकानन्दवर्धनी ॥१२३॥
इति श्रीवागीशाचार्यविरचितायां श्रीराधासप्तशत्यां श्रोनिकुञ्जनाम
इति: श्रीराधा सप्तशती सम्पूर्णः॥
इस प्रकार श्रीवागीश शास्त्रीजी द्वारा रचित श्रीराधा सप्तशती समाप्त हुआ ॥
जय जय श्रीराधे ॥

N/A

References : N/A
Last Updated : July 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP