श्रीकृष्णविलासम् - द्वितीयः सर्गः

महाकवि सुकुमारविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् ।

अथैकदा पुत्रफलानि सम्यग्व्रतानि बाह्योपवने चरन्तीम् । रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥०१॥
स्फुरत्प्रभापल्लविताङ्गयष्टीं कथञ्चिदूढस्तनमञ्जरीकाम् । तत्रालकैः षट्/पदिनीमजानात् स तां लतामध्यगतां चिरेण ॥०२॥
सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् । स चाशिषा तामनुगृह्य साध्वीं भोजेश्वरो वाक्यमिदं बभाषे ॥०३॥
अद्यापि बालासि सुताननेकान् प्रसोष्यसे किं व्रतयातनाभिः । पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥०४॥
कृशासि कामं विरम प्रयासान्मनोभिरामानुपभुङ्क्ष्व भोगान् । अङ्गानि ते सन्नतगात्रि दुःखं मृणालकल्पानि कथं सहेरन् ॥०५॥
तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समारोप्य सहैव पत्या । प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥०६॥
त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् । मरुत्समिद्धस्स तु दुर्निवारस्त्वां भस्मसात् कंस करिष्यतीति ॥०७॥
निशम्य तद्भूतवचो निकामं कंसस्स रोषागमदुर्निरीक्ष्यः । कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥०८॥
नृशंसकृत्ये नितरां प्रवृत्तमुदग्रकोपस्फुरिताधरोष्ठम् । प्रसादयन्नानकदुन्दुभिस्तमुवाच धीमानुपपत्तियुक्तम् ॥०९॥
अलं तवानेन वधोद्यमेन त्वया विधेयो नृपते विमर्शः । किमेष नाश्रावि विचारशून्यं व्रजन्त्यनर्था इति साधुवादः ॥१०॥
भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् । महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥११॥
अनेन किं वा तव जीवितेन यद्रक्षणं स्यात् सहजावधेन । गुणेन केनापि हि लब्धनाम्नामपि स्वनाशादयशो गरीयः ॥१२॥
प्रपद्यमानस्य सदाभिवृद्धिं दिवानिशं प्रीणयतश्च लोकान् । भवद्यशश्चन्द्रमसोऽस्य माभून्नवः कलङ्को भगिनीवधेन ॥१३॥
स्वसुर्वधेनास्य भवेदकीर्तिस्तेन त्यजेयुस्सुहृदोऽपि भीताः । इत्येव नूनं भुजनिर्जितैस्तैस्सुरैः प्रयुक्तस्सुमहानुपायः ॥१४॥
कालेन तद्द्रक्ष्यसि यन्मदुक्तं मा भूत्तवास्मिन् विषयेऽपि शङ्का । तथापि चेतस्तव शङ्कते चेदाकर्ण्यतां तर्ह्यपरः प्रकारः ॥१५॥
सर्वाण्यपत्यानि वशे तवाहं जातानि जातानि समर्पयिष्ये । तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥१६॥
किं बुद्धिमान्द्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः । बलेन किं वा भवितव्यतायास्तथेति जग्राह वचस्तदीयम् ॥१७॥
वधप्रवृत्तो वसुदेवमन्त्रप्रभावसंस्तम्भितघोरकर्मा । निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥१८॥
सत्या नु सा स्यादशरीरिणी वाक् सत्यं किमेतद्वसुदेववाक्यम् । वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥१९॥
आलोकनैर्मौलिषु भूपतीनामासज्जयन्नञ्जलिबन्धनानि । स वैमनस्येन मुखस्थितेन भयावहः स्वं भवनं जगाम ॥२०॥
विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ । पराक्रमाक्रान्तसमस्तलोकः पुरेव भोगानयमन्वभुङ्क्त ॥२१॥
माया हरेस्साऽथ हिरण्यपुत्रान् यान् देवकीगर्भगतानकार्षीत् । भोजेश्वरस्सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥२२॥
जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदंशः । आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥२३॥
चकास सप्तच्छदपाण्डुरेण सुतेन सा गर्भतिरोहितेन । वलाहकान्तर्हितशीतभानोर्दिशो दशां वृत्रजितः प्रपन्ना ॥२४॥
ततस्समाह्लादनमीक्षणानामसूत पुत्रं शरदिन्दुकल्पम् । प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः ॥२५॥
पत्युस्समादिष्टमिदं विधाय शेषं चिकीर्षुस्सुरकार्यमार्या । चराचराणां जगतां सवित्री सा श्रद्दधे जन्मभुवं यशोदाम् ॥२६॥
अथ प्रजानामभिवृद्धिकामो देवो दयायाः किल जन्मभूमिः । स्वजन्मने जन्मविनाशहेतुः प्राप्यस्सतां प्राप स देवकीं ताम् ॥२७॥
कृशावलग्ना कुचयोर्गरिम्णा सा देवकी सन्नतगात्रयष्टिः । जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भेण जगन्निवासम् ॥२८॥
अन्तर्दधाना सरसीरुहाक्षं स्वेनावतारेण भुवं पुनाना । सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥२९॥
अलं निवासाय न यस्य विश्वं वसन् स गर्भे मुमुदे मुकुन्दः । परोपकारप्रभवं हि दुःखं पुंसस्सुखायैव महत्तरस्य ॥३०॥
बहिःस्फुरन्त्या करपाञ्चजन्यत्विषेव विष्णोरुदरस्थितस्य । अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥३१॥
बभार हारं कुचयोर्न तन्वी न पादयोर्नूपुरमामुमोच । दधौ मणिं भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥३२॥
दृशः प्रयत्नेन दधौ तिरश्चीरुवाच मन्दं निभृतं जहास । शनैर्ययौ दत्तकरा सखीभिर्भृशं निशश्वास च तावदेव ॥३३॥
सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः । भयेन भोजाधिपतेश्च देवो सहैव गर्भे ववृधे मुकुन्दः ॥३४॥
शिरोभिरूढेन वनस्पतीनां फलोपहारेण निवेदितर्द्धिः । प्रावृट् समासादितसूतिकालां तां देवकीं द्रष्टुमिवाजगाम ॥३५॥
अथैकदेशा इव वारिराशेरुच्चैः पुरोमारुतविप्रकीर्णाः । वृतास्तडिद्विद्रुमवल्लरीभिर्विरेजिरे व्योमनि वारिवाहाः ॥३६॥
बलाहकव्रातभवैस्तमोभिर्दिनेषु दुर्बोधपुरःस्थितेषु । न कश्चिदासीदभिसारिकाणां विद्युत्प्रकाशेन विनाऽन्तरायः ॥३७॥
पयोदभस्त्रान्तरनिर्गतेन झात्कारिणा चण्डसमीरणेन । वियोगिनां चेतसि मेघकालः सन्धुक्षयामास मनोभवाग्निम् ॥३८॥
स्मरेण लोकत्रितयेश्वरेण सम्भाविताज्जीवितनिर्विशेषम् । ऋतोर्वसन्ताज्ज्वलदागमस्य जहार जातिर्निखिलं निकर्षम् ॥३९॥
बलाद्गृहीता इव वैतसीभिः शाखाभिरारूढमदा इवोच्चैः । परिस्खलन्त्यो निखिलास्तटिन्यः जग्मुर्जवादुद्भटफेनहासाः ॥४०॥
उदारसौरभ्यवशीकृतानामन्वीयमानः पटलैरलीनाम् । अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम् ॥४१॥
अत्यम्बुपानप्रभवस्य कर्तुमन्तर्जडिम्नः प्रतिसंविधानम् । पपुस्तिरस्कारपदेन मेघाः मयूखमालामरविन्दबन्धोः ॥४२॥
रराज खर्जूरफलप्रकाशं नवं पयः काननपल्वलेषु । पयोदवृन्दैः परिपीय मुक्तं प्रभाकरस्येव मरीचिजालम् ॥४३॥
महीभृतां मूर्द्धसु दत्तपादं विलोक्य मित्रं विहतप्रतापम् । मग्ने जले मर्तुमिवारविन्दे मधुव्रताश्चुक्रुशुरन्तरिक्षे ॥४४॥
निषेव्य हंसा मधुरैर्वचोभिः पद्माकरं लब्धसमीहितार्थाः । सद्यो ययुस्तस्य विपत्तिकाले जलाशयानां प्रकृतिः किलैषा ॥४५॥
प्ररूढसस्याः फलमूलशाकैर्निरन्तराः स्वादुनवोदकाढ्याः । पल्लीजुषां चेतसि पामराणां धृतिं परामादधिरे वनान्ताः ॥४६॥
समुन्मिषन्ती गिरिमल्लिकानां प्रसूनराजिस्सुतरां विरेजे । मुक्त्वा नभो मेघविमर्दभीत्या नक्षत्रमालेव गता धरित्रीम् ॥४७॥
धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले । अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥४८॥
इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् । गणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥४९॥
हरत्सु बाह्यं भुवनस्य तापं प्रावृट् प्रसूतेषु वलाहकेषु । असूत तस्यान्तरतापशान्त्यै कृष्णाम्बुवाहं कृपयेव देवी ॥५०॥
दिशः प्रसेदुः सह निम्नगाभिर्जहर्ष लोकेन सहाम्बुराशिः । जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवाः सह पुष्पवृष्टिम् ॥५१॥
मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् । चचार वायुः सुमनोंऽशुकानि सम्प्राप्य सम्प्राप्य महीरुहेभ्यः ॥५२॥
व्यजृम्भत प्रस्फुटशङ्खनादः तारेण गीतध्वनिना विमिश्रः । समश्नुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः ॥५३॥
त्रपामपास्यन् विनयं विलुम्पन् नीतिं निगृह्णन् भयमाशु भञ्जन् । शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ॥५४॥
आषाढिनं पाणिमुदस्य दूरं ब्रह्मर्षिलोकः पतदुत्तरीयः । ननर्त पर्याकुलपादचारः प्रहस्यमानः सुरसुन्दरीभिः ॥५५॥
शृङ्गोज्झितैः कुङ्कुमवारिपूरैरन्योन्यमभ्युक्षणतत्पराणाम् । प्रमोदजन्मा दिवि सम्बभूव कोलाहलः कोऽपि सुधाशनानाम् ॥५६॥
पितॄंश्च पुत्रा पितरश्च पुत्रान् गुरूंश्च शिष्या गुरवश्च शिष्यान् । पतींश्च दाराः पतयश्च दारान् प्रमोदमत्तास्सिषिचुः पयोभिः ॥५७॥
असिञ्चदम्भोरुहयोनिरिन्द्रं तं पङ्कजावासमसिञ्चदिन्द्रः । असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥५८॥
मिथः पयोभिः सिषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि । अन्योन्यमंसेन सुदूरमूहुर्मत्ता इव स्वर्गसदो बभूवुः ॥५९॥
त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् । गीते च नृत्ते च सुराङ्गनानां बभूव तालस्खलितं न दोषः ॥६०॥
शृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः । प्रहाससीदध्वनिभिर्वचोभिः समालपन्तो विबुधा विजह्रुः ॥६१॥
जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षौ । मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समावभूताम् ॥६२॥
इति प्रहर्षाकुलितैर्मनोभिः विशृङ्खलं क्रीडति देहिवर्गे । कंसस्सभृत्यः प्रतिपद्य मूर्छां निद्राभिधानां न किमप्यबोधि ॥६३॥
श्यामं चतुर्बाहुमुदारहारं किरीटिनं कुण्डलदीप्तगण्डम् । पिताऽपि माता च विलोक्य पुत्रमानन्दमग्नौ विवशावभूताम् ॥६४॥
नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् । प्रसीद भीतोऽहमतीव कंसादिदं तु रूपं प्रतिसंहरेति ॥६५॥
तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् । तयोश्शयानः करयोस्स तस्य प्रकाममप्रीयत पद्मनाभः ॥६६॥
अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरे दधानः । विना तपोभिः किमु तस्य सिध्येत्तत्पाणियुग्मे शयनं मुरारेः ॥६७॥
तमालनिलेन तमोभरेण निपीडिताशावलये निशीथे । आदाय पङ्केरुहलोचनं तं सद्यः स निर्गत्य गृहात् प्रतस्थे ॥६८॥
निवार्य वर्षोदकमात्मनैव प्रकाश्य मार्गं फणरत्नभासा । उपायमुक्त्वा वसुदेवकर्णे शेषस्सिषेवे बहुधैव विष्णुम् ॥६९॥
पुरात् स निर्गत्य पुमांसमाद्यं वहन् वहन्तीं यमुनामपश्यत् । कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥७०॥
उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् । व्रजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥७१॥
प्रविश्य जानन्निव नन्दगोपनिवेशनं सुप्तशरीरिवर्गम् । सुतां प्रसूय प्रतिपन्ननिद्रां ददर्श तद्धर्मवधूं यशोदाम् ॥७२॥
तं शाययित्वा शयने तदीये कन्यां समादाय निपत्य गच्छन् । शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥७३॥
करेण कन्यां मनसा च पुत्रं वहन् मुहूर्तेन विलङ्घ्य मार्गम् । विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥७४॥
सा चञ्चरीकस्वनसन्निभेन नादेन लोकस्य मनो हरन्ती । रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥७५॥
आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन । प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनीं प्रसूताम् ॥७६॥
सद्यः समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः । स्वस्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥७७॥
उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे । महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥७८॥
ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला । विलोक्य तं विह्वलचित्तवृत्तिं जगाद वाचं जगदेकमाता ॥७९॥
त्वमग्रहीर्मच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् । जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥८०॥
इति नृपमभिधाय ज्योतिषा कुर्वती सा तडिदिव नयनानि प्राणिनामाकुलानि । सुरयुवतिभिरुच्चैर्गीयमानापदाना सुरपदमभिपेदे पाटिताभ्रा जवेन ॥८१॥
श्रुत्वा तस्या श्रवणपरुषां वाचमन्तर्विषण्णः पुत्रापायव्यथितमनसं सान्त्वयित्वा स्वसारम् । पद्भ्यामेव स्वभवनमथ प्राप्य कृच्छ्रादनैषीत् कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥८२॥
इति सुकुमारकृतौ कृष्णविलासकाव्ये द्वितीयः सर्गः ॥२॥

N/A

References : N/A
Last Updated : October 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP