संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ ज्ञानपादः| अध्वाविधिपटलः अथ ज्ञानपादः शिवसृष्टिविधिपटलः पशुसृष्टिविधिपटलः अध्वाविधिपटलः अथ ज्ञानपादः - अध्वाविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अध्वाविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि अध्वानञ्च समासतः ।अध्वानं षड्विधं प्रोक्तं तत्वाध्वादिविनायक ॥१॥तत्वाध्वा प्रथमं विद्धि भुवनाध्वा द्वितीयकम् ।मन्त्राध्वा वै तृतीयन्तु वर्णाध्वा वै चतुर्थकम् ॥२॥पदाध्वा पञ्चमं ज्ञेयं कलाध्वा षष्ठमं स्मृतम् ।षड्विधैरध्वभिर्मार्गैः संविशेदेकमीश्वरम् ॥३॥तत्वाध्वानं समासेन भूकटाहादिकं शृणु ।पृथिव्यादीनिमायान्तमध्वानं वर्ण्यते क्रमात् ॥४॥कालाग्नेः शतरुद्रान्तं ब्रह्माण्डमिति संस्मृतम् ।अथाण्डकटहोत्सेधं योजनाकोटिरुच्यते ॥५॥कालाग्नि रुद्रदेवस्य तस्योर्ध्वे भुवनं विदुः ।अनेक कोटिरुद्रैस्तु परिवृत्तस्तु तिष्ठति ॥६॥सिंहासनं महादीपं नानारत्नोपशोभितम् ।सहस्रत्रयविस्तारं सहस्रयोजनोच्छ्रयम् ॥७॥भूमेरुपरितप्तेन कोटिषट्कं विधीयते ॥८॥कोटयः सप्तदशकाः कालाग्नेस्तु घनंमहत् ।तस्योर्ध्वे नरकं विद्यात् चत्वारिंशच्छताधिकम् ॥९॥तेषां प्रयत्याद्वात्रिंशत् प्रधानास्तेषु ते त्रयः ।उपर्युपरि संस्थास्तु द्वात्रिंशन्नरकान् शृणु ॥१०॥रौरवं प्रथमं प्रोक्तं महारौरं द्वितीयकम् ।शीतोष्णं हि तृतीयन्तु सन्तापनञ्चतुर्त्थकम् ॥११॥पञ्चमं पद्ममेवं स्यात् महापद्मन्तु षष्ठकम् ।कमलं सप्तमञ्चैव सूचिमुखमथाष्टकम् ॥१२॥कृष्णसूत्रन्तु नवमं श्रीमुखं दशमं स्मृतम् ।एकादशंक्षुराधारमसिधारन्तु द्वादशम् ॥१३॥एकादशं नरकाणामदीप्ते रौरवं स्मृतम् ।कुंभीपाकस्तु प्रथमो हुंकारं द्वितयस्तथा ॥१४॥रेश्चीनोकहयस्तुण्डा स्त्रितयः परिकीर्तिताः ।असृक् पूयश्चतुर्त्थन्तु गजपादस्तु पञ्चमम् ॥१५॥कृकरच्छेदषष्ठस्तु तप्तमोहस्तु सप्तमम् ।त्रपुलोमाष्टमप्रोक्ता नवमस्तप्तवालुकः ॥१६॥अस्तिभङ्गस्तु दशमं कुंभीपाकप्रधानतः ।अवीचि प्रथमं विद्धि जलूकस्तु सदानदी ॥१७॥हैमवर्णस्तृतीयं हि शाल्मली च चतुर्त्थकम् ।अनध्वासो निरुच्छ्वासं पूतिमां सानुदक्षणः ॥१८॥जतुपंकञ्चलोहञ्च युग्मपर्वत एव च ।नरकाणां नवानान्तु अवीच्येषु प्रथानकः ॥१९॥रौरवं कुंभिपाकञ्च अविचिञ्च इमेत्रयः ।राजराजेश्वरा ह्येते नरकास्तु त्रय स्मृताः ॥२०॥रौरवस्तु तथा मेध्यं कुंभिपाकस्तु तापनम् ।अवीच्या क्रिमिनिचयं अन्तर्भूतं विचिन्तयेत् ॥२१॥सप्तसप्तोपनरकैः त्रयाणां परिवारितैः ।एकोनत्रिंशन्नरकां स्त्रिभिस्त्रिभिरथा वृतान् ॥२२॥एवं नरकमाख्यातञ्चत्वारिंशत् तदादिकम् ।अतिघोरस्तु नरका स्त्रिकोणा कृतिसंस्थिताः ॥२३॥पापिनां नरकं प्रोक्तं धर्मिणां स्वर्ग उच्यते ।देवद्रव्यापहारश्च शिवशास्त्रविदूषकाः ॥२४॥पित्रघातश्च ब्रह्मघ्ना एवमाद्यास्त्वनेकशः ।यातना स्थानमाश्रित्य पतितं नरकार्णवे ॥२५॥अक्रोधशौचमाचार क्षान्तियुक्ति समायुतः ।यत्पुण्यं शिवभक्त्या तु सर्वं प्राणिदयान्वितम् ॥२६॥एवमाद्यानराः सर्वे गच्छन्ति नरकं न हि ।उच्छ्रयं नरकाणान्तु शृणुवत्स समाहितः ॥२७॥नवं नवतिलक्षाणि एकैकस्योच्छ्रयं विदुः ।पक्षमात्रान्तरं ज्ञेयं शतलक्षमिति स्मृतम् ॥२८॥एवन्तु त्रिशतं लक्षं नरकाणां प्रकीर्तितम् ।अधोरौरवमित्युक्तं कुंभिपाकन्तु मध्यमम् ॥२९॥अवीचिच्छोर्ध्वतो ज्ञेयं तेषां त्रिस्थानमुच्यते ।नरकाणामधोर्ध्वे तु विंशत् साहस्रसंयुतम् ॥३०॥नरकाधिपतिःसोयं कूश्माण्डस्तत्र संस्थितः ।नवन्नवति साहस्रं पुरन्तस्य प्रकीर्तितम् ॥३१॥शतसहस्रमिति ज्ञेयं लक्षमित्यभिधीयते ।कुश्माण्डाधिपतिः सोपि नरकाणां प्रभु स्मृतः ॥३२॥तस्योपरिष्ठात् पातालं अथयामि समासतः ।महातलं सुतलञ्च रसातलं तलातलम् ॥३३॥पातालं शङ्करञ्चैव आभासञ्चैव सपकम् ।महातलानां सप्तानां पाताल इति संज्ञितः ॥३४॥नागाश्चराक्षसश्चैव देवाश्चाप्सरसस्तथा ।महातले तूपस्वस्थे सक्रीडमुदितात्मनः ॥३५॥नवलक्षाणि चोत्सेध मन्तरं लक्षमुच्यते ।लक्षमात्रान्तरश्चैव पातालानां प्रमाणतः ॥३६॥ततः सौवर्णपातालं दशलक्षप्रमाणतः ।तस्योर्ध्वे तु वसुर्देवो हाटकः परमेश्वरः ॥३७॥नानालङ्कारसंयुक्तं पुरकोटिसमावृतम् ।तत्सर्वं हाटकं यस्मात् तस्माद्वेहाटकेश्वरः ॥३८॥तस्योर्ध्वे नवलक्षाणि अन्तरिक्षे प्रकीर्तितम् ।भूकटं दशलक्षाणां मृच्छ्रयन्तु विधीयते ॥३९॥कूश्मायुधिष्ठितं स्थानं शतलक्षमिति स्मृतम् ।शन्तलक्षं कोटिविज्ञेयं पञ्चाशत् कोटयं स्मृतः ॥४०॥भूम्यन्तं लक्षणं प्रोक्तं भूलोकानि ततः शृणु ।समुद्रैः सप्तभिर्युक्तं भूलोकमिति विश्रुतम् ॥४१॥भूलोकं तु वलोकश्च स्वल्लोकश्च महस्तथा ।जनलोकस्तपोलोकः सत्यलोकस्तु सप्तमः ॥४२॥प्रमाणं सप्तलोकानां लक्षणञ्च वदाम्यहम् ।भूलोकं प्रथमं वक्ष्ये समासात् तु शृणुष्व हि ॥४३॥नानाजन पदाकीर्णं नानावस्तु समायुतम् ।जंबूद्वीपादि संयुक्तं क्षीरमं बोधि संयुतम् ॥४४॥तस्यमध्ये महामेरुर्हेमरूपेण तिष्ठति ।लक्षयोजनमानेन कर्णिकारूपवत् क्रमात् ॥४५॥षोडशैस्तु सहस्राणि भूम्यधस्तात् प्रविष्टकम् ।चतुराशीतिसाहस्रं योजनोर्ध्वे विधीयते ॥४६॥ऊर्ध्वभागः समंमूलं द्विगुणं मूर्ध्निविस्तरम् ।नानाशिखरसंयुक्तं नानाभूमिमलतान्वितम् ॥४७॥तस्योर्ध्वे तु सभाः विद्यात् ब्रह्मणश्च महात्मनः ।नाम्नामनोवती चैव सर्वरत्नसमासतः ॥४८॥चतुर्दशसहस्राणि योजनानां प्रमाणतः ।नानालङ्कारसंयुक्ता ऋषिसिद्धगणायुताः ॥४९॥तस्योर्ध्वे शानदिग्भागे ज्योतिः शिखर उच्यते ।विंशतिश्च सहस्राणि विस्तारोत्सेधमेव च ॥५०॥नानालङ्कारसंयुक्तो नानावर्णसमासतः ।हेमप्रासादसंयुक्तं हेमप्राकारतोरणम् ॥५१॥सगन्धर्वसमायुक्तं सर्वदेव गणावृतम् ।गणैः सर्वैः समायुक्तं त्रिंशत् साहस्रशोभितम् ॥५२॥उमादेव्या सहैवाहं वसेन्नित्यं हि तत्र वै ।तस्य पश्चिमदिग्भागे वै कुण्ठः शिखरं भवेत् ॥५३॥सर्वालङ्कारसंयुक्तं मुनिसिद्धगणावृतम् ।चतुर्दशसहस्राणि विस्तारोत्सेधमेव च ॥५४॥सर्वरत्नमयं भासं हेमप्राकारतोरणम् ।तत्रैव वसते विष्णुः सर्वदेवगणावृतः ॥५५॥भूलोकरक्षणार्थाय वसन्तिमुदितात्मनः ।सृष्टिस्थितिश्चस्संहारान् कुर्वन्ति क्रमशः तथा ॥५६॥मूर्ध्निभागादधस्तात् तु योजनानां सहस्रकम् ।पूर्वे त्विन्द्रस्य विख्याता पूर्नाम्नात्वमरावती ॥५७॥आग्ने तेजोवती नाम्ना पूर्वह्नेस्तु प्रकीर्तिता ।यमस्य दक्षिणे भागे नानासंयमनी पुरी ॥५८॥कृष्णाङ्गनापुरीनाम्ना नि-ऋतोराक्षसालयम् ।पश्चिमे वरुणस्यैव नाम्नाशुद्धवती पुरी ॥५९॥वायोश्च वायुदिग्भागे नाम्नागन्धवती पुरी ।सोमस्योत्तरभागे तु पुरीनाम्नामहोदया ॥६०॥ईशानस्यैशदिग्भागे पूरीनाम्ना च धावती ।पुरैः कोटिसहस्रैस्तु सर्वैः सर्वप्रशोभितः ॥६१॥गङ्गाजलेन सुस्नात्वा क्रीडन्तिमुदितात्मनः ।चतुर्निष्कं भगिरयः पूर्वाद्यास्तु यथा क्रमात् ॥६२॥मन्दरः पूर्वदिग्भागे दक्षिणे गन्धमादनः ।पिङ्गलः पश्चिमे भागे सुपाशश्चोत्तरे तथा ॥६३॥श्वेतं हरितकी नीलं डाडिमी कुषुमप्रभम् ।योजनानि सहस्राणि तेषां पञ्चाशदुच्छ्रितम् ॥६४॥भूम्ने नाथोष्ट साहस्रञ्चत्वारिंशत् द्वयोच्छ्रितम् ।तेषान्तु मूलविस्तारं द्विगुणोपरिविस्तृतम् ॥६५॥मन्दरोपरिसंस्थन्तु कदंबो नामकवृतः ।सहस्रयोजनोत्सेधं स्कन्धैः साहस्र शोभितम् ॥६६॥कुंभाकारन्तु तत्पुष्पं शङ्खाभञ्च सहस्रकम् ।गन्धमादनमूर्ध्निस्थो जंब्वाख्यं तत्र वृक्षकः ॥६७॥कदंबद्विगुणोत्सेधं स्कन्धाः शाखास्तथैव च ।महागज प्रमाणानि तस्य जंबू फलानि तु ॥६८॥पतितानां फलानान्तु तेन जांबूनदी भवेत् ।तत्र वेगवतीनाम्ना कृत्वा मेरुप्रदक्षिणम् ॥६९॥तेन प्रवेशितं सर्वं कनकं देव भूषणम् ।ये तत्र वासिनः सर्वे जांबूनदमयास्तथा ॥७०॥अश्वत्थं केतुनाम्ना वै विपुलोपरि संस्थितिः ।सहस्रयोजनोत्सेद्धं स्कन्धैः साहस्रशोभितम् ॥७१॥अश्वत्थ फलवत् ज्ञेयं वृत्तनाम्नासु शोभितम् ।तस्यपार्श्वे तु न्यग्रोधस्तस्योपरितु संस्थितम् ॥७२॥गणैः सप्तैः समायुक्तं विचित्रैर्विविधैः शुभैः ।चतुर्वणानि चोक्तानि पूर्वादिनि च चोत्तराः ॥७३॥पूर्वे चैत्ररथं नाम्ना वनं पुष्पोपशोभितम् ।तस्य मध्ये तटाकोस्ति नाम्ना वै वारुणोदयः ॥७४॥नक्रैर्मत्स्यैरनेकैश्च मण्डितं पद्मपुष्पकैः ।दक्षिणे नन्दनं नामवनं तत्र विशेषतः ॥७५॥तटाकं मानसं नाम तस्यमध्ये प्रकीर्तितम् ।वै भ्राजं पश्चिमे भागे तटाकं विपुलोदकम् ॥७६॥सौम्ये पत्रवनं नाम तटाकं सुमनोहरम् ।ईदृशैर्ल्लक्षणैर्युक्तो मेरुस्तत्र प्रकीर्तितः ॥७७॥मेरुपार्श्वे तु वर्षाणि पारुषाणि समासतः ।लवणोदधिपर्यन्तो जंबूद्वीपं प्रकीर्तितम् ॥७८॥जंबूशाककुशक्रौञ्च शाल्मकोमेदपुष्करः ।सप्तद्वीपाः समाख्याताः समुद्राश्च ततः शृणु ॥७९॥क्षारंक्षीरोदधिः सर्पिरिक्षूदकमधूदकम् ।समोदकस्त्विति ख्याता सुमुद्राः सप्तकीर्तिताः ॥८०॥लक्षयोजनविस्तारं जंबूद्वीपं विनायक ।कमलाक्षोदितं विद्यात् लवणांभस्ततो बहिः ॥८१॥द्विगुणेना वृतं बाह्ये शाकद्वीपस्तु नामतः ।द्विगुणात् द्विगुणं ह्येवं द्वीपात् द्वीपसमुद्रकम् ॥८२॥स्वादूदकान्तामेर्वादि प्रमाणं पञ्चकोटयः ।सप्तलक्षाधिकाः प्रोक्तास्वाधिपत्यान्ततः शृणु ॥८३॥देवाश्चराक्षसाश्चैव ईश्वरेण सुचोदिताः ।स्वयंभुवमनुः पूर्वं सप्तद्विपान् सुरक्षितः ॥८४॥तस्यपुत्रो महावीर्यः प्रियव्रतः सुरक्षकः ।दशपुत्राः समुत्पन्नाः तस्यवीर्यान् महाबलाः ॥८५॥अग्निधृत् त्वग्निबाहुश्च मेधामेधातिथिर्विभुः ।ज्योतिष्ठान् धृतिमान् भव्योवसनः पुत्र एव च ॥८६॥अग्निबाहुश्च मेधावी पुत्रा प्रवृजितास्त्रयः ।शेषाणां सप्तपुत्राणां सप्तद्वीपांशभागिनः ॥८७॥अग्निधृत् बाहुवीर्येण जंबूद्वीपः सुरक्षितः ।नाभिः किं पुरुषश्चैव हरिश्चैव जलावृतः ॥८८॥भद्राश्च केतुमालश्च पुष्यकस्तु हिरण्मयः ।पुत्रनामाथ नवमो नवपुत्राः प्रकीर्तिताः ॥८९॥जंबूद्विपन्तु तेषां वै नवभागं प्रकल्पितम् ।त्रयस्तु दक्षिणाख्यातो चोत्तरे त्रय एव तु ॥९०॥त्रयस्तु मध्यमे ख्याताः पर्वतान्तरितः तथा ।दक्षिणे हिमवाह्ने मकूटस्तस्यैव चोत्तरे ॥९१॥निषधस्य समाख्यातो हेमकूटस्य चोत्तरे ।नीलश्चेत्तु स्त्रिशृंगश्च उत्तरस्य च निर्गतः ॥९२॥समुद्रादधिकाशस्ता स्थिता प्राक् पश्चिमायता ।सर्वैश्वर्य समायुक्ता षडेते गिरयस्तदा ॥९३॥पूर्वपऽऽस्चिम मेरोस्तु माल्यवान् गन्धमादनौ ।निषधनील पर्यन्तौ नगौ सौम्योत्तराथतौ ॥९४॥योजनाशीति विस्तारौ सहस्रद्वयकोच्छ्रितौ ।हिमवान् हिमवर्णस्तु हेमकूटस्तु हेमवत् ॥९५॥निषधः पद्मरागाभो नीलाभोगन्धमादनः ।माल्यवान् पीतवर्णस्तु नीलोरत्तमयस्तथा ॥९६॥श्वेतस्तु सितवर्णः स्यात् त्रिशृंगी चन्द्रकान्तवत् ।सीमास्तु गिरयप्रोक्ता देशां देशाधिपान् शृणु ॥९७॥त्रिशृंगस्योत्तरे पार्श्वे दक्षिणे लवणोदधेः ।क्मरदेशस्त्वितिख्यातः स्वधिपाश्च गुरुर्भवेत् ॥९८॥धन्वाकारः सविज्ञेयो नवसाहस्रयोजनः ।भूमिसुवर्णवत् ज्ञेया वालुकाश्च तथा स्थिता ॥९९॥जनावसन्ति सर्वत्र कामवृक्षफलाशिनः ।त्रिशतानि सहस्राणि जीवन्ति वत्सराणि वै ॥१००॥द्वेद्वेपुत्रौ प्रसूयन्ते स्त्रीप्रजानां तथैव च ।श्यामपुष्पनिभाकारा भयदुःखविवर्जिताः ॥१०१॥सूर्यकान्तेषु कान्तश्च तत्रैव कुलपर्वतौ ।रुरोर्नामना तु तं विद्धि कुरु विन्दस्ततस्तु वै ॥१०२॥चन्द्रदिपं समाख्यातं प्रविश्यलवणोदधिम् ।तस्य वायव्यदिक्भागे द्विपो भद्राकर स्मृतः ॥१०३॥सहस्रायुर्जनास्तत्र सुदिव्याम्र फलाशिनः ।त्रिशृंग श्वेतयोर्मध्ये हिरण्यं वर्षको भवेत् ॥१०४॥नवसाहस्र विस्तारं समुद्रावधि दीर्घकम् ।जनास्त्विन्दुमुखाः सर्वे वकुलस्य फलाशिनः ॥१०५॥जीवन्नेवं सहस्राब्दं तेषामायुः प्रकीर्तितम् ।सुनील श्वेतयोर्मध्ये रम्यं वर्षमिति स्मृतम् ॥१०६॥विस्तारं नवसाहस्रं समुद्रान्तायुतं महत् ।न्यग्रोधस्य फलं प्राश्य नीलोत्पलसमप्रभाः ॥१०७॥द्वादशाब्दसहस्राणि जीवन्ति भयवर्जिताः ।मेरु प्रदक्षिणं देशमवधूतनरं तथा ॥१०८॥नवसाहस्र विस्तारं योजनानां समन्ततः ।तस्येन्दु रश्मय स्थित्यामेरुदीप्त्यासुदीपिता ॥१०९॥जंबूफलरसं पीत्वा जनारोगविवर्जिताः ।त्रयोदशसहस्राब्दं तेषामायुः प्रकीर्तितम् ॥११०॥समुद्रस्य तु पूर्वे तु गन्धमादनपश्चिमे ।केतुमालाख्य वर्षस्तु जनाः श्याम निभास्तथा ॥१११॥पनसस्य फलं भुक्त्वा जीवन्त्ययुतवत् सराः ।चतुस्त्रिंशत् सहस्राणि योजनादक्षिणोत्तरे ॥११२॥पूर्वपश्चिममायामं द्वात्रिंशच्च सहस्रकम् ।उदधेः पश्चिमे भागे पूर्वे वै वाह्यवत्गिरेः ॥११३॥भद्राश्वनामवर्षं हि जनाश्चंद्र निभास्तथा ।ते कृष्णाम्रफलं प्राश्य लभेदयुतमायुषम् ॥११४॥तस्य दीर्घञ्च विस्तारं केतु मालाद्रिवर्ततः ।दक्षिणे निषधस्यैव हेमकूटस्य चोत्तरे ॥११५॥तं विद्धि हरिवर्षन्तु समुद्रान्तायुतं स्मृतम् ।विस्तारन्नवसाहस्रं योजनानां प्रमाणतः ॥११६॥जनस्त्विक्षुर संपीत्वा रौप्याभास्तत्र वासिनः ।द्वादशैव सहस्राब्दं तेषामायुः प्रकीर्तितम् ॥११७॥दक्षिणे हेमकूटस्य सौम्ये हिमवतस्तथा ।मध्ये किं पुरुषं वर्षं विस्तारायामपूर्ववत् ॥११८॥जनाः सुवर्णवर्णाश्च जीवन्ति प्लक्षभोजनाः ।द्वादशाब्दं सहस्रायुस्तेषा जीवान्तमुच्यते ॥११९॥हिमवत् दक्षिणे भागेप्युत्तरे लवणोदधेः ।नाभेश्च वृक्षोत् भवनो भरतस्तत्सुत स्मृतः ॥१२०॥तन्नाम्नाभरतं वर्षं धन्वाकारन्तदुच्यते ।नवसाहस्रविस्तारं समुद्रान्तरितायतम् ॥१२१॥नानाजन पदाकीर्णञ्जनारोगभयान्वितम् ।कल्पसौख्यं महादुःखं जनाः कृष्यान्नभोजनम् ॥१२२॥तेषां शताब्दमायुष्यं चतुर्युगवशात् पुनः ।गुणमेवं विजानीयात् शुभाशुभफलार्जनम् ॥१२३॥कर्मभूमिरियं विद्धि स्वर्गभूमिस्तथापरा ।मुक्तिभुक्तिफलं प्राप्यं शिवं सांप्राप्ययत् ततः ॥१२४॥ततो भारतवर्षञ्च नवभागं प्रकल्पितम् ।नवपुत्रास्तु जायन्ते भरतस्येन्द्र पूर्वकाः ॥१२५॥इन्द्रश्चैव कशेरुश्च ताम्रवर्णो गभस्तिमान् ।नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिकाः ॥१२६॥तेषां नाम्नैव बोद्धव्या द्वीपश्चैकैकशः क्रमात् ।इन्द्र द्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥१२७॥नागद्वीपञ्च सौम्यञ्च गान्धर्वो वरुणं तथा ।नवमा तु कुमाराख्या तेषां भेदाः प्रकीर्तिताः ॥१२८॥सागरान्तरितः कृत्वा स्थलं पञ्चशतं भवेत् ।कुमारद्वीपाधान्यास्तु म्लेश्चद्वीपाः प्रकीर्तिताः ॥१२९॥चतुर्वणसमायुक्तञ्चतुराश्रम संयुतम् ।गंगादीनां नवानान्तु ज्ञेयाः पञ्चशतानि तु ॥१३०॥तीर्थानां कोटयः प्रोक्ता महापुण्यफलोदयाः ।हिमवत्यन्तरे पार्श्वे कैलासशिखरं महत् ॥१३१॥रौप्यवर्णं महाशेष मुनिसिद्धैर्निषेवितम् ।सर्वालङ्कारसंयुक्तं द्रुमैः सर्वत्र शोभोतम् ॥१३२॥तत्रैव वसतो नित्यमुमादेवी समन्वितः ।अष्टषष्टि महाक्षेत्रं पुराणस्यादि संस्थितम् ॥१३३॥जंबूद्वीपादि षट्द्वीपाः सागरेषु व्यवस्थिताः ।महेन्द्रोमन्धरः सख्यशुक्तिमानृक्ष पर्वतः ॥१३४॥विन्ध्यश्च पारीपात्रश्च इत्येते कुलपर्वताः ।मलयद्वीपगालंका चामीकरमयाशुभा ॥१३५॥नानाविचित्र संयुक्ता रमन्ते राक्षसेस्वरैः ।जंबूद्वीपं समाख्यातं लवणोदञ्च मच्छृणु ॥१३६॥लक्षद्वयन्तु विस्तारं लवणोदधिरावृतम् ।भूधराद्वादशाश्चैव प्रविष्टा लवणोदधौ ॥१३७॥प्रभावश्चैव धूम्रश्च दुन्दुभिः पूर्वभागतः ।चक्रञ्चैव तु मैनाकं वलाहं दक्षिणे तथा ॥१३८॥मैनाकचक्रयोर्मध्ये संस्थितो बडबानलाः ।वराहः सोमके तु श्वनन्दनं पश्चिमे दिशि ॥१३९॥कंकश्चन्द्रस्तथा द्रोणश्चोत्तरे संव्यवस्थिताः ।लवणोदधिरित्युक्तच्छाक द्वीपं ततः शृणु ॥१४०॥शाकद्वीपाधिपो यावान् पुष्पवान् कुशद्वीपके ।ज्योतिष्मान् क्रौञ्च द्वीपे तु शाल्मल्यां द्युतिमां तथा ॥१४१॥गोमेदेध नवान् प्रोक्तवासीनस्तु महाबलाः ।दौपुत्रौ तु समाख्यातौ द्विभागौ तत्र कीर्तितौ ॥१४२॥पर्वतं वलयाकारं मानसोत्तरनामतः ।कृतादियुगवत्कालः शाकादिद्वीपवासिनाम् ॥१४३॥स्वादूदान्तन्तु मेर्वादि विस्तारं पञ्चकोटयः ।सप्तलक्षाधिकं तत्र समासात् परिकीर्तितम् ॥१४४॥ततो हेममयं भूमि विस्ताराद्दशकोटिकाः ।देवानां क्रीडनार्थाय प्रोच्यते त्रमया ततः ॥१४५॥लोकालोक स्वनाम्ना तु पर्वतं वृत्तरूपतः ।सहस्रयोजनन्तारमुत्सेधं लक्षयोजनम् ॥१४६॥लोकपाला स्थितास्तत्र सिद्धामर निषेविताः ।तस्यान्तर्भासते सूर्यस्त्वन्धकारस्त्वथा परः ॥१४७॥लोकालोकः समावृत्य गर्भोदधिसमुद्रकान् ।गर्भोदधिसमावृत्य पार्थिवा वरणं स्मृतम् ॥१४८॥पात्थिवन्तु समावृत्य कटाहं कोटिविस्तृतम् ।कटाहं मेरुमध्यान्तं पञ्चाशत् कोटय स्मृताः ॥१४९॥दशदिक्षु समंज्ञेयं प्रमाणः शतकोटयः ।भूलोकश्च समाख्यातो भुवलोकं ततः शृणु ॥१५०॥लक्षयोजनमानेन सूर्यलोकं विधीयते ।द्वादशादित्य वसवो रुद्राश्चैकादशः तथा ॥१५१॥अश्विनौ द्वौस्त्रयस्त्रिंशत् सञ्चरन्ति शिवेच्छया ।मेरु प्रदक्षिणे नैव भुवलोकमिति स्मृतम् ॥१५२॥तस्योपरितुं क्षेण चन्द्रलोकं विधीयते ।चन्द्रोर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥१५३॥लक्षद्वये बुधं विद्यात् द्विलक्षे भार्गव स्मृतः ।लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः ॥१५४॥सौरिलक्ष द्वये प्रोक्तो मुनयो लक्षयोजने ।अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥१५५॥भृग्वङ्गिरामरीचिश्च मुनयः सप्तकीर्तिताः ।उपरिष्टाधृवः प्रोक्तस्त्वेक लक्षप्रमाणतः ॥१५६॥चन्द्रलोकाद्धृवान्तश्च स्वर्ल्लोकमिति कीर्तितम् ।दशपञ्च च लक्षाणि भूतपृष्ठाद्धृवान्तकम् ॥१५७॥ततोपरिमहल्लोकं द्विकोटियोजनं स्मृतम् ।पञ्चाशीति च लक्षाणि जनलोकमिति स्मृतम् ॥१५८॥अष्टकोटित पोलोकमुपर्युपरि संस्थितम् ।द्वादशैव तथा कोटिः सत्यलोकं विधीयते ॥१५९॥महर्ल्लोकादि सत्यान्तं रुद्रास्तत्र निवासिनः ।कोटिषोडशमानेन ब्रह्मलोकं विधीयते ॥१६०॥कोटियोजनमानेन विष्णुलोकं प्रकीर्तितम् ।नवकोटिप्रमाणेन रुद्रलोकमिहोच्यते ॥१६१॥कटाहेस्य घनंकोटिः पञ्चाशत्कोटय स्मृताः ।शतयोजनकोट्येवं कोट्या ब्रह्माण्ड तत्र वै ॥१६२॥ब्रह्माण्डधारकास्तत्र शतसंख्या शृणुष्वहि ।कपालीशो ह्यजोबुद्धो वज्रदेहः प्रमर्दनः ॥१६३॥विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।इन्द्रस्यबलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६४॥विचरन्ति महारुद्राः शक्रराजस्य पूजिताः ।अग्निरुद्रोहुताशश्च पिङ्गलः कादको हरः ॥१६५॥ज्वलनोदहनो बभ्रू भस्मान्तकक्षयान्तकः ।अग्नेस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६६॥विचरन्ति महारुद्रा वह्निराजस्य पूजिताः ।याम्येऽमृत्युहरोधाता विधाता कर्तृकालकः ॥१६७॥संयोक्ता च वियोक्ता च धर्माधर्म वृतिस्तथा ।धर्मस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६८॥विचरन्ति महादेवायमराजेन पूजिताः ।नै-ऋतोमारणो हन्ता क्रूर दृष्टिर्भयानकः ॥१६९॥ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ।नि-ऋतेः बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७०॥विचरन्ति महादेवा राक्षसेन सुपूजिताः ।वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७१॥विचरन्ति महादेवा वारुणेन सुपूजिताः ।शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्ण क्षयान्तकः ॥१७२॥पञ्चान्तकः पञ्चशिखः कपर्दीमेखवाहनः ।वायोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७३॥विचरन्ति महादेवाः सोमराजेन पूजितः ।विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥१७४॥सुरेश्वरश्च सर्वेशो भूतपालोबलि प्रियः ।सुखकृद्दुःखकृच्छैते शैवेन तु समासतः ॥१७५॥ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।विचरन्ति महादेवा ईशानेन तु पूजिताः ॥१७६॥वृषोवृषधरः कान्तो क्रोधेशस्वनिलाशनः ।ग्रसनोदुंबरश्चैव फणीन्द्रो वज्रदंष्ट्रवान् ॥१७७॥विष्णोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ।विचरन्ति महादेवा विष्णुनामसुपूजिताः ॥१७८॥प्रोक्तोयं पृथिवी पश्चात् आप्यन्तत्वमतः शृणु ।ब्रह्माण्ड परितः स्थाप्य दद्याद् दशगुणावृतम् ॥१७९॥अमरेशं प्रभावञ्च नैमीशं पुष्करं तथा ।आषाढीशञ्च पिण्डीशं हारभूतञ्च वाकुलम् ॥१८०॥प्रोष्टं गुह्याष्टकं ह्येवं जलावरणमाश्रितम् ।ऊर्ध्वे दशगुणेनैव वह्नेरावरणं महत् ॥१८१॥हरिश्चंद्रं सुशैलञ्च जल्पेरम्रातिकेश्वरम् ।महाकालं मध्यमञ्च केदारं भैरवं तथा ॥१८२॥अतिगुह्याष्टकं ह्येवं अग्न्यावरणमाश्रितम् ।वाय्वावरणमूर्ध्वे तु विह्नेर्दशगुणं महत् ॥१८३॥गया चैव कुरुक्षेत्रं नखलं नाखलं तथा ।विमलञ्चाट्टहासञ्च महेन्द्रं भीम एव च ॥१८४॥गुह्यात्गुह्याष्टकं ह्येवं अनिलावरणैः स्थितम् ।तदूर्ध्वन्तु भवेद् व्योमं स्थितं दशगुणावृतम् ॥१८५॥वस्त्रापदं रुद्रकोटिं रविमुक्तं महालयम् ।गोकर्णं भद्रकर्णञ्च सुवर्णाक्षञ्च स्थाणुकम् ॥१८६॥पवित्राष्टकमेवं हि व्योमावरणमाश्रिताः ।अत ऊर्ध्वमहंकारं स्थितं दशगुणेन तु ॥१८७॥खगलेन्दु करण्डञ्चोमाकोटि मण्डलेश्वरम् ।कौञ्जरं शंखुकर्णञ्च स्थूलेश्वरं स्थलेश्वरम् ॥१८८॥स्थानाष्टकमिदं विद्यात् पूर्वाद्यैः शान्तकं स्थितम् ।श्वेतगुह्याष्टकं प्रोक्तं रक्तं चैवाजगुप्सितम् ॥१८९॥गुह्यात्गुह्याष्टकं पीतं कृष्णञ्चैव पवित्रकम् ।स्थानाष्टकं स्फटीकाभमेवं पञ्चाष्टकं स्मृतम् ॥१९०॥पक्षाकारस्तु भवताभ्युच्य वै तु निवासता ।एते श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तिताः ॥१९१॥अथ चोर्ध्वे भवेत् बुद्धि स्थिता दशगुणावृता ।पैशाचं राक्षसं याक्षं गान्धर्वञ्चैंद्रमेव च ॥१९२॥सौम्यं प्राजेश्वरं ब्राह्मं देवयोन्यष्टकं स्मृतम् ।एतत् पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ॥१९३॥स्थानान्युक्तानि दिव्यानि सर्वैश्वर्ययुतानि च ।गुणावरणमूर्ध्वे तु बुद्धेर्दशगुणं स्मृतम् ॥१९४॥अकृतञ्च कृतञ्चैव भैरवं ब्राह्म एव च ।वैष्णवञ्चाथकौमारं कौमिश्रैकर्णमेव वा ॥१९५॥प्रोक्ता योगाष्टकं ह्येवं गुणावरणामाश्रितम् ।योगेश्वरेषु यो भोक्ता योगं पूजन्ति तत्पराः ॥१९६॥तेषां स्थानानि दिव्यानि योगैश्वर्ययुतानि तु ।अव्यक्तमत ऊर्ध्वे तु स्थितं दशगुणावृतम् ॥१९७॥क्रोधश्चण्डश्च संवक्तो ज्योतिः पिङ्गलसूरकः ।पञ्चान्तकैक वीरश्च शिवेन सहितेश्वरः ॥१९८॥महादेवाष्टकं ह्येवं तद्व्यक्तावरणे स्थितम् ।अव्यक्त प्रकृतिश्चैव प्रधानमिति चोच्यते ॥१९९॥अत ऊर्ध्वं भवेदन्यद्रागाख्यावरणं विदुः ।तत्प्रधानात् शतगुणं पौरुषन् तत्वमुत्तमम् ॥२००॥तत्र रुद्रो महातेजो वाम देवौ भवोद्भवौ ।एकलिङ्गेक्षणेशान भुवनैश्च परस्परम् ॥२०१॥अङ्गुष्ठमात्रास्ते देवास्त्वङ्गुष्ठात्मक संज्ञकाः ।माया ज्ञानविनिर्मुक्ता परमेश प्रभावकाः ॥२०२॥तत्रैव पुरुषो ज्ञ्यो रागाख्यावरणाश्रिताः ।षट्कौशिकानि भूतानि भूतानि विषयाणि च ॥२०३॥मनोबुद्धिरहंकार स्त्रिगुणश्च विशेषतः ।एतैर्युक्तस्तु पुरुष आत्मतत्वे भुवि स्थितः ॥२०४॥विद्यातत्वन्तदूर्ध्वन्तु रागाच्छतगुणं भवेत् ।वामदेवोधभीमश्च उग्रश्चैवस्तथा पि च ॥२०५॥शर्वैशानैक वीरश्च ईश्वरश्च प्रचण्डधृत् ।ईश्वरोथ उमाभक्त अजेशोनन्द एव च ॥२०६॥ततो ह्येक शिवश्चैव विद्यावरणमाश्रिताः ।कालतत्वं भवेदूर्ध्वं विद्यायास्तु शताधिकम् ॥२०७॥उच्छ्रच्छुष्कश्चांबरश्च मातंगोघोररूपकः ।याम्योहलाहलश्चैव क्रोधेशोवसवामुखः ॥२०८॥स्थूलरुद्रोवर्ष रुद्रोरुद्रोगलगुरुस्तथा ।द्वादशैते महावीर्या कलावरणमाश्रिताः ॥२०९॥अत ऊर्ध्वं भवेन्माया कलायास्तु शताधिकाः ।संपुटद्वितये माया रुद्रैर्द्वादश संस्थिताः ॥२१०॥अधश्च संपुटे विद्यादूर्ध्वश्वासं पुटे परम् ।गहने शस्त्वव्ययश्च तथा हरिहर प्रभुः ॥२११॥दशैशानस्तथा चैव त्रिकालो गोपतिस्तथा ।अधोमाया पुटान्ते तु षड्रुद्रास्ते प्रकीर्तिताः ॥२१२॥क्षेमीशो ब्रह्मचारी च विद्येशानस्तथैव च ।विश्वेश्वरः शिवश्चैव अनन्तस्तु षडेव हि ॥२१३॥ऊर्ध्वजा या पुटान्तास्तु एते रुद्रा प्रकीर्तिताः ।तेषां मध्ये सभगवाननन्तेशो जगत्पतिः ॥२१४॥उत्पत्तिं भावयित्वा तु कुरुते स्वेच्छया प्रभुः ।मायाद्यवनि पर्यन्ता ये रुद्राः संस्थिताः क्रमात् ॥२१५॥भुंजते तत्र तत्रैव भोगादिमुदितात्मनः ।पश्चात् ज्ञानं समाश्रित्य शिवतत्वं समाश्रिताः ॥२१६॥मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु ।मायोर्ध्वे तु भवेदात्मा स्थितिः शतगुणेन तु ॥२१७॥तदात्मा विमलः शुद्धः सर्वज्ञत्वादिभिर्गुणैः ।जगत् बीजमिदं ज्ञेयं शिवव्यक्तिकरं परम् ॥२१८॥माययासं वृतो ह्यात्मा शिवव्यक्तिकराय च ।पशुपाश पतित्वञ्च त्रिगुणं विद्यते तथा ॥२१९॥आत्मानमेवं वेत्तव्यं विद्यातत्वं तथा शृणु ।आत्मनस्तु सहस्रांशात् विद्यातत्वन्तु संस्थितम् ॥२२०॥ईश्वरः संस्थितस्तत्र ब्रह्माङ्गादि समन्वितः ।तदूर्ध्वे चैव सादाख्यं तत्र संस्थः सदाशिवः ॥२२१॥तदूर्ध्वे बिन्दुतत्वन्तु तदूर्ध्वे नादमेव तु ।तदूर्ध्वे शक्तितत्वं हि चोर्ध्वे प्रथमशक्तिकम् ॥२२२॥तदूर्ध्वे शिवतत्वन्तु सर्वतत्वोपरि स्थितः ।शिवा?द्यवनि पर्यन्तं व्यापकन्तेन तेजसा ॥२२३॥पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।अहङ्कारस्तथा बुद्धिर्गुणमव्यक्तमेव च ॥२२४॥रागत्वञ्च ततः तस्मिन् दशपञ्चेन्द्रियाणि च ।विद्याकालकला माया आत्मानन्तु तथैव च ॥२२५॥शुद्धविद्या चं सादाख्यं बिन्दुनादन्तथैव च ।द्वितीयं शक्तितत्वं च प्रथमं शक्तिमेव च ॥२२६॥षट्त्रिंशत्तत्वमेतानि शिवतत्वोद्भवा इह ।ब्रह्माण्डं पृथिवी ज्ञेया प्रकृत्यञ्जलकं स्मृतम् ॥२२७॥तेजो विद्यान्तमेवं हि वायुः सदाशिवान्तकम् ।व्योमः शक्त्यन्तमेषां वै पञ्चतत्वेषु संस्थितम् ॥२२८॥एतानि पञ्चतत्वानि सुतत्वे तु स्थितानि तु ।मायान्तानि च तत्वानि शिवतत्वमुदीरितम् ॥२२९॥आत्मैव चात्म तत्वस्य सर्वतत्व प्रभुः स्मृतम् ।विद्या तत्वादिशक्त्यन्तं विद्यातत्वमिति स्मृतम् ॥२३०॥इति अध्वाविधिपटलः ॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP