अष्टादशः खण्डः वासनाध्यायः
परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे
अथातो वासनां व्याख्यास्यामः ॥१॥
तदात्मकं समुदयं मदात्मिकापि विश्रितम् ।
हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥२॥
कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् ।
पराहन्तामयं सर्वस्वरूपस्वात्मविग्रहम् ॥३॥
सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् ।
प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥४॥
वरयन्ते एवमतो लोके नान्यत्र मन्त्रवदक्षरम् ।
यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥५॥
अथ मन्त्रार्थः-
ललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते ।
शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥६॥
अशेषतो जगत् कृत्स्नं हृल्लेखात्मकतः परम् ।
तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥७॥
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।
ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥८॥
१. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि ।
२. ह्रीं श्रीं आं भगमालिनीपादुकां पूजयामि
३. ह्रीं श्रीं इं नित्यक्लिन्नापादुकां पूजयामि ।
४. ह्रीं श्रीं ईं भेरुण्डापादुकां पूजयामि ।
५. ह्रीं श्रीं उं वह्निवासिनीपादुकां पूजयामि ।
६. ह्रीं श्रीं ऊं महावज्रेश्वरीपादुकां पूजयामि
७. ह्रीं श्रीं ऋं शिवदूतीपादुकां पूजयामि ।
८. ह्रीं श्रीं ॠं त्वरितापादुकां पूजयामि ।
९. ह्रीं श्रीं ऌं कुलसुन्दरीपादुकां पूजयामि ।
१०. ह्रीं श्रीं ॡं नित्यापादुकां पूजयामि ।
११. ह्रीं श्रीं एं नीलपताकापादुकां पूजयामि ।
१२. ह्रीं श्रीं ऐं विजयापादुकां पूजयामि ।
१३. ह्रीं श्रीं ओं सर्वमङ्गलापादुकां पूजयामि ।
१४. ह्रीं श्रीं औं ज्वालामालिनीपादुकां पूजयामि
१५. ह्रीं श्रीं अं चित्रापादुकां पूजयामि ।
१६. ह्रीं श्रीं अः त्रिपुरसुन्दरीपादुकां पूजयामि ॥९॥
शङ्कुच्छायया दिक्परिज्ञानक्रमं प्रस्तावसहितं
उपदिशति ॥१०॥
तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगति-
भेदज्ञानच्छाययेति यावत् ॥११॥
तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥१२॥
पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्ने
कृत्वेत्यर्थः ॥१३॥
तदभिमतः तद्द्वयमवष्टभ्य सममानपारभ्रान्त्या तच्चि-
ह्नद्वयान्तरालमानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेन
अन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥१४॥
तयोः पूर्वापरयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थित
इत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक्
सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरं
दक्षिणोत्तरं तेषां मण्डपादीनामग्रैः सूत्राग्रैः ॥१५॥
एतदुक्तं भवति - जीमूताद्यपरिवेष्टितभानौ दिवसे
छायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्प-
णोदरसङ्काशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तदवष्टम्भतः
प्रतिदिशं द्वादशाङ्गलमानेन वृत्तं कृत्वा तत्र षडङ्गलमान-
परिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताग्र -
परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रा(छा)यसहितं वृत्ताकारं
शिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूल-
परिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाह्णे
तत्तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र ततोऽपराह्णे
तच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे चिह्नं विधाय
तच्चिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्वया-
वष्टम्भेन तच्चिह्नान्तरालमानस्य चेष्टाधिकेनार्धमानेनान्योन्य-
समेते किञ्चिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय
तद्वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्य -
गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राक्
प्रत्यक्दक्षिणोत्तरसूत्रद्वयसम्पाताद्वृत्तवक्ष्यमाणमानेन तुल्य-
रूपपरिकल्पितसूत्राग्रैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्द-
क्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेत् ॥१६॥
सर्वप्रयत्नेन विद्याऽऽराधितद्वारा पूर्णताख्यातिसमा-
वेशनेच्छा चेत्येते समयाचारिकाः । परे च शास्त्रानुशिष्टाः ॥१७॥
इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य
सर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकाश्योर्नान्तरं
जीवन्मुक्तो भवति ॥१८॥
य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुर-
सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति ।
यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते
इत्युपनिषत् - इति शिवम् ॥१९॥
य एवं वेदेत्युपनिषत् ॥२०॥
भद्रं नो अपि वादय मनः ॐ शान्तिः शान्तिः शान्तिः ॥२१॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- ॥
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
वासना नामाष्टादशः खण्डः समाप्तः ॥ १८॥
इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥
इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसम्भूत
महादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गव-
महोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : February 05, 2026

TOP