उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ।
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः ॥१॥
विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ॥२॥
उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥३॥

॥श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य तृतीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP