श्रीराधा सप्तशती अध्याय-५
श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे.
श्रीमधुकण्ठ उवाच
अथ वृन्दावनं गत्वा वृन्दावनकलानि ।
प्रणिपत्य पठन्नित्थं श्रीमद्भागवतं ॥१॥
कालं तं गमयामास भावप्राप्तिप्रर्त ।
सप्
अहो वृन्दाटबीवासकल्पना कृपणस्य मे ।
वृथैव कथमुत्पन्ना ह्यसाध्या कल्पकोटिभिः॥३॥
यदनन्तापराधस्य दुर्भगैकशिरोमणेः ।
नारकैरपि हेयस्य श्रीवृन्दावनकामना ॥४॥
वृन्दाटवी महापुण्या कुञ्जकेलिरसस्थली ।
ब्रह्मेन्द्रादिभिरप्राप्या तदर्थ लालसा मम ॥५॥
इति जातसुनिर्वेदोऽप्ययं वृन्दाटवीकृते ।
परिभ्रमन्निकुञ्जेषु याचमानो ह्यमाथवत् ॥६॥
भवतांस्तत्र कृतावासान् तृणगुल्मलतादिकान् ।
कृच्छ्रेण महता कालं यापयन् विलपन् द्विजः ॥७॥
दुरन्त शोकसंतप्तो म्रियमाण इवाभवत् ॥८॥
अपश्यद् विषवत् सर्वं जगदेतच्चराचरम् ।
विक्षिप्त इव बभ्रमाशनपानविवर्जितः ॥९॥
वृन्दाटवीनिकुञ्जेषु हतोऽस्मीति संलपन् ।
न लेभे भ्रमशं च्चित्तो नष्टवित्त इवातुरः ॥१०॥
नानुज्ञातो हि वासो मे वृन्दाटव्यां तदीश्वरैः।
इति खिप्नोऽतिदीनात्मा मुहुर्मुहुरचिन्तयत् ॥११॥
नैराश्यमेव परमं सुखमेतद्विजानतः ।
वृन्दाटव्यां तथाप्याशा अहो मेऽतिदुरत्यया ॥१२॥
श्रीप्रियाप्रेयसोरेषा राजधान्यतिवल्लभा ।
कुञ्जकेलिसुधापूर्णा विस्मर्तु नैव शक्यते ॥१३॥
वादयन्मधुरं वेणुं सरामो बालकैर्वृतः।
व्रजेन्द्रनन्दनो यत्र सदा क्रीडति गोगणे ॥१४॥
श्रीनिकेस्तत्पदकरैङ्कितातीवपावनी ।
सैषा वृन्दाटवी धन्या ब्रह्मेन्द्राद्यभिवन्दिता ॥१५॥
रत्नधातुमयः श्रीमान् यत्र गोवर्धनो गिरिः ।
रत्नबद्धोभयतटा कालिन्दी सरितां वरा ॥१६॥
चिन्तामणिमयी भूमिः पादपाः कल्पपादपाः ।
बल्ल्योऽत्र कल्पवल्ल्यो हि धेनवः कामधेनवः ॥१७॥
साहो प्राणपणै: क्रेया पुण्याद्रितृणवीरुधा ।
वृन्दाटवी न विस्मर्तुं शक्या जन्मशतैरपि ॥१८॥
धिक् पानमशनं धिक् धिक् शयनं जीवनं च धिक् ।
मरणं शरणं चैकं श्रीवृन्दाविपिनं विना ॥१९॥
अन्धत्वमाप्नुतां नेत्रे श्रोत्रे बधिरतां तथा।
रसना जडतां यातु श्रीवृन्दाविपिनं विना ॥२०॥
हे वृन्दावन हे निकुञ्जपरिधे हे रासलीलाङ्गण
हे श्रीधाम धराभिभूषण सतां सर्वस्व प्राणप्रिय ।
हे वृन्दारकवृन्दवन्दित यशोदानन्दनानन्दद
हे माधुर्यमहोदधे गुणनिधे मां दीनमानन्दय ॥२१॥
हे हे श्रीवनराज याति विफलस्त्वद्द्धारतो भिक्षुकः
हे सर्वस्वनिधे न ते भयमतो नो दानमानादिकम् ।
याचेत त्वयि दर्शनं गतवति स्यादस्य तृप्तिः परा
निश्शुल्कं निजजीवनावधि भवेद्दासानुदासस्तव ॥२२॥
स एवं विलपन्गायन्निमग्नः शोकसागरे ।
विसंज्ञो ह्यभवद्विप्र: सहसा ज्वरपीडितः ॥२३॥
कथंचिल्लब्धसंज्ञोऽयमुन्मत्तवदितस्ततः।
श्रीवृन्दावनगीतानि गायन् कालमयापयत् ॥२४॥
आशासतां स्वर्गसुखानि केचित्
आशासतां मुक्तिपदानि केचित् ।
आशास्महे संचितसर्वपुण्यै:
वयं तु वृन्दावनभूमिधूलिम् ॥२५॥
कीर्त्तिस्ते कर्णयोर्मे विलसतु विमला वाचि दिव्या गुणास्ते
घ्राणे चास्तां सुगंधो रुचिरकुसुमजो रेणुरागोऽखिलाङ्गे ।
शोभा सा दृष्टिगम्या प्रविशतु नयनद्वारतो मानसे मे
पश्चादेतद्विभूत्या सह विपिनपते रक्षणीयोऽहमङ्के ॥२६॥
सदा गुणान् जाग्रति संस्मरामि
स्वप्नेऽप्यहं त्वामवलोकयामि ।
तथा सुषुप्तौ तव भावमग्नो
न किंचिदन्यत् परिलोचयामि ॥२७॥
स्नातं च तेनाखिलतीर्थतोये
दत्ता च सर्वा धरणी द्विजेभ्यः।
प्रीत्या च सर्वानयजिष्ट यज्ञान
वृन्दावने यः क्षणमप्यवात्सीत् ॥२८॥
अतीव गुणगर्वितो विधिविधानसम्मार्जकः
अहो विपिनराज ते सरसरङ्गभूमे रसः।
इलावृतधरागतानकृत योषितो यो बलात्
स्वयं स इह शंकरः सपदि येन गोपीकृतः॥२९॥
क्वचिद्विहगकूजितं ललितबर्हिनृत्यं क्वचित्
क्वचित्कुसुमसौरभं शिशिरमन्दवातः क्वचित् ।
क्वचितरुमधुस्नुतिः सरसवाः सरांसि क्वचित्
सदाऽऽत्मसुखवर्धनं जयतु धाम वृन्दावनम् ॥३०॥
पशुर्भवेयं यदि काननेऽस्मिन्
तथाश्मखण्डश्च सदा गिरीन्द्रे ।
विहंगमो वा मुरलीवटे स्यां
तृणं च वृन्दावनकुञ्जवीभ्याम् ॥३१॥
यथाकिंचनाः काञ्चनं कामयन्ते
यथा कामिनः कामिनीं प्रार्थयन्ते ।
तथा चेतसा चिन्मयं धाम नित्यम्
भवेन्मे सदा श्रीवनं चिन्तनीयम् ॥३२॥
योऽभूद् व्रजस्योज्ज्वलकामकेल्या
रासोत्सवस्ते रसरङ्गभूमौ ।
नाविन्दतां तं रसमन्तरा त्वां
राधामुकुन्दौ कुरुतीर्थभूमौ ॥३३॥
जगाद राधा प्रियसंगमेऽपि
न मे सुखं भोः सखि किंचिदत्र ।
मनस्यहो वेणुरवान्विताय
कलिन्दजाकूलवनाय वाञ्छा ॥३४॥
अर्धोन्मीलितलोचनस्य पिबतो राधेति नामामृतम्
प्रेमाश्रूणि विमुञ्चतः पुलकितां सर्वा तनुं बिभ्रतः।
कुत्रापि स्खलतः क्वचिच्च पततो वृन्दाटवीवीथिषु
स्वच्छन्दं व्रजतः कदातिसुखदा यास्यन्ति मे वासराः ॥३५॥
विविधकल्पलतातरुसंकुल
स्त्वमसि साधनसाध्यमहावधिः ।
इति विचार्य समागतवानहं
वनप मामतिथिं किमुपेक्षसे ॥३६॥
हे गोपाल प्रतिग्रहो बलिमखे भूम्या गृहीतस्त्वया
तेनाद्यावधि वामनोऽपिच द्विजस्त्वं द्वारपालः कृतः।
तद्दोषप्रशमाय सूर्यतनयातीरे द्विजायाधुना
श्रीवृन्दाविपिनाल्पभूमिशकलं याचिष्णवे देहि मे ॥३७॥
यदि समुज्ज्वलचन्द्रसितामलां
ललन कृष्ण वधूं त्वमभीप्ससे ।
तदिह मामुपवेशय जापकं
सुखदवेणुवटे यमुनातटे ॥३८॥
कदा वृन्दारण्ये रसिकजनगोष्ठयां रसनिधे
र्मुरारेरास्वादन्मधुरगुणगीति कृतमतिः।
महोल्लासोन्मत्तो ब्रजजनपदाम्भोजरजसा
मशेषाङ्गै: स्पर्शात्सुखमनुभविष्यामि किमपि ॥३९॥
कदा मामात्मसात्कृत्वा धृत्वा मूर्ध्नि कृपाकरम् ।
कदा वृन्दावने वासं मह्यं राधे प्रदास्यसि ॥४०॥
दत्वा वृन्दावने वासं स्वस्वरूपं मनोहरम् ।
दर्शयित्वा कदा राधे रहस्सेवा प्रदास्यसि ॥४१॥
न विद्या नो वित्तं सुकृतमलुरूपं किमपि नो
न वैराग्यं ध्यानं न परपुरुषाराधनविधिः ।
विधात्रा दौर्भाग्यं लिखितमथ मे मौलिपटले
कथं चाशा वृन्दाविपिनसुखवासाय लसति ॥४२॥
वृन्दावनं विमलमुज्ज्वलकेलिकुञ्ज
कूजत्कपोतशुककेकिपिकालिवृन्दम् ।
श्रीधाम धन्यमधिभूषणमार्यभूमे
र्धन्याः स्तुवन्ति प्रणमन्ति वसन्ति येऽपि ॥४३॥
पूज्यं तच्चरणं व्रजेन्द्रविपिनं वृन्दावनं याति यद्
धन्या सा रसना रसालयमहो वृन्दावनं स्तौति या ।
पुण्यं तद्धृदयं सुहृद्यमटवीराजं सदा ध्यायते
मान्यो ब्रह्मवादिभिश्च निवसत्यस्मिन्वने यो नरः ॥४४॥
सा वै सुमाता च पिता स एव
स एव बन्धुश्च सखा स एव
स एव देवो मम वन्दनीयो
वृन्दावने न्वादिशते निवेष्टुम् ॥४५॥
पादौ दधामि शिरसा मनसा सदैव
तस्योपकारकणकोटिगुणं स्मरामि
यो मे दयालुरधमाधमप्राणिनोऽपि
वृन्दाटवीवसतिसंस्तुतिमातनोति ॥४६॥
हे वृन्दावनदेव ते सुविदितं दुर्दैवमेतादृशः
यन्म नो वचसा न चापि मनसा कायेन वा क्लिश्यता ।
सेवा कापि कदापि कस्यचिदहोस्वप्नेऽपि नानुष्ठिता
तत्त्वामेव निराश्रयोऽहमधुना संसेवितुं प्रार्थये ॥४७॥
हे राधिके तव विहारनिकुञ्जपुजं
दृष्ट्वाति लुभ्यति मनो मम वासहेतोः।
तत्तेऽनिमित्तकृपयैव कदापि लभ्यो
वासो भवेदहह किं शतजन्मभिर्मे ॥४८॥
राधां व्यायन् राधिका वन्दमानः
राधां पश्यन् राधिकामेव शृण्वन् ।
राधां गायन् सेवमानश्च राधां
राधारण्ये कालमेतं न येयम् ॥४९॥
राधाकीर्तिं कीर्तयन् पादरेणुं
श्रीराधायाः संस्पृशन् सर्वगात्रैः ।
राधारण्ये पर्यटन् व्याहरण श्री
राधे राधे कालमेतं नयेयम् ॥५०॥
वृन्दारण्यमवाप्य सन्तु शतशः खण्डाः शरीरस्य मे
यद्वा जर्जर तान्नपानरहितस्यानुक्षणं वर्धताम् ।
जायापत्यधनादिभोगविभवो भस्मीभवेदाशु मे
भाग्यं तत्परमं कृपां च परमां मन्ये मयि श्यामयोः ॥५१॥
सर्वं चिन्मयमेव यत्र भगवद्रूपं रमाक्रीडनं
निर्दोषं निरुपाधि नित्यममरैर्ब्रह्मादिभिर्वन्दितम् ।
राधामाधवकेलिकुञ्जनिलयैर्माधुर्यधारावहै
र्व्याप्तं तद्विपिनेश्वरं विजयते श्रीधाम वृन्दावनम् ॥५२॥
वृन्दावनं विपुलपुष्पपवित्रगन्धैः
श्रीमाधवस्य मनसोऽपि मुदं तनोति ।
तस्मिञ् श्रियः पदसरोजशुभाङ्करम्ये
हा हा कदाहनमुना वयुषा लुठामि ॥५३॥
वृन्दावनं तद्गतवस्तुजातं
सर्वं नमस्यं न कदापि निन्द्यम् ।
ये वा विनिन्दन्त्यपराधिभिस्तैः
स्वप्नेऽपि सङ्गो मम नैव भूयात् ॥५४॥
चौराश्च जाराः कुटिलाः कुभाषिणः
सदा दुराचाररताः कुमार्गा: ।
सर्वेऽपि वृन्दावनधामवासिनः
सदैव मे पूज्यतमा भवन्तु ॥५५॥
वृन्दावनं महालाभो भूषणं जीवन गतिः ।
वृन्दावनं धनं धर्मो भजनं यजनं रतिः ॥५६॥
माता बृन्दावनं माता पिता वृन्दावनं तथा
वृन्दावनं कुटुम्बश्च गृहं गृह्यं च सर्वशः ॥५७॥
वृन्दावनं हि सर्वस्वं सर्वदैव सुखावहम् ।
गोपगोपी गवां सेव्यं सेव्यं भवतु मे सदा ॥५८॥
कदा वृन्दावने राधाकृष्णनामानि कीर्तयन् ।
तदन्तरङ्गलीलानामनुभूयाथ माधुरीम् ॥५९॥
देहगेहादि विस्मृत्य महारसविमोहितः।
रसरूपं जगत्सर्व द्रक्ष्ये वृन्दावनात्मकम् ॥६०॥
रे चित्त मा त्यज वनं वृषभानुजायाः
नान्यत्र गच्छ मम याचितमेतदेव ।
वृन्दावने त्वमिह आश्वपचान् सदैव
याचस्व भक्षय तदीयसुभुक्तमुक्तम् ॥६१॥
न विषय भोगो भाग्यं कीर्त्तिर्वा विस्तृता लोके ।
ब्रह्मेन्द्राद्यभिलषितं भाग्यं वृन्दावने वासः ॥६२।
निरञ्जनं निर्गुणमद्वितीयं
वदन्ति तत्त्वं विवृधास्तथास्तु ।
मया तु वृन्दावनमेव तत्त्वं
सुनिश्चितं श्रीपदभूषिताङ्गम् ॥६३॥
अतिकान्तः कालो विषयविषसङ्गाकुलधियः
क्षणार्धं क्षेमार्थं न परपुरुषार्थोऽभिलषितः ।
इदानीं श्रीवृन्दाविपिनसुखवासाय महतां
कृपालेशं शेषं शरणमनुमन्ये हतविधिः ॥६४।
वृन्दारण्यलतागृहेषु वसतां गोविन्दलीलासुधा
मापीयाश्रु विमुञ्चतां सुमधुरं राधेति संगायताम् ।
अर्धोन्मीलितलोचनैर्विचरतां वृन्दाटवीवीथिसु
कुत्रापि स्खलतां क्वचिच्च पततां यज्जीवनं जीवनम् ॥६५॥
प्रियाप्रियतमी चन्द्रचकोरौ द्वौ परस्परम् ।
क्रीडतः श्रीवने नित्यं मिलितो मिलनेच्छुकौ ॥६६॥
प्रियाया जीवनं प्रेयान् प्रेयसो जीवनं प्रिया ।
निर्मञ्छन्तौ स्वमन्योन्यं श्रीवनेऽस्मिन्प्रसीदतः ॥६७॥
यत्र त्रिभङ्गललितो मदनानन्दमोहितः।
मोदते राधया कृष्णो गुणरूपैरगाधया ॥६८॥
परस्परं समालिङ्गय् पिबतः स्वधरामृतम् ।
श्रीराधामाधवौ यत्र, वृन्दारण्यं नमामि तम् ॥६९॥
श्यामाम्भोदघटाम्बरे रविसुताकल्पद्रुमालंकृते
प्रेमप्रोन्मदकेकिकोकिलकलध्वनि तडिद्गर्जिते ।
औत्सुक्यादभितः कदापि ललिताद्यालीभिरान्दोलितं
दोलास्थं रतिकेलिलम्पटयुगं द्रक्ष्यामि वृन्दावने ॥७०॥
यत्र प्रेमभरेण स्वाधरपुटे वंशीं निधाय प्रिया
नामान्येव रमे किशोरि रसिके प्राणप्रिय राधिके ।
गायन्तानतरङ्गरङ्गभरतो मुह्यन्मुरारिः स्वयम्
प्रेयस्या हृदि रक्ष्यते रसभरे तन्नौमि वृन्दावनम् ॥७१॥
हे हे भूमिचराश्चराचरगणा वृक्षा नदीपर्वताः ।
हे पातालगता नभस्तलगताः सर्वेऽसुरा वासुराः॥
सर्वान् वः प्रणिपत्य सादरमिदं दैन्येन संप्रार्थये
श्रीवृन्दावनधाम्नि वै निवसतः स्यान्मे शरीरव्ययः ॥७२॥
आसीनः स्थित उत्थितः प्रचलितः सुऽप्तःप्रबुद्धोऽथ वा
भुञ्जानः प्रलपन्पिबंश्च विसृजन्गृह्ह्नप्रवश्यन्नपि ।
शृण्वन्मीलितलोचनो व्यवहरन्वाचं नियच्छन्नपि
वृन्दारण्य भवन्तमेव हतधीः पश्यामि नक्तंदिवम् ॥७३।
धन्या त्वदीयविरहानलवेदनापि
मां दिव्यलोचनपिबं सहसा चकार ।
दूरस्थितोऽप्यहमहो विपिनाधिराज !
यत्वामनन्यशरणः सततं समीक्षे ॥७४॥
सति प्रदीपे ज्वलिते हुताशने रवीन्दुतारादिषु सत्सु सर्वथा ।
विनापि वृन्दावनधाम चिन्मयं तमोमयं शून्यमिदं जगत्त्रयम् ॥७५॥
मरुधरासदृशे मम मानसे मधुरप्रेमपयोलदशून्यता ।
इतरथा न भवेन्मम जीवनं वनपतेर्विरहे च सहिष्णुता ॥७६॥
सुसंगमासंगमयोर्विवेचने सदाटवीनाथ वरो ह्यसंगमः ।
त्वमेक एवासि सुसङ्गमक्षणे जगत्त्रयं त्वं सकलं त्वसंगमे ॥७७॥
श्रीकुञ्जकेलिरसपूर्णसरोवरेऽस्मिन्
सग्नो मनोमणिरहो विपिनाधिराजे ।
तं नावलोक्य हृतवित्त इवात्मवित्तं
द्रष्टुं मम भ्रमति लोचनखञ्जरीटः ॥७८॥
यत्राकृतिस्तत्र गुणाः कवीन्द्रै: प्रोक्तं न सम्यग्ह्यविचारचारु ।
वृन्दावनं श्रीमदतीवरम्यं यन्मां हृदिस्थं विरहे दुनोति ॥७९॥
किं तिष्ठामि किमु व्रजामि किमहं जागर्मि किं वा शये
किं जानामि किमु भ्रमामि सुखतो जीवामि वा दुःखतः।
हे वृन्दाविपिन त्वदीयविरहे कस्मादकस्मादहो
भावः पक्षविपक्षहृत्त्वनुपमः कोऽयं समुजृम्भते ॥८०॥
विश्वासः सुदृढो ममास्ति हृदये संवीक्ष्य प्रत्यक्षतः
यद्भृङ्गाभिनिवेशतो भयवशाद् भृङ्गोऽभवत्कीटकः ।
प्रीत्या चिन्तयतः प्रियं वनपते त्वामेव नित्यं मम
त्वद्रूपत्वमवश्यमेव भवितेत्यालोच्य जीवाम्यहम् ॥८१॥
जानासि वृन्दाविपिन त्वमग्नै: संस्तम्भनीं कामपि योगविद्याम् ।
मन्मानसे यद्विरहाग्नितप्ते नित्यं निवासं कुरुषे सुखेन ॥८२॥
दनोशीरमृणालयोगैर्वियोगतापो मम शान्तिमेति ।
एकस्तु कथासुधायाः सुजीवनस्ते विपिनाधिराज ॥८३॥
वृन्दाविपिनस्य मे विरहिणः सत्या विलापा इमे ।
सत्यतया विचारचतुरा गृह्णन्ति मानं विना ।
यान्ति न जीवनव्यसनिनो धिग्धिक प्रलापैरलं
ट्य केवलमेतदस्ति घटितं कापट्यतो यन्मया ॥८४॥
इति श्रीवृन्दावनविरहवेदना नाम पञ्चमोध्यायः ॥ ५॥
श्रीवृन्दावन-विरह-वेदना नामक पांचवां अध्याय समाप्त हुआ ।
N/A
References : N/A
Last Updated : July 13, 2026

TOP