११
पदेपदे कल्पयन्त आदित्याङ्गिरसो यजुः ।
ईडाना अन्वायन्वशां तदैडं सामोच्यते ॥१॥
वशेडा वशानुमतिर्वशामाहु: सरस्वतीम् ।
विराजं मन्यन्ते वशां वाग्वशा पृथिवी वशा ॥२॥
वशा द्वेष्टी सिनीवाली वशोषा निर्ऋतिर्वशा ।
वशायां मृत्युमविशदा मृत्युमविशद्वशा ॥३॥
(वशायां मन्युर् अविशत् तं मन्युम् अविशद् वशा - पाठभेदः(१३.५.२२)
अग्निर्वागुदकं चक्षुर्मनो वातो वशी वशा।
तन्वं को अस्यास्तां वेद ययोदक्रामदेकया ॥४॥
यां चक्षुषा मनसा संविदाना हृदा पश्यन्ति कवयो मनीषिण: ।
पस्य तस्याः प्रजाधिपतिः पशूनां वशा राज्ञा नांतवेषा सृष्टिः ॥५॥
को वशाया ऊधो वेद क उल्बं च जरायु च ।
स्तनानस्या: को वेद क इ तद्वेद यद्दुहे ॥६॥
अहमस्या ऊधो वेदाहमुल्बं च जरायु च ।
स्ततानस्या अहं वेदाथो तद्वेद यद्दुहे ॥७॥
नैनामहं रक्षेयं दद्यामेव स्याच्च मे ।
स्तना ह्यस्या अहं वेद क्षीरमुल्बं च जरायु च ॥८॥
कृत्तिर्योनिरधिवासो जरायु पाण्डमुल्बं नाभिरुष्णीषमस्याः ।
आा जरसं धयतु मातरं वशी ब्रह्मभिः क्लृप्तः स ह्यस्य बन्धुः ॥९॥
(इति पञ्चदशर्चोनाम द्वादशाकाण्डे प्रथमो ऽनुवाकः)

१२
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥१॥
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनव: स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥२॥
वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्वपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥३॥
यदिन्द्राहन् प्रथमजामहीनामान् मायिनाममिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥४॥
अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहि: शयदुपपृक् पृथिव्याः ॥५॥
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥६॥
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
वृषणो वध्रिः प्रतिमानं बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥७॥
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
याश्चिद्वृत्रो महिना पर्यतिष्ठत् तासामहि: पत्सुत:शीर्बभूव ॥८॥
नीचावया अभवदवृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
उत्तरा सूरधरः पुत्र आसीद् दनुः शये सहवत्सा न धेनुः ॥९॥
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥१०॥

१३
दासपत्नीरहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः।
अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाङ् अप तद्ववार ॥१॥
अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन् देव एक: ।
अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥२॥
नास्मै विद्युन् न तन्यतुः सिषेध न याम्यहमकिरद्ध्रादुनिं च ।
इन्द्रश्च यद् युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥३॥
अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
नव च यन्नवतिं च स्रवन्तीः शयेनो न भीतो अतरो रजांसि ॥४॥
इंद्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव ॥५॥

१४
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत्।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपिताङ अरम्णात्।
यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात् स जनास इन्द्रः ॥२॥वरो
यो हत्चाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥३॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवाल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्।
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
यो रन्ध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
यस्मान् नर्ते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥९॥
यः शश्वतो मह्येनो दधानानबुध्यमानान् सर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥

१५
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्र ॥१॥
यः शम्बरं पर्यचरच्छचीभिर्यो वा वृकस्य नापिबत् सुतम्।
अन्तर्गिरौ यजमानं बहुं जनं यस्तंनासूरुक्षु स जनास इन्द्रः ॥२॥वहुं
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्त सिन्धून् ।
यो रौहिणमस्फुरद् वज्रबाहुर्द्यमारोहन्तं स जनास इन्द्र: ॥३॥
द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥४॥
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं य: शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥५॥
यः सुन्वते पचते दुध्र आ चिद्वाजं ददर्षि स किलासि सत्यः।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥६॥
जातो व्यख्यत् पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।
तविष्यमाणो न्वोजो अख्यद् व्रता देवानां स जनास इन्द्रः ॥७॥
यः सोमकामो हर्यश्व आसु यस्माद्रेजन्ते भुवनानि विश्वा ।
यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥८॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP