संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|चतुर्थोध्यायः| चतुर्थोध्यायः चतुर्थोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थोध्यायः चतुर्थोध्यायः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत चतुर्थोध्यायः Translation - भाषांतर अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥१॥सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥२॥अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ।पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः ॥३॥एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् ॥४॥मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ।अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति ॥५॥फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ।लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति ॥६॥लोका इतीहापि तु लोकिनां वचो लोका इति ह्येव रवः प्रजासु ।प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ।तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥७॥अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ।लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥८॥नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बतो हरौ ।उक्तं पृथक्तच्च पुरैव यस्माद्भेदोऽमुनेत्यादि च सम्यगुक्तः ॥९॥त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥१०॥अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥११॥नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥१२॥यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे ॥१३॥निःशेषदोषरहितकल्याणाखिलसद्गुण ।भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥१४॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थोऽध्यायः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP