संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः ३ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः ३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता निर्गुणभक्तियोगकथनम् Translation - भाषांतर उग्रसेन उवाच -श्रुतं तव मुखाद्ब्रह्मन् गुणकर्मगतिर्मया ॥पुनरावर्तिनो लोकास्तथा संति विनिश्चताः ॥१॥निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया ॥२॥भक्तियोगः कतिविधो वद मे वदतां वर ॥येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥३॥श्रीव्यास उवाच -द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः ॥४॥यं श्रुत्वा निर्मलो भूयाद्विश्वघात्यपि पातकी ॥तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव ॥५॥भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥सगुणः स्याद्बहुविधो निर्गुणश्चैकलक्षणः ॥६॥सगुणः स्याद्बहुविधो गुणमार्गेण देहिनाम् ॥तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक् ॥७॥हिंसा दंभं च मात्सर्य्यं चाभिसंधाय भिन्नदृक् ॥कुर्याद्भावं हरौ क्रोधी तामसः परिकीर्तितः ॥८॥यश ऐश्वर्यविषयानभिसंधाय यत्नतः ॥अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः ॥९॥उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः ॥१०॥जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥चतुर्विधा जना विष्णुं भजंते कृतमंगलाः ॥११॥एवं बहुविधेनापि भक्तियोगेन माधवम् ॥भजंति सनिमित्तास्ते जनाः सुकृतिनः परे ॥१२॥लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥तद्गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे ॥१३॥परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥मनोगतिरविच्छिन्ना खंडिताऽहैतुकी च या ॥१४॥यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥निर्गुणानां च भक्तानां लक्षणं शृणु मानद ॥१५॥सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः ॥१६॥हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥न गृह्णंति कदाचित्ते सत्संगानंदनिर्वृताः ॥१७॥सामीप्यं ते न वांछंति भगवद्विरहातुराः ॥संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत् ॥१८॥सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥नैरपेक्ष्यान्न वांछंति भक्तास्तत्सेवनोत्सुकाः ॥१९॥एकत्वं चापि कैवल्यं न वांछंति कदाचन ॥एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च ॥२०॥निरपेक्षाश्च ये शांता निर्वैराः समदर्शिनः ॥आकैवल्याल्लोकपदग्रहणं कारणं विदुः ॥२१॥नैरपेक्ष्यं महानंदं निरपेक्षा जनाः हरेः ॥जानंति हि यथा नासा पुष्पामोदं न चक्षुषी ॥२२॥सकामाश्च तदानंदं जानंति हि कथंचन ॥रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि ॥२३॥तस्माद्राजन्भक्तियोगं विद्धि चात्यंतिकं पदम् ॥भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते ॥२४॥स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥२५॥कुर्वंति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥ते भक्ता दुर्लभा भूमौ भगवद्भावभावनाः ॥२६॥कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥समानेषु तथा मैत्रीं सर्वभूतदयापराः ॥२७॥कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥कृष्णं स्मरंति प्राणेशं यथा प्रोषितभर्तृकाः ॥२८॥श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥आनंदाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्भवेत् ॥२९॥श्रीकृष्ण गोविंद हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः ॥३०॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP