संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|ज्ञानपदः| शिवसृष्टिविधिपटलः ज्ञानपदः शिवसृष्टिविधिपटलः पशुसृष्टिविधिपटलः अध्वाविधिपटलः ज्ञानपदः - शिवसृष्टिविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् शिवसृष्टिविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः ।तस्यादौ शिवसृटिञ्च शृणुष्वेकाग्रमानसः ॥१॥ज्ञानं प्रवर्तते वत्सभ्रान्ति निर्नाशनाय च ।अध्वाश्रेणि विनाशाय शिवव्यक्तिकराय च ॥२॥अन्धकारवद ज्ञानं ज्ञानं दीपवदुच्यते ।ज्ञेयं भास्करवत् प्रोक्तं पश्चात् ज्ञानं विनश्यति ॥३॥पाशजालानि विच्छेद्य तीष्णादिज्ञानमुच्यते ।पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः ॥४॥ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशयः ।शिवाद्यवनिपर्यन्तं लक्षणं शृणु सांप्रतम् ॥५॥योगिनामुपकाराय मोक्षार्थं भुक्तये तथा ।सृष्ट्यर्थं सर्वजन्तूनां तदा सृष्टिद्वयं स्मृतम् ॥६॥शिवसृष्टिस्तथा पूर्वापशु सृष्टिर्द्वितीयका ।शुद्धदेव समायुक्ता शिवसृष्टिरुदीरिता ॥७॥मलैरावृत्य शुद्धात्मा पशुसृष्टिः प्रकीर्तिता ।चराचरादि भेदैस्तु क्रीडते परमेश्वरम् ॥८॥शिवसृष्टिं समासेन शृणु सर्वान् गजानन ।शिवं परात्परं ब्रह्मवत्? प्रमेयमिति स्मृतम् ॥९॥मलत्वां निन्दितं ज्ञेयममलत्वाद निन्दितम् ।अनौपम्य समादृश्यं दक्षिणत्वं यथाव्ययम् ॥१०॥व्योमातीतात् परं सूक्ष्मं नित्यङ्कारण शून्यतः ।व्यापीत्वात् सर्वगं प्रोक्तं स्वामिभावात् प्रभुसृतम् ॥११॥वाङ्मनोव्यतिरिक्तत्वात् प्रमाणातीतगोचरम् ।प्रत्यक्षादिप्रमाणानि शृणुवत्स समाहितः ॥१२॥प्रत्यक्षमनुमानञ्च शब्दञ्चोपमयासह ।अर्त्था पत्तिरभावश्च षट्प्रमाणमिति स्मृतम् ॥१३॥अक्षादिकरणैर्दृश्यं प्रत्यक्षन्तदिहोच्यते ।लिङ्गालिङ्गादि विज्ञान मनुमानमिति स्मृतम् ॥१४॥आप्तोक्तिवचनैर्गम्यं शब्दमेवमुदाहृतम् ।तत्सादृश्याद् यथा गम्या ह्युपमाचेति कीर्तिता ॥१५॥दिवाभोजनमस्तीति रात्रौ नास्तीति गम्यते ।अर्थेनैवार्थ विज्ञेया चार्थापत्तिरिति स्मृतम् ॥१६॥भ्रान्ति ज्ञाने ह्यभावे तु स्वयज्ञानन्तु गम्यते ।भ्रान्त्या भावे स्वयं ज्ञानमभावमिति कीर्तितम् ॥१७॥एवमादिप्रमाणैस्तु दुर्लक्ष्यन्तच्छिवं स्मृतम् ।शिवतत्वमिदं प्रोक्तं तत्वा नामखिलात्मनाम् ॥१८॥सृष्ट्यर्थं लोकरक्षार्थं लोकस्योत् पत्तिकारणम् ।साधकानां हितार्थाय स्वेच्छया ग्रह्णते तनुम् ॥१९॥तच्छरीरं त्रिधाज्ञेयं निष्कलं सकलनिष्कलम् ।सकलञ्च तथा ज्ञेयं त्रिविधन्तु विशेषतः ॥२०॥निष्कलन्तु चतुर्भेदं सकलञ्च तथा भवेत् ।सकलं निष्कलञ्चैव नवधाकीर्तिताः क्रमात् ॥२१॥शिवतत्वात् सहस्रांशाच्छां निर्नाम्ना समुद्भवा ।शान्तिश्चेति पराप्राहुस्तस्यापर्याय वाचकः ॥२२॥तस्माच्चैव सहस्रांशाच्छक्तिनामा समुत्भवा ।शक्तिश्चैव तु विद्या च पर्यायस्तदुदाहृतः ॥२३॥तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः ।नादस्तस्य प्रतिष्ठा च पर्यायस्त्विति कीर्तिताः ॥२४॥तस्माद् दशैकभागेन बिन्दुतत्व समुद्भवः ।बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकौ ॥२५॥परं भावं समारभ्य सर्वज्ञत्वादिभिर्गुणैः ।अव्यक्तानि च रूपाणि निर्ल्लक्ष्यानि क्रियास्तथा ॥२६॥चतुर्था निष्कलं ह्येवं शिवतत्वं समुच्यते ।ध्यानपूजाविहीनस्तु निष्कलत्वं द्वितीयका ॥२७॥इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम् ।तस्माद् दशैकभागेन सादाख्यं तत्वमुद्भवम् ॥२८॥लिङ्गपीठ प्रकारेण सादाख्यं तत्वलक्षणम् ।लिङ्गेशंभुः समुत्भूतो नाम्ना सदाशिवेन तु ॥२९॥पीठे शक्तिः समुत्भूतो नाम्ना चैव मनोन्मनी ।लिङ्गे च पीठिकायाञ्च शक्तिशंभू समुद्भवौ ॥३०॥लिङ्गन्तु पुंस्त्वमेवं स्यात् तत्पीठं स्त्रीत्वमेव च ।निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशांभवौ ॥३१॥निष्कलन्तु कलाहीना सकला तु कलान्विता ।यतीनाञ्चैव मंत्रीणां ज्ञानिनाञ्चैव योगिनाम् ॥३२॥ध्यानपूजानिमित्ताय सकलन्निष्कलं स्मृतम् ।लिङ्गपीठं प्रकारेण देवेशं पूजयेत् सदा ॥३३॥अष्टत्रिंशत् कलायुक्तं सकलं त्वितिविद्यते ।ईशादि सद्यपर्यन्तं कल्पयेत् तु सदाशिवम् ॥३४॥ईशानेन तु मन्त्रेण पञ्चमूर्ध्नि प्रकल्पयेत् ।पुरुषेणैव मन्त्रेण चतुर्वक्त्रं प्रकल्पयेत् ॥३५॥अघोरेणैव मन्त्रेण हृदयादीनि विन्यसेत् ।वामदेवेन मन्त्रेण गुह्यादीनि प्रकल्पयेत् ॥३६॥सद्योजातेन मन्त्रेण पादाद्यङ्गानि कल्पयेत् ।अष्टत्रयोदशाष्टौ च चतुःपञ्च यथा क्रमम् ॥३७॥सद्यवा ममघोरञ्च पुरुषे पकला स्मृताः ।एवन्तु सकलं प्रोक्तं सकलं त्विति निश्चितम् ॥३८॥करपादा वयवानि कल्पनात्सकलं विदुः ।सादाख्य तत्व देवेशं प्रत्यक्षं सर्वतोमुखम् ॥३९॥इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ।कर्णिकाके सरैर्युक्तं तत्रस्थं हि सदाशिवम् ॥४०॥पञ्चमूर्धा चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ।चतुरास्यञ्चतुर्नासि अष्टश्रोत्रञ्चतुर्गलम् ॥४१॥दशभुजन्तनूरेकं द्विपादं पद्मसंस्थितम् ।शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥४२॥चन्द्रांशु शीतलं सौम्यं सर्वाभरणभूषितम् ।शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ॥४३॥अभयं शूलपरशुं वज्रं खट्गन्तु दक्षिणे ।खेटकांकुशपाशञ्च घण्टावरद वामके ॥४४॥इत्येतैर्लक्षणैर्युक्तं सदाशिवमिति स्मृतम् ।तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी ॥४५॥वह्नेरुष्णत्व वच्छक्ति रविनाभा विनीविभोः ।शक्तिहीने शिवोनास्ति शिवहीना न शक्तिका ॥४६॥एते समस्त देवाश्च शक्तिशंभु मया स्मृताः ।तस्माच्छिवमयं प्रोक्तं जगदेतच्चराचरम् ॥४७॥एकवक्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् ।नितंबतट विस्तीर्णां मध्येक्षामांस्तनोन्नताम् ॥४८॥वामादिशक्तिकोपेतां मनोन्मनीं स लक्षणाम् ।ध्यात्वा संपूजयेद् धीमान् जगत् प्रीतिकराय वै ॥४९॥ब्रह्माङ्गैश्चैव विद्याङ्गैर्विद्यैश्चैव गणेश्वरैः ।लोकपालैः सहस्रैश्च क्रमशस्ते समुद्भवाः ॥५०॥तत्तत्गुणा वृताः सर्वे तत्तच्चिन्ह समायुताः ।सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः ॥५१॥चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः ।सदाशिवं नमस्कृत्वा तत्तदायुधधारिणः ॥५२॥नानावर्णसमायुक्ता नानाभरणभूषिताः ।नानागन्ध समायुक्ता नानापुष्पोपशोभिताः ॥५३॥सदा शिवं यदात्मन्तु तथा चावृत देवताः ।आमूर्तञ्चेदमूर्तस्तु पूजांकुर्याद् विशेषतः ॥५४॥यदिलिङ्गस्तु कर्तव्यो गर्भगेहे पृथक् पृथक् ।लिङ्गस्येव तथा पीठे मूर्तादीनि विचिन्तयेत् ॥५५॥सर्वावरण देवांश्च सकलानि ततः शृणु ।मूर्तयश्चेश्वराद्यस्तु सकलञ्च प्रकीर्तितम् ॥५६॥यत्तत्सदाशिवं प्रोक्तं तद्वदीश्वरमुच्यते ।यासां मनोन्मनीयद्वदीश्वरी तत्वमुच्यते ॥५७॥वक्त्राद्यावरणे चैव पूर्ववत् परिकल्पयेत् ।काष्ठलोहशिला मृत्भिः प्रतिमास्तु प्रकल्पयेत् ॥५८॥विद्या तत्व स्थितं शंभुं सर्वालङ्कारसंयुतम् ।लिङ्गस्य कौतुकं विद्यात् सकलं त्विति बुद्धिमान् ॥५९॥लिङ्गपूजावसाने तु ईश्वरं पूजयेत् क्रमात् ।ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते ॥६०॥चतुर्भुजस्तिणेत्रस्तु चन्द्रार्धकृत शेखरः ।विद्युत् पुञ्जनिभो देवो परशूमृगधारिकः ॥६१॥सर्वावयव संपूर्णः सर्वाभरणभूषितः ।उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता ॥६२॥ईश्वरस्य तु कोट्यंशात् विष्णुस्तत्रैव कीर्तितः ।श्यामवर्णः सरक्ताक्षः शङ्खचक्रधरोहरिः ॥६३॥पीतांबरधरो देव श्रीभूमिसहितस्तदा ।ईश्वरस्य तु कोट्यंशात् ब्रह्मणस्तु समुद्भवः ॥६४॥चतुर्भुजश्चतुर्वक्त्रो जटामकुटधारकः ।कमण्डल्वक्षमालाधृत् पीतवर्णः सुलोचनः ॥६५॥सावित्री सहितस्तत्र सृष्टिमूर्तिरिति स्मृतः ।स्थितिमूर्तिस्तु विष्णुः स्याद्रुद्रः संहारकारकः ॥६६॥त्रिमूर्तयोथ विख्याता ब्रह्माण्डे संव्यवस्थितः ।निष्कलन्तु लयस्थानमधिकारं स निष्कलम् ॥६७॥भोगः सकलमेवं स्यात् लयभोगाधिकारपान् ।परं निष्कलमित्युक्तं परमं सकलं स्मृतम् ॥६८॥परापरं तथा प्रोक्तं सकलन्निष्कलं भवेत् ।परापरं यथा ज्ञात्वा समुक्तः पाशहा भवेत् ॥६९॥तिस्रस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः ।रुद्रैकादशपूर्वास्तु द्वादशादित्यसंयुताः ॥७०॥वसवश्चाश्वनीयुक्तास्त्रयस्त्रिंशाधिदेवताः ।सहस्र त्रिंशतत्रिंशद् देवतास्तत्र मूर्तिषु ॥७१॥शरीरभूतसारेण देवानान्तु स्रजन्ति वै ।ऐश्वर्यमलसंबन्धाद्धृत् बोधस्तु विनाशयेत् ॥७२॥शिवसृष्टिमिदं प्रोक्तं पशुसृष्टिं ततः शृणु ।इति शिवसृष्टिविधिपटलः प्रथमः ॥१॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP