पञ्चदशः खण्डः कृतनष्टनिरूपणम्

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


इत्थं कृतनष्टो लसह्रीङ्कह इत्याकारकं वृत्तं पञ्च-
धुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्य
तच्छिरसि खण्डाङ्कान् लिखेत् ॥१॥
ते यथा - चतुर्विंशतिः षट् दे एकं शून्यं चेति ॥२॥
ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रीं -
इत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनया
चतुर्थद्वितीयतुतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥३॥
तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येकद्व्येकशून्यानि
 सम्पद्यन्ते ॥४॥
ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥५॥
अथ अधोङ्केनोर्ध्वाङ्कं गुणयित्वा तत्तदक्षरा-
धोङ्काधःक्रमेण लिखेत् ॥६॥
यथा चतुर्विंशतिस्त्रिभिर्हननात् द्वासप्ततिभिः षण्णा-
मेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन
हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां
मेलने त्र्यशीतिः तेष्वङ्काङ्कप्रक्षेपे चतुरशीतिः सम्पद्यते - इति
शिवम् ॥७॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
कृतनष्टनिरूपण नाम पञ्चदशः खण्डः समाप्तः ॥ १५॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP