संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीकृष्णविलासम्| तृतीयः सर्गः श्रीकृष्णविलासम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः श्रीकृष्णविलासम् - तृतीयः सर्गः महाकवि सुकुमारविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् । Tags : sanskritshrikrishnavilassukumarश्रीकृष्णविलासम्संस्कृतसुकुमार तृतीयः सर्गः Translation - भाषांतर प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः । सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥०१॥ सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा । हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥०२॥ जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् । उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥०३॥ नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला । अरिर्महीयानजनिष्ट भूमौ तवोचितं सम्प्रति चिन्तयेति ॥०४॥ व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् । देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥०५॥ युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः । अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥०६॥ तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् । महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥०७॥ किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः । अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥०८॥ सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन । स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥०९॥ अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् । नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥१०॥ यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः । मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥११॥ मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि । तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥१२॥ गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु । सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥१३॥ इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः । अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥१४॥ किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते । कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥१५॥ अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् । अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥१६॥ इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश । स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥१७॥ लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः । तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥१८॥ तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु । यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपं ॥१९॥ तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन । ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥२०॥ इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे । तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयं ॥२१॥ अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे । सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥२२॥ प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् । व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥२३॥ शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः । स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥२४॥ इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः । आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥२५॥ सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि । प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥२६॥ निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः । नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥२७॥ मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् । गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥२८॥ वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः । गलितेव ततस्सुरस्रवन्ती नखमुक्तामणिदीधितिच्छलेन ॥२९॥ अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः । भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥३०॥ अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया । स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥३१॥ मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे । विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥३२॥ शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः । किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥३३॥ कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा । सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥३४॥ कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् । व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥३५॥ स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् । उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥३६॥ तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय । उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥३७॥ शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् । अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥३८॥ परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः । पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥३९॥ क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् । स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥४०॥ अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य । तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥४१॥ भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः । ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥४२॥ अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे । पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥४३॥ कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः । प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥४४॥ प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः । ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥४५॥ सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे । श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥४६॥ तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता । आजगाम गगनेन पूतना यातना तनुमतीव देहिनां ॥४७॥ साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् । सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥४८॥ कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् । यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥४९॥ पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् । आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥५०॥ विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी । सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥५१॥ झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः । प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥५२॥ तस्याश्शरीरमधिरुह्य विचेतनायाः क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः । तस्थुस्समुन्मिषितविस्मयनिर्विकाराः नासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥५३॥ नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णे पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ । दध्यौ च तस्य नितरामभिवृद्धिकामः तत्त्वं परं स हृदयेन समाहितेन ॥५४॥ श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः । ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥५५॥ न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ । इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥५६॥ पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः । श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥५७॥ स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः । पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥५८॥ पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् । धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥५९॥ परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा । सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥६०॥ जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् । बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥६१॥ निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे । परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥६२॥ निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना । अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥६३॥ उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा । अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥६४॥ स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् । गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥६५॥ प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ । प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥६६॥ नन्दादयः सपदि गोकुलवासिनस्ते तद्भङ्गजन्म सुमहद्ध्वनितं निशम्य । अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ तत्राक्षतं च ददृशुस्सरसीरुहाक्षं ॥६७॥ नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यः दत्वा गवामयुतमात्मसुताभिवृद्ध्यै । सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशु वृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥६८॥ गत्वा स गोकुलपतिर्मनसोऽनुकूले कूले कलिन्ददुहितुर्निदधे पदानि । रेमे च तत्र पुरुहूतपदाभिरामे लीलायितानि तनयस्य निरीक्ष्यमाणः ॥६९॥ दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे । सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥७०॥ अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः । ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥७१॥ अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः । भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥७२॥ पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया । आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥७३॥ आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे । एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥७४॥ गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् । माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिं ॥७५॥ देवो निशासु हरिरङ्कगतो जनन्याः शृण्वन् कथा मधुमुचो महताऽऽदरेण । मन्दं तदीयकरपल्लवताडितोरुः सुष्वाप कुड्मलितलोचनपुण्डरीकः ॥७६॥ कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया । मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥७७॥ मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन । अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥७८॥ अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः । तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥७९॥ कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् । व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥८०॥ तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ । एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥८१॥ उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः । कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥८२॥ नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः । प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥८३॥ विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः । विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥८४॥ अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् । पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥८५॥ धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः । मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥८६॥ निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् । कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥८७॥ निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः । पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥८८॥ नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः । स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥८९॥ हर्तुं हरेर्व्यवसितस्य घने निशीथे भूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् । अन्तर्गृहस्य नवनीतवतः प्रवेशात् प्रागेव हन्त पथि सा रजनी विभाता ॥९०॥ गोपीसमागमभिया च तृषा च गुर्व्या पातुं विहातुमपि गोपगृहेष्वजानन् । आद्वारमादधिघटं च गतागतानि कुर्वन् सरोजनयनः श्रममेव लेभे ॥९१॥ भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः । किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥९२॥ जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया । स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥९३॥ दृष्टेऽपि तत्सविधसञ्चरणे स तत्र वक्तुं निमित्तमुचितं कृतनिश्चयस्सन् । अभ्यर्ण एव निदधे दधिभाजनस्य लीलायितोपकरणानि निजानि शौरिः ॥९४॥ वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः । पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥९५॥ शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् । विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥९६॥ एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया । आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥९७॥ हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि । इति प्रभाते वचनानि योषितामुवाह श्रृण्वन् न मुखे स विक्रियाम् ॥९८॥ पुत्रं कुलस्य भुवनस्य च रक्षितार- मभ्यर्थितोऽपि भगवानरविन्दनाभः । त्वां मे ददौ विधिवशाद्भुवनैकचोर- मित्याह कोपमभिनीय सुतं यशोदा ॥९९॥ स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेन निबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥१००॥ संरक्षणाय जगतामवतीर्य पृथ्व्यां गोपालसद्मसु हरत्यखिलं मुकुन्दः । इत्थं निशम्य परिहासवचस्सुराणाम्- अन्तर्जहास भगवानरविन्दनाभः ॥१०१॥ कृष्णस्य केलिसमरेक्षणकौतुकेन गोपीषु मुक्तभवनासु बहिः स्थितासु । मित्रैः पराजित इव द्रुतमेत्य गेहं बद्ध्वा कवाटमहरन्नवनीतमन्तः ॥१०२॥ त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः । अरमत सवयोभिस्तत्र गोपालपुत्रै- रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥१०३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥३ ॥ N/A References : N/A Last Updated : October 24, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP