संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|तृतीयोध्यायः| तृतीयः पादः तृतीयोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः तृतीयोध्यायः - तृतीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत तृतीयः पादः Translation - भाषांतर वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥१॥युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥२॥अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥३॥विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥४॥देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥५॥निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥६॥सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥७॥कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥८॥सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥९॥येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः ।सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥१०॥मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥११॥प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ।किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥१२॥यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥१३॥अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥१४॥तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥१५॥मोक्षदो हि स्वतन्त्रः स्यात्परतन्त्रः स्वयं सृतौ ।वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥१६॥अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ।अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥१७॥यमेवैष इति श्रुत्या तमेवेति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥१८॥य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥१९॥यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥२०॥शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥२१॥एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥२२॥कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥२३॥अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥२४॥इति शङ्कापनोदार्थं स आह करुणाकरः ।अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः ।निर्णीयते मयैवायं रोमकूपलयोदिना ॥२५॥यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥२६॥इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥२७॥को नाम गतिसामान्यमनन्तागमसम्पदः ।ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥२८॥अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥२९॥इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः ।प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥३०॥अतो निखिलवेदानां सिद्ध एवं समन्वयः ।इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥३१॥तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ।शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥३२॥इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥३३॥ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ।दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥३४॥अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः ।ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥३५॥देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥३६॥अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥३७॥इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥३८॥तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥३९॥आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥४०॥शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥४१॥शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥४२॥यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥४३॥अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥४४॥इत्याहैवञ्च शब्दानां नारायणसमन्वये ।सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥४५॥विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥४६॥परस्यावरताहेतुर्यः स्वयं पर एव सन् ।सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥४७॥अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम् ॥४८॥हरेरेवमशेषेण सर्वशब्दसमन्वये ।उक्ते विरोधहीनस्य स्यात्समन्वयता यतः ।अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥४९॥समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥५०॥तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥५१॥सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥५२॥तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥५३॥पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥५४॥विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥५५॥विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥५६॥पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥५७॥अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥५८॥युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥५९॥फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥६०॥कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥६१॥संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥६२॥सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥६३॥अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥६४॥यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् ।तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥६५॥तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ।तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥६६॥महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥६७॥किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥६८॥इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥६९॥वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥७०॥अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् ।श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥७१॥मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥७२॥श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ॥७३॥यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ।तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥७४॥श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥७५॥अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥७६॥महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।छिन्द्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ॥७७॥अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥७८॥स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः ॥७९॥तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ।गच्छद्दृष्टं क्वचित्तस्याप्यभावोऽनुभवोपगः ॥८०॥पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥८१॥भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।निर्दोषत्वं रमायाश्च तदनन्तरता तथा ॥८२॥ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥८३॥सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ।एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥८४॥अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥८५॥मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ।वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥८६॥ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥८७॥प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥८८॥अन्यावकाशरहितं प्रकाशयति सादरम् ।एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥८९॥सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ।असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥९०॥सम्यग्विषमविज्ञानतारतम्यानुसारतः ।फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥९१॥सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् ।अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥९२॥विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥९३॥इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥९४॥दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥९५॥सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥९६॥अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥९७॥स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥९८॥कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥९९॥समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥१००॥तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥१०१॥किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥१०२॥इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् ।उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥१०३॥द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ।रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥१०४॥हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥१०५॥इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते ।हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥१०६॥यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥१०७॥निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥१०८॥अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम् ॥१०९॥मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥११०॥मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१११॥आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥११२॥यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥११३॥यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥११४॥नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ॥११५॥इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ।न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥११६॥घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥११७॥साधयन् सर्वसामान्यं कथमेव विशेषवान् ।दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥११८॥अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥११९॥ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः ।दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ॥१२०॥यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ।यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥१२१॥वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥१२२॥न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ।वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥१२३॥प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि ।स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥१२४॥यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।अतीतानागतं सर्वं लोकानुभवमापयन् ।अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥१२५॥यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥१२६॥अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥१२७॥तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥१२८॥इति जैनाः कथं तत्स्यात्प्रमाणमनुमानतः ।विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥१२९॥आ समन्ताद्गमयति धर्माधर्मौ परं पदम् ।यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥१३०॥एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ।स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ॥१३१॥अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च ।न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥१३२॥मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।सुखस्याभावता केन न च स्यात्किं विपर्ययः ॥१३३॥यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ।यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता ॥१३४॥अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् ।भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥१३५॥निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥१३६॥न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥१३७॥न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन ।देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥१३८॥ईशकॢप्त्यनुसारेण स्यात्कालादीशवादिनः ।कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥१३९॥अशेषदुःखविलये नेदानीं कारणं यथा ।तथोत्तरं च नैव स्याद्दृष्टिपूर्वानुमा यतः ॥१४०॥शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥१४१॥स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥१४२॥धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥१४३॥न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।मोक्षः कथञ्चन भवेद्यदीदानीं कथं न सः ॥१४४॥परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।पुमिच्छाधीनता नो चेद्विळम्बः किङ्कृतो भवेत् ॥१४५॥अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः ।अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ।कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥१४६॥विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥१४७॥अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥१४८॥प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।इति शङ्कया न चैतस्मिन्मानमीशाप्रसादतः ॥१४९॥श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥१५०॥कणादयोगाक्षपादा अपीशस्य प्रसादतः ।मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् ।क्षयं प्राहुः कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥१५१॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥१५२॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥१५३॥न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥१५४॥सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥१५५॥न तस्येशे कश्चन तस्य नाम महद्यशः ।इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥१५६॥विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ।समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥१५७॥पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१५८॥मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।अमृतेशानवचनात्सर्वस्येशानतोदिता ॥१५९॥यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥१६०॥पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।एतावानस्य महिमेति महिम्नो वचो हि तत् ॥१६१॥सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥१६२॥उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ।तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ॥१६३॥यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥१६४॥सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥१६५॥नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ।विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥१६६॥विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।नान्यः पन्था इति ह्येव निवारयति सादरम् ॥१६७॥अन्यथोपासनमपि तमेवमितिवादिनी ।निवारयत्यादरेण न प्रतीक इति प्रभुः ॥१६८॥अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥१६९॥न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥१७०॥ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥१७१॥अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥१७२॥न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः ॥१७३॥यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥१७४॥न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥१७५॥अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ।पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥१७६॥उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥१७७॥सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥१७८॥सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥१७९॥धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥१८०॥भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥१८१॥कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥१८२॥वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥१८३॥तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पजर्न्यमित्रान्तराळे तदन्ये तु ततोऽवराः ॥१८४॥एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव नचापरः ॥१८५॥संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं प्राण आहङ्कारिक एव च ।इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः ॥१८६॥सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥१८७॥गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ।विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥१८८॥समे विकल्प एव स्यात्पूर्वानुज्ञा च सर्वथा ।तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥१८९॥गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥१९०॥तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ।उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥१९१॥साधनेभ्योऽधिका भक्तिर्नैवान्यत्तादृशं क्वचित् ।भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥१९२॥स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ।अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥१९३॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP