संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः २ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः २ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता व्यासकृतं लोकगतिवर्णनम् Translation - भाषांतर उग्रसेन उवाच -धन्योऽस्म्यनुगृहीतोऽस्मि तव वर्णननिर्वृतः ॥हृदुद्भूतं च संदेहं दूरीकर्तुं भवान् क्षमः ॥१॥कर्मणां सनिमित्तानां का गतिः किं च लक्षणम् ॥कति भेदा हि तेषां वै वद ब्रह्मन् यथा तथा ॥२॥व्यास उवाच -गुणैः सर्वाणि कर्माणि सनिमित्तानि संति हि ॥तान्येव चानिमित्तानि राजन् त्यक्तफलानि हि ॥३॥सनिमित्तं च यत्कर्म बंधनं विद्धि यादव ॥अनिमित्तं च यत्कर्म मोक्षदं परमं शुभम् ॥४॥सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥तैर्व्याप्तं हि जगत्सर्वं सर्वार्थमिव विष्णुना ॥५॥सत्वे प्रलीनाः स्वर्यांति नरलोकं रजोलयाः ॥तमोलयास्तु नरकं यांति कृष्णं हि निर्गुणाः ॥६॥पंचाग्नितप्ता अतपन् ये राजन् व्रजवासिनः ॥लोकं सप्तऋषीणां तु ते यांति गतकल्मषाः ॥७॥संन्यासाश्रमकर्तारस्त्रिदंडधृतपाणयः ॥जितेन्द्रियमनोधर्माः सत्यलोकं व्रजंति हि ॥८॥अष्टांगयोगयोगींद्रा निर्मला उर्ध्वरेतसः ॥जनलोकं महर्लोकं यांति ते नात्र संशयः ॥९॥यज्ञकर्ता शक्रलोके वसते शाश्वतीः समाः ॥दानी चांद्रमसं लोकं व्रती सौरं व्रजत्यलम् ॥१०॥तीर्थयायी चाग्निलोकं सत्यसंधश्च वारुणम् ॥वैष्णवाश्चापि वैकुण्ठं शैवाः शैवं व्रजंति हि ॥११॥पितॄन् यजंति ये नित्यं सुखैश्वर्यप्रजेप्सवः ॥दक्षिणेन पथाऽऽर्य्यम्णा पितृलोकं व्रजंति ते ॥१२॥स्वर्लोकं वै तथा स्मार्ताः पंचपूजनसंयुताः ॥प्रजापतियजो यांति दक्षादींश्च प्रजापतीन् ॥१३॥भूतानि यांति भूतेज्या यक्षान् यक्षयजस्तथा ॥ये यस्य भक्तास्तल्लोकान्यांति राजन्न संशयः ॥१४॥तथा पापरता राजन्दुःसंगवशवर्तिनः ॥यमलोकं च ते यांति निरयैर्दारुणैर्वृतम् ॥१५॥पुनरावर्तिनो लोकाः सर्वे चाब्रह्मलोकतः ॥पुनरावर्तिनो लोकान् विद्धि राजन् महामते ॥१६॥कर्मणां सनिमित्तानां मार्गमेष गतागतः ॥तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते ॥१७॥क्षीणपुण्यः पतत्यर्वागनिच्छन्कालचालितः ॥यादवेन्द्र महाबाहो तस्मात्कर्मफलं त्यजेत् ॥१८॥भक्तो निष्कारणो भूत्वा ज्ञानवैराग्यसंयुतः ॥प्रेमलक्षणया वाचा हरिभक्तजनप्रियः ॥१९॥भजेच्छ्रीकृष्णपादाब्जमभयं हंससेवितम् ॥योः मृत्युः सर्वलोकानां बलात्संहारकारकः ॥२०॥स यत्र भगवद्धाम्नि गतः सन्मृत्युमाप्नुयात् ॥२१॥उग्रसेन उवाच -सर्वे लोका हि भगवन्पुनरावर्तिनः स्मृताः ॥तेभ्यो जातं च वैराग्यं मनसो मे न संशयः ॥२२॥श्रीकृष्णधाम परमं यतो नावर्तते गतः ॥तल्लोकं वद मे ब्रह्मन् क्व चास्ते सर्वतः परम् ॥२३॥श्रीव्यास उवाच -ब्रह्मांडेभ्यो बहिर्द्धाम श्रीकृष्णस्य महात्मनः ॥यद्गता न निवर्तंते तद्गोलोकं विदुः परम् ॥२४॥ब्रह्मांडोऽयं जीवसंघः पञ्चाशत्कोटियोजनैः ॥विस्तृतः परतो द्वाभ्यां शतकोटिविलंघितः ॥२५॥यदंतरगतो राजन् लक्ष्यते परमाणुवत् ॥तदंतरगताश्चान्ये कोटिशो ह्यंडराशयः ॥२६॥न तद्भासयते सूर्यो न शशांको न पावकः ॥कामक्रोधश्च लोभश्च न मोहो यत्र याति च ॥२७॥न यत्र शोको न जरा न मृत्युर्नार्तिरेव च ॥न प्रधानं न कालश्च विशंते च गुणाः कुतः ॥२८॥शब्दब्रह्माप्यनिर्वाच्यं तद्वर्णयितुमक्षमः ॥श्रीकृष्णतेजःसंभूतास्तत्र संति च पार्षदाः ॥२९॥अकिंचनाश्च ये दांताः शांता वै समचेतसः ॥श्रीकृष्णचंद्रपादाब्जामकरंदरसालयाः ॥३०॥प्रेमलक्षणया भक्त्या सदा निष्कारणाः पराः ॥लोकानुल्लंघ्य तद्धाम यांति रजन्न संशयः ॥३१॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे लोकगतिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP