संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः १ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः १ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता द्वारकायां उग्रसेनसभायां व्यासागमनम् Translation - भाषांतर बहुलाश्व उवाच -हरेः श्रीकृष्णचंद्रस्य भक्तिमार्गस्तु यः परः ॥तं वदाशु मुने मह्यं येन भक्तो भवाम्यहम् ॥१॥श्रीनारद उवाच -भक्तिमार्गं वदिष्यामि वेदव्यासमुखाच्छ्रुतम् ॥येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥२॥शङ्खं विजित्य कृष्णेन भुजदंडबलोद्धृतम् ॥द्वारावत्यां सभा दिव्या सुधर्मा नाम मैथिल ॥३॥यत्र मंडपदेशस्य वैदूर्यस्तंभपंक्तयः ॥राजंते कोटिशो राजन् विश्वकर्मविनिर्मिताः ॥४॥पद्मरागखचिद्भूमौ श्रेण्यो वै विद्रुमाचिताः ॥यत्र चित्रवितानानि भ्राजन्ते मौक्तिकालिभिः ॥५॥सिंहासनानि कुड्यानि कालमेघतडिद्द्युभिः ॥जांबूनदसुवर्णानां स्फुरत्कुण्डलकोटिभिः ॥६॥बालार्करत्नकेयुरकांचीकंकणनूपुरैः ॥शतचंद्रप्रतीकाशाः स्फुरत्कुण्डलमण्डिताः ॥७॥गायंति यत्र गंधर्व्यो विद्याधर्यो मुदान्विताः ॥नृत्यंत्यः कलवादित्रैः स्पर्द्धावत्यः परस्परम् ॥८॥यस्याश्चतुर्षु कोणेषु देववृक्षैर्मनोरमैः ॥नंदनं सर्वतोभद्रं ध्रौव्यं चैत्ररथं वनम् ॥९॥लक्षाणि यत्र राजेन्द्र सरांसि विमलानि च ॥सहस्रदलपद्मानि भ्रमरैः संकुलानि च ॥१०॥दशयोजनविस्तीर्णा पंचयोजनमूर्ध्वगा ॥एतादृशी सुधर्माऽऽस्ते पताकाध्वजमंडिता ॥११॥यत्र प्रविष्टः पुरुष आत्मानं मन्यते परम् ॥यत्सिंहासनमासाद्य शक्रोऽहमिति मन्यते ॥१२॥यद्यत्त्रैलोक्यचातुर्यं तस्य देहे प्रवर्तते ॥यावत्तिष्ठेत्तत्र तावदूर्मिषट्कं न चैव हि ॥१३॥यावंतश्च जनास्तत्र प्रविशन्ति नरोत्तम ॥स्वप्रभावेण सहसा तावती सा प्रकाशते ॥१४॥षट्पंचाशत्कोटिसंख्या यादवा यत्र सानुगाः ॥तच्चत्वरस्यैकदेशे दृश्यंते ते च मैथिल ॥१५॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥यत्रास्ते तस्य राजेंद्र वर्णनं कः करोति हि ॥१६॥अथ तस्यां सुधर्मायां यदुकोटिसमावृतः ॥उग्रसेनो गीयमानः सूतमागधवन्दिभिः ॥१७॥आकाशादागतः साक्षाद्वेदव्यासो महामुनिः ॥पाराशर्यो घनश्यामस्तडित्पिंगजटाधरः ॥१८॥तं दृष्ट्वा सहसोत्थाय यदुराजः कृतांजलिः ॥नत्वाऽऽसनं सोपचारं दत्वा तत्संमुखोऽभवत् ॥१९॥उग्रसेन उवाच -अद्य मे सफलं जन्म सफलं गेहमद्य मे ॥अद्य मे सफलो धर्मो ब्रह्मंस्त्वय्यागते सति ॥२०॥सदानंदेषु कुशलं कृष्णेनेष्टं भवत्सु हि ॥वद मे कुशलं देव येन स्वस्थो भवाम्यहम् ॥२१॥यत्र यत्र व्रजंतस्ते त्वादृशाः साधवः प्रभो ॥तत्र तत्र भवेत्सिद्धिर्लौकिकी पारलौकिकी ॥२२॥यत्र क्षणं स्थिताः संतस्तत्र साक्षात्स्वयं हरिः ॥किमु लोकगुणा ब्रह्मान्पाराशर्य महामुने ॥२३॥मया तु पुण्यं यज्ञो वा किं कृतं पूर्वजन्मनि ॥येन वै द्वारकाराज्यं प्राप्तोऽहं मुनिपुङ्गव ॥२४॥भवादृशा विप्रमुख्या गृहमायांति नित्यशः ॥तस्मात्परं हि सुकृतं जाने स्वस्य न संशयः ॥२५॥व्यास उवाच -धन्योऽसि राजशार्दूल धन्या ते विमला मतिः ॥परं कृतं त्वया राजन्सुकृतं पूर्वजन्मनि ॥२६॥पुरा त्वं मरुतो राजन् कृत्वा यज्ञं जगज्जितम् ॥निष्कारणोऽभूर्मनसा प्रसन्नोऽभूद्धरिस्तदा ॥२७॥अनिमित्तेन भावेन प्राप्तं चेदं परं तव ॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्हरिः ॥२८॥असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥सोऽयं भक्त्या वशीभूतः स्ववशस्तव मंदिरे ॥२९॥अहो भोजपते मुक्तिं ददाति भजतां हरिः ॥न कर्हिचिद्भक्तियोगं दुर्लभं विद्धि तं नृप ॥३०॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीनारदबहुलाश्वसंवादे व्यासागमनं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP