संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ ज्ञानपादः| पशुसृष्टिविधिपटलः अथ ज्ञानपादः शिवसृष्टिविधिपटलः पशुसृष्टिविधिपटलः अध्वाविधिपटलः अथ ज्ञानपादः - पशुसृष्टिविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः पशुसृष्टिविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि पशुसृष्टिविधिक्रमम् ।अनादित्वं पशुत्वञ्च प्रोच्यते शिवशासने ॥१॥शिवात्तु विद्यते चात्मा जगत् सृष्ट्यर्थमेव तु ।विद्या तत्वादियोगेन आत्मतत्वमुदीरितम् ॥२॥अथात्मा विमलः शुद्धो माययाबद्धते सदा ।सहजं मलसंबन्धात् पशुरित्युच्यते बुधैः ॥३॥अमूर्तिस्तु पशुर्नित्यो निर्गुणोनिष्क्रियो प्रभुः ।मायोदरगते व्यापि भोगोपायेषु वर्तितः ॥४॥सकेवलस्त्विति प्रोक्ता स्वाणवं मलबन्धनात् ।आणवं सहजं प्रोक्तं तु षकंबुकवत् क्रमात् ॥५॥मोहोमदश्चरागश्च विषादश्चैव शोषितम् ।हर्षको हि च वै चित्र्यं सप्तैते सहजामलाः ॥६॥सहजं मलसंबन्धे केवलं तदुदाहृतम् ।सहजं मलमित्युक्तमागन्तु कमलं शृणु ॥७॥मायेयं कर्मजञ्चैव द्विविधं शिवसाधने ।शक्त्याकाचित् बन्धनादि कलाद्यवनिलक्षितम् ॥८॥मायायत्तं विजानीयात् पुण्यपापैश्च कर्मजम् ।आणवञ्चैव माये यंकामजञ्च त्रिधा भवेत् ॥९॥मलोज्ञानन्तमश्चैव तिरस्कारकरस्तथा ।प्रतिपत्तिरविद्येति ममपर्याय वाचकाः ॥१०॥त्रिमलैर्बद्ध्यते चात्मा सकलः परिवादितः ।सकलश्चेति बद्धात्मा संसारी विषयि तथा ॥११॥क्षेत्री क्षेत्रज्ञ भोक्ता च पशुज्ञानी तथैव च ।भोगी चैव शरीरी च आत्मपर्याय वाचकः ॥१२॥अशीतिश्च चतुश्चैव शतःसाहस्र भेदकैः ।संप्राप्तो योनिभेदस्तु जीवनाम्ना तु तत्र वै ॥१३॥प्रोक्ता तु सकलावस्था शुद्धावस्था ततः शृणु ।मलानां नाशनार्थय अन्यच्छक्तिनिपा ततः ॥१४॥यावच्छक्तिनि पातान्तं तावदज्ञानवेदनम् ।पूर्वकर्माणि सर्वाणि समके शक्तिपातने ॥१५॥सदाशिवत्वमापेक्ष्य शिवे भक्तिर्भवेद्यथा ।तदादीक्षां प्रविश्याथ पूजाश्चैव तु भक्तितः ॥१६॥योगाभ्यासं ततः कृत्वा ज्ञान तंत्रं तदाभ्यसेत् ।तदा ज्ञानान्धकारञ्च ज्ञानदीपेन नाशयेत् ॥१७॥स्वभावशुद्धं तत्ज्ञानं स्वभावन्तु तथामलम् ।श्यामनीलादि संबन्धे स्फटिकं तद्वदेव हि ॥१८॥तत्वेनाति प्रयत्नेन शुद्धस्फटिकवत् भवेत् ।घटगुप्तो यथा दीपो घटनाशे तु दीप्यते ॥१९॥घटाभूक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् ।तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ ॥२०॥मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः ॥२१॥ईश्वर स्मृतिना काले लब्धत्वं सतिनिर्मलम् ।अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः ॥२२॥सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् ।भ्रमेनष्टे यथा काले तदा सर्पं न दृश्यते ॥२३॥अथात्म बन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः ।स्वभावं ज्ञानतोमुक्तिः सजीवन्मुक्त एव हि ॥२४॥देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् ।सोहं ज्ञाने तु पश्चाद् वै पूजाध्वाने तु वर्जयेत् ॥२५॥सर्वतत्वानि भूतानि दृश्यते चात्म एव हि ।समत्व सुखदुःखाभ्यां तत्प्रियाप्रिययोः समम् ॥२६॥शरीरारब्धकर्माणि भुज्यते स्वयमेव तु ।हिंगुत्यक्ते तु तत्पात्रे गन्धं तत्र न नश्यति ॥२७॥कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा ।तत्वज्ञ सर्वकर्माणि शरीरन्तेषु नाशनम् ॥२८॥अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले ।त्रिवर्ण स्थानियो ज्ञात्वा पुनर्जन्म न विद्यते ॥२९॥शुद्धावस्था इयं प्रोक्ता सर्वतत्वादिभिर्गुणैः ।त्र्यवस्थं पुरुषः प्रोक्तः ह्यध्वानञ्च ततः शृणु ॥३०॥इति पशुसृष्टिविधिपटलोद्वितीयः ॥२॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP